ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

21 June 2012

द्रव्यविमर्शः




नैयायिकनिकाये सप्तपदार्थाः प्रथिताः। न्यायवैशारदेनान्नंभट्टेन स्वकीये तर्कसंग्रहे मङ्गलाचरणे - ”क्रियते तर्कसंग्रहः” इति तर्कपदेन सप्तपदार्थाः एव गृहीताः। तथा च भाषापरिच्छेदकारस्य भणितिः -
“द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्।
समवायस्तथाभावः पदार्थाः सप्त कीर्तिताः।।”इति।
एवं पदार्थेष्वन्यतमत्वं भजते द्रव्यमिति। द्रव्यलक्षणं हि गुणवत्त्वं क्रियावत्त्वं समवायिकारणत्वं वेति काश्यपा व्योमशिवाचार्याश्च। द्रव्यमात्रे गुणं तिष्ठत्येव। यत्र यत्र द्रव्यत्वं तत्र तत्र गुणवत्त्वमिति भावः। यथा पृथिव्यादिद्रव्येषु गन्धादीनां गुणानां नित्यसम्बन्धः। तर्कभाषाकारादीनां नये द्रव्यं हि गुणाश्रय इति। यत्समवायसम्बन्धेन गुणाश्रयस्तदेव द्रव्यमिति निष्कर्षः।
एवमेव क्रियावत्त्वमपि द्रव्येषु नूनं परिदृश्यते। किञ्च क्रियाश्रयत्वं द्रव्येष्वेव दृश्यते नान्यत्र। नवद्रव्येष्वेव तत्सत्त्वात् क्रियावत्त्वमिति द्रव्यलक्षणं सुष्ठु संगच्छते।
पुनः समवायिकारणत्वं द्रव्यस्य लक्षणं प्राचीनाचार्यैर्विहितम्। तथाहि तर्कभाषाकाराणां न्यायवैशारदां केशवमिश्रपादानां मतं हि - “तत्र समवायिकारणे द्रव्यं, गुणाश्रयो वा” इति। कणादसम्मतं च द्रव्यलक्षणं हि - “क्रियागुणवत्समवायिकारणम्” इति। कस्यापि कार्यस्य यत्समवायिकारणं तद्द्रव्यम्। तत्र समवायिपदं परित्यज्य केवलं कारणं द्रव्यमिति लक्षणं क्रियते चेत्तदा कर्मादावतिव्याप्तिः स्यात्। कर्म भवति कार्यम् (उत्पन्नं) प्रति असमवायिकारणं तथा निमित्तकारणम्। किञ्च समवायि द्रव्यमिति लक्षणं क्रियते चेद्गुणादिष्वतिव्याप्तिः। तेषु जातेः समवायित्वात्।
किञ्च, द्रव्यत्वं द्रव्यलक्षणमिति प्रशस्तपादाचार्याणां किरणावलीकारादीनाञ्च मतम्। लक्षणशब्देनेतरभेदबोधको लक्षस्य चासाधारणो धर्मो ज्ञाप्यते। अतो द्रव्यत्वं द्रव्यलक्षणं कृतञ्चेन्नवद्रव्येषु द्रव्यत्वसिद्धिरावश्यिकी। अन्यथेतरभेदप्रदर्शनं कथमपि न सम्भवेत्। परन्तु नवद्रव्येषु द्रव्यत्वं न प्रत्यक्षगोचरम्। कारणं द्रव्यत्वाश्रयविशिष्टं द्रव्यं न सर्वथा प्रत्यक्षगोचरं, न चानुगताकारविशिष्टम्। जातिप्रत्यक्षे तयोः गुरुत्वमनस्वीकार्यम्। अधुना प्रश्नोऽयं नितरां समुत्तिष्ठति यत् - “ननु द्रव्यत्वजातिसिद्धौ किं मानम्?” इति।
तदुत्तरमुच्यते - द्रव्यगतसमवायिकारणतायाः योऽवच्छेदको धर्मस्तद्धि द्रव्यत्वम्। यद्यपि न तत्सर्वद्रव्येषु प्रत्यक्षगोचरा तथापि - “द्रव्यनिष्ठा समवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत् ” इत्यनुमानप्रमाणेन सिध्यति। परन्त्वत्र दृश्यते हि विप्रतिपत्तिः, प्रध्वंसरूपे कार्ये द्रव्याणां समवायिकारणतात्वाभावात्। अतो हि कार्यस्य समवायिकारणताया अवच्छेदकरूपेण द्रव्यत्वजातिसिद्धिर्न भवति। तस्माद्द्रव्यत्वजातिसिद्धौ प्रकारान्तरमाश्रणीयम्। तथाह्युच्यते - “द्रव्यनिष्ठा संयोगसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत्” इति। परन्त्वत्रापि विप्रतिपत्तिर्दृश्यते। आकाशादीनां विभुद्रव्याणां नित्यसंयोगात् संयोगत्वसत्त्वेऽपि तस्य कार्यत्वं नास्ति। कार्यतात्वाभावात्तस्य कारणतात्वमपि नास्ति। अतो "द्रव्यनिष्ठा संयोगसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्" इत्यनुमानेन द्रव्यत्वसिद्धिर्न भवति। एवं प्रकारान्तरमाश्रित्योच्यते “द्रव्यनिष्ठा विभागसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, दण्डनिष्ठघटकारणतावत्” इति। तथाह्युच्यते विश्वनाथाचार्येण - “कार्यसमवायिकारणतावच्छेदकतया संयोगस्य विभागस्य वा समवायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेः” इति।

द्रव्यविभागाः - द्रव्यभेदविषये भाषापरिच्छेदे उच्यते - “क्षित्यप्तेजोमरुद्व्योमकाला दिग्देहिनौ मनः द्रव्याणि” इति। क्षितिः पृथिवी, आपो जलानि, व्योम आकाशः, कालः समयः, दिक् आशा, देही आत्मा, मनः एतानि नवद्रव्याणीत्यर्थः। तर्कसंग्रहकृताप्यनुरूपमेवोच्यते - “तत्र द्रव्याणि पृथिव्यप्तोजोवाय्वाकाशकालदिगात्ममनांसि नवैव” इति। नन्वत्र स्वत एव नवद्रव्यत्वसिद्धौ पुनः “नवैव” इति पदग्रहणं किमर्थमिति चेदत्रोच्यते - द्रव्यत्वं पृथिव्यादिनवान्यतमव्याप्यत्वमिति व्याप्तिलाभाय। तदितिरिक्तं नास्ति इति निश्चयः।
अत्र हि पूर्वपक्षिणामाशंका ननु तमसः दशमद्रव्यस्य सत्त्वात् कथं नवैवेति। वस्तुतस्तु तमसो नाकाशादिपञ्चकेष्वन्तर्भावस्तस्य “नीलं तमः” इति रूपचिन्तनादाकाशादीनां हि रूपत्वाभावात्। न च वायुजलतेजःस्वन्तर्भावः तमसः स्पर्शत्वाभावात्। किञ्च, मन्धत्वाभावान्न पृथिव्यामन्तर्भावः। अत एव पूर्वपक्षिणां नये तमसो दशमद्रव्यत्वमवश्यमेवास्ति। किञ्च, दर्शननिकाये प्रसिद्धेयं भणितिः -
तमः खलु चलं नीलं परापरविभागवत्।
प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति।। इति।
एतेन तमसः क्रियावत्त्वं नीलरूपगुणवत्त्वमप्यापादितम्।
एतादृश्याः शंङ्कायाः निवारणं क्रियते - न हि तमः दशमद्रव्यं, तेजोऽभावरूपवत्त्वात्। वस्तुतस्तु तमसो रूपमेव नास्ति, आलोकासहकृतचक्षुर्ग्राह्यत्वात्, आलोकभाववत्। अत एव तमसो नीलरूपवत्त्वं भ्रम एव।
एवमेव “नीलं तमश्चलती”त्यादिव्यवहारे तमसश्चलनक्रियापि भ्रान्तिरेव। वस्तुतस्तु तमसश्चलनं नास्त्यालोकापसारणात्प्रतिवन्धरूपप्रच्छायस्यापसारणं भवति। तत्र तमो न चलति दीपस्यैवापसारणं भवति, तदनुरूपो हि प्रच्छायः इति विवेकः।
अत्र च पूर्वपक्षिभिः शंकोत्थाप्यते - न हि तमस्तेजोऽभावरूपः। परन्तु तेज एव तमोऽभावरूपः। अत एव नवद्रव्येषु तेजसो ग्रहणमकृत्वा तमस एव ग्रहणमस्त्विति चेदत्रोच्यते - तेजसोऽभावरूपत्वं स्वीकृतं चेत्सर्वैरनुभूयमानस्योष्णस्पर्शस्य पदार्थान्तरचिन्तनं गौरवाय एव स्यात्। अतो हि - “द्रव्याणि पृथिव्यप्तोजोवाय्वाकाशकालदिगात्ममनांसि नवैव“ इति भावः।

