ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

15 July 2011

kaamasutra _5

पारदारिकं-पंचमम्अधिकरणम्
5.1
स्त्रीपुरुषशीलवस्थापनं व्यावर्तनकारणाणि स्त्रीषु सिद्धाः पुरुषा अयत्नसाध्या योषितः
व्याख्यातकारणाः परपरिग्रहोपगमाः ॥
व्याख्यात-कारणाः पर-परिग्रह^उपगमाः ॥
तेषु साध्यत्वमनत्ययं गम्यत्वमायतिं वृत्तिं चादित एव परीक्षेत ॥
तेषु साध्यत्वम् अनत्ययं गम्यत्वम् आयतिं वृत्तिं च^आदित एव परीक्षेत ॥
यदा तु स्थानात्स्थानान्तरं कामं प्रतिपद्यमानं पश्येत्तदात्मशरीरोपघातत्राणार्थं परपरिग्रहानभ्युपगच्छेत् ।।
यदा तु स्थानात् स्थान^अन्तरं कामं प्रतिपद्यमानं पश्येत् तद्-आत्म-शरीर^उपघात-त्राण^अर्थं पर-परिग्रहान् अभ्युपगच्छेत् ॥
दश तु कामस्य स्थानानि ॥
दश तु कामस्य स्थानानि ॥
चक्षुःप्रीतिर्मनःसङ्गः संकल्पोत्पत्तिर्निद्राच्छेदस्तनुता विषयेभ्यो व्यावृत्तिर्लज्जाप्रणाश उन्मादो मूर्छा मरणमिति तेषां लिङ्गानि ॥
चक्षुः-प्रीतिर् मनः-सङ्गः संकल्प^उत्पत्तिर् निद्रा^आच्छेदस् तनुता विषयेभ्यो व्यावृत्तिर् लज्जा-प्रणाश उन्मादो मूर्छा मरणम् इति तेषां लिङ्गानि ॥
तत्राकृतितो लक्षणतश्च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेदित्याचार्याः ॥
तत्र^आकृतितो लक्षणतश् च युवत्याः शीलं सत्यं शौचं साध्यतां चण्ड-वेगतां च लक्षयेद् इत्य् आचार्याः ॥
व्यभिचारादाकृतिलक्षणयोगानामिङ्गिताकाराभ्यामेव प्रवृत्तिर्बोद्धव्या योषित इति वात्स्यायनः ॥
व्यभिचाराद् आकृति-लक्षण-योगानाम् इङ्गित^आकाराभ्याम् एव प्रवृत्तिर् बोद्धव्या योषित इति वात्स्यायनः ॥
यं कं चिदुज्ज्वलं पुरुषं दृष्ट्वा स्त्री कामयते ।तथा पुरुषो ऽपि योषितम् ।अपेक्षया तु न *प्रवर्तत [Ch: प्रवर्तते ] इति गोणिकापुत्रः ॥
यं कं चिद् उज्ज्वलं पुरुषं दृष्ट्वा स्त्री कामयते । तथा पुरुषो +अपि योषितम् । अपेक्षया तु न *प्रवर्तत[Ch: प्रवर्तते] इति गोणिकापुत्रः ॥
तत्र स्त्रियं प्रति विशेषः ॥
तत्र स्त्रियं प्रति विशेषः ॥
न स्त्री धर्ममधर्मं चापेक्षते कामयत एव ।कार्यापेक्षया तु नाभियुङ्क्ते ।
न स्त्री धर्मम् अधर्मं च^अपेक्षते कामयत एव । कार्य^अपेक्षया तु न^अभियुङ्क्ते ।
स्वभावाच्च पुरुषेणाभियुज्यमाना चिकीर्षन्त्यपि व्यावर्तते ।
स्वभावाच् च पुरुषेण^अभियुज्यमाना चिकीर्षन्त्य् अपि व्यावर्तते ।
पुनः पुनरभियुक्ता सिद्ध्यति ।
पुनः पुनर् अभियुक्ता सिद्ध्यति ।
पुरुषस्तु धर्मस्थितिमार्यसमयं चापेक्ष्य कामयमानो ऽपि व्यावर्तते ।
पुरुषस् तु धर्म-स्थितिम् आर्य-समयं च^अपेक्ष्य कामयमानो +अपि व्यावर्तते ।
तथाबुद्धिश्चाभियुज्यमानो ऽपि न सिद्ध्यति ।
तथा-बुद्धिश् च^अभियुज्यमानो +अपि न सिद्ध्यति ।
निष्कारणमभियुङ्क्ते ।अभियुज्यापि पुनर्नाभियुङ्क्ते ।सिद्धायां च माध्यस्थ्यं गच्छति ।
निष्कारणम् अभियुङ्क्ते । अभियुज्यापि पुनर् न^अभियुङ्क्ते । सिद्धायां च माध्यस्थ्यं गच्छति ।
सुलभामवमन्यते ।दुर्लभामाकाङ्क्षत इति प्रायोवादः ॥
सुलभाम् अवमन्यते । दुर्लभाम् आकाङ्क्षत इति प्रायो-वादः ॥
तत्र व्यावर्तनकारणानि ---
तत्र व्यावर्तन-कारणानि ---
पत्यावनुरागः ।
पत्यावनुरागः ।
अपत्यापेक्षा ।
अपत्य^अपेक्षा ।
अतिक्रान्तवयस्त्वम् ।
अतिक्रान्त-वयस्त्वम् ।
दुःखाभिभवः ।
दुःख^अभिभवः ।
विरहनुपलम्भः ।
विरहन् उपलम्भः ।
अवज्ञयोपमन्त्रयत इति क्रोधः ।
अवज्ञया^उपमन्त्रयत इति क्रोधः ।
अप्रतर्क्य इति संकल्पवर्जनम् ।
अप्रतर्क्य इति संकल्प-वर्जनम् ।
गमिष्यतीत्यनायतिरन्यत्र प्रसक्तमतिरिति च ।
गमिष्यति^इत्य् अनायतिर् अन्यत्र प्रसक्त-मतिर् इति च ।
असंवृताकार इत्युद्द्वेगः ।
असंवृत^आकार इत्य् उद्द्वेगः ।
मित्रेषु निसृष्टभाव इति तेष्वपेक्षा ।
मित्रेषु निसृष्ट-भाव इति तेष्व् अपेक्षा ।
शुष्काभियोगीत्याशङ्का ।
शुष्क^अभियोगीत्य^अशङ्का ।
तेजस्वीति साध्वसम् ।
तेजस्वी^इति साध्वसम् ।
चण्डवेगः समरथो वेति भयं मृग्याः ।
चण्ड-वेगः समरथो वा^इति भयं मृग्याः ।
नागरकः कलासु विचक्षण इति व्रीडा ।
नागरकः कलासु विचक्षण इति व्रीडा ।
सखित्वेनोपचरित इति च ।
सखित्वेन^उपचरित इति च ।
अदेशकालज्ञ इत्यसूया ।
अदेश-कालज्ञ इत्य् असूया ।
परिभवस्थानमित्यबहुमानः ।
परिभव-स्थानम् इत्य् अबहु-मानः ।
आकारितो ऽपि नावबुध्यत इत्यवज्ञा ।
आकारितो +अपि न^अवबुध्यत इत्य् अवज्ञा ।
शशो मन्दवेग इति च हस्तिन्याः ।
शशो मन्द-वेग इति च हस्तिन्याः ।
मत्तो ऽस्य मा भूदनिष्टमित्यनुकम्पा ।
मत्तो +अस्य मा भूद् अनिष्टम् इत्य् अनुकम्पा ।
आत्मनि दोषदर्शनान्निर्वेदः ।
आत्मनि दोष-दर्शनान् निर्वेदः ।
विदिता सती स्वजनबहिष्कृता भविष्यामीति भयम् ।
विदिता सती स्वजन-बहिष्कृता भविष्यामि^इति भयम् ।
पलित इत्यनादरः ।
पलित इत्य् अनादरः ।
पत्या प्रयुक्तः परीक्षत इति विमर्शः ।
पत्या प्रयुक्तः परीक्षत इति विमर्शः ।
धर्मापेक्षा चेति ॥
धर्म^अपेक्षा चा^इति ॥
तेषु यदात्मनि लक्षयेत्तदादित एव परिच्छिन्द्यात् ।।
तेषु यद्-आत्मनि लक्षयेत् तद्-आदित एव परिच्छिन्द्यात् ॥
आर्यत्वयुक्तानि रागवर्धनात् ।
आर्यत्व-युक्तानि राग-वर्धनात् ।
अशक्तिजान्युपायप्रदर्शनात् ।
अशक्तिजान्य् उपाय-प्रदर्शनात् ।
बहुमानकृतान्यतिपरिचयात् ।
बहु-मान-कृतान्य् अतिपरिचयात् ।
परिभवकृतान्यतिशौण्डीर्याद्वैचक्षण्याच्च ।
परिभव-कृतान्य् अतिशौण्डीर्याद् वैचक्षण्याच् च ।
तत्परिभवजानि प्रणत्या ।
तत्-परिभवजानि प्रणत्या ।
भययुक्तान्याश्वासनादिति ॥
भय-युक्तान्य् आश्वासनाद् इति ॥
नववरकः प्रेक्षोद्यानत्यागशीलो वृष इति सिद्धप्रतापः साहसिकः शूरो विद्यारूपगुणोपभोगैः पत्युरतिशयिता महार्हवेषोपचारश्चेति ॥
नव-वरकः प्रेक्ष^उद्यान-त्याग-शीलो वृष इति सिद्ध-प्रतापः साहसिकः शूरो विद्या-रूप-गुण^उपभोगैः पत्युर् अतिशयिता महार्ह-वेष^उपचारश् च^इति ॥
यथात्मनः सिद्धतां पश्येदेवं योषितो ऽपि ॥
यथा^आत्मनः सिद्धतां पश्येद् एवं योषितो +अपि ॥
अयत्नसाध्या योषितस्त्विमाः ---अभियोगमात्रसाध्याः ।द्वारदेशावस्थायिनी ।प्रासादाद्राजमार्गावलोकिनी ।तरुणप्रातिवेश्यगृहे गोष्ठीयोजिनी ।सततप्रेक्षिणी ।प्रेक्षिता पार्श्वविलोकिनी ।निष्कारणं सपत्न्याधिविन्ना ।भर्तृद्वेषिणी विद्विष्टा च ।परिहारहीना ।निरपत्या ।
अयत्न-साध्या योषितस् त्व् इमाः --- अभियोग-मात्र-साध्याः । द्वार-देश^अवस्थायिनी । प्रासादाद् राजमार्ग^अवलोकिनी । तरुण-प्रातिवेश्य-गृहे गोष्ठी-योजिनी । सतत-प्रेक्षिणी । प्रेक्षिता पार्श्व-विलोकिनी । निष्कारणं सपत्न्याधिविन्ना । भर्तृ-द्वेषिणी विद्विष्टा च । परिहार-हीना । निरपत्या ।
ज्ञातिकुलनित्या ।विपन्नापत्या ।गोष्ठीयोजिनी ।प्रीतियोजिनी ।कुशीलवभार्या ।मृतपतिका बाला ।दरिद्रा बहूपभोगा ।ज्येष्ठभार्या बहुदेवरका ।बहुमानिनी न्यूनभर्तृका ।कौशलाभिमानिनी भर्तुर्मौर्ख्येणोद्विग्ना ।अविशेषतया लोभेन ।
