ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

21 June 2012

हेत्वाभासविमर्शः


गौतमप्रणीते न्यायसूत्रे "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास - छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः" इत्युल्लेखान्नैयायिकनिकाये षोडश पदार्थाः प्रथिता इति ज्ञायन्ते। तेष्वन्यतमो भवति हेत्वाभासः।
हेतुवदाभासत इति हेत्वाभास इति व्युत्पत्त्या एव ज्ञायते हेत्वाभासो नाम दुष्टो हेतुः। यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यस्य लक्षणम्। हेतौ दोषज्ञाने सति अनुमितिप्रतिबन्धो व्याप्तिज्ञानप्रतिबन्धो वा जायते। अतो वादिनिग्रहाय वादिनोद्भानिते हेतौ दोषोद्भावनार्थं दुष्टहेतुनिरूपणमत्यावश्यकम्। तत्र के तावद्व्याप्तिज्ञानप्रतिबन्धका हेत्वाभासा इत्यत्रोच्यते - “सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासा” इति न्यायदर्शनकर्त्रा। तर्कभाषाकर्तृनये - “ते चासिद्धविरुद्धानैकान्तकप्रकरणसमकालात्ययापदिष्टभैतात्पञ्चैव” इति पञ्च हेत्वाभासाः। यद्यपि नामतो विप्रतिपत्तिर्दृश्यते परन्तु स्वरूपतस्ते समा एव। एतेषामेव संग्रहणमन्नंभट्टैस्तर्कसंग्रहकृद्भिः कृतम् - “सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः” इति।
एतेषां स्वरूपाण्यधस्तात्समासतः समालोच्यते -
क) सव्यभिचारहेत्वाभासः - “अनैकान्तिकः सव्यभिचार” इत्यत्र न्यायसूत्रम्। एकः साध्यमेव अन्तः नियामको नियमस्य व्यप्त्यात्मकस्य निरूपको यस्य सः एकान्तः, स एव ऐकान्तः,(स्वार्थे ठक्) साध्यनिरूपितव्याप्तिमानित्यर्थः।यो हेतुरेकत्र व्यवस्थितो न भवति स सव्यभिचारहेत्वाभास इति सामान्यार्थः। सव्यभिचारहेत्वाभासो हि स्वरूपतस्त्रिविधः। तेषामालोचनमधस्तान्निरूप्यते -
i)साधारणसव्यभिचारहेत्वाभासः - साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः। साध्याभाववति वृत्तिर्यस्य स साधारणोऽनैकान्तिकः। यथा पर्वतो वह्निमान् प्रमेयत्वात् इत्यत्र प्रमेयहेतुः साधारणो भवति, प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्।
ii)असाधारणसव्यभिचारहेत्वाभासः - सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः। यथा ”शब्दो नित्यः कृतकत्वात्” इति। अत्र शब्दत्वरूपहेतुः सर्वेषु नित्यपदार्थेष्वनित्यपदार्थेषु न विद्यतेऽपि तु शब्दमात्रे विद्यतेऽतो ह्येषोऽषासाधारणो हेत्वाभासः।
iii)अनुपसंहारीसव्यभिचारहेत्वाभासः - अन्वयव्यतिरेकदृष्टान्तरहितो ह्यनुपसंहारी, तस्य व्यप्तिज्ञानप्रतिबन्धकत्वात्। यथा सर्वमनित्यं प्रमेयत्वादित्यत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति।
ख) विरुद्धहेत्वाभासः - साध्याभावव्याप्तो हेतुर्विरुद्धः। सद्धेतावतिव्यप्तिवारणाय साध्याभाव इति। साध्यव्यापकीभूताभावप्रतियोगित्वमर्थः। अतस्तस्य यथार्थव्याप्तिज्ञानप्रतिबन्धकत्वं नूनमस्ति। उदाहरणमुखेनोच्यते - “शब्दो नित्यः कृतकत्वात्” इति। अत्र कृतकत्वं नित्यत्वाभावेनानित्यत्वेन व्याप्तमिति विरुद्धहेत्वाभास इति सारः।
ग) प्रकरणसमहेत्वाभासः - “यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः” इति न्यादर्शनानुसारं तल्लक्षणम्। एनमेव तर्कसंग्रहकारः सत्प्रतिपक्षहेत्वभासत्वेन स्वीकृतवान्। तथाह्याम्नातं तर्कसंग्रहे - ”यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः” इति। यस्य साध्याभावसाधकं साध्याभावस्यानुमापकं हेत्वन्तरं प्रतिपक्षो हेतुः विद्यते स हेतुः सत्प्रतिपक्षः इति सामान्यार्थः। विरुद्धहेत्वाभासेऽतिव्याप्तिवारणाय हेत्वन्तरमिति पदं लक्षणे प्रयुक्तम्।