नवद्रव्याणां स्वरूपालोचनम् -

 १. पृथिवी - गन्धवती पृथिवी इति पृथिव्या लक्षणं तर्कसंग्रहे निगदितमन्नंभट्टेन। गन्धोऽस्यामस्तीति गन्धवती।
अस्ति - अस्धातोराधेयतार्थः। तिङ्प्रत्ययस्य आश्रयत्वमर्थः। एवञ्च आधेयताश्रयत्वञ्च गन्धे स्वरूपसम्बन्धेन विद्यते।
अस्याम् - इदंशब्दार्थः पृथिवी, सप्तम्या अधिकरणत्वमर्थः। पृथिवी निष्ठत्वसम्बन्धेन अधिकरणतायामन्वेतीत्यर्थः। इयञ्चाधिकरणता गन्धनिष्ठाधेयतानिरूपिका।आधेयताश्रयो गन्धः। एवञ्च पृथिवीनिष्ठाधिकरणतानिरूपिताधेयतावान् गन्ध इति फलितम्। वृत्तिवाक्याद्विपरीतबोध इति नियमात् - गन्धनिष्ठाधेयतानिरूपिताधिकरणतावती पृथिवीति शाब्दबोधात् गन्धनिष्ठाधेयतानिरूपिताधिकरणतावत्त्वं पृथिव्या लक्षणम्। ”पृथिव्यां गन्धोऽस्तीति प्रतीत्या गन्धस्याधेयत्वं पृथिव्या अधिकरणत्वञ्च सिद्धम्। उभयोश्च निरूप्यनिरूपकभावः सम्बन्धः। तेनोक्तं लक्षणं समन्वितं लक्ष्ये।
क) अखण्डकाले सर्वस्य स्थितेः गन्धः कालेऽस्तीति प्रतीत्या उक्तलक्षणं कालमतिव्याप्नोति। तद्वारणाय लक्षणे समवायसम्बन्धावच्छिन्नत्वं योज्यते। इतञ्च आधेयतायां विशेषणतयान्वेति। अत्र - ”येन सम्बन्धेन यदस्तीत्युच्यते तन्निष्ठाधेयता तत्सम्बन्धावच्छिन्ने”ति नियमेन द्रव्यगुणयोः समवायात् गन्धः पृथिव्यां समवायसम्बन्धेनास्तीति कृत्वा ”समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावत्त्वं” पृथिव्या लक्षणमिति फलितम्। काले च गन्धः कालिकसम्बन्धानास्तीति नातिव्याप्तिः।
ख) एवमपि गन्धगतगुणत्वधर्ममादाय समवायसम्बन्धावच्छिन्नगुणनिष्ठाधेयतानिरूपिताधिकरणता जलादिष्वस्तीति पुनरतिव्याप्तिः। तद्वारणाय गन्धत्वावच्छिन्नत्वविशेषणमाधेयतायां क्षिप्यते। तेन समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न(गन्धनिष्ठ)-आधेयतानिरूपिताधिकरणतावत्त्वं पृथिव्या लक्षणमिति फलितम्। जलादिषु गुणनिष्ठाधेयता गन्धत्वावच्छिन्ना न भवतीति न दोषः।
ग) एवमपि उत्पन्ननविनष्टघटमुक्तलक्षणं न व्याप्नोति, उत्पन्नविनष्टे घटे गुणस्यानुत्पादात्। तेन च जातिघटितं लक्षणं क्रियते -समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न(गन्धनिष्ठ)-आधेयतानिरूपिताधिकरणतावद्वृत्तिर्या जातिः तद्वत्त्वं पृथिव्या लक्षणमिति। ईदृशी जातिः उत्पन्नविनष्टे घटेऽपि वर्तते इति अव्याप्तिर्वारिता।
घ) एवमपि एतादृशपदार्थवृत्तिर्जातिः सत्ताख्या जातिरपि भवतीति गुणकर्मणोर्लक्षणमतिव्याप्तम्। अतस्तद्वारणायात्र लक्षणे द्रव्यत्वव्याप्यदत्वं जातिविशेषणतया योज्यते।
तेन समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न(गन्धनिष्ठ)-आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वव्याप्या या जातिस्तद्वत्त्वं पृथिव्या लक्षणमिति फलितम्।
व्याप्यत्वञ्च तदभाववद्वृत्तित्वम्। द्रव्यत्वाभाववति गुणे अवृत्तिर्जातिः पृथिवीत्वमिति उक्तातिव्याप्तिर्वारिता।
ङ) अनेन व्याप्यत्वलक्षणनेन द्रव्यत्वमपि द्रव्यत्वव्याप्यमिति द्रव्यत्वमुक्तजातित्वेनाङ्गीकृत्य तद्वत्त्वं जालादिष्वस्तीति जलादिष्वतिव्याप्तिः। अतः व्याप्यत्वलक्षणे परिष्क्रियते।
तदधिकरणवृत्तिभैदप्रतियोगितावच्छेदकत्वं व्याप्यत्वमिति। तेन -
तद्द्रव्यत्वं तस्याधिकरणं जलं तद्वृत्तिः भेदः पृथिवी नेति भेदः, प्रतियोगिनी पृथिवी प्रतियोगितावच्छेदकं पृथिवीत्वमिति द्रव्यत्वव्याप्या पृथिवीत्वजातिरिति नातिव्याप्तिः। एवञ्च द्रव्यत्वाधिकरणं जलं तद्वृत्तिर्भेदः 'द्रव्यं न' इति भेदो नेति द्रव्यत्वं न द्रव्यत्वव्याप्यमिति पूर्वोक्तातिव्याप्तिर्वारिता।
गन्धत्वावच्छिन्नेत्यादि - वृत्तित्वविशेषणेन जलादिभेदः पृथिव्यामिति भेदप्रतियोगितावच्छेदकं जलत्वमङ्गीकृत्य जलेऽतिव्याप्तिरपि वारिता।
समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न(गन्धनिष्ठ)-आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वव्याप्या (द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता)या जातिस्तद्वत्त्वं पृथिव्या लक्षणमिति निष्कर्षः।
पृथिवी द्विविधा नित्या अनित्या च। नित्या भवति परमाणुरूपा, अनित्या च कार्यरूपा। यस्याः अवयवा न विद्यन्ते सा एव परमाणुरूपा। परमाणुलक्षणविषये उच्यते -
जालान्तरे गते भानौ यत् सूक्ष्मं दृश्यते रजः।
तस्य षष्ठस्तु यो भागः परमाणुः स उच्यते।। इति।
अनित्या पृथिवी घटपटादिरूपेण सर्वप्रत्यक्षा अस्ति। सा चावयववती इत्युच्यते। सा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। "शरीरमस्मदादीनाम्, इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति, विषयः मृत्पाषाणादिः" इति तर्कसंग्रहकारः।
२.आपः - "शीतस्पर्शवत्य आप" इति अपां लक्षणं तर्कसंग्रहे। तेज आदिष्वतिव्याप्तिवारणाय शीतेति पदं लक्षणे उपात्तम्। समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्न - आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वव्याप्या (द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता)या जातिस्तद्वत्त्वं अपां लक्षणमिति निष्कर्षः।
आपः अपि द्विविधाः, नित्यानित्यभेदात्। नित्या आपः परमाणुरूपाः। अनित्या कार्यरूपाश्चापः पुनस्त्रिविधाः - शरीरेन्द्रियविषयभेदात्। "शरीरं वरुणलोके, इन्द्रियं रसनं जिह्वाग्रवर्ति,विषयः सरित्समुद्रादिः" इति तर्कसंग्रहकारः।

