ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

15 July 2011

kaamasutra _7

औपनिषदिकं-सप्तमम्अधिकरणम्
7.1
सुभगंकरणं वशीकरणं वृष्याश् च योगाः
व्याख्यातं च कामसूत्रं ।
व्याख्यातं च कामसूत्रं ।
तत्रोक्तैस्तु विधिभिरभिप्रेतमर्थमनधिगच्छन् *औपनिषदिकम् [Ch: उपनिषदिकम् ] आचरेत् ।
तत्र^उक्तैस् तु विधिभिर् अभिप्रेतम् अर्थम् अनधिगच्छन् *औपनिषदिकम्[Ch: उपनिषदिकम्] आचरेत् ।
रूपं गुणो वयस्त्याग इति सुभगंकरणम् ।
रूपं गुणो वयस्-त्याग इति सुभगं-करणम् ।
तगरकुष्ठतालीसपत्रकानुलेपनं सुभगंकरणम् ।
तगर-कुष्ठ-तालीस-पत्रक^अनुलेपनं सुभगं-करणम् ।
एतैरेव सुपिष्टैर्वर्तिमालिप्याक्षतैलेन नरकपाले साधितमञ्जनं च ।
एतैर् एव सुपिष्टैर् वर्तिम् आलिप्य^अक्षतैलेन नरक-पाले साधितम् अञ्जनं च ।
पुनर्नवासहदेवीसारिवाकुरण्टोत्पलपत्रैश्च सिद्धं तैलमभ्यञ्जनम् ।
पुनर्नवा-सहदेवी-सारिवा-कुरण्ट^उत्पल-पत्रैश् च सिद्धं तैलम् अभ्यञ्जनम् ।
तद्युक्ता एव स्रजश्च ।
तद् युक्ता एव स्रजश् च ।
पद्मोत्पलनागकेसराणां शोषितानां चूर्णं मधुघृताभ्यामवलिह्य सुभगो भवति ।
पद्म^उत्पल-नागकेसराणां शोषितानां चूर्णं मधु-घृताभ्याम् अवलिह्य सुभगो भवति ।
तान्येव तगरतालीसतमालपत्रयुक्तान्य् *अनुलेपनम् [Ch: अनुलिप्य ] ।
तान्य् एव तगर-तालीस-तमाल-पत्र-युक्तान्य् *अनुलेपनम्[Ch: अनुलिप्य] ।
मयूरस्याक्षितरक्षोर्वा सुवर्णेन *आलिप्य [Ch: अवलिप्य ] दक्षिणहस्तेन धारयेदिति सुभगंकरणम् ।
मयूरस्य^अक्षितरक्षोर् वा सुवर्णेन-*आलिप्य[Ch: अवलिप्य] दक्षिण-हस्तेन धारयेद् इति सुभगं-करणम् ।
तथा *बादरं मणिं [Ch: बादरमणिं ] शङ्खमणिं च तेषां [Ch इन्सेर्त्स् ,तथैव तेषु ] चाथर्वणान्योगान्गमयेत् ।
तथा *बादरं मणिं[Ch: बादरमणिं] शङ्ख-मणिं च तेषां [Ch इन्सेर्त्स्, तथा^एव तेषु] च^आथर्वणान् योगान् गमयेत् ।
विद्यातन्त्राच्च विद्यायोगात्प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रमन्यतो *धारयेत् [Ch: वारयेत् ] ।ततो *धारितां [Ch: वारितां ] बालां *मत्वा [Ch: वामत्वाल् ] लालसीभूतेषु गम्येषु यो ऽ *अस्याः [Ch: अस्यै ] *संह (घ )र्षेण [Ch: संघर्षेण ] बहु दद्यात्तस्मै विसृजेदिति सौभाग्यवर्धनम् ।
विद्या-तन्त्राच् च विद्या-योगात् प्राप्त-यौवनां परिचारिकां स्वामी संवत्सर-मात्रम् अन्यतो *धारयेत्[Ch: वारयेत्] । ततो *धारितां [Ch: वारितां] बालां *मत्वा [Ch: वामत्वाल्] लालसी-भूतेषु गम्येषु यो +अ*अस्याः [Ch: अस्यै] *संह(घ)र्षेण [Ch: संघर्षेण] बहु दद्यात् तस्मै विसृजेद् इति सौभाग्य-वर्धनम् ।
गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण यो *ऽस्यै [Ch: ऽस्य ] इदमिदं च दद्यात्स पाणिं गृह्णीयादिति *संसाध्य [Ch: संभाष्य ] रक्षयेदिति ।
गणिका प्राप्त-यौवनां स्वां दुहितरं तस्या विज्ञान-शील-रूप^अनुरूप्येण तान् अभिनिमन्त्र्य सारेण यो *+अस्यै[Ch: +अस्य] इदम् इदं च दद्यात् स पाणिं गृह्णीयाद् इति *संसाध्य [Ch: संभाष्य] रक्षयेद् इति ।
सा च मातुरविदिता नाम नागरिकपुत्रैर्धनिभिरत्यर्थं प्रीयेत ।
सा च मातुर-विदिता नाम नागरिक-पुत्रैर् धनिभिर् अत्यर्थं प्रीयेत ।
तेषां कलाग्रहणे गन्धर्वशालायां भिक्षुकीभवने तत्र तत्र च संदर्शनयोगाः ।