ज्ञाति-कुल-नित्या । विपन्न^अपत्या । गोष्ठी-योजिनी । प्रीति-योजिनी । कुशीलव-भार्या । मृत-पतिका बाला । दरिद्रा बहु^उपभोगा । ज्येष्ठ-भार्या बहु-देवरका । बहु-मानिनी न्यून-भर्तृका । कौशल^अभिमानिनी भर्तुर् मौर्ख्येण^उद्विग्ना । अविशेषतया लोभेन ।
कन्याकाले यत्नेन वरिता कथं चिदलब्धाभियुक्ता च सा तदानीं समानबुद्धिशीलमेधाप्रतिपत्तिसात्म्या ।प्रकृत्या पक्षपातिनी ।अनपराधे विमानिता ।तुल्यरूपाभिश्चाधः कृता ।प्रोषितपतिकेति ।ईर्ष्यालुपूतिचोक्षक्लीबदीर्घसूत्रकापुरुषकुब्जवामनविरूपमणिकारग्राम्यदुर्गन्धिरोगिवृद्धभार्याश्चेति ॥
कन्या-काले यत्नेन वरिता कथं चिद् अलब्ध^अभियुक्ता च सा तदानीं समान-बुद्धि-शील-मेधा-प्रतिपत्ति-सात्म्या । प्रकृत्या पक्ष-पातिनी । अनपराधे विमानिता । तुल्य-रूपाभिश् च^अधः कृता । प्रोषित-पतिका^इति । ईर्ष्यालु-पूति-चोक्ष-क्लीब-दीर्घसूत्र-कापुरुष-कुब्ज-वामन-विरूप-मणिकार-ग्राम्य-दुर्गन्धि-रोगि-वृद्ध-भार्याश् च^इति ॥
श्लोकाव् अत्र भवतः ---
इच्छा स्वभावतो जाता क्रियया परिबृंहिता ।
इच्छा स्वभावतो जाता क्रियया परिबृंहिता ।
बुद्ध्या संशोधितोद्वेगा स्थिरा स्यादनपायिनी ॥
बुद्ध्या संशोधिता^उद्वेगा स्थिरा स्याद् अनपायिनी ॥
सिद्धतामात्मनो ज्ञात्वा लिङ्गान्युन्नीय योषिताम् ।
सिद्धताम् आत्मनो ज्ञात्वा लिङ्गान्य् उन्नीय योषिताम् ।
व्यावृत्तिकारणोच्छेदी नरो योषित्सु सिध्यति ॥
व्यावृत्ति-कारण^उच्छेदी नरो योषित्सु सिध्यति ॥
5.2
परिचयकारणान्य् अभियोगा
यथाकन्या स्वयमभियोगसाध्या न तथा दूत्या ।परस्त्रियस्तु सूक्ष्मभावा दूतीसाध्या न तथात्मनेत्याचार्याः ॥
यथा-कन्या स्वयम् अभियोग-साध्या न तथा दूत्या । पर-स्त्रियस् तु सूक्ष्म-भावा दूती-साध्या न तथा^आत्मना^इत्य् आचार्याः ॥
सर्वत्र शक्तिविषये स्वयं साधनमुपपन्नतरकं दुरुपपादत्वात्तस्य दूतीप्रयोग इति वात्स्यायनः ॥
सर्वत्र शक्ति-विषये स्वयं साधनम् उपपन्नतरकं दुरुपपादत्वात् तस्य दूती-प्रयोग इति वात्स्यायनः ॥
प्रथमसाहसा अनियन्त्रणसंभाषाश्च स्वयं प्रतार्याः ।तद्विपरीताश्च दूत्येति प्रायोवादः ॥
प्रथम-साहसा अनियन्त्रण-संभाषाश् च स्वयं प्रतार्याः । तद्-विपरीताश् च दूत्या^इति प्रायो-वादः ॥
स्वयमभियोक्ष्यमाणस्त्वादावेव परिचयं कुर्यात् ।।
स्वयम् अभियोक्ष्यमाणस् त्व् आदाव् एव परिचयं कुर्यात् ॥
तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च ।
तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च ।
स्वाभाविकमात्मनो भवनसंनिकर्षे प्रायत्निकं मित्रज्ञातिमहामात्रवैद्यभवनसंनिकर्षे विवाहयज्ञोत्सवव्यसनोद्यानगमनादिषु ॥
स्वाभाविकम् आत्मनो भवन-संनिकर्षे प्रायत्निकं मित्र-ज्ञाति-महामात्र-वैद्य-भवन-संनिकर्षे विवाह-यज्ञ^उत्सव-व्यसन^उद्यान-गमन^आदिषु ॥
दर्शने चास्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच्छुरणमाभरणप्रह्लादनमधरौष्ठविमर्दनं तास्ताश्च लीला वयस्यैः सह प्रेक्षमाणायास्तत्संबद्धाः परापदेशिन्यश्च कथास्त्यागोपभोगप्रकाशनं सख्युरुत्सङ्गनिषण्णस्य साङ्गभङ्गं जृंभणमेकभ्रूक्षेपणं मन्दवाक्यता तद्वाक्यश्रवणं तामुद्दिश्य बालेनान्यजनेन वा सहान्योपदिष्टा द्व्यर्था कथा तस्यां स्वयं मनोरथावेदनमन्यापदेशेन तामेवोद्दिश्य बालचुम्बनमालिङ्गनं च जिह्वया चास्य ताम्बूलदानं प्रदेशिन्या हनुदेशघट्टनं तत्तद्यथायोगं यथावकाशं च प्रयोक्तव्यम् ।
दर्शने च^अस्याः सततं साकारं प्रेक्षणं केश-संयमनं नखाच् छुरणम् आभरण-प्रह्लादनम् अधर^ओष्ठ-विमर्दनं तास् ताश् च लीला वयस्यैः सह प्रेक्षमाणायास् तत्-संबद्धाः पर^अपदेशिन्यश् च कथास् त्याग^उपभोग-प्रकाशनं सख्युर् उत्सङ्ग-निषण्णस्य साङ्ग-भङ्गं जृंभणम् एकभ्रू-क्षेपणं मन्द-वाक्यता तद्-वाक्य-श्रवणं ताम् उद्दिश्य बालेन^अन्य-जनेन वा सहान्य^उपदिष्टा द्व्यर्था कथा तस्यां स्वयं मनोरथ^अवेदनम् अन्य^अपदेशेन ताम् एव^उद्दिश्य बाल-चुम्बनम् आलिङ्गनं च जिह्वया च^अस्य ताम्बूल-दानं प्रदेशिन्या हनु-देश-घट्टनं तत् तद् यथा-योगं यथा^अवकाशं च प्रयोक्तव्यम् ।
तस्याश्चाङ्कगतस्य बालस्य लालनं बालक्रीडनकानां चास्य दानं ग्रहणं तेन संनिकृष्टत्वात्कथायोजनं तत्संभाषणक्षमेण जनेन च प्रीतिमासाद्य कार्यं तदनुबन्धं च गमनागमनस्य योजनं संश्रये चास्यास्तामपश्यतो नाम कामसूत्रसंकथा ॥
तस्याश् च^अङ्कगतस्य बालस्य लालनं बाल-क्रीडनकानां च^अस्य दानं ग्रहणं तेन संनिकृष्टत्वात् कथा-योजनं तत्-संभाषण-क्षमेण जनेन च प्रीतिम् आसाद्य कार्यं तद्-अनुबन्धं च गमन^अगमनस्य योजनं संश्रये च^अस्यास् ताम् अपश्यतो नाम कामसूत्र-संकथा ॥
प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात् ।तत्प्रतिदिनं प्रतिक्षणं चैकदेशतो गृह्नीयात् ।सौगन्धिकं पूगफलानि च ।
प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात् । तत्-प्रति-दिनं प्रति-क्षणं च^एक-देशतो गृह्नीयात् । सौगन्धिकं पूग-फलानि च ।
तामात्मनो दारैः सह विस्रम्भगोष्ठ्यां विविक्तासने च योजयेत्
ताम् आत्मनो दारैः सह विस्रम्भ-गोष्ठ्यां विविक्त^आसने च योजयेत्
नित्यदर्शनार्थं विश्वासनार्थं च ।
नित्य-दर्शन^अर्थं विश्वासन^अर्थं च ।
सुवर्णकारमणिकारवैकटिकनीलीकुसुम्भरञ्ज्कादिषु च कामार्थिन्यां सहात्मनो वश्यैश्चैषां तत्संपादने स्वयं प्रयतेत ।
सुवर्णकार-मणिकार-वैकटिक-नीलीकुसुम्भ-रञ्ज्क^आदिषु च काम^अर्थिन्यां सह^आत्मनो वश्यैश् च^एषां तत्-संपादने स्वयं प्रयतेत ।
तदनुष्ठाननिरतस्य लोकविदितो दीर्घकालं संदर्शनयोगः ।
तद् अनुष्ठान-निरतस्य लोक-विदितो दीर्घ-कालं संदर्शन-योगः ।
तस्मिंश्चान्येषामपि कर्मणामनुसंधानम् ।
तस्मिंश् च^अन्येषाम् अपि कर्मणाम् अनुसंधानम् ।
5.1
येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात्तस्य प्रयोगमुत्पत्तिमागममुपायं विज्ञानं चात्मायत्तं दर्शयेत् ।
येन कर्मणा द्रव्येण कौशलेन च^अर्थिनी स्यात् तस्य प्रयोगम् उत्पत्तिम् आगमम् उपायं विज्ञानं च^आत्म^आयत्तं दर्शयेत् ।
5.2
पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्यगुणपरीक्षासु च तया तत्परिजनेन च सह विवादः ।
पूर्व-प्रवृत्तेषु लोक-चरितेषु द्रव्य-गुण-परीक्षासु च तया तत्-परिजनेन च सह विवादः ।
तत्र निर्दिष्टानि पणितानि तेष्वेनां प्राश्निकत्वेन योजयेत् ।
तत्र निर्दिष्टानि पणितानि तेष्व् एनां प्राश्निकत्वेन योजयेत् ।
तया तु विवदमानो ऽत्यन्ताद्भुतमिति ब्रूयादिति परिचयकारणानि ॥
तया तु विवदमानो +अत्यन्ताद् भुतम् इति ब्रूयाद् इति परिचय-कारणानि ॥
कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतो ऽभियुञ्जीतेति ।प्रायेण तत्र सूक्ष्मा अभियोगाः ।कन्यानामसंप्रयुक्तत्वात् ।इतरासु तानेव स्फुटमुपदध्यात् ।संप्रयुक्तत्वात् ।
कृत-परिचयां दर्शित^इङ्गित^आकारां कन्याम् इव^उपायतो +अभियुञ्जीत^इति । प्रायेण तत्र सूक्ष्मा अभियोगाः । कन्यानाम् असंप्रयुक्तत्वात् । इतरासु तान् एव स्फुटम् उपदध्यात् । संप्रयुक्तत्वात् ।
संदर्शिताकारायां निर्भिन्नसद्भावायां समुपभोगव्यतिकरे तदीयान्युपयुञ्जीत ।
