ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

28 September 2015

शिशुपालवधम्

शिशुपालवधम्
महाकविमाघः गुर्जरदेशे श्रीमाल नामकस्थाने
विशिष्टब्राह्मणपरिवारे जन्म लेभे । तस्य पितुः नाम ‘दत्तक’
आसीत्; किन्तु सःसर्वाश्रयः इति नामान्तरेणापि प्रसिध्दः
आसीत् । अस्य पितामहः ‘श्रीसुप्रभदेव’ नामाः; ‘श्रीवर्मल’
नाम्नः राज्ञः प्रधानसचिवः प्रधानसेनापतिश्चासीत् । इत्थं
महाकवेः माघस्य समयःसप्तमेशवीयशतकसस्य अन्तभागः
अष्टमशतकस्य आदिभागः वा स्वीकरणं सर्वथा युक्तितयुक्तं
स्यात् । महाभारतीयां कथमाश्रित्य विंशतिसर्गात्मकं
‘शिशुपालवध् महाकाव्यम्’ इत्येका एव कृतिः समुपलभ्यते माघस्य

महाभारतस्य सभापर्वस्य ३३ तमात् ४५ पर्यन्तेषु त्रयोदशसु
अध्यायेषु शिशुपालवधस्य कथा उपलभ्यते । इयं कथा
श्रीमदभागवतेऽपि दशमस्कन्धस्य ७४ तमेऽध्याये सूक्ष्मरुपेण वर्तते ।
अस्या विंशतिसर्गात्मकस्य शिशुपालवधमहाकाव्यस्य रचना तु
महाकविमाघेन महाभारतीयां कथामाश्रित्य विहिता । अनेके
श्लोकास्तु प्रायः महाभारतस्य श्लोकैः समम् एव दृश्यन्ते ।
तद्यथा –
आचार्यमृत्विजञ्चैव संयुजञ्च युधिष्ठिर ।
स्नातकं च प्रियं प्राहुः षडर्ध्यर्हान्नृपं तथा ॥
पशुवद् घातनं वा मे दहनं वा कटाग्निना ।
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥
अत्र महाभारतापेक्षया महाकाव्योपयोगिनः अनेके विषयाः
वर्णिताः; तृतीयसर्गात् त्रयोदशसर्गं यावत् भगवतः
श्रीकृष्णस्य ऐश्वर्य –प्रस्थान –वनविहार –जलक्रीडा-रैवतक
पर्वत-सन्ध्या-प्रातः- प्रकृत्यादिविषयाणां वर्णनानन्तरं
महाराजयुधिष्ठिरस्य राजसूययज्ञे श्रीकृष्णस्य आगमनं वर्णितम्

