ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

21 June 2012

द्रव्यविमर्शः




नैयायिकनिकाये सप्तपदार्थाः प्रथिताः। न्यायवैशारदेनान्नंभट्टेन स्वकीये तर्कसंग्रहे मङ्गलाचरणे - ”क्रियते तर्कसंग्रहः” इति तर्कपदेन सप्तपदार्थाः एव गृहीताः। तथा च भाषापरिच्छेदकारस्य भणितिः -
“द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्।
समवायस्तथाभावः पदार्थाः सप्त कीर्तिताः।।”इति।
एवं पदार्थेष्वन्यतमत्वं भजते द्रव्यमिति। द्रव्यलक्षणं हि गुणवत्त्वं क्रियावत्त्वं समवायिकारणत्वं वेति काश्यपा व्योमशिवाचार्याश्च। द्रव्यमात्रे गुणं तिष्ठत्येव। यत्र यत्र द्रव्यत्वं तत्र तत्र गुणवत्त्वमिति भावः। यथा पृथिव्यादिद्रव्येषु गन्धादीनां गुणानां नित्यसम्बन्धः। तर्कभाषाकारादीनां नये द्रव्यं हि गुणाश्रय इति। यत्समवायसम्बन्धेन गुणाश्रयस्तदेव द्रव्यमिति निष्कर्षः।
एवमेव क्रियावत्त्वमपि द्रव्येषु नूनं परिदृश्यते। किञ्च क्रियाश्रयत्वं द्रव्येष्वेव दृश्यते नान्यत्र। नवद्रव्येष्वेव तत्सत्त्वात् क्रियावत्त्वमिति द्रव्यलक्षणं सुष्ठु संगच्छते।
पुनः समवायिकारणत्वं द्रव्यस्य लक्षणं प्राचीनाचार्यैर्विहितम्। तथाहि तर्कभाषाकाराणां न्यायवैशारदां केशवमिश्रपादानां मतं हि - “तत्र समवायिकारणे द्रव्यं, गुणाश्रयो वा” इति। कणादसम्मतं च द्रव्यलक्षणं हि - “क्रियागुणवत्समवायिकारणम्” इति। कस्यापि कार्यस्य यत्समवायिकारणं तद्द्रव्यम्। तत्र समवायिपदं परित्यज्य केवलं कारणं द्रव्यमिति लक्षणं क्रियते चेत्तदा कर्मादावतिव्याप्तिः स्यात्। कर्म भवति कार्यम् (उत्पन्नं) प्रति असमवायिकारणं तथा निमित्तकारणम्। किञ्च समवायि द्रव्यमिति लक्षणं क्रियते चेद्गुणादिष्वतिव्याप्तिः। तेषु जातेः समवायित्वात्।
किञ्च, द्रव्यत्वं द्रव्यलक्षणमिति प्रशस्तपादाचार्याणां किरणावलीकारादीनाञ्च मतम्। लक्षणशब्देनेतरभेदबोधको लक्षस्य चासाधारणो धर्मो ज्ञाप्यते। अतो द्रव्यत्वं द्रव्यलक्षणं कृतञ्चेन्नवद्रव्येषु द्रव्यत्वसिद्धिरावश्यिकी। अन्यथेतरभेदप्रदर्शनं कथमपि न सम्भवेत्। परन्तु नवद्रव्येषु द्रव्यत्वं न प्रत्यक्षगोचरम्। कारणं द्रव्यत्वाश्रयविशिष्टं द्रव्यं न सर्वथा प्रत्यक्षगोचरं, न चानुगताकारविशिष्टम्। जातिप्रत्यक्षे तयोः गुरुत्वमनस्वीकार्यम्। अधुना प्रश्नोऽयं नितरां समुत्तिष्ठति यत् - “ननु द्रव्यत्वजातिसिद्धौ किं मानम्?” इति।
तदुत्तरमुच्यते - द्रव्यगतसमवायिकारणतायाः योऽवच्छेदको धर्मस्तद्धि द्रव्यत्वम्। यद्यपि न तत्सर्वद्रव्येषु प्रत्यक्षगोचरा तथापि - “द्रव्यनिष्ठा समवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत् ” इत्यनुमानप्रमाणेन सिध्यति। परन्त्वत्र दृश्यते हि विप्रतिपत्तिः, प्रध्वंसरूपे कार्ये द्रव्याणां समवायिकारणतात्वाभावात्। अतो हि कार्यस्य समवायिकारणताया अवच्छेदकरूपेण द्रव्यत्वजातिसिद्धिर्न भवति। तस्माद्द्रव्यत्वजातिसिद्धौ प्रकारान्तरमाश्रणीयम्। तथाह्युच्यते - “द्रव्यनिष्ठा संयोगसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत्” इति। परन्त्वत्रापि विप्रतिपत्तिर्दृश्यते। आकाशादीनां विभुद्रव्याणां नित्यसंयोगात् संयोगत्वसत्त्वेऽपि तस्य कार्यत्वं नास्ति। कार्यतात्वाभावात्तस्य कारणतात्वमपि नास्ति। अतो "द्रव्यनिष्ठा संयोगसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्" इत्यनुमानेन द्रव्यत्वसिद्धिर्न भवति। एवं प्रकारान्तरमाश्रित्योच्यते “द्रव्यनिष्ठा विभागसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत्” इति। तथाह्युच्यते विश्वनाथाचार्येण - “कार्यसमवायिकारणतावच्छेदकतया संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेः” इति।