तेषां कला-ग्रहणे गन्धर्व-शालायां भिक्षुकी-भवने तत्र तत्र च संदर्शन-योगाः ।
तेषां यथोक्तदायिनां माता पाणिं ग्राहयेत् ।
तेषां यथा^उक्त-दायिनां माता पाणिं ग्राहयेत् ।
*तत् [Ch: ओम् .] तावदर्थमलभमाना तु स्वेनाप्येकदेशेन *दुहित्रे [Ch: दुहित्र ] एतद्दत्तमनेनेति ख्यापयेत् ।
*तत्[Ch: ओम्.] तावद् अर्थम् अलभमाना तु स्वेन^अप्य् एकदेशेन *दुहित्रे [Ch: दुहित्र] एतद् दत्तम् अनेन^इति ख्यापयेत् । [Ch: इन्सूढाया वा कन्याभावं विमोचयेत् ।।] [Ch: इन्स् ऊढाया वा कन्याभावं विमोचयेत् ॥]
प्रच्छन्नं वा तैः संयोज्य स्वयमजानती भूत्वा ततो विदितेष्व् *एवं [Ch: एतं ] धर्मस्थेषु निवेदयेत् ।
प्रच्छन्नं वा तैः संयोज्य स्वयम् अजानती भूत्वा ततो विदितेष्व् *एवं[Ch: एतं] धर्मस्थेषु निवेदयेत् ।
सख्यैव तु दास्या वा मोचितकन्या *भावामुपगृहीत [Ch: भावां सुगृहात ] वयसि सौभाग्ये च दुहितरमवसृजन्ति गणिका इति *प्राप्य [Ch: प्राच्य ] उपचाराः ।
सख्या^एव तु दास्या वा मोचित-कन्या-*भावाम् उपगृहीत[Ch: भावां सुगृहात] वयसि सौभाग्ये च दुहितरम् अवसृजन्ति गणिका इति *प्राप्य [Ch: प्राच्य] -उपचाराः ।
पाणिग्रहश्च संवत्सरमव्यभिचार्यस्ततो यथा कामिनी स्यात् ।
पाणि-ग्रहश् च संवत्सरम् अव्यभिचार्यस् ततो यथा कामिनी स्यात् ।
ऊर्ध्वमपि संवत्सरात्परिणीतेन निमन्त्र्यमाणा लाभमप्युत्सृज्य तां रात्रिं तस्यागच्छेदिति वेश्यायाः *पाणि [Ch: पाण ] ग्रहणविधिः सौभाग्यवर्धनं च ।
ऊर्ध्वम् अपि संवत्सरात् परिणीतेन निमन्त्र्यमाणा लाभम् अप्य् उत्सृज्य तां रात्रिं तस्य^आगच्छेद् इति वेश्यायाः *पाणि[Ch: पाण] -ग्रहण-विधिः सौभाग्य-वर्धनं च ।
एतेन रङ्गोपजीविनां कन्या व्याख्याताः ।
एतेन रङ्ग^उपजीविनां कन्या व्याख्याताः ।
तस्मै तु तां दद्युर्य एषां *तूर्यविशिष्टम् [Ch: तूर्ये विशिष्टम् ] उपकुर्यात् ।इति सुभगंकरणम् ।
तस्मै तु तां दद्युर् य एषां *तूर्यविशिष्टम्[Ch: तूर्ये विशिष्टम्] उपकुर्यात् । इति सुभगं-करणम् ।
(एकोनषष्टितमं प्रकरणम् ॥)
धत्तूरकमरिचपिप्पलीचूर्णैर्मधुमिश्रैर्लिप्तलिङ्गस्य *प्रयोगो [Ch: संप्रयोगो ] वशीकरणम् ।
धत्तूरक-मरिच-पिप्पली-चूर्णैर् मधु-मिश्रैर् लिप्त-लिङ्गस्य *प्रयोगो[Ch: संप्रयोगो] वशी-करणम् ।
वातोद्भान्तपत्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीकरणम् ।
वातोद्भान्त-पत्रं मृतक-निर्माल्यं मयूर^अस्थि-चूर्ण^अवचूर्णं वशी-करणम् ।
स्वयंमृताया मण्डलकारिकायाश्चूर्णं मधुसंयुक्तं सहामलकैः स्नानं वशीकरणम् ।
स्वयं-मृताया मण्डल-कारिकायाश् चूर्णं मधु-संयुक्तं सह^आमलकैः स्नानं वशी-करणम् ।
वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपाषाणचूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्तलिङ्गस्य संप्रयोगो वशीकरणम् ।
वज्र-स्नुही-गण्डकानि खण्डशः कृतानि मनःशिला-गन्ध-पाषाण-चूर्णेन^अभ्यज्य सप्त-कृत्वः शोषितानि चूर्णयित्वा मधुना लिप्त-लिङ्गस्य संप्रयोगो वशी-करणम् ।
एतेनैव रात्रौ धूमं कृत्वा तद्धूमतिरस्कृतं सौवर्णं चन्द्रमसं दर्शयति ।
एतेन^एव रात्रौ धूमं कृत्वा तद्-धूम-तिरस्कृतं सौवर्णं चन्द्रमसं दर्शयति ।
एतैरेव चूर्णितैर्वानरपुरीषमिश्रितैर्यां कन्यामवकिरेत्सान्यस्मै न दीयते ।