संदर्शित^आकारायां निर्भिन्न-सद्भावायां समुपभोग-व्यतिकरे तदीयान्य् उपयुञ्जीत ।
तत्र महार्हगन्धमुत्तरीयं कुसुमं *च आत्मीयं [Ch: omits] स्यादङ्गुलीयकं च ।तद्धस्ताद्गृहीतताम्बूलया गोष्ठीगमनोद्यतस्य केशहस्तपुष्पयाचनम् ।
तत्र महार्ह-गन्धम् उत्तरीयं कुसुमं *च आत्मीयं[Ch: omits] स्याद् अङ्गुलीयकं च । तद्-धस्ताद् गृहीत-ताम्बूलया गोष्ठी-गमन^उद्यतस्य केश-हस्त-पुष्प-याचनम् ।
तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिह्नितं साकारं दद्यात् ।
तत्र महार्ह-गन्धं स्पृहणीयं स्व-नख-दशन-पद-चिह्नितं साकारं दद्यात् ।
अधिकैरधिकैश्चाभियोगैः साध्वसविच्छेदनम् ।।
अधिकैर् अधिकैश् च^अभियोगैः साध्वस-विच्छेदनम् ॥
क्रमेण च विविक्तदेशे गमनमालिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्यभियोगाः ॥
क्रमेण च विविक्त-देशे गमनम् आलिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दान^अन्ते द्रव्याणां परिवर्तनं गुह्य-देश^अभिमर्शनं च^इत्य् अभियोगाः ॥
यत्र चैकाभियुक्ता न तत्रापरामभियुञ्जीत ।तत्र या वृद्धानुभूतविषया प्रियोपग्रहैश्च तामुपगृह्णीयात् ।।
यत्र च^एक^अभियुक्ता न तत्र^अपराम् अभियुञ्जीत । तत्र या वृद्ध^अनुभूत-विषया प्रिय^उपग्रहैश् च ताम् उपगृह्णीयात् ॥
श्लोकाव् अत्र भवतः ---
अन्यत्र दृष्टसंचारस्तद्भर्ता यत्र नायकः ।
अन्यत्र दृष्ट-संचारस् तद्-भर्ता यत्र नायकः ।
न तत्र योषितं कां चित्सुप्रापामपि लङ्घयेत् ।।
न तत्र योषितं कां चित् सुप्रापाम् अपि लङ्घयेत् ॥
शङ्कितां रक्षितां भीतां सश्वश्रूकां च योषितम् ।।
शङ्कितां रक्षितां भीतां सश्वश्रूकां च योषितम् ॥
न तर्कयेत मेधावी जानन्प्रत्ययमात्मनः ॥
न तर्कयेत मेधावी जानन् प्रत्ययम् आत्मनः ॥
5.3
भावपरीक्षा
अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत ।तया भावः परीक्षितो भवति ।अभियोगांश्च प्रतिगृह्णीयात् ।।
अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत । तया भावः परीक्षितो भवति । अभियोगांश् च प्रतिगृह्णीयात् ॥
मन्त्रमवृण्वानां दूत्यैनां साधयेत् ।।
मन्त्रम् अवृण्वानां दूत्या^एनां साधयेत् ॥
अप्रतिगृह्याभियोगं पुनरपि संसृज्यमानां द्विधा भूतमानसां विद्यात् ।तां क्रमेण साधयेत् ।।
अप्रतिगृह्य^अभियोगं पुनर् अपि संसृज्यमानां द्विधा भूत-मानसां विद्यात् । तां क्रमेण साधयेत् ॥
अप्रतिगृह्याभियोगं सविशेषमलंकृता च पुनर्दृश्येत तथैव तमभिगच्छेच्च विविक्ते बलाद्ग्रहणीयां विद्यात् ।।
अप्रतिगृह्य^अभियोगं सविशेषम् अलंकृता च पुनर् दृश्येत तथा^एव तम् अभिगच्छेच् च विविक्ते बलाद् ग्रहणीयां विद्यात् ॥
बहूनपि विषहते ऽभियोगान्न च चिरेणापि प्रयच्छत्यात्मानं सा शुष्कप्रतिग्राहिणी परिचयविघटनसाध्या ॥
बहून् अपि विष-हते +अभियोगान् न च चिरेण^अपि प्रयच्छत्य् आत्मानं सा शुष्क-प्रतिग्राहिणी परिचय-विघटन-साध्या ॥
मनुष्यजातेश्चित्तानित्यत्वात् ।।
मनुष्य-जातेश् चित्त^अनित्यत्वात् ॥
अभियुक्तापि परिहरति ।न च संसृज्यते ।न च प्रत्याचष्टे ।तस्मिन्नात्मनि च गौरवाभिमानात् ।सातिपरिचयात्कृच्छ्रसाध्या ।मर्मज्ञया दूत्या तां साधयेत् ।।
अभियुक्त^अपि परिहरति । न च संसृज्यते । न च प्रत्याचष्टे । तस्मिन्न् आत्मनि च गौरव^अभिमानात् । स^अतिपरिचयात् कृच्छ्र-साध्या । मर्मज्ञया दूत्या तां साधयेत् ॥
सा चेदभियुज्यमाना पारुष्येण प्रत्यादिशत्युपेक्ष्या ॥
सा चेद् अभियुज्यमाना पारुष्येण प्रत्यादिशत्य् उपेक्ष्या ॥
परुषयित्वापि तु प्रीतियोजिनीं साधयेत् ।।
परुषयित्वा^अपि तु प्रीति-योजिनीं साधयेत् ॥
कारणात्संस्पर्शनं सहते नावबुध्यते नाम द्विधाभूतमानसा सातत्येन क्षान्त्या वा साध्या ।
कारणात् संस्पर्शनं सहते न^अवबुध्यते नाम द्विधा-भूत-मानसा सातत्येन क्षान्त्या वा साध्या ।
समीपे शयानायाः सुप्तो नाम करमुपरि विन्यसेत् ।सापि सुप्तेवोपेक्षते ।जाग्रती त्वपनुदेद्भूयो ऽभियोगाकाङ्क्षिणी ॥
समीपे शयानायाः सुप्तो नाम करम् उपरि विन्यसेत् । सापि सुप्ता^इव^उपेक्षते । जाग्रती त्व् अपनुदेद् भूयो +अभियोग^आकाङ्क्षिणी ॥
एतेन पादस्योपरि पादन्यासो व्याख्यातः ।
एतेन पादस्य^उपरि पाद-न्यासो व्याख्यातः ।
तस्मिन्प्रसृते भूयः सुप्तसंश्लेषणमुपक्रमेत् ।
तस्मिन् प्रसृते भूयः सुप्त-संश्लेषणम् उपक्रमेत् ।
तदसहमानामुत्थितां द्वितीये ऽहनि प्रकृतिवर्तिनीमभियोगार्थिनीं विद्यात् ।अदृश्यमानां तु दूतीसाध्याम् ।।
तद्-असहमानाम् उत्थितां द्वितीये +अहनि प्रकृति-वर्तिनीम् अभियोग^अर्थिनीं विद्यात् । अदृश्यमानां तु दूती-साध्याम् ॥
चिरमदृष्टापि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिताकारामुपक्रमेत् ।।
चिरम् अदृष्टा^अपि प्रकृतिस्था^एव संसृज्यते कृत-लक्षणां तां दर्शित^आकाराम् उपक्रमेत् ॥
अनभियुक्ताप्याकारयति ।विविक्ते चात्मानं दर्शयति ।सवेपथुगद्गदं वदति ।स्विन्नकरचरणाङ्गुलिः स्विन्नमुखी च भवति ।शिरःपीडने संवाहने चोर्वोरात्मानं नायके नियोजयति ।
अनभियुक्ता^अप्य् आकारयति । विविक्ते च^आत्मानं दर्शयति । सवेपथु-गद्गदं वदति । स्विन्न-कर-चरण^अङ्गुलिः स्विन्न-मुखी च भवति । शिरः-पीडने संवाहने च^ऊर्वोर् आत्मानं नायके नियोजयति ।
आतुरा संवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शमावेदयति श्लेषयति च ।विस्मितभावा ।
आतुरा संवाहिका च^एकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शम् आवेदयति श्लेषयति च । विस्मित-भावा ।
निद्रान्धा वा परिस्पृश्योरुभ्यां बाहुभ्यामपि तिष्ठति ।अलिकैकदेशमूर्वोरुपरि पातयति ।ऊरूमूलसंवाहने नियुक्ता न प्रतिलोमयति ।तत्रैव हस्तमेकमविचलं न्यस्यति ।अङ्गसंदंशेन च पीडितं चिरादपनयति ।
निद्रा^अन्धा वा परिस्पृश्य^ऊरुभ्यां बाहुभ्याम् अपि तिष्ठति । अलि-कैक-देशम् ऊर्वोर् उपरि पातयति । ऊरू-मूल-संवाहने नियुक्ता न प्रतिलोमयति । तत्र^एव हस्तम् एकम् अविचलं न्यस्यति । अङ्ग-संदंशेन च पीडितं चिराद् अपनयति ।
प्रतिगृह्यैवं नायकाभियोगान्पुनर्द्वितीये ऽहनि संवाहनायोपगच्छति ।
प्रतिगृह्य^एवं नायका^अभियोगान् पुनर् द्वितीये +अहनि संवाहनाय^उपगच्छति ।
नात्यर्थं संसृज्यते ।न च परिहरति ।
न^अत्यर्थं संसृज्यते । न च परिहरति ।
विविक्ते भावं दर्शयति निष्कारणं चागूढमन्यत्र प्रच्छन्नप्रदेशात् ।
विविक्ते भावं दर्शयति निष्कारणं च^अगूढम् अन्यत्र प्रच्छन्न-प्रदेशात् ।
संनिकृष्टपरिचारकोपभोग्या सा चेदाकारितापि तथैव स्यात्सा मर्मज्ञया दूत्या साध्या ।
संनिकृष्ट-परिचारक^उपभोग्या सा चेद् आकारिता^अपि तथा^एव स्यात् सा मर्मज्ञया दूत्या साध्या ।
व्यावर्तमाना तु तर्कणीयेति भावपरीक्षा ॥
व्यावर्तमाना तु तर्कणीया^इति भाव-परीक्षा ॥
भवन्ति च^अत्र श्लोकाः ---
आदौ परिचयं कुर्यात्ततश्च परिभाषणम् ।
आदौ परिचयं कुर्यात् ततश् च परिभाषणम् ।
परिभाषणसंमिश्रं मिथश्चाकारवेदनम् ।।
परिभाषण-संमिश्रं मिथश् च^आकार-वेदनम् ॥
प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहम् ।
