ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

21 June 2012

प्रमाणविमर्शः


  गौतमप्रणीते न्यायसूत्रे 
"प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास - छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः" इति षोडश पदार्थाः उल्लिखिताः। तेषु पमाणस्य गुरुत्वाधिक्यात्तस्यादावुल्लेखः।
प्रपूर्वकात् माधातोः ल्युटि प्रमाणशब्दसिद्धिः। अत्र ल्युटः कारणव्यापारद्वारा असाधारणं कारणम् इत्यर्थः। माधातुर्हि ज्ञानवाची। प्रपूर्वकमाधातोर्यथार्थज्ञानमर्थः। यथार्थज्ञानमेवोपलब्धिः। एवं प्रमाणशब्दस्य व्युत्पत्तिगतोऽर्थो हि - उपलब्धिसाधनप्रमायाः कारणमिति। तथाहि उच्यते भाष्यकारेण - “उपलब्धिसाधनानि प्रमाणानीति, समाख्यानिर्वचनसामर्थ्यात् बोद्धव्यम्। प्रमीयतेऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः” इति।
"लक्षणप्रमाणाभ्यां वस्तुसिद्धिः" इति तावत्प्रमाणस्य लक्षणमुच्यते - “प्रमाकरणं प्रमाणमि”ति। अत्र हि प्रमाणं लक्ष्यं, प्रमाकरणञ्च लक्षणम्। यत्र यत्र कारणत्वं तत्र तत्र फलवत्त्वमिति इत्येषा व्याप्तिरूपा साधारणा नीतिः। तर्हि प्रमाकरणं प्रमाणञ्चेत्किं तस्य फलमिति प्रश्नोऽयं नितरां समुत्तिष्ठति। समाधानमुखेनेहोच्यते - यथा छिदाकरणस्य परशोश्छिदेव फलं, तद्वदेव प्रमाकरणस्य प्रमाणमेव फलम्। प्रमा च भवति यथार्थानुभवरूपा।
प्रमाणभेदाः - प्रमाणस्य भेदविषये विविधैर्विदग्धैर्विविधमतानि समुत्थापितानि। यथा निगदितं सांख्यकारिकायां -
"दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात्।
त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि।।" इति।
योगशास्त्राधारेण प्रमाणं त्रिविधं भवति। यथा - "प्रत्यक्षानुमानागमाः प्रमाणानि" (यो०सू० १/७) इति। मनुस्मृतौ पुनः प्रमाणानि त्रिविधानि प्रोक्तानि -
"प्रत्यक्षमनुमानञ्च शास्त्रञ्च विविधागमम्।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभिप्सता।।”(म.स्मृ : - १२/१०५) इति।
पुनश्चोच्यते प्रमाणसंख्याविषये -
"चार्वाकास्तावदेकं द्वितयमपि पुनर्बौद्धवैशेषिकौ द्वौ।
भासर्वज्ञश्च सांख्यस्त्रितयमुदयनाद्याश्चतुष्कं वदन्ति।।
प्राहुः प्राभाकराः पञ्चकमपि च वयं तेऽपि वेदान्तविज्ञाः।
षट्कं पौराणिकास्त्वष्टकमभिदधिरे सम्भवैतिह्ययोगात्।।" इति।
एवं प्रकारेण प्रमाणेन प्रमेयस्य सिद्धित्वात्तस्य ज्ञानस्यावश्यकतामनुभूय सर्वत्र दर्शनेषु प्रमाणवर्णनमुपवभ्यते। न्यायशास्त्रेषु प्रमाणचतुष्टयमेवालोच्यते। तेषां स्वरूपाण्यधस्ताद्विचार्यन्ते -
क) प्रत्यक्षप्रमाणम् - "प्रत्यक्षज्ञानाकरणं प्रत्यक्षमि"ति प्रत्यक्षसामान्यलक्षणम्। प्रत्यक्षज्ञानस्य कारणमेव प्रत्यक्षप्रमाणमित्युच्यते। इन्द्रियपदार्थयोर्मध्ये यदा सम्बन्धः स्थापितो भवति तदा वस्तुज्ञानं सम्भवति। तदेव ज्ञानं प्रत्यक्षप्रमाणमित्युच्यते ।
प्रत्यक्षज्ञानभेदाः - एतज्ज्ञानं द्विविधं भवति। यथा -
१.निर्विकल्पम् - यत्र विशेषणस्यावगाहनं न भवति तन्निर्विकल्पकं प्रत्यक्षज्ञानमित्युच्यते। तथाहि तल्लक्षणमुदिरीतं तर्कसंग्रहे - “निष्प्रकारकं ज्ञानं निर्विकल्पमि”ति। अर्थात् नामजात्यादीनां योजनं विना यज्ज्ञानं भवति तन्निर्विकल्पकं ज्ञानमित्युत्यते। उदाहरणं यथा - इदं किञ्चित् इति। अत्र दूरात् दृश्यमानं वस्तु जात्यादिरहितं भवति। ततः पूर्वं सन्देहात्मकमिदं किञ्चित् इति ज्ञानं निर्विकल्पकम्प्रत्यक्षं भवति।
२.सविकल्पकम् - सप्रकारकं ज्ञानं हि सविकल्पकम्। विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपणकत्वेन प्रकारतानिरूपकज्ञानस्य विषयतानिरूपकत्वेन प्रकारताज्ञानत्वं सविकल्पस्योदाहरणम्। जात्यादिज्ञानमेव सविकल्पकमिति सामान्यार्थः। यथा डित्थोऽयं, ब्राह्मणोऽयमित्यादिज्ञानमेव सविकल्पकस्य प्रत्यक्षज्ञानस्योदारणम्। इदन्त्वावच्छिन्नविशेष्यतानिरूपितडित्थत्वप्रकारताशालिज्ञानम्, इदन्त्वावच्छिन्नविशेष्यतानिरूपितब्राह्मणत्वप्रकारताशालिज्ञानञ्च सविकल्पकमित्यर्थः।
"इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्" इति प्रत्यक्षस्यापरं लक्षणं तर्कसंग्रहे निगदितम्। अतः प्रत्यक्षज्ञाने हेतुः भवति इन्दियार्थसन्निकर्षः। चाक्षुषादिषड्विधान्प्रत्यक्षीज्ञानकरणीभूतान् षड्विधान्सन्निकर्षान्विभजते -
१. संयोगः - द्रव्यवृत्तिलोकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्म्प्रति चक्षुःसंयोगः कारण्। तथाहि चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। द्रव्यप्रत्यक्षे सर्वत्र संयोगसन्निकर्ष एव। आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततःप्रत्यक्षज्ञानमुत्पद्यते।
२. संयुक्तसमवायः - द्रव्यसमवेतवृत्तिलोकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्प्रति चक्षुःसंयुक्तसमवायस्य हेतुत्वम्। तथाहि घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपस्य समवायात्। तथा च द्रव्यसमवेतचाक्षुषत्वाचमानसरासनघ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इति।
३. संयुक्तसमवेतसमवायः - द्रव्यसमवेतसमवेतवृत्तिलोकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्प्रति चक्षुःसंयुक्तसमवेतसमवायस्य हेतुत्वम्। तथाहि रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपं समवेतम्, तत्र रूपत्वस्य समवायात्। तथा च द्रव्यसमवेतसमवेतचाक्षुषसासनघ्राणजस्पार्शनमानसेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः।
४. समवायः - श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः। कर्णविवरवर्त्याकाशस्य हि श्रोत्रत्वं प्रथितम्। "शब्दगुणकमाकाशम्” इति च शब्दस्याकाशगुणत्वम्। एवं गुणगुणिनोः समवायात् शब्दसाक्षात्कारे समवायः सन्निकर्षः।
५. समवेतसमवायः - शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः। शोत्रसमवेते शब्दे शब्दत्वस्य समवायात्।
६. विशेषणविशेष्यभावः - अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः। द्रव्यत्वाधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता, द्रव्यत्वसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता। तथा च विशेषणभावसंन्निकर्षस्योदाहरणं दर्शयति तर्कसंग्रहकारः “घटाभाववद्भूतलम्” इति। भूतलं विशेष्यम्। घटाभावो विशेषणम्। एतेनानुपलब्धेः प्रमाणान्तरं निरस्तम्।
एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्। इति प्रत्यक्षप्रमाणविमर्शः।