एतैर् एव चूर्णितैर् वानर-पुरीष-मिश्रितैर् यां कन्याम् अवकिरेत् स^अन्यस्मै न दीयते ।
वचागण्डकानि सहकारतैललिप्तानि शिंशपावृक्षस्कन्धमुत्कीर्य [Ch इन्सेर्त्स् ,षण्मासं ] निदध्यात् । [Ch इन्सेर्त्स् ,ततः ] षड्भिर्मासैरपनीतानि देवकान्तमनुलेपनं वशीकरणं चेत्याचक्षते ।
वचा-गण्डकानि सहकार-तैल-लिप्तानि शिंशपा-वृक्ष-स्कन्धम् उत्कीर्य[Ch इन्सेर्त्स्, षण्मासं] निदध्यात् । [Ch इन्सेर्त्स्, ततः] षड्भिर् मासैर् अपनीतानि देव-कान्तम् अनुलेपनं वशी-करणं च^इत्य् आचक्षते ।
तथा खदिरसारजानि शकलानि तनूनि यं वृक्षमुत्कीर्य [Ch इन्सेर्त्स् ,षण्मासं ] निदध्यात्तत्पुष्पगन्धानि भवन्ति ।गन्धर्वकान्तमनुलेपनं वशीकरणं चेत्याचक्षते
तथा खदिर-सारजानि शकलानि तनूनि यं वृक्षम् उत्कीर्य[Ch इन्सेर्त्स्, षण्मासं] निदध्यात् तत्-पुष्प-गन्धानि भवन्ति । गन्धर्व-कान्तम् अनुलेपनं वशी-करणं च^इत्य् आचक्षते
प्रियंगवस्तगरमिश्राः सहकारतैलदिग्धा *नागकेसर [Ch: नाग ] वृक्षमुत्कीर्य *षण्मास [Ch: षण्मासं ] निहिता नागकान्तमनुलेपनं वशीकरणमित्याचक्षते ।
प्रियंगवस् तगर-मिश्राः सहकार-तैल-दिग्धा *नागकेसर[Ch: नाग] -वृक्षम् उत्कीर्य *षण्मास [Ch: षण्मासं] -निहिता नाग-कान्तम् अनुलेपनं वशी-करणम् इत्य् आचक्षते ।
*उष्ट्रस्य [Ch: उष्ट्र ] अस्थि भृङ्गराजरसेन भावितं दग्धम् *अञ्जनमुष्ट्रास्थ्य् *अञ्जनिकायां [Ch: अञ्जनं नलिकायां ] निहितमुष्ट्रास्थिशलाकयैव स्रोतो ऽञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं चेत्याचक्षते ।
*उष्ट्रस्य[Ch: उष्ट्र] -अस्थि भृङ्गराज-रसेन भावितं दग्धम् *अञ्जनम् उष्ट्र^अस्थ्य् *अञ्जनिकायां [Ch: अञ्जनं नलिकायां] निहितम् उष्ट्र^अस्थि-शलाकया^एव स्रोतो +अञ्जन-सहितं पुण्यं चक्षुष्यं वशी-करणं च^इत्य् आचक्षते ।
एतेन श्येनभासमयूरास्थिमयान्यञ्जनानि व्याखातानि ।
एतेन श्येन-भास-मयूर^अस्थि-मयान्य् अञ्जनानि व्याखातानि ।
(इति वशी^करणम् ।
षष्टितमं प्रकरणम् ॥)
उच्चटाकन्दश् *च [Ch: चव्या ] यष्टीमधुकं च सशर्करेण पयसा पीत्वा *वृषो [Ch: वृषी ] भवति ।
उच्चटाकन्दश् *च[Ch: चव्या] यष्टीमधुकं च सशर्करेण पयसा पीत्वा *वृषो [Ch: वृषी] भवति ।
मेष *बस्त [Ch: वस्त ] मुष्कसिद्धस्य पयसः सशर्करस्य पानं वृषत्वयोगः ।
मेष-*बस्त[Ch: वस्त] -मुष्क-सिद्धस्य पयसः सशर्करस्य पानं वृषत्व-योगः ।
तथा विदार्याः क्षीरिकायाः *स्वयंगुप्तायाश् [Ch: स्वयगुप्तायाश् ] च क्षीरेण पानम् ।
तथा विदार्याः क्षीरिकायाः *स्वयंगुप्तायाश्[Ch: स्वयगुप्तायाश्] च क्षीरेण पानम् ।
तथा *पियाल [Ch: प्रियाल ] बीजानां मोरटा *क्षीर [Ch omits] विदार्योश्च क्षीरेणैव ।
तथा *पियाल[Ch: प्रियाल] -बीजानां मोरटा-*क्षीर [Ch omits] -विदार्योश् च क्षीरेण^एव ।
शृङ्गाटककसेरु *मधूकानि [Ch: कामधूलिकानि ] क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्निनोत्करिकां पक्त्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्य् *आचक्षते [Ch: आचार्याः प्रचक्षते ] ।
शृङ्गाटक-कसेरु-*मधूकानि[Ch: काम-धूलिकानि] क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्द^अग्निना^उत्करिकां पक्त्वा यावद् अर्थं भक्षितवान् अनन्ताः स्त्रियो गच्छति^इत्य् *आचक्षते [Ch: आचार्याः प्रचक्षते] ।