३. तेजः - “ऊष्णस्पर्शवत्तेजः” इति तेजसो लक्षणं तर्कसंग्रहे। जलादिष्वतिव्याप्तिवारणाय ऊष्णेति पदं लक्षणे उपात्तम्। समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्न - आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वव्याप्या (द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता)या जातिस्तद्वत्त्वं तेजसो लक्षणमिति निष्कर्षः।
तच्च तेजः द्विविधं नित्यमनित्यं च। नित्यं भवति परमाणुरूपम्। अनित्यं च कार्यरूपम्। तच्च कार्यरूपं तेजः पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरं तस्यादित्यलोके प्रसिद्धम्। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयभेदाः अध निरूप्यन्ते।
भौमं - भूमेरिदमिति भौमम्। अतो भौमं तेजो हि वह्न्यादिकम्।
दिव्यं - दिव इदमिति दिव्यम्। दिव्यञ्च तेजो हि विद्युदादिकम्।
उदर्यं - उदरे स्थितमित्युदर्यम्। तच्च हि भुक्तस्य परिणामहेतुः, जठराग्निः।
आकरजं - आकराज्जायत इत्याकरजम्। तच्च हि सुवर्णादिकम्।
४. वायुः - “रूपरहितः स्पर्शवान्वायु”रिति वायोर्लक्षणमुक्तं तर्कसंग्रहे।
रूपेण रहित इति रूपरहितः। रहधातोरभावोऽर्थः। क्तप्रत्ययस्याश्रयोऽर्थः। एवम् अभावाश्रय इति फलितार्थः।
रूपेण इति तृतीयायाः प्रतियोगित्वमर्थः। एवञ्च रूपनिष्ठप्रतियोगिताकाभावाश्रयोऽर्थः।
एतावता -“रूपनिष्ठप्रतियोगिताकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्न(स्पर्शनिष्ठ)आधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता या जातिः तद्वृत्तित्वं वायोर्लक्षणम्” इति सम्पन्नम्।
एवमपि पृथिव्यादावतिव्याप्तिः। ”संयोगेन पृथिव्यां रूपं नास्ति” इति प्रतीत्या रूपनिष्ठप्रतियोगिताकाभावाश्रयत्वं तत्राप्यस्ति। तद्वारणाय लक्षणे समवायसम्बन्धावच्छिन्नत्वं निवेश्यते। तच्च प्रतियोगितायां विशेषणतयान्वेति।
समवायसम्बन्धेन रूपं वोयौ नास्ति। तेन ”समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगिताकाभावाश्रयत्वमि”ति आगतम्। ”पृथिव्यां समवायसम्बन्धेन रूपं नास्ती”ति प्रतीत्याभावादुक्तलक्षणं पृथिव्यां नान्वेति इति नातिव्याप्तिः।
एवमपि ”पृथिव्यां रूपघटोभयं समवायसम्बन्धेन नास्ती”ति प्रतीत्या पुनरपि पृथिव्यामतिव्याप्तिः। तद्वारणाय लक्षणे रूपत्वावच्छिन्नत्वं निवेशनीयम्। तच्च विशेषणतया प्रतियोगितायामन्वेति। एतावता समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्न(रूपनिष्ठ)प्रतियोगिताकाभावाश्रयत्वमिति सम्पन्नम् । पृथिव्यां रूपघटोभयत्वावच्छिन्नप्रतियोगिताकाभावोऽस्तीत्यतिव्याप्तिर्वारिता।
एतावन्मात्रोक्तौ आकाशादिष्वतिव्याप्तिरित्यग्रिमदलम्। किञ्च स्पर्शवान् इति तन्मात्रोक्ते पृथिव्यादित्रिकेऽतिव्याप्तिस्तत्रापि स्पर्शस्य सत्त्वात्, तद्वारणाय रूपरहितत्वविशेषणम्।
वायुर्द्विविधः नित्यानित्यभेदात्। नित्यः परमाणुरूपोऽनित्यः कार्यरूपः। स पुनस्त्रिविधः - शरीरेन्द्रियविषयभेदात्। "शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः।" शरीरान्तःसञ्चारिवायुः यद्यप्येकस्तथापि प्राणादयो संज्ञां लभन्ते। तेषाञ्च स्वरूपाणि अध आलोच्यन्ते -
प्राणक्रियायाः कारणस्वरूपो हृदि स्थितो नासिकातः सञ्चारिवायुः प्राणवायुरित्युच्यते।
उपनयनक्रियायाः(मलनिष्कासनक्रियायाः) कारणस्वरूपो गुदप्रदेशे स्थितो वायुः अपानवायुरित्युच्यते।
रसादीनां समानरूपेण नयनक्रियायाः कारणस्वरूपो नाभिप्रदेशे स्थितो वायुः समानवायुरित्युच्यते।
उन्नयनक्रियायाः (ऊर्ध्वप्रेरणायाः) कारणस्वरूपः कण्ठस्थितो वायुः उदानवायुरित्युच्यते।
विविधरूपैः नयनक्रियायाः प्रेरणायाः कारणस्वरूपः समस्तशरीरे विद्यमानो वायुः व्यान इत्युच्यत इति प्राणादयः पञ्च।

५. आकाशम् - “शब्दगुणकमाकाशम्” इत्याकाशस्य लक्षणं तर्कसंग्रहे। शब्दो गुणो यस्मिंस्तच्छब्दगुणकम्।समवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दाभिन्नगुणनिष्ठाधेयतानिरूपिताधिकरणतावत्त्वमाकाशत्वमिति निष्कर्षः।आकाशस्य विशेषगुणो हि शब्द इति द्योतनाय लक्षणे गुणपदमुपन्यस्तम्। ननु के नाम विशेषगुणा इति चेदुच्यते -
रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः।
बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिका गुणाः।। इति।
आकाशस्यानेकत्वे मानाभावात् तदेकमेव । सर्वमूर्तद्रव्यसंयोगित्वात्तस्य विभुत्वम्। तथाह्युच्यते तत्स्वरूपविषये तर्कसंग्रहे - “तच्चैकं विभु नित्यञ्चे”ति।

६. कालः - “अतीतादिव्यवहारहेतुः कालः ” इति कालस्य लक्षणमन्नंभट्टेन निगदितम्।
अतीतादेर्व्यवहारः, तस्य हेतुरित्यतीतादिव्यवहारहेतुः। षष्ठ्यर्थो विषयत्वम्। प्रकृत्यर्थस्य प्रत्ययार्थे निष्ठत्वसम्बन्धेनान्वयः। अतीतादिनिष्ठविषयतेत्यर्थः।
व्यवहारः शब्दप्रयोगः। विषयतायाः शब्दप्रयोगे निरूपकत्वसम्बन्धेनान्वयः। अतीतादिनिष्ठविषयतानिरूपकशब्दप्रयोग इत्यर्थः। षष्ठर्थः कार्यत्वमर्थः। प्रकृत्यर्थस्य प्रत्ययार्थे निष्ठत्वसम्बन्धेनान्वयः।
अतीतादिनिष्ठनिषयतानिरूपकव्यवहारनिष्ठकार्यताहेतुरसाधारणं कारणम्।अतीतादिनिष्ठनिषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत्त्वं कालस्य निकृष्ट लक्षणम्।
काण्ठताल्वाद्यभिघातस्य शब्दप्रयोगं प्रति असाधारणकारणत्वात्तत्रातिव्याप्तिवारणाय निमित्तत्वविशेषणं कारणतायां निवेशनीयम्।
“स चैको विभुर्नित्यश्चे”ति तर्कसंग्रहकारः।