द्रव्यविभागाः - द्रव्यभेदविषये भाषापरिच्छेदे उच्यते - “क्षित्यप्तेजोमरुद्व्योमकाला दिग्देहिनौ मनः द्रव्याणि” इति। क्षितिः पृथिवी, आपो जलानि, व्योम आकाशः, कालः समयः, दिक् आशा, देही आत्मा, मनः एतानि नवद्रव्याणीत्यर्थः। तर्कसंग्रहकृताप्यनुरूपमेवोच्यते - “तत्र द्रव्याणि पृथिव्यप्तोजोवाय्वाकाशकालदिगात्ममनांसि नवैव” इति। नन्वत्र स्वत एव नवद्रव्यत्वसिद्धौ पुनः “नवैव” इति पदग्रहणं किमर्थमिति चेदत्रोच्यते - द्रव्यत्वं पृथिव्यादिनवान्यतमव्याप्यत्वमिति व्याप्तिलाभाय। तदितिरिक्तं नास्ति इति निश्चयः।
अत्र हि पूर्वपक्षिणामाशंका ननु तमसः दशमद्रव्यस्य सत्त्वात् कथं नवैवेति। वस्तुतस्तु तमसो नाकाशादिपञ्चकेष्वन्तर्भावस्तस्य “नीलं तमः” इति रूपचिन्तनादाकाशादीनां हि रूपत्वाभावात्। न च वायुजलतेजःस्वन्तर्भावः तमसः स्पर्शत्वाभावात्। किञ्च, मन्धत्वाभावान्न पृथिव्यामन्तर्भावः। अत एव पूर्वपक्षिणां नये तमसो दशमद्रव्यत्वमवश्यमेवास्ति। किञ्च, दर्शननिकाये प्रसिद्धेयं भणितिः -
तमः खलु चलं नीलं परापरविभागवत्।
प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति।। इति।
एतेन तमसः क्रियावत्त्वं नीलरूपगुणवत्त्वमप्यापादितम्।
एतादृश्याः शंङ्कायाः निवारणं क्रियते - न हि तमः दशमद्रव्यं, तेजोऽभावरूपवत्त्वात्। वस्तुतस्तु तमसो रूपमेव नास्ति, आलोकासहकृतचक्षुर्ग्राह्यत्वात्, आलोकभाववत्। अत एव तमसो नीलरूपवत्त्वं भ्रम एव।
एवमेव “नीलं तमश्चलती”त्यादिव्यवहारे तमसश्चलनक्रियापि भ्रान्तिरेव। वस्तुतस्तु तमसश्चलनं नास्त्यालोकापसारणात्प्रतिवन्धरूपप्रच्छायस्यापसारणं भवति। तत्र तमो न चलति दीपस्यैवापसारणं भवति, तदनुरूपो हि प्रच्छायः इति विवेकः।
अत्र च पूर्वपक्षिभिः शंकोत्थाप्यते - न हि तमस्तेजोऽभावरूपः। परन्तु तेज एव तमोऽभावरूपः। अत एव नवद्रव्येषु तेजसो ग्रहणमकृत्वा तमस एव ग्रहणमस्त्विति चेदत्रोच्यते - तेजसोऽभावरूपत्वं स्वीकृतं चेत्सर्वैरनुभूयमानस्योष्णस्पर्शस्य पदार्थान्तरचिन्तनं गौरवाय एव स्यात्। अतो हि - “द्रव्याणि पृथिव्यप्तोजोवाय्वाकाशकालदिगात्ममनांसि नवैव“ इति भावः।