माषकमलिनीं पयसा धौतामुष्णेन घृतेन मृदूकृत्योद्धृतां वृद्धवत्सायाः गोः पयः सिद्धं पायसं मधुसर्पिर्भ्यामशित्वानन्ताः स्त्रियो गच्छतीत्य् *आचक्षते [Ch: आचार्याः प्रचक्षते ] ।
माषक-मलिनीं पयसा धौताम् उष्णेन घृतेन मृदूकृत्य^उद्धृतां वृद्ध-वत्सायाः गोः पयः सिद्धं पायसं मधु-सर्पिर्भ्याम् अशित्वा-अनन्ताः स्त्रियो गच्छति^इत्य् *आचक्षते[Ch: आचार्याः प्रचक्षते] ।
विदारी स्वयंगुप्ता शर्करामधुसर्पिर्भ्यां गोधूमचूर्णेन पोलिकां कृत्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्य् *आचक्षते [Ch: आचार्याः प्रचक्षते ] ।
विदारी स्वयंगुप्ता शर्करा-मधु-सर्पिर्भ्यां गोधूम-चूर्णेन पोलिकां कृत्वा यावद् अर्थं भक्षितवान् अनन्ताः स्त्रियो गच्छति^इत्य् *आचक्षते[Ch: आचार्याः प्रचक्षते] ।
चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावदर्थमिति समानं पूर्वेण ।
चटक^अण्ड-रस-भावितैस् तण्डुलैः पायसं सिद्धं मधु-सर्पिर्भ्यां प्लावितं यावद् अर्थम् इति समानं पूर्वेण ।
चटकाण्डरसभावितानपगतत्वचस्तिलान्शृङ्गाटककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः सशर्करेण पयसा सर्पिषा च पक्वं *पायसं [Ch: संयावं ] यावदर्थं *प्राशितम् [Ch: प्राशितवान् ] इति समानं पूर्वेण ।
चटक^अण्ड-रस-भावितान् अपगतत्वचस् तिलान् शृङ्गाटक-कसेरुक-स्वयंगुप्ता-फलानि गोधूम-माष-चूर्णैः सशर्करेण पयसा सर्पिषा च पक्वं *पायसं[Ch: संयावं] यावद् अर्थं *प्राशितम् [Ch: प्राशितवान्] इति समानं पूर्वेण ।
सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधुरसायाः कर्षः प्रस्थं पयस इति षडङ्गममृतं मेध्यं वृष्यमायुष्यं युक्तरसमित्य् *आचक्षते [Ch: आचार्याः प्रचक्षते ] ।
सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधु-रसायाः कर्षः प्रस्थं पयस इति षड्-अङ्गम् अमृतं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् *आचक्षते[Ch: आचार्याः प्रचक्षते] ।
शतावरीश्वदंष्ट्रागुडकषाये पिप्पलीमधुकल्के गोक्षीरच्छागघृते पक्वे तस्य पुष्प [Ch: पुष्य ] आरम्भेणान्वहं प्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्य् *आचक्षते [Ch: आचार्याः प्रचक्षते ] ।
शतावरी-श्वदंष्ट्रा-गुड-कषाये पिप्पली-मधु-कल्के गो-क्षीर-च्छाग-घृते पक्वे तस्य पुष्प[Ch: पुष्य] -आरम्भेण^अन्वहं प्राशनं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् *आचक्षते [Ch: आचार्याः प्रचक्षते] ।
शतावर्याः श्वदंष्ट्रायाः श्रीपर्णीफलानां च क्षुण्णानां चतुर् *गुणे जले [Ch: गुणितजलेन ] पाक आ प्रकृत्यवस्थानात् ।तस्य *पुष्प [Ch: पुष्य ] आरम्भेण प्रातः प्राशनं मेध्यं वृष्यमायुष्यं युक्तरसमित्य् *आचक्षते [Ch: आचार्याः प्रचक्षते ] ।
शतावर्याः श्वदंष्ट्रायाः श्रीपर्णी-फलानां च क्षुण्णानां चतुर्-*गुणे जले[Ch: गुणितजलेन] पाक आ प्रकृत्य्-अवस्थानात् । तस्य *पुष्प [Ch: पुष्य] -आरम्भेण प्रातः प्राशनं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् *आचक्षते [Ch: आचार्याः प्रचक्षते] ।
श्वदंष्ट्राचूर्णसमन्वितं तत्सममेव यवचूर्णं प्रातरुत्थाय द्वि *पलिकम् [Ch: पलकम् ] अनुदिनं प्राश्नीयान्मेध्यं वृष्यम् *आयुष्यं [Ch omits] युक्तरसमित्य् *आचक्षते [Ch: आचार्याः प्रचक्षते ] ।