ख) अनुमानप्रमाणम् - अनुमितिकरणमनुमानमित्यनुमानलक्षणं तर्कसंग्रहे। अनुमानं नाम व्याप्तिज्ञानम्। अत अनुमितौ व्याप्तिज्ञानं करणम्। परामर्शः व्यापारः। अनुमितिः फलम्। परामर्शस्य व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्यानुमितिजनकत्वात्तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम्। अतः परामर्शजन्यं ज्ञानमनुमितिः। परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्षणमिति निष्कर्षः। अधुना ज्ञातव्यं को नाम परामर्शः? परामर्शलक्षणविषय उच्यते - “व्याप्तिविशिष्ट - पक्षधर्मताज्ञानम्परामर्शः” इति। पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता तन्निरूपिता या व्याप्तिनिष्ठा प्रकारता तच्छालि ज्ञानं परामर्श इति निष्कर्षः। अधुना ज्ञतव्या का नाम व्याप्तिः? तथाहि उच्यते व्याप्तिलक्षणं तर्कसंग्रहे - “यत्र यत्र धुमस्तत्र तत्राग्निरिति सारचर्यनियमो व्याप्तिरि”ति। यत्र यत्र इति पदवीप्सावशाद्धूमाधिकरणे यावति वह्निमत्त्वलाभाद्यावत्पदमहिम्ना वह्नेर्धूमव्यापकत्वं लब्धम्। तदेव सम्यक्तया स्फुटीयते - साहचर्यनियमो व्याप्तिरिति। साहचर्यं नाम सामानाधिकरण्यम्। तथा च धूमनिष्ठवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः। अत्र च वह्नेर्धूमव्यापकत्वं नाम - धूमसामानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता। धूमादेः पर्वतादितवृत्तित्वं पक्षधर्मता इति सामान्यार्थः।