एतेन ज्ञायते यत् अस्य महाकाव्यस्य आधारः महाभारतीया
कथा एव, किन्तु शिशुपालस्य वधमित्यादिषु स्थलेषु कुत्रचित्
महाकवेः मौलिकचिन्तनेन कथाभेदोऽपि दृश्यते ।
संस्कृतसाहित्ये पाण्डित्यमयशैल्याः चरमोत्कर्षोदृश्यते
श्रीमाघे । कालिदासस्योपमा – भाभीरथी; भारवेरर्थगुरुता-
यमुना, दण्डिनः हर्षस्य वा पदललिता- सरस्वती तीर्थराजसदृशे
कविराजे श्रीमाघे विराजते ।
महाकविमाघेन प्रणीतं शिशुपालवधमहाकाव्यं विंशतिसर्गेषु
पूर्णं जातम् । तस्यैतिहासिकं वृत्तमधोलिखितमस्ति –
पाण्डवाः प्रथमवनवासदिवसावधिं प्रपूर्य इन्द्रप्रस्थनगर
ीं समधिकृतवन्त आसन् । भगवतः श्रीकृष्णस्य कृपया अर्जुनभीम-
नकुलसहदेवानाम्पराक्रमेण च धर्मराजयुधिष्ठिरेणा समग्रमपि
जम्बूद्वीपं विजित्य विपुलं धनमेकस्थीकृतम् । एवमतुलसाम्राज्यं
विपुलं वैभवञ्चावाप्य युधिष्ठिरो राजसूययज्ञं कर्तुमैच्छत् ।
प्रायः समग्रस्य जम्बूद्वीपस्य (एशियायाः) भगवतः
श्रीकृष्णस्यानुयायिनो विरोधिनश्च राजानो
यज्ञेऽस्मिन्नामन्त्रिता आसन् । यज्ञेऽस्मिन् भगवान्
श्रीकृष्णः सर्वकर्मद्रष्टा आसीत् । सर्वेऽपि राजानो
यज्ञकार्येषु योग्यतानुसारं भागं गृह्णन्ति स्म ।
ऎतिहासिकोऽयं यज्ञ आसीत् । अतीवमहत्सज्जया यज्ञः
सुसम्पन्नः । याज्ञिकाः ब्राह्मणाः दक्षिणादिना
सत्कृताः ।
ततः सदस्यपूजाया अवसरस्समुपस्थितः । शास्त्रानुसारेण
यज्ञसमाप्तौ गुणवतेऽर्ध्यप्रदानस्य नियमोऽस्ति । प्रतिष्ठेयं
कस्मै प्रदेया ? विषयेऽस्मिन् पप्रच्छ युधिष्ठिरो भीष्मम् ।
शास्त्रानुसारं षडङ्गवेदाध्ययनाध्यापनरतो ब्राह्मणस्नातकः,
गुरुः बन्धुः, जामाता, राजा, ऋत्विग्, याज्ञिकश्चैते षट्
सदस्याः पूजनार्हाः भवन्ति । यदि कश्चन सर्वगुणसम्पन्नः
स्यात्तर्हि सोऽपि पूजनार्हो भवति । भीष्मोऽस्यै प्रतिष्ठायै
भगवान् श्रीकृष्ण एव महत्तम् इत्युद्घोषितवान् । युधिष्ठिरश्च
भगवन्तं श्रीकृष्णमेव पूजयामास ।
शिशुपालो भगवतः श्रीकृष्णस्येदं सम्मानं द्रष्टुं नाशकत । स
क्रोधाविष्टः रक्तीकृतनेत्रेश्च् सन् उच्चमुष्णञ्च श्वसितुमारेभे ।
धर्मराजं युधिष्ठिरं च निन्दित्वा भगवतः श्रीकृष्णस्योपर
ि नानाविधानाक्षेपान् कर्तुं प्रवृत्तः । भगवान् श्रीकृष्णः
मौनावलम्बितः सन् मनसैव शिशुपालस्यापराधान् गणयति स्म ।
भीष्मः शिशुपालस्येदं धाष्टर्थं सोढुं नाशकत् तन्मुखाच्च
भगवतः श्रीकृष्णस्य निन्दां श्रुत्वा सः क्षुब्धः सञ्जातः ।
तेनोक्तम् – “ अद्य मया विहिता भगवतः श्रीकृष्णस्य पूजा न
यस्मै रोचते सः धनुर्धारयेत्” । इत्युक्ते भीष्मे शिशुपालसमर्थकाः
राजानो यज्ञमण्डपाद् बहिर्गन्तुमुद्यता बभूवुः । शिशुपालः
पुनः कठोराणि वचांसि उवाच, तत्स्थानाच्च निः सृत्य
भगवन्तं श्रीकृष्णं युध्दार्थमाहूय चमूः सज्जां कर्तुमारेभे ।
पाण्डवास्तत्पक्षिणश्च राजानः शान्ता आसन् । चमूसज्जां
विधाय शिशुपालेन राजसभायां स्वकीयो दूतः प्रेषितः । स
दूतः श्लिष्टशब्दैर्भगवन्तं श्रीकृष्णं निन्दयामास । भगवतः
श्रीकृष्णस्य प्रेरणया सात्यकिस्तस्याक्षेपाणामुचितमुत
्तरम्प्रादात्, तथापि सोऽनेकान्यापत्तिजनकानि
वचांस्यकथयत् । अनेन भगवान् श्रीकृष्णस्तत्समर्थकाः
राजानश्चचाऽत्यन्तं क्रुध्दाः सञ्जाताः । अन्ते च युध्दः
प्रारब्ध एव । शिशुपालस्य सम्पूर्णाऽपि चमूर्नष्टा । चम्वां
विनष्टायां सत्यां सः स्वयं भगवता श्रीकृष्णेन साकं
योध्दुमारेभे । यद्ध्यमानः सः श्रान्तो भूत्वा कठोराणि
वचांस्यवदत् । ततः शकसंख्यकेष्व पराधेषु पूर्णेषु, तद्वधेऽधिकं
विलम्बमनुचितम्मत्वा भगवान् श्रीकृष्णः सुदर्शनचक्रेण
शिशुपालस्य शिरश्चिच्छेद अस्मिन्नेव समये तस्य
शरीरादेकस्तेजः समूहो निः सृत्य भगवतः श्रीकृष्णस्य
शरीरेऽन्तर्हितः । सर्वे चानया घटनया विस्मिताः बभूवुः ।
महाकविमाघेन २० सर्गात्मके स्वीये शिशुपालवधे महाकाव्ये
सर्वेषामेव रसानां साधिकारं सहृदयपरितोषं कुर्वता प्राधान्येन
वीररसः तदङ्गतया च सर्वेऽन्ये रसाः यथास्थानं विन्यस्ताः ।
रैवतक्- सूर्यास्त –सागरवर्णनमित्यादिस्थलानि अस्य
प्रकृतिप्रियतां प्रतिपादयन्ति । यथा – रैवतकपर्वतवर्णने –
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति
चास्तम् ।
वहति गिरिरयं विलम्बिघण्टा- द्वयपरिवारितवार
णेन्द्र्लीलाम् ॥
अस्य कृतौ प्रायः कोऽपि श्लोकः अलङ्काररहितो न दृश्यते ।
प्रायशः षोडशविधानां छन्दसां प्रयोगः कृतः महाकविना,
तत्रापि पञ्चमसर्गीयायाः वसन्ततिलकायाः
एकादशसर्गीयायाः मामिन्याः सौषम्यं सर्वातिशायि
संशोभते । कवित्वकौशलस्य चूडान्तनिदर्शनं महाकाव्यमिदम् ।
यथा, द्र्ष्टव्यं पद्यमिदं –
मधुरया मधुबोधितमाधवीमधुसमृध्दिसमेधितमेधया ।
इत्थं ज्ञातुं शक्यते यत् सर्वत्र नवनवां शब्दराशिं वितन्वन् असौ
नवसर्गेषु कविनामन्येषां कृते शब्ददारिद्रयं विहितवान् ।

No comments:

Post a Comment