श्वदंष्ट्रा-चूर्ण-समन्वितं तत्-समम् एव यव-चूर्णं प्रातर् उत्थाय द्वि-*पलिकम्[Ch: पलकम्] अनुदिनं प्राश्नीयान् मेध्यं वृष्यम् *आयुष्यं [Ch omits] युक्त-रसम् इत्य् *आचक्षते [Ch: आचार्याः प्रचक्षते] ।
(इति वृष्या^योगाः ।
एकषष्टितमं प्रकरणम् ॥)
आयुर्वेदाच्च वेदाच्च विद्यातन्त्रेभ्य एव च ।
आयुर्वेदाच् च वेदाच् च विद्या-तन्त्रेभ्य एव च ।
आप्तेभ्यश्चावबोद्धव्या योगा ये प्रीतिकारकाः ॥
आप्तेभ्यश् च^अवबोद्धव्या योगा ये प्रीति-कारकाः ॥
न प्रयुञ्जीत संदिग्धान्न शरीरात्ययावहान् ।
न प्रयुञ्जीत संदिग्धान् न शरीर^अत्यय^अवहान् ।
न जीवघातसंबद्धान्नाशुचिद्रव्यसंयुतान् ।।
न जीव-घात-संबद्धान् न^अशुचि-द्रव्य-संयुतान् ॥
*तथा युक्तान् [Ch: तपोयुक्तः ] प्रयुञ्जीत शिष्टैर् *अपि न निन्दितान् [Ch: अनुगतान्विधीन् ] ।
*तथा युक्तान्[Ch: तपोयुक्तः] प्रयुञ्जीत शिष्टैर् *अपि न निन्दितान् [Ch: अनुगतान् विधीन्] ।
ब्राह्मणैश्च सुहृद्भिश्च मङ्गलैरभिनन्दितान् ।।
ब्राह्मणैश् च सुहृद्भिश् च मङ्गलैर् अभिनन्दितान् ॥
7.2
नष्टरागप्रत्यानयनं वृद्धिविधयश् चित्राश् च योगा
चन्डवेगां रञ्जयितुमशक्नुवन्योगानाचरेत् ।
चन्ड-वेगां रञ्जयितुम् अशक्नुवन् योगान् आचरेत् ।
रतस्योपक्रमे संबाधस्य करेणोपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनमिति रागप्रत्यानयनम् ।
रतस्य^उपक्रमे संबाधस्य करेण^उपमर्दनं तस्या रस-प्राप्ति-काले च रत-योजनम् इति राग-प्रत्यानयनम् ।
औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य श्रान्तस्य च रागप्रत्यानयनम् ।
औपरिष्टकं मन्द-वेगस्य गतवयसो व्यायतस्य श्रान्तस्य च राग-प्रत्यानयनम् ।
अपद्रव्याणि वा योजयेत् ।
अपद्रव्याणि वा योजयेत् ।
तानि सुवर्णरजतताम्रकालायसगजदन्तगवलद्रव्यमयाणि
तानि सुवर्ण-रजत-ताम्र-काल^आयस-गज-दन्त-गवल-द्रव्य-मयाणि
त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि *वृष्याणि कर्मसहिष्णूनि [Ch: कर्माणि च धृष्णूनि ] भवन्तीति बाभ्रवीया योगाः ।
त्रापुषाणि सैसकानि च मृदूनि शीत-वीर्याणि *वृष्याणि कर्म-सहिष्णूनि[Ch: कर्माणि च धृष्णूनि] भवन्ति^इति बाभ्रवीया योगाः ।
दारुमयानि साम्यतश्चेति वात्स्यायनः ।
दारु-मयानि साम्यतश् च^इति वात्स्यायनः ।
लिङ्गप्रमाणान्तरं बिन्दुभिः कर्कशपर्यन्तं *बहुलैः [Ch: बहुलं ] स्यात् ।
लिङ्ग-प्रमाण^अन्तरं बिन्दुभिः कर्कश-पर्यन्तं *बहुलैः[Ch: बहुलं] स्यात् ।
एत एव द्वे संघाटी ।
एत एव द्वे संघाटी ।
त्रिप्रभृति यावत्प्रमाणं वा चूडकः ।
त्रि-प्रभृति यावत् प्रमाणं वा चूडकः ।
एकामेव लतिकां प्रमाणवशेन वेष्टयेदित्येकचूडकः ।
एकाम् एव लतिकां प्रमाण-वशेन वेष्टयेद् इत्य् एक-चूडकः ।
उभयतोमुखच्छिद्रः स्थूलकर्कश *पृषत [Ch: वृषण ] गुटिकायुक्तः प्रमाण *योगी [Ch: वशयोगी ] कठ्यां बद्धः कञ्चुको जालकं वा ।
उभयतो-मुख-च्छिद्रः स्थूल-कर्कश-*पृषत[Ch: वृषण] -गुटिका-युक्तः प्रमाण-*योगी [Ch: वश-योगी] कठ्यां बद्धः कञ्चुको जालकं वा ।
तदभावे ऽलाबूनालकं वेणुश्च तैलकषायैः सुभावितः *सूत्रजङ्घा [Ch: सूत्रेणकट्याम् ] बद्धः श्लक्ष्णा काष्ठमालाल्वा ग्रथिता बहुभिरामलकास्थिभिः संयुक्तेत्यपविद्धयोगाः ।
