ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

09 June 2020

वेद वाङ्मयम्

वेद वाङ्मयम्


Add caption

वेद शब्दार्थः- विद् ज्ञाने इति धातोः घञ् प्रत्यय कृते निष्पन्नो वेदशब्दः ।

ज्ञानराशेहः ज्ञानसंग्रहग्रन्थस्य च द्योतकः ।

व्याकरण दृष्ट्या वेदशब्दस्य नष्पत्ति चतुर्भ्यो धातुभ्यो भवति-

१.विद्(सत्तायाम्) २.विद्(ज्ञाने) ३.विद्(विचारणे) ४.विदलृ(लाभे)

सायणमतानुसारम्-“इष्टप्राप्ति अनिष्टपरिहारयोःअलौकिकमुपायं यो ग्रन्थो वेदयति,स वेद ।

वेदस्य पर्यायार्थाः- श्रुति, निगमः, आगमः , त्रयी, छन्दस् , आम्नायः ,स्वाध्याय ।

वेदोऽखिलो धर्ममूलम् –(मनु.२/६)

ब्राह्मणेन  निष्कारणो धर्मष्षडङ्गो वेदोऽध्येयो ज्ञेयश्च । (महा.भा,प्रथमाह्निके)

प्रामाण्यबुद्धिर्वेदेषु ।( लोकमान्यतिलकः)

“यावन्तं ह वा इमां पृथिवीं वित्तेन पूर्णां ददल्लोकं जयति  , त्रिस्तावतं जयति,भूयांसं चाक्षय्यम्, स एवं विद्वान् अहरहः स्वाध्यायमधीते । तस्मात् स्वाध्यायोऽध्येतव्यः ।(शत.ब्रा.)

रचना समयः-

*यूरोपियविदुषानुसारं ऋग्वेदस्य रचनाकालः ४००० वर्षेभ्यः प्रागासीत् ।

*ऋग्वेदस्य ऋचः पारसीयाणाम् “अवेस्ता” इति पुस्तकेन सह समाना भवति ।

*केचन् “वेदोऽपौरुषेयः” इति वदन्ति ।

*तिलक महोदयेन- ज्योतिषाधारेण- ई.पू.षट्सहस्रवर्षेभ्यः प्राक् ।

‍*डाँ.आर जी भण्डारकर – वेदमन्त्राधारेण- ई.पू.षट्सहस्रवर्षेभ्यः प्राक् ।

*एच् याकोबी – ज्योतिषाधारेण- ई.पू. ४५००-ई.पू.२५००

*विण्टर निज्- मितानि शिलालेखः- ई.पू.२५००

*मैक्समूलर- बौद्धसाहित्यम्-ई.पू.-१२००

 

 

 

संहिता

*मन्त्राणां समूहः संहिता इत्युच्यते ।

*महाभाष्यानुसारेण पारिभाषिक अर्थे – “परः सन्निकर्षः संहिता”। वर्णानामतिशयति सन्निधिः संहितासज्ञः स्यादिति ।

वैदिक वाङ्मये चतस्रः संहिताः भवन्ति-

१. ऋक् संहिता २.यजु संहिता ३.साम संहिता ४.अथर्व संहिता

संहितानां विषयाः

श्रीमद्भागवते उच्यते-

ऋज्यजुस्सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।

शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥
ऋग्वेदस्य विषयः शस्त्रम्- अर्थात् अप्रगीतमन्त्रसाध्यास्तुतिः ।

यजुर्वेदस्य विषयः इज्या- अर्थात् यज्ञकर्म ।

सामवेदस्य विषयः- स्तुतिः ।

अथर्ववेदस्य विषयः- पायश्चित्तम् ।

सृष्टिः

ऋग्वेदस्य अग्नेः

यजुर्वेदस्य वायोः

सामवेदस्य सूर्यात्

तत्वम्

“ऋचंवाचंप्रपद्ये, मनोयजुप्रपद्ये, सामप्राणंप्रपद्ये”।(यजु.-३६/१)

ऋग्वेदस्य वाक्तत्वम्

यजुर्वेदस्य मनस्तत्वम्

सामवेदस्य प्राणतत्वम्

ऋग्वेदसंहिता

“ऋच्यते स्तूयते यया सा ऋक्”

अत्र ३३ देवतानां स्तुतिः विभिन्नैः ऋषिभिः क्रियते । इन्द्र प्रमुखो देवः । ऋग्वेदस्य विभागो द्विधा क्रियते-

१.अष्टक क्रमेण       २.मण्डल क्रमेण

१. अष्टक क्रमेण- समग्रग्रन्थोऽष्टावष्टकेषु विभक्तः। प्रत्येकमष्टकेषु अष्टावाध्यायाः विद्यन्ते ।एवमाहत्य सम्पूर्णे ग्रन्थे चतष्षष्टि(६४) अध्यायाः भवन्ति।प्रत्येकमध्यायानामवान्तरभेदाः”वर्ग” नाम्ना व्यपदिष्यते। वर्गाणां संख्या २००६(षड्धिकद्विसहस्रम्) वर्तते।

२. सम्पूर्णोऽयं ग्रन्थः दश(१०)मण्डलेषु विभज्यते। तदाधारेणच ऋग्वेदः”दशतयी” इत्य्च्यते। क्रमशः दशमण्डलानामृषयः-

दशमण्डलानामृषयः

१.शतार्चिनः

२.गृत्समद

३.विश्वामित्र

४.वामदेवः

५.अत्रि

६.भारद्वाजः

७.वशिष्ठः

८.काण्वः

९.मधुच्छन्दा

१०.भृगुः

 