७. दिग् - “प्राच्यादिव्यवहारहेतुर्दिक्” इति दिशो लक्षणम्। यद्यपि सैका, उपाधिवशात्प्रच्यादिसंज्ञां लभते। ताश्च - i) उदयाचलसन्निहिता या दिक्सा प्राची।
अस्ताचलसन्निहिता या दिक्सा प्रतीची।
मेरोः सन्निहिता या दिक्सा उदीची।
मेरोर्व्यवहिता या दिक्सा अवाची। आकाशवत्सापि नित्या विभ्वी च।

८. आत्मा - “ ज्ञानाधिकरणमात्मा" इत्यात्मनो लक्षणम्। स द्विविधः।
जीवात्मा - व्यष्टिशरीरादिसंघातस्य संचालकः। जीवः प्रत्येकशरीरे भिन्नः, अल्पज्ञः, व्यापको नित्यश्च।
परमात्मा - समस्तविश्वस्य कर्ता सञ्चालकश्च। स चैकः सर्वज्ञश्च।
९. मनः - "सुखाद्युपलब्धिसाधकमिन्द्रियं मन" इति तल्लक्षणम्। उपलब्धिर्नाम साक्षात्कारः। तथाहि - “सुखदुःखसाक्षात्कारकारणत्वे सति इन्द्रियत्वमि”ति मनसो लक्षणम्। तच्च प्रत्यगात्मनियतत्वादनन्तं परमाणुरूपं नित्यञ्चेति नवद्रव्यविमर्शः।

हेत्वाभासविमर्शः


गौतमप्रणीते न्यायसूत्रे "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास - छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः" इत्युल्लेखान्नैयायिकनिकाये षोडश पदार्थाः प्रथिता इति ज्ञायन्ते। तेष्वन्यतमो भवति हेत्वाभासः।
हेतुवदाभासत इति हेत्वाभास इति व्युत्पत्त्या एव ज्ञायते हेत्वाभासो नाम दुष्टो हेतुः। यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यस्य लक्षणम्। हेतौ दोषज्ञाने सति अनुमितिप्रतिबन्धो व्याप्तिज्ञानप्रतिबन्धो वा जायते। अतो वादिनिग्रहाय वादिनोद्भानिते हेतौ दोषोद्भावनार्थं दुष्टहेतुनिरूपणमत्यावश्यकम्। तत्र के तावद्व्याप्तिज्ञानप्रतिबन्धका हेत्वाभासा इत्यत्रोच्यते - “सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासा” इति न्यायदर्शनकर्त्रा। तर्कभाषाकर्तृनये - “ते चासिद्धविरुद्धानैकान्तकप्रकरणसमकालात्ययापदिष्टभैतात्पञ्चैव” इति पञ्च हेत्वाभासाः। यद्यपि नामतो विप्रतिपत्तिर्दृश्यते परन्तु स्वरूपतस्ते समा एव। एतेषामेव संग्रहणमन्नंभट्टैस्तर्कसंग्रहकृद्भिः कृतम् - “सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः” इति।
एतेषां स्वरूपाण्यधस्तात्समासतः समालोच्यते -
क) सव्यभिचारहेत्वाभासः - “अनैकान्तिकः सव्यभिचार” इत्यत्र न्यायसूत्रम्। एकः साध्यमेव अन्तः नियामको नियमस्य व्यप्त्यात्मकस्य निरूपको यस्य सः एकान्तः, स एव ऐकान्तः,(स्वार्थे ठक्) साध्यनिरूपितव्याप्तिमानित्यर्थः।यो हेतुरेकत्र व्यवस्थितो न भवति स सव्यभिचारहेत्वाभास इति सामान्यार्थः। सव्यभिचारहेत्वाभासो हि स्वरूपतस्त्रिविधः। तेषामालोचनमधस्तान्निरूप्यते -
i)साधारणसव्यभिचारहेत्वाभासः - साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः। साध्याभाववति वृत्तिर्यस्य स साधारणोऽनैकान्तिकः। यथा पर्वतो वह्निमान् प्रमेयत्वात् इत्यत्र प्रमेयहेतुः साधारणो भवति, प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात्।
ii)असाधारणसव्यभिचारहेत्वाभासः - सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः। यथा ”शब्दो नित्यः कृतकत्वात्” इति। अत्र शब्दत्वरूपहेतुः सर्वेषु नित्यपदार्थेष्वनित्यपदार्थेषु न विद्यतेऽपि तु शब्दमात्रे विद्यतेऽतो ह्येषोऽषासाधारणो हेत्वाभासः।
iii)अनुपसंहारीसव्यभिचारहेत्वाभासः - अन्वयव्यतिरेकदृष्टान्तरहितो ह्यनुपसंहारी, तस्य व्यप्तिज्ञानप्रतिबन्धकत्वात्। यथा सर्वमनित्यं प्रमेयत्वादित्यत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति।
ख) विरुद्धहेत्वाभासः - साध्याभावव्याप्तो हेतुर्विरुद्धः। सद्धेतावतिव्यप्तिवारणाय साध्याभाव इति। साध्यव्यापकीभूताभावप्रतियोगित्वमर्थः। अतस्तस्य यथार्थव्याप्तिज्ञानप्रतिबन्धकत्वं नूनमस्ति। उदाहरणमुखेनोच्यते - “शब्दो नित्यः कृतकत्वात्” इति। अत्र कृतकत्वं नित्यत्वाभावेनानित्यत्वेन व्याप्तमिति विरुद्धहेत्वाभास इति सारः।
ग) प्रकरणसमहेत्वाभासः - “यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः” इति न्यादर्शनानुसारं तल्लक्षणम्। एनमेव तर्कसंग्रहकारः सत्प्रतिपक्षहेत्वभासत्वेन स्वीकृतवान्। तथाह्याम्नातं तर्कसंग्रहे - ”यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः” इति। यस्य साध्याभावसाधकं साध्याभावस्यानुमापकं हेत्वन्तरं प्रतिपक्षो हेतुः विद्यते स हेतुः सत्प्रतिपक्षः इति सामान्यार्थः। विरुद्धहेत्वाभासेऽतिव्याप्तिवारणाय हेत्वन्तरमिति पदं लक्षणे प्रयुक्तम्।
अत्र संशयनिराशाय प्रतिपक्षहेतुद्वयं सन्निवेश्यते। तद्यथा शब्दो नित्योऽनित्यो वेति संशये समुत्पन्ने समाधानद्वयं प्रतिपाद्यते - १. शब्दो नित्यः अनित्यधर्मानुपलब्धेः।
२. शब्दऽनित्यो नित्यधर्मानुपलब्धेः। इत्येवम्।
तद्यथा - “शब्दो नित्यः श्रावणत्वाच्छब्दवत्” इति, “शब्दऽनित्यः कार्यत्वाद्घटवत्” चेति तर्कसंग्रहे उदाहृतम्। उभावपि व्याप्तिज्ञानप्रतिबन्धाविति तयोर्हेत्वभासत्वम्।
घ) साध्यसमहेत्वाभासः - “साध्यविशिष्टः साध्यत्वात्साध्यसमः” इति तल्लक्षणं न्यायदर्शने निगदितम्। अयमेवासिद्धहेत्वाभ्यास इत्युच्यते। साध्यो धर्मः साधनत्वेन यत्र प्रतीयते तत्र साध्यसमहेत्वाभासः इत्युच्यते। सस्त्रिविधः - आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्चेति। तेषामालोचनमधस्तान्निरूप्यते -
i) आश्रयासिद्धः - आश्रयासिद्धिर्नाम पक्षतावच्छेदकविशिष्टपक्षाप्रसिद्धिः। ”गगनारविन्दं सुरभि, अरविन्दत्वात्, सरोजारविन्दवदि”त्याद्यत्रोदारहरणम्। अत्र गगनारविन्द आश्रयः। स च नास्त्येव इति अरविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्वविशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धफलमिति तस्य आश्रयासिद्धरूपहेत्वाभासत्वम्।
ii) स्वरूपासिद्धः - स्वरूपासिद्धिर्नाम पक्षे हेत्वाभावः। ” शब्दऽनित्यश्चाक्षुषत्वात्, रूपवदि”त्यद्यत्रोदाहरणम्। चाक्षुषत्वं वस्तुतः शब्दे नास्त्येव, शब्दस्य श्रावणत्वात्। एवं हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शानपपत्त्या परामर्शः प्रतिबन्धः फलम्।
iii) व्याप्यत्वासिद्धः - सोपाधिको हेतुर्व्याप्यत्वासिद्धः। को नाम उपाधिरित्यत्रोचोयते - साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः। साध्यसमानाधिकरयणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम्। उदाहरणमुखेनोच्यते - पर्वतो धूमवान् वह्निमत्त्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः। तथाहि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम्। यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति, यथा अयोगोलोके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम्। एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम्।
एवम्प्रकारेण प्रकृतानुमानहेतुभूते अत्र पक्षीभूते वह्नौ साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम्। तथा च धूमाभाववद्वृत्तित्वरूपधूमव्यभिचारे गृहीते, वह्नौ धूमाभाववदवृत्तित्वरूपव्यप्तिज्ञानप्रतिबन्धः फलम्।
ङ) कालातीतहेत्वाभासः - “कालात्ययापदिष्टः कालातीत” इति न्यादर्शनसूत्रम्। साध्यसिध्यवसरे हेतुः यत्र अक्षमो भवति स कालातीतहेत्वाभासः। एनमेव तर्कसंग्रहकार बाधितत्वेन निर्दिष्टः। यस्य साधाभावः प्रमाणान्तरेण पक्षे निश्चितः स बाधित इति अन्नंभट्टभणितिः।तत्रोदाहरणरूपेणोच्यते - वह्निरनुष्णो द्रव्यत्वाद् इति। अत्रोदारणे अनुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम्।
अत्र हि प्रात्यक्षिकसाध्यबाधितनिश्चये जाते साध्यानुमिति प्रतिबन्धः फलम्। भाधितसाध्यकत्वाद्बाधितहेतुरित्युच्यत इति हेत्वभासविमर्शः।