प्रत्युत्तरेण पश्येच् चेद् आकारस्य परिग्रहम् ।
ततो ऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः ॥
ततो +अभियुञ्जीत नरः स्त्रियं विगत-साध्वसः ॥
आकारेणात्मनो भावं या नारी प्राक्प्रयोजयेत् ।
आकारेण^आत्मनो भावं या नारी प्राक् प्रयोजयेत् ।
क्षिप्रमेवाभियोज्या सा प्रथमे त्वेव दर्शने ॥
क्षिप्रम् एव^अभियोज्या सा प्रथमे त्व् एव दर्शने ॥
श्लक्ष्णमाकारिता या तु दर्शयेत्स्फुटमुत्तरम् ।
श्लक्ष्णम् आकारिता या तु दर्शयेत् स्फुटम् उत्तरम् ।
सापि तत्क्षणसिद्धेति विज्ञेया रतिलालसा ॥
सा^अपि तत्क्षण-सिद्धा^इति विज्ञेया रति-लालसा ॥
धीरायामप्रगल्भायां परीक्षिण्यां च योषिति ।
धीर^आयाम-प्रगल्भायां परीक्षिण्यां च योषिति ।
एष सूक्ष्मो विधिः प्रोक्तः सिद्धा एव स्फुटं स्त्रियः ॥
एष सूक्ष्मो विधिः प्रोक्तः सिद्धा एव स्फुटं स्त्रियः ॥
5.4
दूतीकर्माणि
दर्शितेङ्गिताकारां तु प्रविरलदर्शनामपूर्वां च दूत्योपसर्पयेत् ।
दर्शित^इङ्गित^आकारां तु प्रविरल-दर्शनाम् अपूर्वां च दूत्या^उपसर्पयेत् ।
सैनां शीलतो ऽनुप्रविश्याख्यानकपटैः सुभगंकरणयोगैर्लोकवृत्तान्तैः कविकथाभिः पारदारिककथाभिश्च तस्याश्च रूपविज्ञानदाक्षिण्यशीलानुप्रशंसाभिश्च तां रञ्जयेत् ।
सा^एनां शीलतो +अनुप्रविश्य^आख्यान-कपटैः सुभगंकरण-योगैर् लोक-वृत्त^अन्तैः कवि-कथाभिः पार-दारिक-कथाभिश् च तस्याश् च रूप-विज्ञान-दाक्षिण्य-शील^अनुप्रशंसाभिश् च तां रञ्जयेत् ।
कथमेवं विधायास्तवायमिथंभूतः पतिरिति चानुशयं ग्राहयेत् ।
कथम् एवं विधायास् तव^अयम् इथंभूतः पतिर्-इति च^अनुशयं ग्राहयेत् ।
न तव सुभगे दास्यमपि कर्तुं युक्त इति ब्रूयात् ।
न तव सुभगे दास्यम् अपि कर्तुं युक्त इति ब्रूयात् ।
मन्दवेगतामीर्ष्यालुतां शठतामकृतज्ञतां चासंभोगशीलतां कदर्यतां चपलतामन्यानि च यानि तस्मिन्गुप्तान्यस्या अभ्याशे सति सद्भावे ऽतिशयेन भाषेत ।
मन्द-वेगताम् ईर्ष्यालुतां शठताम् अकृतज्ञतां च^असंभोग-शीलतां कदर्यतां चपलताम् अन्यानि च यानि तस्मिन् गुप्तान्य् अस्या अभ्याशे सति सद्भावे +अतिशयेन भाषेत ।
येन च दोषेणोद्विग्नां तेनैवानुप्रविशेत् ।
येन च दोषेण^उद्विग्नां तेन^एव^अनुप्रविशेत् ।
यदासौ मृगी तदा नैव शशतादोषः ।
यदा^असौ मृगी तदा न^एव शशता-दोषः ।
एतेनैव वडवाहस्तिनीविषयश्चोक्तः ॥
एतेन^एव वडवा-हस्तिनी-विषयश् च^उक्तः ॥
नायिकाया एव तु विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्प्रथमसाहसायां सूक्ष्मभावायां चेति गोणिकापुत्रः ॥
नायिकाया एव तु विश्वास्यताम् उपलभ्य दूतीत्वेन^उपसर्पयेत् प्रथम-साहसायां सूक्ष्म-भावायां च^इति गोणिकापुत्रः ॥
सा नायकस्य चरितमनुलोमतां कामितानि च कथयेत् ।
सा नायकस्य चरितम् अनुलोमतां कामितानि च कथयेत् ।
प्रसृतसद्भावायां च युक्त्या कार्यशरीरमित्थं वदेत् ।
प्रसृत-सद्-भावायां च युक्त्या कार्य-शरीरम् इत्थं वदेत् ।
शृणु विचित्रमिदं सुभगे ,त्वां किल दृष्ट्वामुत्रासावित्थं गोत्रपुत्रो नायकश्चित्तोन्मादमनुभवति ।प्रकृत्या सुकुमारः कदा चिदन्यत्रापरिक्लिष्टपूर्वस्तपस्वी ।ततो ऽधुना शक्यमनेन मरणमप्यनुभवितुमिति वर्णयेत् ।
शृणु विचित्रम् इदं सुभगे, त्वां किल दृष्ट्वा^अमुत्र^असाव् इत्थं गोत्र-पुत्रो नायकश् चित्त^उन्मादम् अनुभवति । प्रकृत्या सुकुमारः कदा चिद् अन्यत्र^अपरिक्लिष्ट-पूर्वस् तपस्वी । ततो +अधुना शक्यम् अनेन मरणम् अप्य् अनुभवितुम् इति वर्णयेत् ।
तत्र सिद्धा द्वितीये ऽहनि वाचि वक्त्रे दृष्ट्यां च प्रसादमुपलक्ष्य पुनरपि कथां प्रवर्तयेत् ।
तत्र सिद्धा द्वितीये +अहनि वाचि वक्त्रे दृष्ट्यां च प्रसादम् उपलक्ष्य पुनर् अपि कथां प्रवर्तयेत् ।
शृण्वत्यां चाहल्याविमारकशाकुन्तलादीन्यन्यान्यपि लौकिकानि च कथयेत्तद्युक्तानि ।
शृण्वत्यां च^अहल्या^अविमारक-शाकुन्तला^आदीन्य् अन्यान्य् अपि लौकिकानि च कथयेत् तद्-युक्तानि ।
वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य ।श्लाघनीयतां (या )चास्य प्रच्छन्नं संप्रयोगं भूतमभूतपूर्वं वा वर्णयेत् ।
वृषतां चतुःषष्टि-विज्ञतां सौभाग्यं च नायकस्य । श्लाघनीयतां (या) च^अस्य प्रच्छन्नं संप्रयोगं भूतम् अभूत-पूर्वं वा वर्णयेत् ।
आकारं चास्या लक्षयेत् ।।
आकारं च^अस्या लक्षयेत् ॥
सविहसितं दृष्ट्वा संभाषते ।
सविहसितं दृष्ट्वा संभाषते ।
आसने चोपनिमन्त्रयते ।
आसने च^उपनिमन्त्रयते ।
क्वासितं क्व शयितं *क्व [Ch: omits] भुक्तं क्व चेष्टितं किं वा कृतमिति पृच्छति ।
क्वासितं क्व शयितं *क्व[Ch: omits] भुक्तं क्व चेष्टितं किं वा कृतम् इति पृच्छति ।
विविक्ते दर्शयत्यात्मानम् ।
विविक्ते दर्शयत्य् आत्मानम् ।
आख्यानकानि नियुङ्क्ते ।
आख्यानकानि नियुङ्क्ते ।
चिन्तयन्ती निःश्वसिति विजृम्भते च ।
चिन्तयन्ती निःश्वसिति विजृम्भते च ।
प्रीतिदायं च ददाति ।
प्रीति-दायं च ददाति ।
इष्टेषूत्सवेषु च स्मरति ।
इष्टेषु^उत्सवेषु च स्मरति ।
पुनर्दर्शनानुबन्धं विसृजति ।
पुनर् दर्शन^अनुबन्धं विसृजति ।
साधुवादिनी सती किमिदमशोभनमभिधत्स इति कथामनुबध्नाति ।
साधुवादिनी सती किम् इदम् अशोभनम् अभिधत्स इति कथाम् अनुबध्नाति ।
नायकस्य शाठ्यचापल्यसंबद्धान्दोशान्ददाति ।
नायकस्य शाठ्य-चापल्य-संबद्धान् दोशान् ददाति ।
पूर्वप्रवृत्तं च तत्संदर्शनं कथाभियोगं च स्वयमकथयन्ती तयोच्यमानमाकाङ्क्षति ।
पूर्व-प्रवृत्तं च तत्-संदर्शनं कथा^अभियोगं च स्वयम् अकथयन्ती तया^उच्यमानम् आकाङ्क्षति ।
नायकमनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति ।न च निर्वदतीति ॥
नायक-मनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति । न च निर्वदति^इति ॥
दूत्येनां दर्शिताकारां नायकाभिज्ञानैरुपबृंहयेत् ।
दूत्य् एनां दर्शित^आकारां नायक^अभिज्ञानैर् उपबृंहयेत् ।
असंस्तुतां तु गुणकथनैरनुरागकथाभिश्चावर्जयेत् ।।
असंस्तुतां तु गुण-कथनैर् अनुराग-कथाभिश् च^आवर्जयेत् ॥
नासंस्तुतादृष्टाकारयोर्दूत्यमस्तीत्यौद्दालकिः ।
न^असंस्तुत^अदृष्ट^आकारयोर् दूत्यम् अस्ति^इत्य् औद्दालकिः ।
असंस्तुतयोरपि संसृष्टाकारयोरस्तीति बाभ्रवीयाः ।
असंस्तुतयोर् अपि संसृष्ट^आकारयोर् अस्ति^इति बाभ्रवीयाः ।
संस्तुतयोरप्यसंसृष्टाकारयोरस्तीति गोणिकापुत्रः ।
संस्तुतयोर् अप्य् असंसृष्ट^आकारयोर् अस्ति^इति गोणिकापुत्रः ।
असंस्तुतयोरदृष्टाकारयोरपि दूतीप्रत्ययादिति वात्स्यायनः ॥
असंस्तुतयोर् अदृष्ट^आकारयोर् अपि दूती-प्रत्ययाद् इति वात्स्यायनः ॥
तासां मनोहराण्युपायनानि ताम्बूलमनुलेपनं स्रजमङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत् ।
तासां मनोहराण्य् उपायनानि ताम्बूलम् अनुलेपनं स्रजम् अङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत् ।
तेषु नायकस्य यथार्थं नखदशनपदानि तानि तानि च चिह्नानि स्युः ।
तेषु नायकस्य यथा^अर्थं नख-दशन-पदानि तानि तानि च चिह्नानि स्युः ।
वाससि च कुङ्कुमाङ्कमञ्जलिं निदध्यात् ।
वाससि च कुङ्कुम^अङ्कम् अञ्जलिं निदध्यात् ।