नवद्रव्याणां स्वरूपालोचनम् -

 १. पृथिवी - गन्धवती पृथिवी इति पृथिव्या लक्षणं तर्कसंग्रहे निगदितमन्नंभट्टेन। गन्धोऽस्यामस्तीति गन्धवती।
अस्ति - अस्धातोराधेयतार्थः। तिङ्प्रत्ययस्य आश्रयत्वमर्थः। एवञ्च आधेयताश्रयत्वञ्च गन्धे स्वरूपसम्बन्धेन विद्यते।
अस्याम् - इदंशब्दार्थः पृथिवी, सप्तम्या अधिकरणत्वमर्थः। पृथिवी निष्ठत्वसम्बन्धेन अधिकरणतायामन्वेतीत्यर्थः। इयञ्चाधिकरणता गन्धनिष्ठाधेयतानिरूपिका।आधेयताश्रयो गन्धः। एवञ्च पृथिवीनिष्ठाधिकरणतानिरूपिताधेयतावान् गन्ध इति फलितम्। वृत्तिवाक्याद्विपरीतबोध इति नियमात् - गन्धनिष्ठाधेयतानिरूपिताधिकरणतावती पृथिवीति शाब्दबोधात् गन्धनिष्ठाधेयतानिरूपिताधिकरणतावत्त्वं पृथिव्या लक्षणम्। ”पृथिव्यां गन्धोऽस्तीति प्रतीत्या गन्धस्याधेयत्वं पृथिव्या अधिकरणत्वञ्च सिद्धम्। उभयोश्च निरूप्यनिरूपकभावः सम्बन्धः। तेनोक्तं लक्षणं समन्वितं लक्ष्ये।
क) अखण्डकाले सर्वस्य स्थितेः गन्धः कालेऽस्तीति प्रतीत्या उक्तलक्षणं कालमतिव्याप्नोति। तद्वारणाय लक्षणे समवायसम्बन्धावच्छिन्नत्वं योज्यते। इतञ्च आधेयतायां विशेषणतयान्वेति। अत्र - ”येन सम्बन्धेन यदस्तीत्युच्यते तन्निष्ठाधेयता तत्सम्बन्धावच्छिन्ने”ति नियमेन द्रव्यगुणयोः समवायात् गन्धः पृथिव्यां समवायसम्बन्धेनास्तीति कृत्वा ”समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावत्त्वं” पृथिव्या लक्षणमिति फलितम्। काले च गन्धः कालिकसम्बन्धानास्तीति नातिव्याप्तिः।
ख) एवमपि गन्धगतगुणत्वधर्ममादाय समवायसम्बन्धावच्छिन्नगुणनिष्ठाधेयतानिरूपिताधिकरणता जलादिष्वस्तीति पुनरतिव्याप्तिः। तद्वारणाय गन्धत्वावच्छिन्नत्वविशेषणमाधेयतायां क्षिप्यते। तेन समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न(गन्धनिष्ठ)-आधेयतानिरूपिताधिकरणतावत्त्वं पृथिव्या लक्षणमिति फलितम्। जलादिषु गुणनिष्ठाधेयता गन्धत्वावच्छिन्ना न भवतीति न दोषः।
ग) एवमपि उत्पन्ननविनष्टघटमुक्तलक्षणं न व्याप्नोति, उत्पन्नविनष्टे घटे गुणस्यानुत्पादात्। तेन च जातिघटितं लक्षणं क्रियते -समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न(गन्धनिष्ठ)-आधेयतानिरूपिताधिकरणतावद्वृत्तिर्या जातिः तद्वत्त्वं पृथिव्या लक्षणमिति। ईदृशी जातिः उत्पन्नविनष्टे घटेऽपि वर्तते इति अव्याप्तिर्वारिता।
घ) एवमपि एतादृशपदार्थवृत्तिर्जातिः सत्ताख्या जातिरपि भवतीति गुणकर्मणोर्लक्षणमतिव्याप्तम्। अतस्तद्वारणायात्र लक्षणे द्रव्यत्वव्याप्यदत्वं जातिविशेषणतया योज्यते।