तद्-अभावे +अलाबूनालकं वेणुश् च तैल-कषायैः सुभावितः *सूत्र-जङ्घा[Ch: सूत्रेण-कट्याम्] -बद्धः श्लक्ष्णा काष्ठ-मालाल् वा ग्रथिता बहुभिर् आमलक^अस्थिभिः संयुक्त^इत्य् अपविद्ध-योगाः ।
न त्व् *अपविद्धस्य [Ch: अविद्धस्य ] कस्य चिद्व्यवहृतिरस्तीति
न त्व् *अपविद्धस्य[Ch: अविद्धस्य] कस्य चिद् व्यवहृतिर् अस्ति^इति
दाक्षिणात्यानां लिङ्गस्य कर्णयोरिव व्यधनं बालस्य ।
दाक्षिणात्यानां लिङ्गस्य कर्णयोर् इव व्यधनं बालस्य ।
युवा तु शस्त्रेण च्छेदयित्वा यावद्रुधिरस्यागमनं तावदुदके तिष्ठेत् ।
युवा तु शस्त्रेण च्छेदयित्वा यावद् रुधिरस्य^आगमनं तावद् उदके तिष्ठेत् ।
वैशद्यार्थं च तस्यां रात्रौ निर्बन्धाद्व्यवायः ।
वैशद्य^अर्थं च तस्यां रात्रौ निर्बन्धाद् व्यवायः ।
ततः कषायैरेकदिनान्तरितं शोधनम् ।
ततः कषायैर् एक-दिन^अन्तरितं शोधनम् ।
वेतसकुटजशङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर्बन्धनम् ।
वेतसकुटज-शङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर् बन्धनम् ।
यष्टीमधुकेन मधुयुक्तेन शोधनम् ।
यष्टीमधुकेन मधु-युक्तेन शोधनम् ।
ततः *सीस [Ch: सीसक ] पत्रकर्णिकया वर्धयेत् ।
ततः *सीस[Ch: सीसक] -पत्र-कर्णिकया वर्धयेत् ।
म्रक्षयेद्भल्लातकतैलेनेति व्यधनयोगाः ।
म्रक्षयेद् भल्लातक-तैलेन^इति व्यधन-योगाः ।
तस्मिन्ननेकाकृतिविकल्पान्यपद्रव्याणि योजयेत् ।
तस्मिन्न् अनेक^आकृति-विकल्पान्य् अपद्रव्याणि योजयेत् ।
वृत्तमेकतो वृत्तमुदूखलकं कुसुमकं कण्टकितं कङ्कास्थिगज *प्रहारिकम् [Ch: करकम् ] अष्ट *मण्डलिकं [Ch: मण्डलकं ] भ्रमरकं शृङ्गाटकमन्यानि वोपायतः कर्मतश्च बहुकर्मसहता चैषां मृदुकर्कशता यथा सात्म्यमिति नष्टरागप्रत्यानयनम् ।
वृत्तम् एकतो वृत्तम् उदूखलकं कुसुमकं कण्टकितं कङ्क^अस्थि-गज-*प्रहारिकम्[Ch: करकम्] अष्ट-*मण्डलिकं [Ch: मण्डलकं] भ्रमरकं शृङ्गाटकम् अन्यानि वा^उपायतः कर्मतश् च बहु-कर्म-सहता च^एषां मृदु-कर्क-शता यथा सात्म्यम् इति नष्ट-राग-प्रत्यानयनम् ।
(*द्वाषष्टितमं[Ch: द्विषष्टितमं] प्रकरणम् ॥)
एवं वृक्षजानां जन्तूनं शूकैर् *उपलिप्तं [Ch: उपहितं ] लिङ्गं दशरात्रं तैलेन मृदितं पुनः *पुनरुपलिप्तं [Ch: उपतृंहितं ] पुनः प्रमृदितमिति जातशोफं खट्वायामधोमुखस्तदन्तरे लम्बयेत् ।
एवं वृक्षजानां जन्तूनं शूकैर् *उपलिप्तं[Ch: उपहितं] लिङ्गं दशरात्रं तैलेन मृदितं पुनः *पुनर् उपलिप्तं [Ch: उपतृंहितं] पुनः प्रमृदितम् इति जात-शोफं खट्वायाम् अधो-मुखस् तद् अन्तरे लम्बयेत् ।
*ततः [Ch: तत्र ] शीतैः कषायैः कृतवेदनानिग्रहं सोपक्रमेण निष्पादयेत् ।
*ततः[Ch: तत्र] शीतैः कषायैः कृत-वेदनानिग्रहं स^उपक्रमेण निष्पादयेत् ।
स यावज्जीवं शूकजो नाम शोफो विटानाम् ।
स यावज् जीवं शूकजो नाम शोफो विटानाम् ।
अश्वगन्धाशबरकन्दजलशूकबृहतीफलमाहिषनवनीतहस्तिकर्णवज्रवल्लीरसैरेकैकेन परिमर्दनं मासिकं वर्धनम् ।
अश्वगन्धा-शबरकन्द-जल-शूक-बृहतीफल-माहिषनवनीत-हस्तिकर्ण-वज्रवल्ली-रसैर् एकैकेन परिमर्दनं मासिकं वर्धनम् ।
एतैरेव कषायैः पक्वेन तैलेन परिमर्दनं षण्मास्यम् ।
एतैर् एव कषायैः पक्वेन तैलेन परिमर्दनं षण्-मास्यम् ।
