ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

29 September 2015

रघुवंशमहाकाव्यम्

रघुवंशम् महाकविकालिदासेन विरचितमेकं महाकाव्यमस्ति।
रघुवंशम् एकोनविंशति-सर्गात्मकम् एकं लालित्यपूर्णं महाकाव्यं
अस्ति महाकवेः कालिदासस्य । अत्र रघुवंशस्य कथा निबद्धा
अस्ति । दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा
वर्णिता अस्ति । तदुत्तरं रामवंश्यानां तत्तनृपाणां चरितानि
उपन्यस्तानि । अन्तिमः सर्गः अग्निवर्णस्य राज्याभिषेकेण
समं समाप्यते । कालिदासः अग्निवर्णपरवर्तिनां राज्ञाम्
अपि वर्णनं चिकीर्षति स्म , परम् असौ कालेन कवलीकृतः इति
एकेषां मतम् । अन्ये पुनः कालिदासेन परतः अपि रघुवंशस्य
सर्गाः लिखिताः; परन्तु ते न प्राप्यन्ते इत्याहुः । रघुवंशे येषां
राज्ञां वर्णनानि सन्ति , तेषां रामायणवर्णितनृपैः सह भेदः
आपतति , परन्तु वायुपुराण-वर्णितानुसारं रामवंशावल्या सह
रघुवंशवर्णित - वंशावली भूयसा सामञ्जस्यं धारयति ।
एकोनविंशति (१९) सर्गेषु वर्णिता रघुवंशीयराज्ञां
नामावलिः यथाक्रमम् अत्र उल्लिखिताः सन्ति । यथा-
दिलीपः,
रघुः,
अजः,
दशरथः,
रामः,
कुशः,
अतिथिः,
निषधः,
नलः,
नभः,
पुण्डरीकः,
क्षेमधन्वा,
देवानीकः,
अहीनगुः,
पारियात्रः,
शिलः,
उन्नाभः,
वज्रनाभः,
शंखणः,
व्युषिताश्वः,
विश्वसहः,
हिरण्यनाभः,
कौसल्यः,
ब्रह्मिष्ठः,
पुत्रः
पुष्यः,
धृवसन्धिः,
सुदर्शनः,
अग्निवर्णः च
एतेषु राजसु रामस्यैव वृत्तं सर्वाधिकसर्गेषु वर्णितमस्ति ।
कथा
===========
रघुः सेनया सहितः वक्षुतीरं प्राप्य हूणैः म्लेच्छैः च सह अयुध्यत।
विक्रमः रघुः तान् जितवान्। वक्षुं तीर्त्वा तस्य सेना
कम्भोजान् अमिलत्। ते रघवे उपहारान् दत्तवन्तः। कालिदासः
वक्षुतीरे स्थितान् अक्षोटवृक्षान् अपि वर्णितवान्।

No comments:

Post a Comment