तेन समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न(गन्धनिष्ठ)-आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वव्याप्या या जातिस्तद्वत्त्वं पृथिव्या लक्षणमिति फलितम्।
व्याप्यत्वञ्च तदभाववद्वृत्तित्वम्। द्रव्यत्वाभाववति गुणे अवृत्तिर्जातिः पृथिवीत्वमिति उक्तातिव्याप्तिर्वारिता।
ङ) अनेन व्याप्यत्वलक्षणनेन द्रव्यत्वमपि द्रव्यत्वव्याप्यमिति द्रव्यत्वमुक्तजातित्वेनाङ्गीकृत्य तद्वत्त्वं जालादिष्वस्तीति जलादिष्वतिव्याप्तिः। अतः व्याप्यत्वलक्षणे परिष्क्रियते।
तदधिकरणवृत्तिभैदप्रतियोगितावच्छेदकत्वं व्याप्यत्वमिति। तेन -
तद्द्रव्यत्वं तस्याधिकरणं जलं तद्वृत्तिः भेदः पृथिवी नेति भेदः, प्रतियोगिनी पृथिवी प्रतियोगितावच्छेदकं पृथिवीत्वमिति द्रव्यत्वव्याप्या पृथिवीत्वजातिरिति नातिव्याप्तिः। एवञ्च द्रव्यत्वाधिकरणं जलं तद्वृत्तिर्भेदः 'द्रव्यं न' इति भेदो नेति द्रव्यत्वं न द्रव्यत्वव्याप्यमिति पूर्वोक्तातिव्याप्तिर्वारिता।
गन्धत्वावच्छिन्नेत्यादि - वृत्तित्वविशेषणेन जलादिभेदः पृथिव्यामिति भेदप्रतियोगितावच्छेदकं जलत्वमङ्गीकृत्य जलेऽतिव्याप्तिरपि वारिता।
समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न(गन्धनिष्ठ)-आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वव्याप्या (द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता)या जातिस्तद्वत्त्वं पृथिव्या लक्षणमिति निष्कर्षः।
पृथिवी द्विविधा नित्या अनित्या च। नित्या भवति परमाणुरूपा, अनित्या च कार्यरूपा। यस्याः अवयवा न विद्यन्ते सा एव परमाणुरूपा। परमाणुलक्षणविषये उच्यते -
जालान्तरे गते भानौ यत् सूक्ष्मं दृश्यते रजः।
तस्य षष्ठस्तु यो भागः परमाणुः स उच्यते।। इति।
अनित्या पृथिवी घटपटादिरूपेण सर्वप्रत्यक्षा अस्ति। सा चावयववती इत्युच्यते। सा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। "शरीरमस्मदादीनाम्, इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति, विषयः मृत्पाषाणादिः" इति तर्कसंग्रहकारः।
२.आपः - "शीतस्पर्शवत्य आप" इति अपां लक्षणं तर्कसंग्रहे। तेज आदिष्वतिव्याप्तिवारणाय शीतेति पदं लक्षणे उपात्तम्। समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्न - आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वव्याप्या (द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता)या जातिस्तद्वत्त्वं अपां लक्षणमिति निष्कर्षः।
आपः अपि द्विविधाः, नित्यानित्यभेदात्। नित्या आपः परमाणुरूपाः। अनित्या कार्यरूपाश्चापः पुनस्त्रिविधाः - शरीरेन्द्रियविषयभेदात्। "शरीरं वरुणलोके, इन्द्रियं रसनं जिह्वाग्रवर्ति,विषयः सरित्समुद्रादिः" इति तर्कसंग्रहकारः।

