वेद वाङ्मयम्
![]() |
Add caption |
वेद शब्दार्थः- विद् ज्ञाने इति धातोः घञ् प्रत्यय कृते निष्पन्नो वेदशब्दः ।
ज्ञानराशेहः ज्ञानसंग्रहग्रन्थस्य च द्योतकः ।
व्याकरण दृष्ट्या वेदशब्दस्य नष्पत्ति चतुर्भ्यो धातुभ्यो भवति-
१.विद्(सत्तायाम्) २.विद्(ज्ञाने) ३.विद्(विचारणे) ४.विदलृ(लाभे)
सायणमतानुसारम्-“इष्टप्राप्ति अनिष्टपरिहारयोःअलौकिकमुपायं यो ग्रन्थो वेदयति,स वेद ।
वेदस्य पर्यायार्थाः- श्रुति, निगमः, आगमः , त्रयी, छन्दस् , आम्नायः ,स्वाध्याय ।
वेदोऽखिलो धर्ममूलम् –(मनु.२/६)
ब्राह्मणेन निष्कारणो धर्मष्षडङ्गो वेदोऽध्येयो ज्ञेयश्च । (महा.भा,प्रथमाह्निके)
प्रामाण्यबुद्धिर्वेदेषु ।( लोकमान्यतिलकः)
“यावन्तं ह वा इमां पृथिवीं वित्तेन पूर्णां ददल्लोकं जयति , त्रिस्तावतं जयति,भूयांसं चाक्षय्यम्, स एवं विद्वान् अहरहः स्वाध्यायमधीते । तस्मात् स्वाध्यायोऽध्येतव्यः ।(शत.ब्रा.)
रचना समयः-
*यूरोपियविदुषानुसारं ऋग्वेदस्य रचनाकालः ४००० वर्षेभ्यः प्रागासीत् ।
*ऋग्वेदस्य ऋचः पारसीयाणाम् “अवेस्ता” इति पुस्तकेन सह समाना भवति ।
*केचन् “वेदोऽपौरुषेयः” इति वदन्ति ।
*तिलक महोदयेन- ज्योतिषाधारेण- ई.पू.षट्सहस्रवर्षेभ्यः प्राक् ।
*डाँ.आर जी भण्डारकर – वेदमन्त्राधारेण- ई.पू.षट्सहस्रवर्षेभ्यः प्राक् ।
*एच् याकोबी – ज्योतिषाधारेण- ई.पू. ४५००-ई.पू.२५००
*विण्टर निज्- मितानि शिलालेखः- ई.पू.२५००
*मैक्समूलर- बौद्धसाहित्यम्-ई.पू.-१२००
संहिता
*मन्त्राणां समूहः संहिता इत्युच्यते ।
*महाभाष्यानुसारेण पारिभाषिक अर्थे – “परः सन्निकर्षः संहिता”। वर्णानामतिशयति सन्निधिः संहितासज्ञः स्यादिति ।
वैदिक वाङ्मये चतस्रः संहिताः भवन्ति-
१. ऋक् संहिता २.यजु संहिता ३.साम संहिता ४.अथर्व संहिता
संहितानां विषयाः
श्रीमद्भागवते उच्यते-
ऋज्यजुस्सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।
शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥
ऋग्वेदस्य विषयः शस्त्रम्- अर्थात् अप्रगीतमन्त्रसाध्यास्तुतिः ।
यजुर्वेदस्य विषयः इज्या- अर्थात् यज्ञकर्म ।
सामवेदस्य विषयः- स्तुतिः ।
अथर्ववेदस्य विषयः- पायश्चित्तम् ।
सृष्टिः
ऋग्वेदस्य अग्नेः
यजुर्वेदस्य वायोः
सामवेदस्य सूर्यात्
तत्वम्
“ऋचंवाचंप्रपद्ये, मनोयजुप्रपद्ये, सामप्राणंप्रपद्ये”।(यजु.-३६/१)
ऋग्वेदस्य वाक्तत्वम्
यजुर्वेदस्य मनस्तत्वम्
सामवेदस्य प्राणतत्वम्
ऋग्वेदसंहिता
“ऋच्यते स्तूयते यया सा ऋक्”
अत्र ३३ देवतानां स्तुतिः विभिन्नैः ऋषिभिः क्रियते । इन्द्र प्रमुखो देवः । ऋग्वेदस्य विभागो द्विधा क्रियते-
१.अष्टक क्रमेण २.मण्डल क्रमेण
१. अष्टक क्रमेण- समग्रग्रन्थोऽष्टावष्टकेषु विभक्तः। प्रत्येकमष्टकेषु अष्टावाध्यायाः विद्यन्ते ।एवमाहत्य सम्पूर्णे ग्रन्थे चतष्षष्टि(६४) अध्यायाः भवन्ति।प्रत्येकमध्यायानामवान्तरभेदाः”वर्ग” नाम्ना व्यपदिष्यते। वर्गाणां संख्या २००६(षड्धिकद्विसहस्रम्) वर्तते।
२. सम्पूर्णोऽयं ग्रन्थः दश(१०)मण्डलेषु विभज्यते। तदाधारेणच ऋग्वेदः”दशतयी” इत्य्च्यते। क्रमशः दशमण्डलानामृषयः-
दशमण्डलानामृषयः |
१.शतार्चिनः |
२.गृत्समद |
३.विश्वामित्र |
४.वामदेवः |
५.अत्रि |
६.भारद्वाजः |
७.वशिष्ठः |
८.काण्वः |
९.मधुच्छन्दा |
१०.भृगुः |