दाडिम *त्रपुस [Ch: त्रपुष ] बीजानि *बालुकं [Ch: बालुका ] बृहतीफलरसश्चेति मृद्वग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा ।
दाडिम-*त्रपुस[Ch: त्रपुष] -बीजानि *बालुकं [Ch: बालुका] बृहतीफल-रसश् च^इति मृद्व्-अग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा ।
तास्तांश्च योगानाप्तेभ्यो बुध्येतेति वर्धनयोगाः ।
तास् तांश् च योगान् आप्तेभ्यो बुध्येत^इति वर्धन-योगाः ।
(त्रिषष्टितमं प्रकरणम् ॥)[Ch: अथ ] स्नुहीकण्टकचूर्णैः पुनर्नवावानरपुरीषलाङ्गलिकामूलमिश्रैर्यामवकिरेत्सा नान्यं कामयेत । [Ch: अथ] स्नुहीकण्टक-चूर्णैः पुनर्नवा-वानर-पुरीष-लाङ्गलिका-मूल-मिश्रैर्याम् अवकिरेत् सा न^अन्यं कामयेत ।
तथा सोमलता *अवल्गुज [Ch: अवल्गुजा ] भृङ्गलोहोपजिह्विकाचूर्णैर्व्याधिघातकजम्बूफलरसनिर्यासेन घनीकृतेन लिप्तसंबाधां गच्छतो रागो नश्यति ।
तथा सोमलता-*अवल्गुज[Ch: अवल्गुजा] -भृङ्ग-लोह^उपजिह्विका-चूर्णैर् व्याधिघातक-जम्बू-फल-रस-निर्यासेन घनी-कृतेन लिप्त-संबाधां गच्छतो रागो नश्यति ।
गोपालिकाबहुपादिकाजिह्विकाचूर्णैर्माहिषतक्रयुक्तैः *स्नायायां [Ch: स्नातां ] गच्छतो रागो नश्यति ।
गोपालिका-बहुपादिका-जिह्विका-चूर्णैर् माहिष-तक्र-युक्तैः *स्नायायां[Ch: स्नातां] गच्छतो रागो नश्यति ।
नीपाम्रातकजम्बूकुसुमयुक्तमनुलेपनं दौर्भाग्यकरं स्रजश्च ।
नीप^आम्रातक-जम्बू-कुसुम-युक्तम् अनुलेपनं दौर्भाग्य-करं स्रजश् च ।
कोकिलाक्ष *फल [Ch omits] प्रलेपो हस्तिन्याः संहतमेक *रात्रं [Ch: रात्रे ] करोति ।
कोकिलाक्ष-*फल[Ch omits] -प्रलेपो हस्तिन्याः संहतम् एक-*रात्रं [Ch: रात्रे] करोति ।
पद्मोत्पल *कन्द [Ch: कदम्ब ] मधुना पिष्टानि लेपो मृग्या विशालीकरणम् ।
पद्म^उत्पल-*कन्द[Ch: कदम्ब] मधुना पिष्टानि लेपो मृग्या विशाली-करणम् ।
स्नुहीसोमार्क *क्षीरैर् [Ch: क्षारैर् ] अवल्गुजाफलैर्भावितान्यामलकानि केशानां श्वेतीकरणम् ।
स्नुही-सोम^अर्क-*क्षीरैर्[Ch: क्षारैर्] अवल्गुजा-फलैर् भावितान्य् आमलकानि केशानां श्वेती-करणम् ।
मदयन्तिकाकुटजकाञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः *स्नानां [Ch: स्नानं ] *केश [Ch: केशाणां ] प्रत्यानयनम् ।
मदयन्तिका-कुटजक^अञ्जनिका-गिरिकर्णिका-श्लक्ष्णपर्णी-मूलैः *स्नानां[Ch: स्नानं] *केश [Ch: केशाणां] -प्रत्यानयनम् ।
एतैरेव सुपक्वेन तैलेनाभ्यङ्गात्कृष्णी *करणं [Ch: करणात् ] क्रमेणास्य प्रत्यानयनम् ।
एतैर् एव सुपक्वेन तैलेन^अभ्यङ्गात् कृष्णी-*करणं[Ch: करणात्] क्रमेण^अस्य प्रत्यानयनम् ।
श्वेताश्वस्य मुष्कस्वेदैः सप्तकृत्वो भावितेनालक्तकेन रक्तो ऽधरः श्वेतो भवति ।
श्वेताश्वस्य मुष्क-स्वेदैः सप्त-कृत्वो भावितेन^अलक्तकेन रक्तो +अधरः श्वेतो भवति ।
मदयन्तिकादीन्येव प्रत्यानयनम् ।
मदयन्तिका^आदीन्य् एव प्रत्यानयनम् ।
बहुपादिकाकुष्ठतगरतालीसदेवदारुवज्रकन्दकैरुपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति ।
बहुपादिका-कुष्ठ-तगर-तालीस-देवदारु-वज्रकन्दकैर् उपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति ।
धत्तूरफलयुक्तो ऽभ्यवहार उन्माद *करः [Ch: कः ] ।
धत्तूर-फल-युक्तो +अभ्यवहार उन्माद-*करः[Ch: कः] ।
*गुडॐ [Ch: गुडो ] जीर्णितश्च प्रत्यानयनम् ।
*गुडॐ[Ch: गुडो] जीर्णितश् च प्रत्यानयनम् ।
हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद्द्रव्यं स्पृशति तन्न दृश्यते ।
हरिताल-मनःशिला-भक्षिणो मयूरस्य पुरीषेण लिप्त-हस्तो यद् द्रव्यं स्पृशति तन् न दृश्यते ।
अङ्गारतृणभस्मना तैलेन विमिश्रमुदकं क्षीरवर्णं भवति ।
अङ्गार-तृण-भस्मना तैलेन विमिश्रम् उदकं क्षीर-वर्णं भवति ।
*हरीतक्य् [Ch: हरीतक ] आम्रातकयोः श्रवणप्रियंगुकाभिश्च पिष्टाभिर्लिप्तानि लोहभाण्डानि ताम्रीभवन्ति ।
*हरीतक्य्[Ch: हरीतक] -आम्रातकयोः श्रवणप्रियंगुकाभिश् च पिष्टाभिर् लिप्तानि लोह-भाण्डानि ताम्री-भवन्ति ।
श्रवणप्रियंगुकातैलेन दुकूलसर्पनिर्मोकेण वर्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद्दृश्यन्ते ।
श्रवणप्रियंगुका-तैलेन दुकूल-सर्प-निर्मोकेण वर्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घी-कृतानि काष्ठानि सर्पवद् दृश्यन्ते ।
श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं यशस्यमायुष्यम् ।
श्वेतायाः श्वेत-वत्साया गोः क्षीरस्य पानं यशस्यम् आयुष्यम् ।
ब्राह्मणानां प्रशस्तानामाशिषः ।
ब्राह्मणानां प्रशस्तान् आमाशिषः ।
(इति चित्रा योगाः । चतुःषष्टितमं प्रकरणम् ॥)
पूर्वशास्त्राणि संदृश्य प्रयोगान् *उपसृत्य [Ch: अन्सृत्य ] च ।
पूर्वशास्त्राणि संदृश्य प्रयोगान् *उपसृत्य[Ch: अन्सृत्य] च ।
कामसूत्रमिदं यत्नात्संक्षेपेण निर्वेशितम् [निवेदितम् ]।।
कामसूत्रम् इदं यत्नात् संक्षेपेण निर्वेशितम्[निवेदितम्] ॥
धर्ममर्थं च कामं च प्रत्ययं लोकमेव च ।
धर्मम् अर्थं च कामं च प्रत्ययं लोकम् एव च ।
पश्यत्येतस्य तत्त्वज्ञो न च रागात्प्रवर्तते ॥
पश्यत्य् एतस्य तत्त्वज्ञो न च रागात् प्रवर्तते ॥
अधिकारवशादुक्ता ये चित्रा रागवर्धनाः ।
अधिकार-वशाद् उक्ता ये चित्रा राग-वर्धनाः ।
तदनन्तरमत्रैव ते यत्नाद्विनिवारिताः ॥
तदनन्तरम् अत्र^एव ते यत्नाद् विनिवारिताः ॥
न शास्त्रमस्तीत्येतेन प्रयोगो हि समीक्ष्यते ।
न शास्त्रम् अस्ति^इत्य् एतेन प्रयोगो हि समीक्ष्यते ।
शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ।।
शास्त्र^अर्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एकदेशिकान् ॥
बाभ्रवीयांश्च सूत्रार्थान् *आगमं सुविमृश्य [Ch: आगमय्य विमृश्य ] च ।
बाभ्रवीयांश् च सूत्र^अर्थान् *आगमं सुविमृश्य[Ch: आगमय्य विमृश्य] च ।
वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ॥
वात्स्यायनश् चकार^इदं कामसूत्रं यथाविधि ॥
तदेतद्ब्रमचर्येण परेण च समाधिना ।
तद् एतद् ब्रमचर्येण परेण च समाधिना ।
विहितं *लोकयात्रायै [Ch: लोकयात्रार्थं ] न रागार्थो ऽस्य संविधिः ॥
विहितं *लोकयात्रायै[Ch: लोकयात्रा^अर्थं] न रागार्थो +अस्य संविधिः ॥
रक्षन्धर्मार्थकामानां स्थितिं स्वां लोकवर्तिनीम् ।
रक्षन्धर्म^अर्थकामानां स्थितिं स्वां लोकवर्तिनीम् ।
अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥
अस्य शास्त्रस्य तत्त्वज्ञो भवत्य् एव जितेन्द्रियः ॥
तदेतत्कुशलो विद्वान्धर्माथाववलोकयन् ।
तद् एतत् कुशलो विद्वान् धर्म^अथाव् अवलोकयन् ।
नातिरागात्मकः कामी प्रयुञ्जानः प्रसिध्यति ॥
न^अतिराग^आत्मकः कामी प्रयुञ्जानः प्रसिध्यति ॥

No comments:

Post a Comment