३. तेजः - “ऊष्णस्पर्शवत्तेजः” इति तेजसो लक्षणं तर्कसंग्रहे। जलादिष्वतिव्याप्तिवारणाय ऊष्णेति पदं लक्षणे उपात्तम्। समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्न - आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वव्याप्या (द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता)या जातिस्तद्वत्त्वं तेजसो लक्षणमिति निष्कर्षः।
तच्च तेजः द्विविधं नित्यमनित्यं च। नित्यं भवति परमाणुरूपम्। अनित्यं च कार्यरूपम्। तच्च कार्यरूपं तेजः पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरं तस्यादित्यलोके प्रसिद्धम्। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयभेदाः अध निरूप्यन्ते।
भौमं - भूमेरिदमिति भौमम्। अतो भौमं तेजो हि वह्न्यादिकम्।
दिव्यं - दिव इदमिति दिव्यम्। दिव्यञ्च तेजो हि विद्युदादिकम्।
उदर्यं - उदरे स्थितमित्युदर्यम्। तच्च हि भुक्तस्य परिणामहेतुः, जठराग्निः।
आकरजं - आकराज्जायत इत्याकरजम्। तच्च हि सुवर्णादिकम्।
४. वायुः - “रूपरहितः स्पर्शवान्वायु”रिति वायोर्लक्षणमुक्तं तर्कसंग्रहे।
रूपेण रहित इति रूपरहितः। रहधातोरभावोऽर्थः। क्तप्रत्ययस्याश्रयोऽर्थः। एवम् अभावाश्रय इति फलितार्थः।
रूपेण इति तृतीयायाः प्रतियोगित्वमर्थः। एवञ्च रूपनिष्ठप्रतियोगिताकाभावाश्रयोऽर्थः।
एतावता -“रूपनिष्ठप्रतियोगिताकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्न(स्पर्शनिष्ठ)आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता या जातिः तद्वृत्तित्वं वायोर्लक्षणम्” इति सम्पन्नम्।
एवमपि पृथिव्यादावतिव्याप्तिः। ”संयोगेन पृथिव्यां रूपं नास्ति” इति प्रतीत्या रूपनिष्ठप्रतियोगिताकाभावाश्रयत्वं तत्राप्यस्ति। तद्वारणाय लक्षणे समवायसम्बन्धावच्छिन्नत्वं निवेश्यते। तच्च प्रतियोगितायां विशेषणतयान्वेति।
समवायसम्बन्धेन रूपं वोयौ नास्ति। तेन ”समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगिताकाभावाश्रयत्वमि”ति आगतम्। ”पृथिव्यां समवायसम्बन्धेन रूपं नास्ती”ति प्रतीत्याभावादुक्तलक्षणं पृथिव्यां नान्वेति इति नातिव्याप्तिः।
एवमपि ”पृथिव्यां रूपघटोभयं समवायसम्बन्धेन नास्ती”ति प्रतीत्या पुनरपि पृथिव्यामतिव्याप्तिः। तद्वारणाय लक्षणे रूपत्वावच्छिन्नत्वं निवेशनीयम्। तच्च विशेषणतया प्रतियोगितायामन्वेति। एतावता समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्न(रूपनिष्ठ)प्रतियोगिताकाभावाश्रयत्वमिति सम्पन्नम् । पृथिव्यां रूपघटोभयत्वावच्छिन्नप्रतियोगिताकाभावोऽस्तीत्यतिव्याप्तिर्वारिता।
एतावन्मात्रोक्तौ आकाशादिष्वतिव्याप्तिरित्यग्रिमदलम्। किञ्च स्पर्शवान् इति तन्मात्रोक्ते पृथिव्यादित्रिकेऽतिव्याप्तिस्तत्रापि स्पर्शस्य सत्त्वात्, तद्वारणाय रूपरहितत्वविशेषणम्।
वायुर्द्विविधः नित्यानित्यभेदात्। नित्यः परमाणुरूपोऽनित्यः कार्यरूपः। स पुनस्त्रिविधः - शरीरेन्द्रियविषयभेदात्। "शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः।" शरीरान्तःसञ्चारिवायुः यद्यप्येकस्तथापि प्राणादयो संज्ञां लभन्ते। तेषाञ्च स्वरूपाणि अध आलोच्यन्ते -
प्राणक्रियायाः कारणस्वरूपो हृदि स्थितो नासिकातः सञ्चारिवायुः प्राणवायुरित्युच्यते।
उपनयनक्रियायाः(मलनिष्कासनक्रियायाः) कारणस्वरूपो गुदप्रदेशे स्थितो वायुः अपानवायुरित्युच्यते।
रसादीनां समानरूपेण नयनक्रियायाः कारणस्वरूपो नाभिप्रदेशे स्थितो वायुः समानवायुरित्युच्यते।
उन्नयनक्रियायाः (ऊर्ध्वप्रेरणायाः) कारणस्वरूपः कण्ठस्थितो वायुः उदानवायुरित्युच्यते।
विविधरूपैः नयनक्रियायाः प्रेरणायाः कारणस्वरूपः समस्तशरीरे विद्यमानो वायुः व्यान इत्युच्यत इति प्राणादयः पञ्च।