पत्त्रछेद्यानि नानाभिप्रायाकृतिनि दर्शयेत् ।लेखपत्रगर्भाणि कर्णपत्त्राण्यापीडांश्च
पत्त्र-छेद्यानि नाना^अभिप्राय^आकृतिनि दर्शयेत् । लेख-पत्र-गर्भाणि कर्ण-पत्त्राण्य् आपीडांश् च
तेषु स्वमनोरथाख्यापनम् ।प्रतिप्राभृतदाने चैनां नियोजयेत् ।
तेषु स्व-मनोरथ^आख्यापनम् । प्रतिप्राभृत-दाने च^एनां नियोजयेत् ।
एवं कृतपरस्परपरिग्रहयोश्च दूतीप्रत्ययः समागमः ॥
एवं कृत-परस्पर-परिग्रहयोश् च दूती-प्रत्ययः समागमः ॥
स तु देवताभिगमने यात्रायामुद्यानक्रीडायां जलावतरणे विवाहे यज्ञव्यसनोत्सवेष्वग्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रारोहणे प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्विति बाभ्रवीयाः ।
स तु देवता^अभिगमने यात्रायाम् उद्यान-क्रीडायां जल^अवतरणे विवाहे यज्ञ-व्यसन^उत्सवेष्व् अग्न्य्-उत्पाते चौर-विभ्रमे जनपदस्य चक्र^आरोहणे प्रेक्षा-व्यापारेषु तेषु तेषु च कार्येष्व् इति बाभ्रवीयाः ।
सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखोपाय इति गोणिकापुत्रः ।
सखी-भिक्षुकी-क्षपणिका-तापसी-भवनेषु सुख^उपाय इति गोणिकापुत्रः ।
तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्रतीकारे प्रवेशनमुपपन्नं निष्क्रमणमविज्ञातकालं च तन्नित्यं सुखोपायं चेति वात्स्यायनः ॥
तस्या एव तु गेहे विदित-निष्क्रम-प्रवेशे चिन्तिता^अत्यय-प्रतीकारे प्रवेशनम् उपपन्नं निष्क्रमणम् अविज्ञात-कालं च तन् नित्यं सुख^उपायं च^इति वात्स्यायनः ॥
निसृष्टार्था परिमितार्था पत्रहारी स्वयंदूती मूढदूती भार्यादूती मूकदूती वातदूती चेति दूतीविशेषाः ॥
निसृष्ट^अर्था परिमित^अर्था पत्र-हारी स्वयं-दूती मूढ-दूती भार्या-दूती मूक-दूती वात-दूती च^इति दूती-विशेषाः ॥
नायकस्य नायिकायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टार्था ॥
नायकस्य नायिकायाश् च यथा-मनीषितम् अर्थम् उपलभ्य स्व-बुद्ध्या कार्य-संपादिनी निसृष्ट^अर्था ॥
सा प्रायेण संस्तुतसंभाषणयोः ।
सा प्रायेण संस्तुत-संभाषणयोः ।
नायिकया प्रयुक्ता असंस्तुतसंभाषनयोरपि ।
नायिकया प्रयुक्ता असंस्तुत-संभाषनयोर् अपि ।
कौतुकाच्चानुरूपौ युक्ताविमौ परस्परस्येत्यसंस्तुतयोरपि ॥
कौतुकाच् च^अनुरूपौ युक्ताव् इमौ परस्परस्य^इत्य् असंस्तुतयोर् अपि ॥
कार्यैकदेशमभियोगैकदेशं चोपलभ्य शेषं संपादयतीति परिमितार्था ॥
कार्य^एकदेशम् अभियोग^एकदेशं च^उपलभ्य शेषं संपादयति^इति परिमित^अर्था ॥
सा दृष्टपरस्पराकारयोः प्रविरलदर्शनयोः ॥
सा दृष्ट-परस्पर^आकारयोः प्रविरल-दर्शनयोः ॥
संदेशमात्रं प्रापयतीति पत्रहारी ॥
संदेश-मात्रं प्रापयति^इति पत्र-हारी ॥
सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसंबोधनार्थम् ।।
सा प्रगाढ-सद्भावयोः संसृष्टयोश् च देश-काल-संबोधन^अर्थम् ॥
दौत्येन प्रहितान्यया स्वयमेव नायकमभिगच्छेदजानती नाम तेन सहोपभोगं स्वप्ने वा कथयेत् ।गोत्रस्खलितं भार्यां चास्य निन्देत् ।तद्व्यपदेशेन स्वयमीर्ष्यां दर्शयेत् ।नखदशनचिह्नितं वा किं चिद्दद्यात् ।भवते ऽहमदौ दातुं संकल्पितेति चाभिदधीत ।मम भार्याया का रमनीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती ।
दौत्येन प्रहित^अन्यया स्वयम् एव नायकम् अभिगच्छेद् अजानती नाम तेन सह^उपभोगं स्वप्ने वा कथयेत् । गोत्र-स्खलितं भार्यां च^अस्य निन्देत् । तद्-व्यपदेशेन स्वयम् ईर्ष्यां दर्शयेत् । नख-दशन-चिह्नितं वा किं चिद् दद्यात् । भवते +अहम् अदौ दातुं संकल्पिता^इति च^अभिदधीत । मम भार्याया का रमनीया^इति विविक्ते पर्यनुयुञ्जीत सा स्वयं-दूती ।
तस्या विविक्ते दर्शनं प्रतिग्रहश्च ।
तस्या विविक्ते दर्शनं प्रतिग्रहश् च ।
प्रतिग्रहच्छलेनान्यामभिसंधायास्याः संदेशश्रावणद्वारेण नायकं साधयेत्तां चोपहन्यात्सापि स्वयंदूती ।
प्रतिग्रह-च्छलेन^अन्याम् अभिसंधाय^अस्याः संदेश-श्रावण-द्वारेण नायकं साधयेत् तां च^उपहन्यात् सा^अपि स्वयं-दूती ।
एतया नायको ऽप्यन्यदूतश्च व्याख्यातः ॥
एतया नायको +अप्य् अन्य-दूतश् च व्याख्यातः ॥
नायकभार्यां मुग्धां विश्वास्यायन्त्रणयानुप्रविश्य नायकस्य चेष्टितानि पृच्छेत् ।योगाञ्शिक्षयेत् ।साकारं मण्डयेत् ।कोपमेनां ग्राहयेत् ।एवं च प्रतिपद्यस्वेति श्रावयेत् ।स्वयं चास्यां नखदशनपदानि निर्वर्तयेत् ।तेन द्वारेण नायकमाकारयेत्सा मूढदूती ॥
नायक-भार्यां मुग्धां विश्वास्य^अयन्त्रणया^अनुप्रविश्य नायकस्य चेष्टितानि पृच्छेत् । योगाञ् शिक्षयेत् । साकारं मण्डयेत् । कोपम् एनां ग्राहयेत् । एवं च प्रतिपद्यस्व^इति श्रावयेत् । स्वयं च^अस्यां नख-दशन-पदानि निर्वर्तयेत् । तेन द्वारेण नायकम् आकारयेत् सा मूढ-दूती ॥
तस्यास्तयैव प्रत्युत्तराणि योजयेत् ।।
तस्यास् तया^एव प्रत्युत्तराणि योजयेत् ॥
स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेत् ।आत्मनश्च वैचक्षण्यं प्रकाशयेत् ।सा भार्या दूती ।तस्यास्तयैवाकारग्रहणम् ।।
स्व-भार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तया^एव^आकारयेत् । आत्मनश् च वैचक्षण्यं प्रकाशयेत् । सा भार्या दूती । तस्यास् तया^एव^आकार-ग्रहणम् ॥
बालां वा परिचारिकामदोषज्ञामदुष्टेनोपायेन प्रहिणुयात् ।तत्र स्रजि कर्णपत्त्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती ।तस्यास्तया एव प्रत्युत्तरप्रार्थनम् ।।
बालां वा परिचारिकाम् अदोषज्ञाम् अदुष्टेन^उपायेन प्रहिणुयात् । तत्र स्रजि कर्ण-पत्त्रे वा गूढ-लेख-निधानं नख-दशन-पदं वा सा मूक-दूती । तस्यास् तया एव प्रत्युत्तर-प्रार्थनम् ॥
पूर्वप्रस्तुतार्थलिङ्गसंबद्धमन्यजनाग्रहणीयं लौकिकार्थं द्व्यर्थं वा वचनमुदासीना या श्रावयेत्सा वातदूती ।तस्या अपि तयैव प्रत्युत्तरप्रार्थनमिति तासां विशेषाः ॥
पूर्व-प्रस्तुत^अर्थ-लिङ्ग-संबद्धम् अन्य-जन^अग्रहणीयं लौकिक^अर्थं द्व्यर्थं वा वचनम् उदासीना या श्रावयेत् सा वात-दूती । तस्या अपि तया^एव प्रत्युत्तर-प्रार्थनम् इति तासां विशेषाः ॥
भवन्ति च^अत्र श्लोकाः ---
विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका ।
विधवा^ईक्षणिका दासी भिक्षुकी शिल्प-कारिका ।
प्रविशत्याशु विश्वासं दूतीकार्यं च विन्दति ॥
प्रविशत्य् आशु विश्वासं दूती-कार्यं च विन्दति ॥
विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत् ।
विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत् ।
चित्रान्सुरतसंभोगानन्यासामपि दर्शयेत् ।।
चित्रान् सुरत-संभोगान् अन्यासाम् अपि दर्शयेत् ॥
नायकस्यानुरागं च पुनश्च रतिकौशलम् ।
नायकस्य^अनुरागं च पुनश् च रति-कौशलम् ।
प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत् ।।
प्रार्थनां च^अधिक-स्त्रीभिर् अवष्टम्भं च वर्णयेत् ॥
असंकल्पितमप्यर्थमुत्सृष्टं दोषकारणात् ।
असंकल्पितम् अप्य् अर्थम् उत्सृष्टं दोष-कारणात् ।
पुनरावर्तयत्येव दूती वचनकौशलात् ।।
पुनर् आवर्तयत्य् एव दूती वचन-कौशलात् ॥
5.5
ईश्वरकामितं