सम्पूर्णे ऋग्वेदे(८५)पञ्चाशीति अनुवाकाः, सप्तदशाधिकैकसहस्रं(१०१७)सूक्तानि सन्ति ।
मण्डलक्रमानुसारं सूक्तानां व्यवस्था-१९,४३,६२,५८,८७,१०४,९२,११४,१९. एतानि सूक्तानि विहाय एकादश(११)वालखिल्यसूक्तान्यपि भवन्ति,यत्र(८०)अशीतिमन्त्राः विद्यन्ते । मन्त्राणां संख्या -१०५८०, शब्दानां संख्या-४३२०००।
विषयवस्तुः
प्रमुखविषयः “शस्त्रम्” अर्थात् गानरहितदेवस्तुतिपरकमंत्रः ।
*द्वितीय मण्डलात् सप्तममण्डलपर्यन्तम् ऋषीणां प्रार्थनाः संगृहीताः ।
*अष्टममण्डले अधिकांशा मंत्राः कण्वमहर्षिणा सह सम्बद्धा ।
*नवममण्डलं “पवमानमण्डलम्” अपि उच्यते ।अत्र सोमविषयक मन्त्राः संगृहीता ।
*त्रयः प्रमुखाः देवताः – अग्नि,इन्द्र,उषा ।
*अग्निमाधारीकृत्य सर्वाधिकाः मन्त्राः विद्यन्ते ।
*देव स्तुतिः ऋग्वेदस्य प्रतिपाद्य विषयः । मन्त्राणां विभाजनम् इत्थमेव-
१. धार्मिक सूक्तम्
२. दार्शनिक सूक्तम्
३. लोकिक सूक्तम्
४. संवाद सूक्तम्
१. धार्मिक सूक्तम्-
अग्नि-इन्द्र-मरुत्-अश्विनौ-वरुण-विष्णुः इत्यादयः प्रमुखाः देवताः स्तूयन्ते । “´तिस्र एव देवता इति नैरूक्ताः“ ।(निरु.दैवतकाण्डे ७-१२ अध्यायेषु)
*अग्निपृथ्वीस्थानीय * वायुः वा इन्द्रो वा अन्तरिक्षस्थानीय * सूर्यो द्युस्थानीय ।
| देवतानां विभाजनम् |
द्युस्थानीय देवता | द्यौः,वरुणः,मित्रः,सूर्यः,सविता,पूषा,विष्णुः,विवस्वान्,आदित्यगणः,उषा,अश्विनौ |
अन्तरिक्ष स्थानीय देवता | इन्द्रः,उपानपात्,मातरिश्वा,अजएकपात्,रूद्रः,मरुद्गणः,वायुः,पर्जन्यः,आपः |
पृथिवी स्थानीय देवता | प्रजापतिः,विश्वकर्मा,त्वष्टामन्युः,अदितिः,श्रद्धा |
देव्यः | उषा,वाक्,सरस्वती,रात्रिः |
पृथिवी | पृथिवी,अग्निः,सोमः,बृहस्पतिः,नद्यः |
युगल देवता | इन्द्राग्नी,इन्द्राविष्णू,मित्रावरुणौ,अग्निषोमौ |
देवगणः | रुद्राः,आदित्याः,विश्वेदेवाः,वसवः |
अवर देवताः | गन्धर्व,अप्सरा,ऋभुगणः |
२. दार्शनिक सूक्तम्- दर्शनसबन्धी गाम्भीर्येण च युकतानि सूक्तानि अत्र भवन्ति ।
पुरुष सूक्तम् | १०/९० | जगतः दुर्बोधरहस्याः, वर्णोत्पत्तिनां वर्णनम् अस्ति । |
नासदीय सूक्तम् | १०/१२९ | जगतः प्रारम्भिका स्थितिरस्ति । |
हिरण्यगर्भ सूक्तम् | १/१२१ | सृष्टिकर्तुः प्रजापतेः वर्णनम् । |
वाक् सूक्तम् | १०/१२५ | दार्शनिकगाम्भीर्येण युक्तम् । |
३. लौकिक सूक्तम्- लौकिकजीवनेन दैनन्दिन व्यवहारेण सम्बद्धानिसूक्तानि सन्ति ।
श्रद्धासूक्तम् | १०/१५१ |
संज्ञानसूक्तम् | १०/१९१ |
अस्यवार्मायसूक्तम् | १/१६४ |
दानस्तुतिसूक्तम् | १०/१०७,११७ |
अक्षसूक्तम् | १०/३४ |
विवाहसूक्तम् | १०/८५ |
आवर्तनसूक्तम् | १०/५८ |
सपत्नघ्नसूक्तम् | १०/१६६ |
व्याधिहरणसूक्तम् | १०/१६१ |
ओषधिसूक्तम् | १०/९७ |
मण्डूकसूक्तम् | ७/१०३ |
शरीराङ्गानांवैज्ञानिकविवरणम् | १०/१६३ |
४. संवाद सूक्तम्-
विंशति सूक्तानि संवादसूक्तानि सन्ति । अत्र नाटकीय ओजस्विता भवनात्मका विचाराश्च सन्ति।
अष्टौ संवादाः प्रमुखाः-
पुरुरवा-उर्वशी संवादः | १०/९५ |
यमयमी संवादः | १०/१० |
सरमापाणि संवादः | १०/१०८ |
विश्वामित्रनदी संवादः | ३/३३ |
इन्द्रमरुत्संवादः | १/१६५ |
अगस्त्यलोपामुद्रासंवादः | १/१७९ |
वशिष्ठसुदाससंवादः | ७/८३ |
इन्द्र-इन्द्राणी-वृषाकपि संवादः | १०८६ |