सम्पूर्णे ऋग्वेदे(८५)पञ्चाशीति अनुवाकाः, सप्तदशाधिकैकसहस्रं(१०१७)सूक्तानि सन्ति ।

मण्डलक्रमानुसारं सूक्तानां व्यवस्था-१९,४३,६२,५८,८७,१०४,९२,११४,१९. एतानि सूक्तानि विहाय एकादश(११)वालखिल्यसूक्तान्यपि भवन्ति,यत्र(८०)अशीतिमन्त्राः विद्यन्ते । मन्त्राणां संख्या -१०५८०, शब्दानां संख्या-४३२०००।

विषयवस्तुः

प्रमुखविषयः “शस्त्रम्” अर्थात् गानरहितदेवस्तुतिपरकमंत्रः ।

*द्वितीय मण्डलात् सप्तममण्डलपर्यन्तम् ऋषीणां प्रार्थनाः संगृहीताः ।

*अष्टममण्डले अधिकांशा मंत्राः कण्वमहर्षिणा सह सम्बद्धा ।

*नवममण्डलं “पवमानमण्डलम्” अपि उच्यते ।अत्र सोमविषयक मन्त्राः संगृहीता ।

*त्रयः प्रमुखाः देवताः – अग्नि,इन्द्र,उषा ।

*अग्निमाधारीकृत्य सर्वाधिकाः मन्त्राः विद्यन्ते ।

*देव स्तुतिः ऋग्वेदस्य प्रतिपाद्य विषयः । मन्त्राणां विभाजनम् इत्थमेव-

१. धार्मिक सूक्तम्

२. दार्शनिक सूक्तम्

३. लोकिक सूक्तम्

४. संवाद सूक्तम्

१. धार्मिक सूक्तम्-

अग्नि-इन्द्र-मरुत्-अश्विनौ-वरुण-विष्णुः इत्यादयः प्रमुखाः देवताः स्तूयन्ते । “´तिस्र एव देवता इति नैरूक्ताः“ ।(निरु.दैवतकाण्डे ७-१२ अध्यायेषु)

*अग्निपृथ्वीस्थानीय * वायुः वा इन्द्रो वा अन्तरिक्षस्थानीय * सूर्यो द्युस्थानीय ।

 

देवतानां विभाजनम्

द्युस्थानीय देवता

द्यौः,वरुणः,मित्रः,सूर्यः,सविता,पूषा,विष्णुः,विवस्वान्,आदित्यगणः,उषा,अश्विनौ

अन्तरिक्ष स्थानीय देवता

इन्द्रः,उपानपात्,मातरिश्वा,अजएकपात्,रूद्रः,मरुद्गणः,वायुः,पर्जन्यः,आपः

पृथिवी स्थानीय देवता

प्रजापतिः,विश्वकर्मा,त्वष्टामन्युः,अदितिः,श्रद्धा

देव्यः

उषा,वाक्,सरस्वती,रात्रिः

पृथिवी

पृथिवी,अग्निः,सोमः,बृहस्पतिः,नद्यः

युगल देवता

इन्द्राग्नी,इन्द्राविष्णू,मित्रावरुणौ,अग्निषोमौ

देवगणः

रुद्राः,आदित्याः,विश्वेदेवाः,वसवः

अवर देवताः

गन्धर्व,अप्सरा,ऋभुगणः

२. दार्शनिक सूक्तम्- दर्शनसबन्धी गाम्भीर्येण च युकतानि सूक्तानि अत्र भवन्ति ।

पुरुष सूक्तम्

१०/९०

जगतः दुर्बोधरहस्याः, वर्णोत्पत्तिनां वर्णनम् अस्ति ।

नासदीय सूक्तम्

१०/१२९

जगतः प्रारम्भिका स्थितिरस्ति ।

हिरण्यगर्भ सूक्तम्

१/१२१

सृष्टिकर्तुः प्रजापतेः वर्णनम् ।

वाक् सूक्तम्

१०/१२५

दार्शनिकगाम्भीर्येण युक्तम् ।

 

३. लौकिक सूक्तम्- लौकिकजीवनेन दैनन्दिन व्यवहारेण सम्बद्धानिसूक्तानि सन्ति ।

श्रद्धासूक्तम्

१०/१५१

संज्ञानसूक्तम्

१०/१९१

अस्यवार्मायसूक्तम्

१/१६४

दानस्तुतिसूक्तम्

१०/१०७,११७

अक्षसूक्तम्

१०/३४

विवाहसूक्तम्

१०/८५

आवर्तनसूक्तम्

१०/५८

सपत्नघ्नसूक्तम्

१०/१६६

व्याधिहरणसूक्तम्

१०/१६१

ओषधिसूक्तम्

१०/९७

मण्डूकसूक्तम्

७/१०३

शरीराङ्गानांवैज्ञानिकविवरणम्

१०/१६३

 

४. संवाद सूक्तम्-

विंशति सूक्तानि संवादसूक्तानि सन्ति । अत्र नाटकीय ओजस्विता भवनात्मका विचाराश्च सन्ति।

अष्टौ संवादाः प्रमुखाः-

पुरुरवा-उर्वशी संवादः

१०/९५

यमयमी संवादः

१०/१०

सरमापाणि संवादः

१०/१०८

विश्वामित्रनदी संवादः

३/३३

इन्द्रमरुत्संवादः

१/१६५

अगस्त्यलोपामुद्रासंवादः

१/१७९

वशिष्ठसुदाससंवादः

७/८३

इन्द्र-इन्द्राणी-वृषाकपि संवादः

१०८६

 

 

No comments:

Post a Comment