प्रमाणविमर्शः


  गौतमप्रणीते न्यायसूत्रे 
"प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभास - छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः" इति षोडश पदार्थाः उल्लिखिताः। तेषु पमाणस्य गुरुत्वाधिक्यात्तस्यादावुल्लेखः।
प्रपूर्वकात् माधातोः ल्युटि प्रमाणशब्दसिद्धिः। अत्र ल्युटः कारणव्यापारद्वारा असाधारणं कारणम् इत्यर्थः। माधातुर्हि ज्ञानवाची। प्रपूर्वकमाधातोर्यथार्थज्ञानमर्थः। यथार्थज्ञानमेवोपलब्धिः। एवं प्रमाणशब्दस्य व्युत्पत्तिगतोऽर्थो हि - उपलब्धिसाधनप्रमायाः कारणमिति। तथाहि उच्यते भाष्यकारेण - “उपलब्धिसाधनानि प्रमाणानीति, समाख्यानिर्वचनसामर्थ्यात् बोद्धव्यम्। प्रमीयतेऽनेनेति करणार्थाभिधानो हि प्रमाणशब्दः” इति।
"लक्षणप्रमाणाभ्यां वस्तुसिद्धिः" इति तावत्प्रमाणस्य लक्षणमुच्यते - “प्रमाकरणं प्रमाणमि”ति। अत्र हि प्रमाणं लक्ष्यं, प्रमाकरणञ्च लक्षणम्। यत्र यत्र कारणत्वं तत्र तत्र फलवत्त्वमिति इत्येषा व्याप्तिरूपा साधारणा नीतिः। तर्हि प्रमाकरणं प्रमाणञ्चेत्किं तस्य फलमिति प्रश्नोऽयं नितरां समुत्तिष्ठति। समाधानमुखेनेहोच्यते - यथा छिदाकरणस्य परशोश्छिदेव फलं, तद्वदेव प्रमाकरणस्य प्रमाणमेव फलम्। प्रमा च भवति यथार्थानुभवरूपा।
प्रमाणभेदाः - प्रमाणस्य भेदविषये विविधैर्विदग्धैर्विविधमतानि समुत्थापितानि। यथा निगदितं सांख्यकारिकायां -
"दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात्।
त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि।।" इति।
योगशास्त्राधारेण प्रमाणं त्रिविधं भवति। यथा - "प्रत्यक्षानुमानागमाः प्रमाणानि" (यो०सू० १/७) इति। मनुस्मृतौ पुनः प्रमाणानि त्रिविधानि प्रोक्तानि -
"प्रत्यक्षमनुमानञ्च शास्त्रञ्च विविधागमम्।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभिप्सता।।”(म.स्मृ : - १२/१०५) इति।
पुनश्चोच्यते प्रमाणसंख्याविषये -
"चार्वाकास्तावदेकं द्वितयमपि पुनर्बौद्धवैशेषिकौ द्वौ।
भासर्वज्ञश्च सांख्यस्त्रितयमुदयनाद्याश्चतुष्कं वदन्ति।।
प्राहुः प्राभाकराः पञ्चकमपि च वयं तेऽपि वेदान्तविज्ञाः।
षट्कं पौराणिकास्त्वष्टकमभिदधिरे सम्भवैतिह्ययोगात्।।" इति।
एवं प्रकारेण प्रमाणेन प्रमेयस्य सिद्धित्वात्तस्य ज्ञानस्यावश्यकतामनुभूय सर्वत्र दर्शनेषु प्रमाणवर्णनमुपवभ्यते। न्यायशास्त्रेषु प्रमाणचतुष्टयमेवालोच्यते। तेषां स्वरूपाण्यधस्ताद्विचार्यन्ते -
क) प्रत्यक्षप्रमाणम् - "प्रत्यक्षज्ञानाकरणं प्रत्यक्षमि"ति प्रत्यक्षसामान्यलक्षणम्। प्रत्यक्षज्ञानस्य कारणमेव प्रत्यक्षप्रमाणमित्युच्यते। इन्द्रियपदार्थयोर्मध्ये यदा सम्बन्धः स्थापितो भवति तदा वस्तुज्ञानं सम्भवति। तदेव ज्ञानं प्रत्यक्षप्रमाणमित्युच्यते ।
प्रत्यक्षज्ञानभेदाः - एतज्ज्ञानं द्विविधं भवति। यथा -
१.निर्विकल्पम् - यत्र विशेषणस्यावगाहनं न भवति तन्निर्विकल्पकं प्रत्यक्षज्ञानमित्युच्यते। तथाहि तल्लक्षणमुदिरीतं तर्कसंग्रहे - “निष्प्रकारकं ज्ञानं निर्विकल्पमि”ति। अर्थात् नामजात्यादीनां योजनं विना यज्ज्ञानं भवति तन्निर्विकल्पकं ज्ञानमित्युत्यते। उदाहरणं यथा - इदं किञ्चित् इति। अत्र दूरात् दृश्यमानं वस्तु जात्यादिरहितं भवति। ततः पूर्वं सन्देहात्मकमिदं किञ्चित् इति ज्ञानं निर्विकल्पकम्प्रत्यक्षं भवति।
२.सविकल्पकम् - सप्रकारकं ज्ञानं हि सविकल्पकम्। विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपणकत्वेन प्रकारतानिरूपकज्ञानस्य विषयतानिरूपकत्वेन प्रकारताज्ञानत्वं सविकल्पस्योदाहरणम्। जात्यादिज्ञानमेव सविकल्पकमिति सामान्यार्थः। यथा डित्थोऽयं, ब्राह्मणोऽयमित्यादिज्ञानमेव सविकल्पकस्य प्रत्यक्षज्ञानस्योदारणम्। इदन्त्वावच्छिन्नविशेष्यतानिरूपितडित्थत्वप्रकारताशालिज्ञानम्, इदन्त्वावच्छिन्नविशेष्यतानिरूपितब्राह्मणत्वप्रकारताशालिज्ञानञ्च सविकल्पकमित्यर्थः।
"इन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्" इति प्रत्यक्षस्यापरं लक्षणं तर्कसंग्रहे निगदितम्। अतः प्रत्यक्षज्ञाने हेतुः भवति इन्दियार्थसन्निकर्षः। चाक्षुषादिषड्विधान्प्रत्यक्षीज्ञानकरणीभूतान् षड्विधान्सन्निकर्षान्विभजते -
१. संयोगः - द्रव्यवृत्तिलोकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्म्प्रति चक्षुःसंयोगः कारण्। तथाहि चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। द्रव्यप्रत्यक्षे सर्वत्र संयोगसन्निकर्ष एव। आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततःप्रत्यक्षज्ञानमुत्पद्यते।
२. संयुक्तसमवायः - द्रव्यसमवेतवृत्तिलोकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्प्रति चक्षुःसंयुक्तसमवायस्य हेतुत्वम्। तथाहि घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपस्य समवायात्। तथा च द्रव्यसमवेतचाक्षुषत्वाचमानसरासनघ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इति।
३. संयुक्तसमवेतसमवायः - द्रव्यसमवेतसमवेतवृत्तिलोकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्प्रति चक्षुःसंयुक्तसमवेतसमवायस्य हेतुत्वम्। तथाहि रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपं समवेतम्, तत्र रूपत्वस्य समवायात्। तथा च द्रव्यसमवेतसमवेतचाक्षुषसासनघ्राणजस्पार्शनमानसेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः।
४. समवायः - श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः। कर्णविवरवर्त्याकाशस्य हि श्रोत्रत्वं प्रथितम्। "शब्दगुणकमाकाशम्” इति च शब्दस्याकाशगुणत्वम्। एवं गुणगुणिनोः समवायात् शब्दसाक्षात्कारे समवायः सन्निकर्षः।
५. समवेतसमवायः - शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः। शोत्रसमवेते शब्दे शब्दत्वस्य समवायात्।
६. विशेषणविशेष्यभावः - अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः। द्रव्यत्वाधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता, द्रव्यत्वसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता। तथा च विशेषणभावसंन्निकर्षस्योदाहरणं दर्शयति तर्कसंग्रहकारः “घटाभाववद्भूतलम्” इति। भूतलं विशेष्यम्। घटाभावो विशेषणम्। एतेनानुपलब्धेः प्रमाणान्तरं निरस्तम्।
एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्। इति प्रत्यक्षप्रमाणविमर्शः।