अनुमानभेदाः - अनुमानं द्विविधं स्वार्थं परार्थञ्चेति।

 स्वार्थं सानुमानहेतुः। तथा हि स्वयमेव भूयो दर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः। तत्र चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति, यत्र यत्र धूमस्तत्र तत्राग्निरिति। तदनन्तरं "वह्निव्याप्यधूमवानयं पर्वतः" इति ज्ञानमुत्पद्यते। एषो हि लिङ्गपरामर्शः। ततश्च पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते। तदेव स्वार्थानुमानम्।
यस्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते, तत्परार्थानुमानम्। के नाम पञ्चायवयवाः इत्यत्र निगदितम् - "प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः"इति। तद्यथा -
१. पर्वतो वह्निमान् इति प्रतिज्ञा।
२. धूमवत्त्वात् इति हेतुः।
३. यो यो धूमवान् स स वह्निमान्, यथा महानसम् इत्युदारणम्।
४. तथा चायम् इत्युपनयः।
५. तस्मात्तथा इति निगमनम्।
अनेन प्रतिपादितात् लिङ्गात्परोऽप्यग्निम्प्रतिपद्यत इति परार्थानुमानम्। स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव कारणम्, तस्माल्लिङ्गपरामर्शोऽनुमानम्। लिङ्गञ्च पुनस्त्रिविधम् अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति। एतेषां स्वरूपाण्यधस्तादालोच्यन्ते -
१. अन्वयव्यतिरेकि - अन्वयेन व्यातिरेकेण च व्याप्तिमदन्वयव्यतिरेकि इति तल्लक्षणम्। अन्वयो नाम व्यापकसामानाधिकरण्यरूपव्याप्तिमानिति। यथा वह्नौ साध्ये धूमवत्त्वम्। व्यातिरेको नामाभावः। तथा च साध्याभावगेत्वभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः। सा च व्याप्तिः - यत्र यत्र धूमाभावस्तत्र तत्र वह्न्यभाव इत्येवंरूपा।
२. केवलान्वयि - अन्वयमात्रव्याप्तिकं केवलान्वयि। व्यतिरेकव्याप्तिशून्यतेवे सति अन्वयव्याप्तिमत्त्वं केवलान्वयित्वम् इति निष्कर्षः। “घटोऽभिधेयः प्रमेयत्वात्, पटवत्” इत्याद्यत्रोदारणम्। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। एकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्यनैयायिकानां मतम्।
३. केवलव्यतिरेकि - व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। निश्चतान्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वमिति निष्कर्षः। ”पृथिवी इतरेभ्यो भिद्यते, गन्धवत्त्वात्” इत्युदारणम्। यदितरेभ्यो न भिद्यते न तत् गन्धवत्, यथा जलं, न चायं तथा, तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात्।
उपर्युक्ता एते भवन्ति अनुमानप्रमाणस्य सद्धेतवः। एते हेतवः व्याप्तिज्ञाने भवन्ति सहायीभूताः। ततश्च अनुमानमुत्पद्यते। तच्चानुमानं भवति अनुमितिकारणमित्यनुमानप्रमाणविमर्शः।