अत्र संशयनिराशाय प्रतिपक्षहेतुद्वयं सन्निवेश्यते। तद्यथा शब्दो नित्योऽनित्यो वेति संशये समुत्पन्ने समाधानद्वयं प्रतिपाद्यते - १. शब्दो नित्यः अनित्यधर्मानुपलब्धेः।
२. शब्दऽनित्यो नित्यधर्मानुपलब्धेः। इत्येवम्।
तद्यथा - “शब्दो नित्यः श्रावणत्वाच्छब्दवत्” इति, “शब्दऽनित्यः कार्यत्वाद्घटवत्” चेति तर्कसंग्रहे उदाहृतम्। उभावपि व्याप्तिज्ञानप्रतिबन्धाविति तयोर्हेत्वभासत्वम्।
घ) साध्यसमहेत्वाभासः - “साध्यविशिष्टः साध्यत्वात्साध्यसमः” इति तल्लक्षणं न्यायदर्शने निगदितम्। अयमेवासिद्धहेत्वाभ्यास इत्युच्यते। साध्यो धर्मः साधनत्वेन यत्र प्रतीयते तत्र साध्यसमहेत्वाभासः इत्युच्यते। सस्त्रिविधः - आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्चेति। तेषामालोचनमधस्तान्निरूप्यते -
i) आश्रयासिद्धः - आश्रयासिद्धिर्नाम पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिः। ”गगनारविन्दं सुरभि, अरविन्दत्वात्, सरोजारविन्दवदि”त्याद्यत्रोदारहरणम्। अत्र गगनारविन्द आश्रयः। स च नास्त्येव इति अरविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्वविशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धफलमिति तस्य आश्रयासिद्धरूपहेत्वाभासत्वम्।
ii) स्वरूपासिद्धः - स्वरूपासिद्धिर्नाम पक्षे हेत्वाभावः। ” शब्दऽनित्यश्चाक्षुषत्वात्, रूपवदि”त्यद्यत्रोदाहरणम्। चाक्षुषत्वं वस्तुतः शब्दे नास्त्येव, शब्दस्य श्रावणत्वात्। एवं हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शानपपत्त्या परामर्शः प्रतिबन्धः फलम्।
iii) व्याप्यत्वासिद्धः - सोपाधिको हेतुर्व्याप्यत्वासिद्धः। को नाम उपाधिरित्यत्रोचोयते - साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः। साध्यसमानाधिकरयणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। उदाहरणमुखेनोच्यते - पर्वतो धूमवान् वह्निमत्त्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः। तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति, यथा अयोगोलोके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम्। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्।
एवम्प्रकारेण प्रकृतानुमानहेतुभूते अत्र पक्षीभूते वह्नौ साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम्। तथा च धूमाभाववद्वृत्तित्वरूपधूमव्यभिचारे गृहीते, वह्नौ धूमाभाववदवृत्तित्वरूपव्यप्तिज्ञानप्रतिबन्धः फलम्।
ङ) कालातीतहेत्वाभासः - “कालात्ययापदिष्टः कालातीत” इति न्यादर्शनसूत्रम्। साध्यसिध्यवसरे हेतुः यत्र अक्षमो भवति स कालातीतहेत्वाभासः। एनमेव तर्कसंग्रहकार बाधितत्वेन निर्दिष्टः। यस्य साधाभावः प्रमाणान्तरेण पक्षे निश्चितः स बाधित इति अन्नंभट्टभणितिः।तत्रोदाहरणरूपेणोच्यते - वह्निरनुष्णो द्रव्यत्वाद् इति। अत्रोदारणे अनुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम्।
अत्र हि प्रात्यक्षिकसाध्यबाधितनिश्चये जाते साध्यानुमिति प्रतिबन्धः फलम्। भाधितसाध्यकत्वाद्बाधितहेतुरित्युच्यत इति हेत्वभासविमर्शः।

No comments:

Post a Comment