ख) अनुमानप्रमाणम् - अनुमितिकरणमनुमानमित्यनुमानलक्षणं तर्कसंग्रहे। अनुमानं नाम व्याप्तिज्ञानम्। अत अनुमितौ व्याप्तिज्ञानं करणम्। परामर्शः व्यापारः। अनुमितिः फलम्। परामर्शस्य व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्यानुमितिजनकत्वात्तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम्। अतः परामर्शजन्यं ज्ञानमनुमितिः। परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्षणमिति निष्कर्षः। अधुना ज्ञातव्यं को नाम परामर्शः? परामर्शलक्षणविषय उच्यते - “व्याप्तिविशिष्ट - पक्षधर्मताज्ञानम्परामर्शः” इति। पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता तन्निरूपिता या व्याप्तिनिष्ठा प्रकारता तच्छालि ज्ञानं परामर्श इति निष्कर्षः। अधुना ज्ञतव्या का नाम व्याप्तिः? तथाहि उच्यते व्याप्तिलक्षणं तर्कसंग्रहे - “यत्र यत्र धुमस्तत्र तत्राग्निरिति सारचर्यनियमो व्याप्तिरि”ति। यत्र यत्र इति पदवीप्सावशाद्धूमाधिकरणे यावति वह्निमत्त्वलाभाद्यावत्पदमहिम्ना वह्नेर्धूमव्यापकत्वं लब्धम्। तदेव सम्यक्तया स्फुटीयते - साहचर्यनियमो व्याप्तिरिति। साहचर्यं नाम सामानाधिकरण्यम्। तथा च धूमनिष्ठवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः। अत्र च वह्नेर्धूमव्यापकत्वं नाम - धूमसामानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्। व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता। धूमादेः पर्वतादितवृत्तित्वं पक्षधर्मता इति सामान्यार्थः।

अनुमानभेदाः - अनुमानं द्विविधं स्वार्थं परार्थञ्चेति।

 स्वार्थं सानुमानहेतुः। तथा हि स्वयमेव भूयो दर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः। तत्र चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति, यत्र यत्र धूमस्तत्र तत्राग्निरिति। तदनन्तरं "वह्निव्याप्यधूमवानयं पर्वतः" इति ज्ञानमुत्पद्यते। एषो हि लिङ्गपरामर्शः। ततश्च पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते। तदेव स्वार्थानुमानम्।
यस्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते, तत्परार्थानुमानम्। के नाम पञ्चायवयवाः इत्यत्र निगदितम् - "प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः"इति। तद्यथा -
१. पर्वतो वह्निमान् इति प्रतिज्ञा।
२. धूमवत्त्वात् इति हेतुः।
३. यो यो धूमवान् स स वह्निमान्, यथा महानसम् इत्युदारणम्।
४. तथा चायम् इत्युपनयः।
५. तस्मात्तथा इति निगमनम्।
अनेन प्रतिपादितात् लिङ्गात्परोऽप्यग्निम्प्रतिपद्यत इति परार्थानुमानम्। स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव कारणम्, तस्माल्लिङ्गपरामर्शोऽनुमानम्। लिङ्गञ्च पुनस्त्रिविधम् अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति। एतेषां स्वरूपाण्यधस्तादालोच्यन्ते -
१. अन्वयव्यतिरेकि - अन्वयेन व्यातिरेकेण च व्याप्तिमदन्वयव्यतिरेकि इति तल्लक्षणम्। अन्वयो नाम व्यापकसामानाधिकरण्यरूपव्याप्तिमानिति। यथा वह्नौ साध्ये धूमवत्त्वम्। व्यातिरेको नामाभावः। तथा च साध्याभावगेत्वभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः। सा च व्याप्तिः - यत्र यत्र धूमाभावस्तत्र तत्र वह्न्यभाव इत्येवंरूपा।
२. केवलान्वयि - अन्वयमात्रव्याप्तिकं केवलान्वयि। व्यतिरेकव्याप्तिशून्यतेवे सति अन्वयव्याप्तिमत्त्वं केवलान्वयित्वम् इति निष्कर्षः। “घटोऽभिधेयः प्रमेयत्वात्, पटवत्” इत्याद्यत्रोदारणम्। अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च। एकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्यनैयायिकानां मतम्।
३. केवलव्यतिरेकि - व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि। निश्चतान्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वमिति निष्कर्षः। ”पृथिवी इतरेभ्यो भिद्यते, गन्धवत्त्वात्” इत्युदारणम्। यदितरेभ्यो न भिद्यते न तत् गन्धवत्, यथा जलं, न चायं तथा, तस्मान्न तथेति। अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात्।
उपर्युक्ता एते भवन्ति अनुमानप्रमाणस्य सद्धेतवः। एते हेतवः व्याप्तिज्ञाने भवन्ति सहायीभूताः। ततश्च अनुमानमुत्पद्यते। तच्चानुमानं भवति अनुमितिकारणमित्यनुमानप्रमाणविमर्शः।

