ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

28 September 2015

-: अभिज्ञानशाकुन्तलस्य कथा :--

!!!---: अभिज्ञानशाकुन्तलस्य कथा :---!!!
=================================
पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं
अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति
। कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी
तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभ
िः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं
तस्यै कुर्वन् तां प्रति - त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः
आकर्षति । अहं त्वां कामये इत्यवदत् । शकुन्तला तु - अहं
मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं
शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां
दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति ।
शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं
प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः
अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् ।
दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं शक्नुवन्ति ।
तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव
उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव
युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् ।
अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि
इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं
प्रायात्।
कण्वे आश्रमं प्रत्यागते शकुन्तला तस्य शिरसः उपरि विद्यमानं
भारम् अवतारयति । तथापि तस्य मुखं अदृष्ट्वा लज्जया
अधोमुखी तिष्ठति । कण्वे लज्जायाः कारणं पृच्छति सति
शकुन्तला दुश्यन्तेन साकं कृतविवाहवृत्तन्तं अकथयत् ।
दिव्यदृष्ट्या सर्वविदितः कण्वः - ”वत्से ! त्वया कृतः अधर्मः
न । क्षत्रियाणां गान्धर्वविधिना परिणयः सम्मतः” इति
समर्थयति । कालक्रमेण गर्भवती शकुन्तला रूपगुणसम्पन्नोपेतं सुतं
असूत । पुत्रस्य षट् वर्षाणि अतीतानि चेदपि दुष्यन्तः नागतः ।
सः अपि आरम्भदिनेषु कण्वः किमपि वदेत् इति चिन्तयन् न
प्रवर्तते स्म, क्रमेण शकुन्तलायाः विषयः तेन विस्मृतः । परं सा
तु तं निरीक्षमाणा खिद्यते स्म । बालस्तु धीरः सन् वनस्य
सर्वप्राणिनः अपि निगृह्य आत्मानं "सर्वदमन" इति
परिचाययति स्म । तं यौवराज्याय अर्हं मन्वानः कण्वः मुहूर्तं
निश्चित्य स्वशिष्यैः सह शकुन्तलां तत्पुत्रं च दुष्यन्तस्य
राजधानीं प्रति प्रेषयामास ।
शोकाकुला शकुन्तला
=================
यदा शकुन्तला पतिगृहं प्रस्थिता तदा पालितपितुः कण्वस्य
नेत्रे अश्रुपूर्णे भवतः । तच्छिष्याः तां राजधानीं प्रापय्य
प्रत्यागच्छन्ति । पुत्रेण सह शकुन्तला राजसभायां दुष्यन्तं
दृष्ट्वा स्ववृत्तान्तं सर्वं निवेदयति । तस्याः वचनेन स्मृतपूर्ववृत्त
ान्तः राजा अपि लोकापवादात् भीतः अहं किमपि नजाने
इति वदति । तामुद्दिश्य - शकुन्तले ! का त्वम् ? कुतः अत्र आगतं
त्वया ? किं साहाय्यम् अपेक्षितम् ? इति अपरिचितः इव
सम्भाषते । ततः शकुन्तला - "महाराज ! अयं तव पुत्रः । त्वया
आश्रमे दत्तवचनानुसारं तव राज्यस्य उत्तराधिकारी भविता ।
यदा त्वया आश्रमं प्रति आगतं तदा प्रवृत्तं सर्वं स्मर" इत्यादि
रीत्या अभियाचते । दुष्यन्तः शकुन्तलां न विस्मृतवान् आसीत्
परं तस्मिन् क्षणॆ किमपि अजानन् इव -
"धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत् कुरु ॥"
अस्य तात्पर्यमेतत् - धर्मार्थकामार्थं त्वया सह सम्बन्धकरणं न
मया स्मर्यते । त्वं याहि, अत्रैव तिष्ठ स्वेच्छानुसारं वा कर्म कुरु
इति साक्षात् वदति । शकुन्तला अवमानेन लज्जया च पीडिता
क्षणं यावत् किङ्कर्तव्यमूढा तिष्ठति । तदा नितरां कुपिता