ग) शब्दप्रमाणम् - आप्तवाक्यं शब्दः। आप्तोच्चारितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। अत्र लक्षणे वाक्यत्वमात्रोक्तौ अनाप्तोच्चारिते वाक्येऽतिव्याप्तिः, तद्वारणायाप्तत्वमिति। तावन्मात्रोक्तौ च जबगडदशादावाप्तोच्चारिते वाक्येऽतिव्याप्तिः, तद्वारणाय वाक्यत्वमिति। किन्नामाप्तत्वमित्यत्रोच्यते - प्रयोगज्ञानयथार्थज्ञानवत्त्वमाप्तत्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसितोऽर्थः। आप्तलक्षणमन्यत्र प्रतिपादितमेवं -
आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः।
क्षीणदोषोऽनृतं वाक्यं न ब्रुयाद्धेत्वसम्भवात्।।
स्वकर्मण्यभियुक्तो यः सङ्गदोषववर्जितः।
पूजितस्तद्विधैर्नित्यमाप्तो ज्ञेयः स तादृशः।। इति।
वस्तुतस्तु पदज्ञानं करणम्।वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधवषयत्वप्रकारक ईश्वरसंकेतः। ईश्वरसंकेतो नाम ईश्वरेच्छा। सा हीच्छा शक्तिरित्यर्थः। शक्तिनिरूपकत्मेव पदे शक्तत्वम्। विषयतासम्बन्धेन शक्त्याश्रयत्वं शक्यत्वम्, श्क्यसम्बन्धो हि लक्षणा। सा च लक्षणा द्विविधा -
१. गौणी - सादृश्यविशिष्टलक्षणा गौणीति। तत्र चोदाहरणं - सिंहो माणवक इति। अत्र सिंहपदस्य सादृश्यविशिष्टे लक्षणा।
२. शुद्धा - सा हि त्रिविधा; जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति।
लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा गङ्गायां घोषः। अत्र गङ्गापदवाच्यप्रवाहसम्बन्धस्य तीरे सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाज्ञानाद्गङ्गापदात्तीरोपस्थितिः।
लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयविधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा काकेभ्यो दधि रक्ष्यताम्। अत्र काकपदस्य दध्युपघातके तादृशलक्षणा, लक्ष्यतावच्छेदकं दध्युपघातकत्वम्, तेन रूपेण दध्युपघातकानां सर्वेषां काकबिडालकुक्कुटसारमेयादीनां शक्यलक्षणां बोधात्।
जहदजहल्लक्षणा च जीवब्रह्मणोरैक्यं ब्रुवतां वेदान्तिनां मते सा शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रवोधप्रयोजिका, यथा तत्त्वमसीति। अत्र सर्वज्ञत्वकिञ्चिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात् जहदजहल्लक्षणा।
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः। एतेषां सम्मिलिततया हेतुत्वमित्यर्थः।
पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा। अव्यवहितोत्तरत्वादिस्म्बन्धेन यत्पदे यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधाभावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्तवमाकांङ्क्षा। यथा घटमित्युक्ते घटीयं कर्म इति शाब्दबोधो जायते । परन्तु "अम् घट" इति विपरीतोच्चारणे तादृशशाब्दबोधो न जायते। अतस्तादृशाकांङ्क्षाज्ञानं शाब्दबोधे कारणम्। तथा च आकाङ्क्षाविरहितं वाक्यं न प्रमाणम्। यथा - "गौरश्वः पुरुषो हस्ती"ति न प्रमाणम्, आकाङ्क्षाविरहात्।
अर्थाबाधो योग्यता। बाधाभावो योग्यता इत्यर्थः। वह्निना सिञ्चतीत्यत्रोदाहरणम्। सेककरणत्वस्य जलादिधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः।
पदानामविलम्बोनोच्चारणं सन्निधिः। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणम्, सन्निध्याभावात्।
वाक्यं द्विविधम् । वैदिकं लौकिकञ्च। वैदिकमीश्वरोक्तत्वात् सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्, अन्यदप्रमाणम्। वाक्यार्थज्ञानं शाब्दज्ञानम्, तत्करणं शब्दः। इति शब्दप्रमाणविमर्शः।

घ) उपमानप्रमाणम् - उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमनुमितिः, तत्करणं सादृशज्ञानम्।अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः। तथाहि कश्चिद्गवयशब्दवाच्यपदार्थमजानन् कुतश्चिदारण्यकपुरुषात् - “गोसदृशो गवय” इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति, तदनन्तरम् - "अयं गवयशब्दवाच्य" इत्युपमितिरुत्पद्यते। गोसदृशो गवयशब्दवाच्य इत्याकारकवाक्याद्गोसादृश्यावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारक यज्ज्ञानं जायते तदेव करणम् इति शम्। इत्युपमानप्रमाणविमर्शः।

No comments:

Post a Comment