न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते ।महाजनेन हि चरितमेषां दृश्यते ऽनुविधीयते च ॥
न राज्ञां महामात्राणां वा परभवन-प्रवेशो विद्यते । महाजनेन हि चरितम् एषां दृश्यते +अनुविधीयते च ॥
सवितारमुद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च ।गच्छन्तमपि पश्यन्त्यनुप्रतिष्ठन्ते च ॥
सवितारम् उद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च । गच्छन्तम् अपि पश्यन्त्य् अनुप्रतिष्ठन्ते च ॥
तस्मादशक्यत्वाद्गर्हणीयत्वाच्चेति न ते वृथा किं चिदाचरेयुः ॥
तस्माद् अशक्यत्वाद् गर्हणीयत्वाच् च^इति न ते वृथा किं चिद् आचरेयुः ॥
अवश्यं त्वाचरितव्ये योगान्प्रयुञ्जीरन् ।।
अवश्यं त्व् आचरितव्ये योगान् प्रयुञ्जीरन् ॥
ग्रामाधिपतेरयुक्तकस्य हलोत्थवृत्तिपुत्रस्य यूनो ग्रामीणयोषितो वचनमात्रसाध्याः ।ताश्चर्षण्य इत्याचक्षते विटाः ॥
ग्राम^अधिपतेर् अयुक्तकस्य हल^उत्थ-वृत्ति-पुत्रस्य यूनो ग्रामीण-योषितो वचन-मात्र-साध्याः । ताश् चर्षण्य इत्य् आचक्षते विटाः ॥
ताभिः सह विष्टिकर्मसु कोष्ठागारप्रवेशे द्रव्याणां निष्क्रमणप्रवेशनयोर्भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासोर्णातसीशणवल्कलादाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च कर्मसु संप्रयोगः ॥
ताभिः सह विष्टि-कर्मसु कोष्ठ^आगार-प्रवेशे द्रव्याणां निष्क्रमण-प्रवेशनयोर् भवन-प्रतिसंस्कारे क्षेत्र-कर्मणि कर्पास^ऊर्ण^अतसी-शण-वल्कल^आदाने सूत्र-प्रतिग्रहे द्रव्याणां क्रय-विक्रय-विनिमयेषु तेषु तेषु च कर्मसु संप्रयोगः ॥
तथा व्रजयोषिद्भिः सह गवाध्यक्षस्य ॥
तथा व्रज-योषिद्भिः सह गव^अध्यक्षस्य ॥
विधवानाथा प्रव्रजिताभिः सह सूत्राध्यक्षस्य ॥
विधवा-नाथा प्रव्रजिताभिः सह सूत्र^अध्यक्षस्य ॥
मर्मज्ञत्वाद्रात्रावटने चाटन्तीभिर्नागरस्य ॥
मर्मज्ञत्वाद् रात्र^अवटने चाटन्तीभिर् नागरस्य ॥
क्रयविक्रये पण्याध्यक्षस्य ॥
क्रय-विक्रये पण्य^अध्यक्षस्य ॥
अष्टमीचन्द्रकौमुदीसुवसन्तकादिषु पत्तननगरखर्वटयोषितामीश्वरभवने *सह [Ch: सट ] अन्तःपुरिकाभिः प्रायेण क्रीडा ॥
अष्टमी-चन्द्र-कौमुदी-सुवसन्तक^आदिषु पत्तन-नगर-खर्वट-योषिताम् ईश्वर-भवने *सह[Ch: सट] -अन्तःपुरिकाभिः प्रायेण क्रीडा ॥
तत्र चापानकान्ते नगरस्त्रियो यथापरिचयमन्तःपुरिकाणां पृथक्पृथग्भोगावासकान्प्रविश्य कथाभिरासित्वा पूजिताः प्रपीताश्चोपप्रदोषं निष्क्रामयेयुः ॥
तत्र च^अपानक^अन्ते नगर-स्त्रियो यथा-परिचयम् अन्तःपुरिकाणां पृथक् पृथग् भोग^अवासकान् प्रविश्य कथाभिर् आसित्वा पूजिताः प्रपीताश् च^उपप्रदोषं निष्क्रामयेयुः ॥
तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्वसंसृष्टा तां तत्र संभाषेत ।
तत्र प्रणिहिता राज-दासी प्रयोज्यायाः पूर्व-संसृष्टा तां तत्र संभाषेत ।
रामनीयकदर्शनेन योजयेत् ।
रामनीयक-दर्शनेन योजयेत् ।
प्रागेव स्वभवनस्थां ब्रूयात् ।अमुष्यां क्रीडायां तव राजभवनस्थानानि रामनीयकानि दर्शयिष्यामीति काले च योजयेत् ।बहिः प्रवालकुट्टिमं ते दर्शयिष्यामि ।
प्राग् एव स्वभवनस्थां ब्रूयात् । अमुष्यां क्रीडायां तव राज-भवन-स्थानानि रामनीयकानि दर्शयिष्यामि^इति काले च योजयेत् । बहिः प्रवाल-कुट्टिमं ते दर्शयिष्यामि ।
मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपं समुद्रगृहप्रासादान्गूढभित्तिसंचारांश्चित्रकर्माणि क्रीडामृगान्यन्त्राणि शकुनान्व्याघ्रसिंहपञ्जरादीनि च यानि पुरस्ताद्वर्णितानि स्युः ।
मणि-भूमिकां वृक्ष-वाटिकां मृद्वीका-मण्डपं समुद्र-गृह-प्रासादान् गूढ-भित्ति-संचारांश् चित्र-कर्माणि क्रीडा-मृगान् यन्त्राणि शकुनान् व्याघ्र-सिंह-पञ्जर^आदीनि च यानि पुरस्ताद् वर्णितानि स्युः ।
एकान्ते च तद्गतमीश्वरानुरागं श्रावयेत् ।
एकान्ते च तद्-गतम् ईश्वर^अनुरागं श्रावयेत् ।
संप्रयोगे चातुर्यं चाभिवर्णयेत् ।
संप्रयोगे चातुर्यं च^अभिवर्णयेत् ।
अमन्त्रश्रावं च प्रतिपन्नां योजयेत् ।।
अमन्त्र-श्रावं च प्रतिपन्नां योजयेत् ॥
अप्रतिपद्यमानां स्वयमेवेश्वर आगत्योपचारैः सान्वितां रञ्जयित्वा संभूय च सानुरागं विसृजेत् ।
अप्रतिपद्यमानां स्वयम् एव^ईश्वर आगत्य^उपचारैः सान्वितां रञ्जयित्वा संभूय च स^अनुरागं विसृजेत् ।
प्रयोज्यायाश्च पत्युरनुग्रहोचितस्य दारान्नित्यमन्तःपुरमौचित्यात्प्रवेशयेत् ।तत्र प्रणिहिता राजदासीति समानं पूर्वेण ।
प्रयोज्यायाश् च पत्युर् अनुग्रह^उचितस्य दारान् नित्यम् अन्तःपुरम् औचित्यात् प्रवेशयेत् । तत्र प्रणिहिता राज-दासी^इति समानं पूर्वेण ।
अन्तःपुरिका वा प्रयोज्यया सह स्वचेटिका संप्रेषणेन प्रीतिं कुर्यात् ।प्रसृतप्रीतिं च सापदेशं दर्शने नियोजयेत् ।प्रविष्टां पूजितां पीतवर्तीम्प्रणिहिता राजदासीति समानं पूर्वेण ।
अन्तःपुरिका वा प्रयोज्यया सह स्वचेटिका संप्रेषणेन प्रीतिं कुर्यात् । प्रसृत-प्रीतिं च स^अपदेशं दर्शने नियोजयेत् । प्रविष्टां पूजितां पीत-वर्तीम् प्रणिहिता राज-दासी^इति समानं पूर्वेण ।
यस्मिन्वा विज्ञाने प्रयोज्या विख्याता स्यात्तद्दर्शनार्थमन्तःपुरिका सोपचारं तामाह्वयेत् ।प्रविष्टां प्रणिहिता राजदासीति समानं पूर्वेण ।
यस्मिन् वा विज्ञाने प्रयोज्या विख्याता स्यात् तद् दर्शन^अर्थम् अन्तःपुरिका स^उपचारं ताम् आह्वयेत् । प्रविष्टां प्रणिहिता राज-दासी^इति समानं पूर्वेण ।
उद्भूतानर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयातसावन्तःपुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं शृणोति ।स्वभावतश्च कृपाशीला तामनेनोपायेनाधिगमिष्यामि ।अहमेव ते प्रवेशं कारयिष्यामि ।सा च ते भर्तुर्महान्तमनर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विस्त्रिरिति प्रवेशयेत् ।अन्तःपुरिका चास्या अभयं दद्यात् ।अभयश्रवणाच्च संप्रहृष्टां प्रणिहिता राजदासीति समानं पूर्वेण ।
उद्भूतान् अर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयात् असाव् अन्तःपुरिका राजनि सिद्धा गृहीत-वाक्या मम वचनं शृणोति । स्वभावतश् च कृपा-शीला ताम् अनेन^उपायेन^अधिगमिष्यामि । अहम् एव ते प्रवेशं कारयिष्यामि । सा च ते भर्तुर् महा^अन्तम् अनर्थं निवर्तयिष्यति^इति प्रतिपन्नां द्विस् त्रिर् इति प्रवेशयेत् । अन्तःपुरिका च^अस्या अभयं दद्यात् । अभय-श्रवणाच् च संप्रहृष्टां प्रणिहिता राज-दासी^इति समानं पूर्वेण ।
एतया वृत्त्यर्थिनां महामात्राभितप्तानां बलाद्विगृहीतानां व्यवहारे दुर्बलानां स्वभोगेनासंतुष्टानां राजनि प्रीतिकामानां राज्यजनेषु पङ्क्ति (व्यक्ति )मिच्छतां सजातैर्बाध्यमानानां सजातान्बाधितुकामानां सूचकानामन्येषां कार्यवशिनां जाया व्याख्याताः ॥
एतया वृत्त्य्-अर्थिनां महामात्र^अभितप्तानां बलाद् विगृहीतानां व्यवहारे दुर्बलानां स्व-भोगेन^असंतुष्टानां राजनि प्रीति-कामानां राज्य-जनेषु पङ्क्ति(व्यक्ति)म् इच्छतां सजातैर् बाध्यमानानां सजातान् बाधितुकामानां सूचकानाम् अन्येषां कार्य-वशिनां जाया व्याख्याताः ॥