सा दुष्यन्तं सम्यक् निर्भत्सयन्ती- "महाराज ! जानन्नपि कुतः
एवं प्रलपसि ? एवम् असत्यं कथयन् त्वं हृदि संस्थितं सर्वसाक्षिणं
परमात्मानं मा अवमानय । अहं तव धर्मपत्नी । यदि मां त्यजसि
न किमपि दुःखम्, परं एतं तव पुत्रं मा त्यज । मम वचनं यदि उपेक्षसे
तर्हि तव शिरः सहस्रशः छिद्रं भविष्यति" इत्यादिभिः वचनैः
भर्त्सयति । तथापि दुष्यन्तस्य मनः न द्रवति । पूर्वतनं किमपि न
स्मरन् सः अन्ते तामेव "वेश्यापुत्रि !" इति निन्दति ।
शकुन्तलायाः नयविनयादिभिः याचनादिभिः अपि
दुष्यन्तः नाङ्गीकरोति । तदा सा कोपाग्निम् असहमाना
पुत्रेण सह ततः निर्गता । तावता - "भरस्व पुत्रं दुष्यन्त !
मावमंस्थाः शकुन्तलाम्" (हे दुष्यन्त ! अयं तव पुत्रः, तं पोषय ।
शकुन्तलायाः अवमाननं मा कुरु) इति अशरीरवाणी काचित्
भविष्यति, शकुन्तलायाः उपरि पुष्पवृष्टिः च भविष्यति । ततः
दुष्यन्तः सिंहासनात् अवतीर्य अन्तरिक्षदेवताः नमस्कृत्य
राजसभायां मन्त्रिपुरोहितं च उद्दिश्य - "अहं तु एतां जाया
इति, अयं तव पुत्रः इति सम्यक् एव अभिज्ञातवान् अधुना
अशरीरवाणी जाता इत्यतः अयं पुत्रः मदीयः शुद्धः इति
निःशङ्कं कथयामि इति वदन् तम् आलिङ्गितवान्, शकुन्तलां च
आदरेण सत्कृतवान् । सर्वदमनः युवराजपदे नियुक्तः सन् अग्रे भरतः
इति प्रसिद्धिम् अवाप । शकुन्तला पट्टमहिषी सञ्जाता ।
शकुन्तलादुष्यन्तयोः कथा पुराणकाले अतीव प्रसिद्धः स्यात्
अतः इयं कथा न केवलं महाभारते, भागवते, विष्णुपुराणे, हरिवंशे,
मत्स्यपुराणे, वायुपुराणे, पद्मपुराणे च दृश्यते । बौद्धानां
जातककथायामपि शकुन्तलाकथासदृशी अपरा काचित् कथा
विद्यते । जैनसम्प्रदायेऽपि (पार्श्वनाथचरित्रम्) कालिदासस्य
शाकुन्तलनाटकसदृशी अन्य कथा दृश्यते । एतैः अंशैः
शकुन्तलादुष्यन्तयोः कथा अनादिकालात् अपि प्रचलिता
इति ज्ञायते ।
कालिदासस्य नाटकस्य कथायाः महाभारते उक्तायाः
कथायाः च तुलनां कुर्मः चेत् अत्र कालिदासस्य
रचनाकौशल्यम् उदात्तं रचनात्मकं च परिवर्तनं दृश्यते ।
कालिदासेन ग्रथितस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कः
कण्वस्य अश्रमस्य दृश्यम् । तस्य आरम्भः अष्टमूर्तेः शिवस्य
स्तवनेन भवति । ततः सूत्रधारः नट्या सह रङ्गं प्रविश्य ग्रीष्म-
ऋतुवर्णनद्वारा सङ्गीतस्वादम् अनुभवति । नवीनतया रचितस्य
कालिदासस्य नाटकस्य परिचयं कारयति । तदनन्तरं दुष्यन्तः
हरिणम् अनुधावन् आगच्छन्नस्ति इति घटनां संसूच्य प्रस्तावनं
समाप्य निर्गच्छति ।
ततः दुष्यन्तः कञ्चित् हरिणं अनुधावन् राजा दुष्यन्तः रथं
वाहयन् सूतश्च प्रविशतः । दुष्यन्तः यावत् हरिणस्य उपरि बाणं
प्रयोक्तुं सिद्धः तावता आश्रमस्य तपस्विनः आगत्य - "राजन् !
आश्रममृगोऽयं मा हन्यताम्" इति वदन्ति । समीपे विद्यमानं
कण्वस्य आश्रमं प्रदर्श्य तत्र कण्वः अधुना आश्रमे नास्ति, परं
कण्वदुहिता शकुन्तला तव सत्कारं करिष्यति गत्वा
अतिथिसत्कारं स्वीकृत्य गच्छ इति सूचयन्ति । दुष्यन्तः स्वयम्
एकाकी आश्रमं प्रति गच्छति । तत्रा तिसृभिः
तापसकन्यकाभिः वृक्षेभ्यः जलं सिच्यमानम् असीत् । तासां
मधुराणि सम्भाषणानि प्रच्छन्नः स्थित्वैव शृणोति । तासु
तिसृषु अन्यतमायाः शकुन्तलायाः अप्रतिमं सौन्दर्यं विलोक्य
विस्मितः भवति राजा । तस्याः अव्याजमनोहरं सौन्दर्यं
स्वदते सः । तासां पुरतः आत्मानं दर्शयितुं समयं प्रतीक्षमाणः
भवति । तावता कश्चन भ्रमरः शकुन्तलां पीडयन् भवति । तदा
राजा आत्मनः प्रकटनाय अयं समुचितः कालः इति चिन्तयन्
तद्दूरीकरणाय सः प्रविशति । तयोः सख्योः सम्भाषणेन
शकुन्तला विश्वामित्रमेनकयोः पुत्रीति, ताभ्यां परित्यक्ता
शकुन्तपक्षिभिः वने पोषितां तां कण्वमहर्षिः आश्रमं प्रति
आनीय तां पोषयन् अस्ति इत्यादिविषयान् ज्ञात्वा राजा
सन्तुष्टः भवति । एषा क्षत्रियकन्या, मया परिणेतुं योग्या इति
चिन्तयन् मनसि हृष्टः भवति ।

No comments:

Post a Comment