ग) शब्दप्रमाणम् - आप्तवाक्यं शब्दः। आप्तोच्चारितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। अत्र लक्षणे वाक्यत्वमात्रोक्तौ अनाप्तोच्चारिते वाक्येऽतिव्याप्तिः, तद्वारणायाप्तत्वमिति। तावन्मात्रोक्तौ च जबगडदशादावाप्तोच्चारिते वाक्येऽतिव्याप्तिः, तद्वारणाय वाक्यत्वमिति। किन्नामाप्तत्वमित्यत्रोच्यते - प्रयोगज्ञानयथार्थज्ञानवत्त्वमाप्तत्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसितोऽर्थः। आप्तलक्षणमन्यत्र प्रतिपादितमेवं -
आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः।
क्षीणदोषोऽनृतं वाक्यं न ब्रुयाद्धेत्वसम्भवात्।।
स्वकर्मण्यभियुक्तो यः सङ्गदोषववर्जितः।
पूजितस्तद्विधैर्नित्यमाप्तो ज्ञेयः स तादृशः।। इति।
वस्तुतस्तु पदज्ञानं करणम्।वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधवषयत्वप्रकारक ईश्वरसंकेतः। ईश्वरसंकेतो नाम ईश्वरेच्छा। सा हीच्छा शक्तिरित्यर्थः। शक्तिनिरूपकत्मेव पदे शक्तत्वम्। विषयतासम्बन्धेन शक्त्याश्रयत्वं शक्यत्वम्, श्क्यसम्बन्धो हि लक्षणा। सा च लक्षणा द्विविधा -
१. गौणी - सादृश्यविशिष्टलक्षणा गौणीति। तत्र चोदाहरणं - सिंहो माणवक इति। अत्र सिंहपदस्य सादृश्यविशिष्टे लक्षणा।
२. शुद्धा - सा हि त्रिविधा; जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति।
लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा गङ्गायां घोषः। अत्र गङ्गापदवाच्यप्रवाहसम्बन्धस्य तीरे सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाज्ञानाद्गङ्गापदात्तीरोपस्थितिः।
लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयविधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा काकेभ्यो दधि रक्ष्यताम्। अत्र काकपदस्य दध्युपघातके तादृशलक्षणा, लक्ष्यतावच्छेदकं दध्युपघातकत्वम्, तेन रूपेण दध्युपघातकानां सर्वेषां काकबिडालकुक्कुटसारमेयादीनां शक्यलक्षणां बोधात्।
जहदजहल्लक्षणा च जीवब्रह्मणोरैक्यं ब्रुवतां वेदान्तिनां मते सा शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रवोधप्रयोजिका, यथा तत्त्वमसीति। अत्र सर्वज्ञत्वकिञ्चिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात् जहदजहल्लक्षणा।
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः। एतेषां सम्मिलिततया हेतुत्वमित्यर्थः।
पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा। अव्यवहितोत्तरत्वादिस्म्बन्धेन यत्पदे यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधाभावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्तवमाकांङ्क्षा। यथा घटमित्युक्ते घटीयं कर्म इति शाब्दबोधो जायते । परन्तु "अम् घट" इति विपरीतोच्चारणे तादृशशाब्दबोधो न जायते। अतस्तादृशाकांङ्क्षाज्ञानं शाब्दबोधे कारणम्। तथा च आकाङ्क्षाविरहितं वाक्यं न प्रमाणम्। यथा - "गौरश्वः पुरुषो हस्ती"ति न प्रमाणम्, आकाङ्क्षाविरहात्।
अर्थाबाधो योग्यता। बाधाभावो योग्यता इत्यर्थः। वह्निना सिञ्चतीत्यत्रोदाहरणम्। सेककरणत्वस्य जलादिधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः।
पदानामविलम्बोनोच्चारणं सन्निधिः। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणम्, सन्निध्याभावात्।
वाक्यं द्विविधम् । वैदिकं लौकिकञ्च। वैदिकमीश्वरोक्तत्वात् सर्वमेव प्रमाणम्। लौकिकं त्वाप्तोक्तं प्रमाणम्, अन्यदप्रमाणम्। वाक्यार्थज्ञानं शाब्दज्ञानम्, तत्करणं शब्दः। इति शब्दप्रमाणविमर्शः।

घ) उपमानप्रमाणम् - उपमितिकरणमुपमानम्। संज्ञासंज्ञिसम्बन्धज्ञानमनुमितिः, तत्करणं सादृशज्ञानम्।अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः। तथाहि कश्चिद्गवयशब्दवाच्यपदार्थमजानन् कुतश्चिदारण्यकपुरुषात् - “गोसदृशो गवय” इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति, तदनन्तरम् - "अयं गवयशब्दवाच्य" इत्युपमितिरुत्पद्यते। गोसदृशो गवयशब्दवाच्य इत्याकारकवाक्याद्गोसादृश्यावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारक यज्ज्ञानं जायते तदेव करणम् इति शम्। इत्युपमानप्रमाणविमर्शः।

06 June 2012

षडङ्गानि

संस्कृत भाषा विश्वस्य प्राचीनतमा भाषा इति !
लौकिकीवैदिकी चेयं!
लौकिकसंस्कृतस्य विकासः विभागो वा वेदेभ्य एवाभूत् ।अतः वेदानां सम्यग्बोधाय वेदस्य षडङ्गत्वेन विभागं विहितम्।
तानि च षडङ्गानि-

१.शिक्षा
२.कल्प 
३.व्याकरणम्
४.निरुक्त
६.छन्द
७.ज्योतिष

उक्तं च पाणिनी शिक्षायाम् ---

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पाठ्यते।
ज्योतिषामयनं      चक्षुर्निरुक्तं   श्रोत्रमुच्यते॥
शिक्षा घ्राणं तु वेदस्य मुखं व्यकरणं  स्मृतम्।
तस्मात् सांगमधीत्यैव ब्रह्मलोके महीयते॥

यथा शरीरे मुखं प्रधानं भवति तथैव षट्सु अङ्गेषु व्याकरणं मुखम्।

संस्कृताध्ययन समये व्याकरणस्यावश्यंपठनीयता एवमुद्दिष्टम् ---

यद्यपि बहु नाधीषे तथाऽपि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो माभूत् सकलं शकलं सकृच्छकृत्

(वाक्यपदीयम्)ब्रह्मकाण्डम्


(वाक्यपदीयम्)

ब्रह्मकाण्डम्


अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥१॥

एकमेव यदाम्नातं भिन्नशक्तिव्यपाश्रयात्।
अपृथक्त्वेऽपि शक्तिभ्यःपृथक्त्वेनेव वर्तते॥२॥

अध्याहितकलां यस्य कालशक्तिमुपाश्रिता।
जन्मादयोःविकाराःषड् भावभेदस्य योनयः॥३॥

एकस्य सर्वबीजस्य यस्य चेयमनेकधा।
भोक्तॄभोक्तव्यरुपेण भोगरुपेण च स्थितः॥४॥

प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः।
एकोऽप्यनेकत्वर्त्मेव समाम्नातःपृथक् पृथक्॥५॥