अन्येन वा प्रयोज्यां सह संसृष्टां संग्राह्य दास्यमुपनीतां क्रमेणान्तःपुरं प्रवेशयेत् ।
अन्येन वा प्रयोज्यां सह संसृष्टां संग्राह्य दास्यम् उपनीतां क्रमेण^अन्तःपुरं प्रवेशयेत् ।
प्रणिधिना चायतिमस्याः संदूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनामन्तःपुरं प्रवेशयेदिति प्रच्छन्नयोगाः ।एते राजपुत्रेषु प्रायेण ॥
प्रणिधिना च^आयतिम् अस्याः संदूष्य राजनि विद्विष्ट इति कलत्र^अवग्रह^उपायेन^एनाम् अन्तःपुरं प्रवेशयेद् इति प्रच्छन्न-योगाः । एते राज-पुत्रेषु प्रायेण ॥
न त्वेवं परभवनमीश्वरः प्रविशेत् ।।
न त्व् एवं परभवनम् ईश्वरः प्रविशेत् ॥
आभीरं हि कोट्टराजं परभवनगतं भ्रातृप्रयुक्तो रजको जघान ।काशिराजं जयसेनमश्वाध्यक्ष इति ॥
आभीरं हि कोट्ट-राजं पर-भवन-गतं भ्रातृ-प्रयुक्तो रजको जघान । काशिराजं जयसेनम् अश्व^अध्यक्ष इति ॥
प्रकाशकामितानि तु देशप्रवृत्तियोगात् ।।
प्रकाश-कामितानि तु देश-प्रवृत्ति-योगात् ॥
प्रत्ता जनपदकन्या दशमे ऽहनि किंचिदौपायनिकमुपगृह्य प्रविशन्त्यन्तःपुरमुपभुक्ता एव विसृज्यन्त इत्यान्ध्राणाम् ।
प्रत्ता जनपद-कन्या दशमे +अहनि किंचिद् औपायनिकम् उपगृह्य प्रविशन्त्य् अन्तःपुरम् उपभुक्ता एव विसृज्यन्त इत्य् आन्ध्राणाम् ।
महामात्रेष्वराणामन्तःपुराणि निशि सेवार्थं राजानमुपगच्छन्ति वात्सगुल्मकानाम् ।
महामात्र^इष्वराणाम् अन्तःपुराणि निशि सेवा^अर्थं राजानम् उपगच्छन्ति वात्सगुल्मकानाम् ।
रूपवतीर्जनपदयोषितः प्रीत्यपदेशेन मासं मासार्धं वातिवासयन्त्यन्तःपुरिका वैदर्भाणाम् ।
रूपवतीर् जनपद-योषितः प्रीत्य्-अपदेशेन मासं मासा^अर्धं वा^अतिवासयन्त्य् अन्तःपुरिका वैदर्भाणाम् ।
दर्शनीयाः स्वभार्याः प्रीतिदायामेव महामात्रराजभ्यो ददत्यपरान्तकानाम् ।
दर्शनीयाः स्वभार्याः प्रीति-दायाम् एव महामात्र-राजभ्यो ददत्य् अपरान्तकानाम् ।
राजक्रीडार्थं नगरस्त्रियो जनपदस्त्रियश्च सङ्घश एकशश्च राजकुलं प्रविशन्ति सौराष्ट्रकाणामिति ॥
राज-क्रीडा^अर्थं नगर-स्त्रियो जनपद-स्त्रियश् च सङ्घश एकशश् च राज-कुलं प्रविशन्ति सौराष्ट्रकाणाम् इति ॥
श्लोकाव् अत्र भवतः
एते चान्ये च बहवः प्रयोगाः पारदारिकाः ।
एते च^अन्ये च बहवः प्रयोगाः पारदारिकाः ।
देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ॥
देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ॥
न त्वेवैतान्प्रयुञ्जीत राजा लोकहिते रतः ।
न त्व् एव^एतान् प्रयुञ्जीत राजा लोकहिते रतः ।
निगृहीतारिषड्वर्गस्तथा विजयते महीम् ।।
निगृहीतारिषड्-वर्गस् तथा विजयते महीम् ॥
5.6
आन्तःपुरिकं दाररक्षितकं
नान्तःपुराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चैकत्वादनेकसाधारणत्वाच्चातृप्तिः ।तस्मात्तानि प्रयोगत एव परस्परं रञ्जयेयुः ॥
न^अन्तःपुराणां रक्षण-योगात् पुरुष-संदर्शनं विद्यते पत्युश् च^एकत्वाद् अनेक-साधारणत्वाच् च^अतृप्तिः । तस्मात् तानि प्रयोगत एव परस्परं रञ्जयेयुः ॥
धात्रेयिकां सखीं दासीं वा पुरुषवदलंकृत्याकृतिसंयुक्तैः कन्दमूलफलावयवैरपद्रव्यैर्वात्माभिप्रायां निर्वर्तयेयुः ॥
धात्रेयिकां सखीं दासीं वा पुरुषवद् अलंकृत्य^आकृतिसंयुक्तैः कन्द-मूल-फल^अवयवैर् अपद्रव्यैर् वा^आत्म^अभिप्रायां निर्वर्तयेयुः ॥
पुरुषप्रतिमा अव्यक्तलिङ्गाश्चाधिशयीरन् ।।
पुरुष-प्रतिमा अव्यक्त-लिङ्गाश् च^अधिशयीरन् ॥
राजानश्च कृपाशीला विनापि भावयोगादायोजितापद्रव्या यावदर्थमेकया रात्र्या बह्वीभिरपि गच्छन्ति ।यस्यां तु प्रीतिर्वासक ऋतुव्वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः ॥
राजानश् च कृपा-शीला विना^अपि भाव-योगाद् आयोजित^अपद्रव्या यावद् अर्थम् एकया रात्र्या बह्वीभिर् अपि गच्छन्ति । यस्यां तु प्रीतिर् वासक ऋतुव् वा तत्र^अभिप्रायतः प्रवर्तन्त इति प्राच्य^उपचाराः ॥
स्त्रीयोगेणैव पुरुषाणामप्यलब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिप्रायनिवृत्तिर्व्याख्याता ॥
स्त्री-योगेण^एव पुरुषाणाम् अप्य् अलब्ध-वृत्तीनां वियोनिषु विजातिषु स्त्री-प्रतिमासु केवल^उपमर्दनाच् च^अभिप्राय-निवृत्तिर् व्याख्याता ॥
योषवेषांश्च नागरकान्प्रयेण अन्तःपुरिकाः परिचारिकाभिः सह प्रवेशयन्ति ।
योषव् एषांश् च नागरकान् प्रयेण अन्तःपुरिकाः परिचारिकाभिः सह प्रवेशयन्ति ।
तेषामुपावर्तने धात्रेयिकाश्च अभ्यन्तरसंसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन् ।
तेषाम् उपावर्तने धात्रेयिकाश् च अभ्यन्तर-संसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन् ।
सुखप्रवेशितामपसारभूमिं विशालतां वेश्मनः प्रमादं रक्षिणामनित्यतां परिजनस्य वर्णयेयुः ।
सुख-प्रवेशिताम् अपसार-भूमिं विशालतां वेश्मनः प्रमादं रक्षिणाम् अनित्यतां परिजनस्य वर्णयेयुः ।
न चासद्भूतेनार्थेन प्रवेशयितुं जनमावर्तयेयुर्दोषात् ।।
न च^असद्भूतेन^अर्थेन प्रवेशयितुं जनम् आवर्तयेयुर् दोषात् ॥
नागारकस्तु सुप्रापमप्यन्तःपुरमपायभूयिष्ठत्वान्न प्रविशेदिति वात्स्यायनः ॥
नागारकस् तु सुप्रापम् अप्य् अन्तःपुरम् अपाय-भूयिष्ठत्वान् न प्रविशेद् इति वात्स्यायनः ॥
सापसारं तु प्रमदवनावगाढं विभक्तदीर्घकक्ष्यमल्पप्रमत्तरक्षकं प्रोषिताराजकं कारणानि समीक्ष्य बहुश आहूयमानो ऽर्थबुद्ध्या कक्ष्याप्रवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत् ।
स^अपसारं तु प्रमदवन^अवगाढं विभक्त-दीर्घ-कक्ष्यम् अल्प-प्रमत्त-रक्षकं प्रोषिता-राजकं कारणानि समीक्ष्य बहुश आहूयमानो +अर्थ-बुद्ध्या कक्ष्या-प्रवेशं च दृष्ट्वा ताभिर् एव विहित^उपायः प्रविशेत् ।
शक्तिविषये च प्रतिदिनं निष्क्रामेत् ।।
शक्ति-विषये च प्रतिदिनं निष्क्रामेत् ॥
बहिश्च रक्षिभिरन्यदेव कारणमपदिश्य संसृज्येत ।
बहिश् च रक्षिभिर् अन्यद् एव कारणम् अपदिश्य संसृज्येत ।
अन्तश्चारिण्यां च परिचारिकायां विदितार्थायां सक्तमात्मानं रूपयेत् ।तदलाभाच्च शोकमन्तःप्रवेशिनीभिश्च दूतीकल्पं सकलमाचरेत् ।
अन्तश्-चारिण्यां च परिचारिकायां विदित^अर्थायां सक्तम् आत्मानं रूपयेत् । तद् अलाभाच् च शोकम् अन्तःप्रवेशिनीभिश् च दूती-कल्पं सकलम् आचरेत् ।
राजप्रणिधींश्च बुध्येत ।
राज-प्रणिधींश् च बुध्येत ।
दूत्यास्त्वसंचारे यत्र गृहीताकारायाः प्रयोज्याया दर्शनयोगस्तत्रावस्थानम् ।
दूत्यास् त्व् असंचारे यत्र गृहीत^आकारायाः प्रयोज्याया दर्शन-योगस् तत्र^अवस्थानम् ।
तस्मिन्नपि तु रक्षिषु परिचारिकाव्यपदेशः ।
तस्मिन्न् अपि तु रक्षिषु परिचारिका-व्यपदेशः ।
चक्षुरनुबध्नत्यामिङ्गिताकारनिवेदनम् ।
चक्षुर्-अनुबध्नत्याम् इङ्गित^आकार-निवेदनम् ।
यत्र संपातो ऽस्यास्तत्र चित्रकर्मणस्तद्युक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडनकानां कृतचिह्नानामापीनकाना (कस्य )मङ्गुलीयकस्य च निधानम् ।
यत्र संपातो +अस्यास् तत्र चित्र-कर्मणस् तद् युक्तस्य व्यर्थानां गीत-वस्तुकानां क्रीडनकानां कृत-चिह्नानाम् आपीनकाना(कस्य)म् अङ्गुलीयकस्य च निधानम् ।