५. आकाशम् - “शब्दगुणकमाकाशम्” इत्याकाशस्य लक्षणं तर्कसंग्रहे। शब्दो गुणो यस्मिंस्तच्छब्दगुणकम्।समवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दाभिन्नगुणनिष्ठाधेयतानिरूपिताधिकरणतावत्त्वमाकाशत्वमिति निष्कर्षः।आकाशस्य विशेषगुणो हि शब्द इति द्योतनाय लक्षणे गुणपदमुपन्यस्तम्। ननु के नाम विशेषगुणा इति चेदुच्यते -
रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः।
बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिका गुणाः।। इति।
आकाशस्यानेकत्वे मानाभावात् तदेकमेव । सर्वमूर्तद्रव्यसंयोगित्वात्तस्य विभुत्वम्। तथाह्युच्यते तत्स्वरूपविषये तर्कसंग्रहे - “तच्चैकं विभु नित्यञ्चे”ति।

६. कालः - “अतीतादिव्यवहारहेतुः कालः ” इति कालस्य लक्षणमन्नंभट्टेन निगदितम्।
अतीतादेर्व्यवहारः, तस्य हेतुरित्यतीतादिव्यवहारहेतुः। षष्ठ्यर्थो विषयत्वम्। प्रकृत्यर्थस्य प्रत्ययार्थे निष्ठत्वसम्बन्धेनान्वयः। अतीतादिनिष्ठविषयतेत्यर्थः।
व्यवहारः शब्दप्रयोगः। विषयतायाः शब्दप्रयोगे निरूपकत्वसम्बन्धेनान्वयः। अतीतादिनिष्ठविषयतानिरूपकशब्दप्रयोग इत्यर्थः। षष्ठर्थः कार्यत्वमर्थः। प्रकृत्यर्थस्य प्रत्ययार्थे निष्ठत्वसम्बन्धेनान्वयः।
अतीतादिनिष्ठनिषयतानिरूपकव्यवहारनिष्ठकार्यताहेतुरसाधारणं कारणम्।अतीतादिनिष्ठनिषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत्त्वं कालस्य निकृष्ट लक्षणम्।
काण्ठताल्वाद्यभिघातस्य शब्दप्रयोगं प्रति असाधारणकारणत्वात्तत्रातिव्याप्तिवारणाय निमित्तत्वविशेषणं कारणतायां निवेशनीयम्।
“स चैको विभुर्नित्यश्चे”ति तर्कसंग्रहकारः।

७. दिग् - “प्राच्यादिव्यवहारहेतुर्दिक्” इति दिशो लक्षणम्। यद्यपि सैका, उपाधिवशात्प्रच्यादिसंज्ञां लभते। ताश्च - i) उदयाचलसन्निहिता या दिक्सा प्राची।
अस्ताचलसन्निहिता या दिक्सा प्रतीची।
मेरोः सन्निहिता या दिक्सा उदीची।
मेरोर्व्यवहिता या दिक्सा अवाची। आकाशवत्सापि नित्या विभ्वी च।

८. आत्मा - “ ज्ञानाधिकरणमात्मा" इत्यात्मनो लक्षणम्। स द्विविधः।
जीवात्मा - व्यष्टिशरीरादिसंघातस्य संचालकः। जीवः प्रत्येकशरीरे भिन्नः, अल्पज्ञः, व्यापको नित्यश्च।
परमात्मा - समस्तविश्वस्य कर्ता सञ्चालकश्च। स चैकः सर्वज्ञश्च।
९. मनः - "सुखाद्युपलब्धिसाधकमिन्द्रियं मन" इति तल्लक्षणम्। उपलब्धिर्नाम साक्षात्कारः। तथाहि - “सुखदुःखसाक्षात्कारकारणत्वे सति इन्द्रियत्वमि”ति मनसो लक्षणम्। तच्च प्रत्यगात्मनियतत्वादनन्तं परमाणुरूपं नित्यञ्चेति नवद्रव्यविमर्शः।

No comments:

Post a Comment