भेदानांबहुमार्गत्वं कर्मण्येकत्र चाङ्गता।
शब्दानां यतशक्तित्वंतस्य शाखासु दृश्यते॥६॥

स्मृतयो बहुरुपाश्च दृष्टादृष्टप्रयोजनाः।
तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिःप्रकल्पिताः॥७॥

तस्यार्थवादरुपाणि निश्रिताः स्वविकल्पजाः।
एकत्विनांद्वेतिनां च प्रवादा बहुधा मता॥८॥

सत्या विशुद्धिस्तत्रोक्ता विद्यैवैकपदागमा।
युक्ता प्रणवरुपेण सर्ववादाविरोधिना॥९॥

विधातुस्तस्य लोकानामङ्गोपाङ्गनिबन्धनः।
विद्याभेदाः प्रतायन्ते ‘ग्यानसंस्कारहेतवः॥१०॥


आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः।
प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः॥११॥

प्राप्तरूपविभागाय यो वाचः परमो रसः।
यत्तत्पुण्यतमं ज्योतिस्तस्य मर्गोऽयमाञ्जसः॥१२॥

अर्थप्रवृत्तितत्त्वनां शब्दा एव निबन्धनम्।
तत्त्वावबोधः शब्दानां नाऽस्ति व्याकरणमादृते॥१३॥

तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम्।
पवित्रं सर्वविद्यानामधिविधं प्रकाशते॥१४॥

यथार्थजातयःसर्वाः शब्दाकृतिनिबन्धनाः।।
तथैव लोके विद्यानामेषा विद्या परायणम्॥१५॥

इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।
इयं सा मोक्षमाणानामजिम्हा राजपद्धतिः॥१६॥

अत्रातीतविपर्यासः केवलामनुपश्यति।
छन्दस्यश्छन्दसां योनिमात्मा छन्दोमयीं तनुम्॥१७॥

प्रत्यस्तमितभेदायां यद्वाचो रुपमुत्तमम्।
यदस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते॥१८॥

वैकृतं समतिक्रन्ता मूर्तिव्यापारदर्शनम्।
व्यतित्यालोकतमसो प्रकाशं यमुपासते॥१९॥

यत्र वाचो निमित्तानि चिन्हानिवाक्षरस्मृतेः।
शब्दपूर्वेणयोगेन भासन्ते प्रतिबिम्बवत्॥२०॥

अथर्वणामङ्गिरसां साम्नामृग्यजुषस्य च।
यस्मिन्नुच्चावचावर्णाः पृथक् स्थितिपरिग्रहाः॥२१॥

यदेकं प्रक्रिया भैदैर्बहुधा प्रविभज्यते।
तद्व्याकरणमागम्य परं ब्रह्मादिगम्यते॥२२॥

नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः॥
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः॥२३॥

अपोद्धारपदार्था ये ये चार्था स्थितिलक्षणाः।
अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादिका॥२४॥

भाष्यम्




भाष्यम्

सूत्रे प्रयुक्तपदनुसारं यत्र सूत्रार्थवर्णनं क्रियते तथा च ग्रन्थकारः आत्मना प्रस्तुतानि पदानि वर्णयति यत्र तद्भास्यम् इत्युच्यते।

"सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः।
स्वपदानि च वर्ण्यन्ते भाष्यंभाष्यविदो विदुः"॥

जिस ग्रन्थ में सूत्र में आये हुए पदों से सूत्रार्थ का वर्णन किया जाता है,तथा ग्रन्थकार अपने द्वारा पद प्रस्तुत कर उनका वर्णन करता है उस ग्रन्थ को भाष्य के जानकार लोग "भाष्य"कहते हैं।

वार्तिकं




वार्तिकम्

सूत्रे उक्तानुक्तदुरुक्तानां विचारेण सह न्यूनताया अपाकरणाय उक्तं लघुवाक्यमं वार्तिकम् इत्युच्यते।

"उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते।
तं ग्रंथं वार्तिकं प्राहुः वार्तिकज्ञा विचक्षणा"॥

पाणिनीय सूत्रों की कमियों को पूरा करने के लिये कात्यायन ने जिन सूत्रों की रचना की,उन्हें"वार्तिक"कहते हैं।

सुत्राणि कतिविधानि?


सुत्राणि कतिविधानि

पणिनीविरचितसूत्राणि षड्विधानि सन्ति।यथोच्यते-----

संज्ञा च परिभाषा च विधिर्नियं एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥


१.संज्ञा सूत्रम्




संज्ञा  संज्ञिनि  बोधकं सुत्रम् उच्यते संज्ञासूत्रं। व्याकरणे पाणिनिना शास्त्रप्रक्रियानिर्वाहाय टिलघुदीर्घवृद्धिगुणादयः संज्ञा  कृतास्सन्ति ।यथा--अचोन्त्यादि टि,भूवादयो धातवः,वृद्धिरादैच्, अदेङ्गुणः इत्यादयः।


अर्थात् संज्ञा एवं संज्ञा का ज्ञान कराने वाले सूत्र संज्ञासूत्र है।

२.परिभाषा सूत्र

"अनियमे नियमकारिणी परिभाषा" ।
अर्थात्--अनियम की स्थिति मे नियम की व्यवस्था करने वाला सूत्र " परिभाषासूत्र " है|
यथा--तस्मिन्नितिनिर्दिष्टे पूर्वस्य,अलोऽन्तस्य






३.विधिसूत्रम्

"आदेशादिविधायकं सूत्रं विधिसूत्रं "।
आदेशादि का विधान करने वाला सूत्र "विधिसूत्र"है।
यथा--आदगुणः,वृद्धिरेचि,इकोयणचि इत्यादयः।

४.नियमसूत्रम्

"प्राप्तस्य विधेः नियामकं सूत्रं नियमसूत्रम्"।
प्राप्तविधि के विषय में नियमन करने वाला सूत्र "नियमसूत्र"है।
यथा--रात्सस्य

५.अतिदेशसूत्रम्

"अतस्मिन् तद्धर्मापादकं सूत्रम् अतिदेशसूत्रम्"।
जो वस्तु वैसा नहीं है उसमें वैसे धर्म का आरोप करने वाला सूत्र "अतिदेशसूत्र" है।
यथा--स्थानिवदादेशोनल्विधौ ।

६.अधिकारसूत्रम्

"उत्तरोत्तरसूत्रेषु स्वघटकपदसंपर्कं सूत्रम् "अधिकारसूत्रम्"।
आगे के सूत्रों में किसी पूर्व सूत्र के पद को ले जाना "अधिकारसूत्र"है।
यथा--स्त्रियाम्,कारके इत्यादि।

सूत्रम्


अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखं  ।
अस्तोभमनवद्यंच सूत्रंसूत्रविदोविदुः ॥

 अर्थात्.....संदेहरहितम्,निकृष्ट अर्थस्य प्रकाशकः,पूर्वापरसहितम्,अवरोधरहितम्,सकललक्ष्यव्यापकः,अव्याप्तिदोषरहितं च सुत्रमिति॥

कात्यायन महोदयानुसारेण सूत्रस्य लक्षणम्--

अल्पाक्षरमसन्दिग्धं सारवद् गूढनिर्णयम्।
निर्दोषं हेतुमत् तथ्यं सूत्रमित्युच्यते बुधैः॥

वाचस्पतिमिश्राः भामतिटीकायम् सूत्रलक्षणम्---

लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः॥

लोके ये नियमाः सन्ति तेषां संक्षिप्तरुपेण निबध्नमेव सुत्रेति॥
तेषां शब्दानां सिद्धान्तानांवा प्रतिपादनाय संक्षिप्तया परिष्कृतया च पद्धत्या नियमजातानि सूच्यन्ते येन तत् सुत्रमिति वक्तुं शक्यते॥