प्रत्युत्तरं तया दत्तं प्रपश्येत् ।ततः प्रवेशने यतेत ॥
प्रत्युत्तरं तया दत्तं प्रपश्येत् । ततः प्रवेशने यतेत ॥
यत्र चास्या नियतं गमनमिति विद्यात्तत्र प्रच्छन्नस्य प्रागेवावस्थानम् ।
यत्र च^अस्या नियतं गमनम् इति विद्यात् तत्र प्रच्छन्नस्य प्राग् एव^अवस्थानम् ।
रक्षि (त )पुरुषरूपो वा तदनुज्ञातवेलायां प्रविशेत् ।
रक्षि(त)-पुरुष-रूपो वा तद्-अनुज्ञात-वेलायां प्रविशेत् ।
आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिर्हारौ ।
आस्तरण-प्रावरण-वेष्टितस्य वा प्रवेश-निर्हारौ ।
पुटापुटयोगैर्वा नष्टच्छायारूपः ।
पुट^अपुट-योगैर् वा नष्ट-च्छाया-रूपः ।
तत्रायं प्रयोगः ---नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चान्तर्धूमेन पचेत् ।ततो ऽञ्जनेन समभागेन पेषयेत् ।अनेनाभ्यक्तनयनो नष्टच्छायारूपश्चरति ।(अन्यैश्च जलब्रह्मक्षेमशिरःप्रणीतैर्बाह्यपानकैर्वा )
तत्र^अयं प्रयोगः --- नकुल-हृदयं चोरक-तुम्बी-फलानि सर्पाक्षीणि च^अन्तर्धूमेन पचेत् । ततो +अञ्जनेन समभागेन पेषयेत् । अनेन^अभ्यक्त-नयनो नष्ट-च्छाया-रूपश् चरति । (अन्यैश् च जल-ब्रह्म-क्षेम-शिरः-प्रणीतैर् बाह्य-पानकैर् वा)
रात्रिकौमुदीषु च दीपिकासंबाधे सुरङ्गया वा ॥
रात्रि-कौमुदीषु च दीपिका-संबाधे सुरङ्गया वा ॥
तत्र^एतद् भवति ---
द्रव्याणामपि निर्हारे पानकानां प्रवेशने ।
द्रव्याणाम् अपि निर्हारे पानकानां प्रवेशने ।
आपानकोत्सवार्थे ऽपि चेटिकानां च संभ्रमे ॥
आपानक^उत्सव^अर्थे +अपि चेटिकानां च संभ्रमे ॥
व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये ।
व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये ।
उद्यानयात्रागमने यात्रातश्च प्रवेशने ॥
उद्यान-यात्रा-गमने यात्रातश् च प्रवेशने ॥
दीर्घकालोदयां यात्रां प्रोषिते चापि राजनि ।
दीर्घ-काल^उदयां यात्रां प्रोषिते चापि राजनि ।
प्रवेशनं भवेत्प्रायो यूनां निष्क्रमणं तथा ॥
प्रवेशनं भवेत् प्रायो यूनां निष्क्रमणं तथा ॥
परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः ।
परस्परस्य कार्याणि ज्ञात्वा च^अन्तःपुर^आलयाः ।
एककार्यास्ततः कुर्युः शेषाणामपि भेदनम् ।।
एककार्यास् ततः कुर्युः शेषाणाम् अपि भेदनम् ॥
दूषयित्वा ततो ऽन्योन्यमेककार्यार्पणे स्थिरः ।
दूषयित्वा ततो +अन्योन्यम् एककार्य^अर्पणे स्थिरः ।
अभेद्यतां गतः सद्यो यथेष्टं फलमश्नुते ॥
अभेद्यतां गतः सद्यो यथेष्टं फलम् अश्नुते ॥
तत्र राजकुलचारिण्य एव लक्षण्यान्पुरुषानन्तःपुरं प्रवेशयन्ति नातिसुरक्षत्वादापरान्तिकानाम् ।
तत्र राज-कुल-चारिण्य एव लक्षण्यान् पुरुषान् अन्तःपुरं प्रवेशयन्ति न^अतिसुरक्षत्वाद् आपरान्तिकानाम् ।
क्षत्रियसंज्ञकैरन्तःपुररक्षिभिरेवार्थं साधयन्त्याभीरकाणाम् ।
क्षत्रिय-संज्ञकैर् अन्तःपुर-रक्षिभिर् एव^अर्थं साधयन्त्य् आभीरकाणाम् ।
प्रेष्याभिः सह तद्वेषान्नागरकपुत्रान्प्रवेशयन्ति वात्सगुल्मकानाम् ।
प्रेष्याभिः सह तद्-वेषान् नागरक-पुत्रान् प्रवेशयन्ति वात्सगुल्मकानाम् ।
स्वैरेव पुत्रैरन्तःपुराणि कामचारैर्जननीवर्जमुपयुज्यन्ते वैदर्भकाणाम् ।
स्वैर् एव पुत्रैर् अन्तःपुराणि कामचारैर् जननी-वर्जम् उपयुज्यन्ते वैदर्भकाणाम् ।
तथा प्रवेशिभिरेव ज्ञातिसंबन्धिभिर्नान्यैरुपयुज्यन्ते स्त्रैराजकानाम् ।
तथा प्रवेशिभिर् एव ज्ञातिसंबन्धिभिर् न^अन्यैर् उपयुज्यन्ते स्त्रैराजकानाम् ।
ब्राह्मणैर्मित्रैर्भृत्यैर्दासचेटैश्च गौडानाम् ।
ब्राह्मणैर् मित्रैर् भृत्यैर् दासचेटैश् च गौडानाम् ।
परिस्पन्दाः कर्मकराश्चान्तःपुरेष्वनिषिद्धा अन्ये ऽपि तद्रूपाश्च सैन्धवानाम् ।
परिस्पन्दाः कर्म-कराश् च^अन्तःपुरेष्व् अनिषिद्धा अन्ये +अपि तद्-रूपाश् च सैन्धवानाम् ।
अर्थेन रक्षिणमुपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम् ।
अर्थेन रक्षिणम् उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम् ।
पुष्पदाननियोगान्नगरब्राह्मणा राजविदितमन्तःपुराणि गच्छन्ति ।पटान्तरितैश्चैषामालापः ।तेन प्रसङ्गेन व्यतिकरो भवति वङ्गाङ्गकलिङ्गकानाम् ।
पुष्प-दान-नियोगान् नगर-ब्राह्मणा राज-विदितम् अन्तःपुराणि गच्छन्ति । पट^अन्तरितैश् च^एषाम् आलापः । तेन प्रसङ्गेन व्यतिकरो भवति वङ्ग^अङ्ग-कलिङ्गकानाम् ।
संहत्य नवदशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानामिति ।एवं परस्त्रियः प्रकुर्वीत ।इत्यन्तःपुरिकावृत्तम् ।।
संहत्य नव-दश^इत्य् एकैकं युवानं प्रच्छादयन्ति प्राच्यानाम् इति । एवं पर-स्त्रियः प्रकुर्वीत । इत्य् अन्तःपुरिका-वृत्तम् ॥
एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत् ।।
एभ्य एव च कारणेभ्यः स्वदारान् रक्षेत् ॥
कामोपधाशुद्धान्रक्षिणो ऽन्तःपुरे स्थापयेदित्याचार्याः ।
काम^उपधा-शुद्धान् रक्षिणो +अन्तःपुरे स्थापयेद् इत्य् आचार्याः ।
ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपधाशुद्धानिति गोणिकापुत्रः ।
ते हि भयेन च^अर्थेन च^अन्यं प्रयोजयेयुस् तस्मात् काम-भय^अर्थ^उपधा-शुद्धान् इति गोणिकापुत्रः ।
अद्रोहो धर्मस्तमपि भयाज्जह्यादतो धर्मभयोपधाशुद्धानिति वात्स्यायनः ॥
अद्रोहो धर्मस् तम् अपि भयाज् जह्याद् अतो धर्म-भय^उपधा-शुद्धान् इति वात्स्यायनः ॥
परवाक्याभिधायिनीभिश्च गूढाकाराभिः प्रमदाभिरात्मदारानुपदध्याच्छौचाशौचपरिज्ञानार्थमिति बाभ्रवीयाः ।
पर-वाक्य^अभिधायिनीभिश् च गूढ^आकाराभिः प्रमदाभिर् आत्मदारान् उपदध्याच् छौच^अशौच-परिज्ञान^अर्थम् इति बाभ्रवीयाः ।
दुष्टानां युवतिषु सिद्धत्वान्नाकस्माददुष्टदूषणमाचरेदिति वात्स्यायनः ॥
दुष्टानां युवतिषु सिद्धत्वान् न^अकस्माद् अदुष्ट-दूषणम् आचरेद् इति वात्स्यायनः ॥
अतिगोष्ठी निरङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहानियन्त्रणता ।प्रवासे ऽवस्थानं विदेशे निवासः स्ववृत्त्युपघातः स्वैरिणीसंसर्गः पत्युरीर्ष्यालुता चेति स्त्रीणां विनाशकारणानि ॥
अतिगोष्ठी निरङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सह^अनियन्त्रणता । प्रवासे +अवस्थानं विदेशे निवासः स्ववृत्त्य्-उपघातः स्वैरिणी-संसर्गः पत्युर् ईर्ष्यालुता च^इति स्त्रीणां विनाश-कारणानि ॥
संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान् ।
संदृश्य शास्त्रतो योगान् पारदारिक-लक्षितान् ।
न याति च्छलनां कश्चित्स्वदारान्प्रति शास्त्रवित् ।।
न याति च्छलनां कश्चित् स्वदारान् प्रति शास्त्रवित् ॥
पाक्षिकत्वात्प्रयोगाणामपायानां च दर्शनात् ।
पाक्षिकत्वात् प्रयोगाणाम् अपायानां च दर्शनात् ।
धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम् ।
धर्म^अर्थयोश् च वैलोम्यान् न^अचरेत् पारदारिकम् ।
तदेतद्दारगुप्त्यर्थमारब्धं श्रेयसे नृणाम् ।
तद् एतद् दार-गुप्त्य्-अर्थम् आरब्धं श्रेयसे नृणाम् ।
प्रजानां दूषणायैव न विज्ञेयो ऽस्य संविधिः ॥
प्रजानां दूषणाय^एव न विज्ञेयो +अस्य संविधिः ॥

No comments:

Post a Comment