ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

14 July 2011

kaamasutra _4

भार्याधिकारिकंचतुर्थअधिकरणम्
4.1
एकचारिणीवृत्तं प्रवासचर्या च
भार्यैकचारिणी गूढविश्रम्भा देववत्पतिमानुकूल्येन वर्तेत ॥
भार्या^एकचारिणी गूढ-विश्रम्भा देववत् पतिम् आनुकूल्येन वर्तेत ॥
तन्मतेन कुटुम्बचिन्तामात्मनि संनिवेशयेत् ।।
तन्-मतेन कुटुम्ब-चिन्ताम् आत्मनि संनिवेशयेत् ॥
वेश्म च शुचि सुसंमृष्टस्थानं विरचितविविधकुसुमं श्लक्ष्णभूमितलं हृद्यदर्शनं त्रिषवणाचरितबलिकर्म पूजितदेवायतनं कुर्यात् ।।
वेश्म च शुचि सुसंमृष्ट-स्थानं विरचित-विविध-कुसुमं श्लक्ष्ण-भूमि-तलं हृद्य-दर्शनं त्रिषवण^आचरित-बलि-कर्म पूजित-देव^आयतनं कुर्यात् ॥
न ह्यतो ऽन्यद्गृहस्थानां चित्तग्राहकमस्तीति गोनर्दीयः ॥
न ह्य् अतो +अन्यद्-गृह-स्थानां चित्त-ग्राहकम् अस्ति^इति गोनर्दीयः ॥
गुरुषु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथार्हं प्रतिपत्तिः ॥
गुरुषु भृत्य-वर्गेषु नायक-भगिनीषु तत्-पतिषु च यथा^अर्हं प्रतिपत्तिः ॥
परिपूतेषु च हरितशाकवप्रानिक्षुस्तम्बाञ्जीरकसर्षपाजमोदशतपुष्पातमालगुल्मांश्च कारयेत् ।।
परिपूतेषु च हरित-शाक-वप्रान् इक्षुस्तम्बाञ् जीरक-सर्षप^अजमोद-शतपुष्पा-तमाल-गुल्मांश् च कारयेत् ॥
कुब्जकामलकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्द्यावर्तजपागुल्मानन्यांश्च बहुपुष्पान्बालकोशीरकपातालिकांश्च वृक्षवाटिकायां च स्थण्डिलानि मनोज्ञानि कारयेत् ।।
कुब्जक^आमलक-मल्लिका-जाती-कुरण्टक-नवमालिका-तगर-नन्द्यावर्त-जपा-गुल्मान् अन्यांश् च बहु-पुष्पान् बालक^उशीरक-पातालिकांश् च वृक्ष-वाटिकायां च स्थण्डिलानि मनोज्ञानि कारयेत् ॥
मध्ये कूपं वापीं दीर्घिकां वा खानयेत् ।।
मध्ये कूपं वापीं दीर्घिकां वा खानयेत् ॥
भिक्षुकीश्रमणाक्षपणाकुलटाकुहकेक्षणिकामूलकारिकाभिर्न संसृज्येत ॥
भिक्षुकी-श्रमणा-क्षपणा-कुलटा-कुहका^ईक्षणिका-मूलकारिकाभिर् न संसृज्येत ॥
भोजने च रुचितमिदमस्मै द्वेष्यमिदं पथ्यमिदमपथ्यमिदमिति च विन्द्यात् ।।
भोजने च रुचितम् इदम् अस्मै द्वेष्यम् इदं पथ्यम् इदम् अपथ्यम् इदम् इति च विन्द्यात् ॥
स्वरं बहिरुपश्रुत्य भवनमागच्छतः किं कृत्यमिति ब्रुवती सज्जा भवनमध्ये तिष्ठेत् ।।
स्वरं बहिर् उपश्रुत्य भवनम् आगच्छतः किं कृत्यम् इति ब्रुवती सज्जा भवन-मध्ये तिष्ठेत् ॥
परिचारिकामपनुद्य स्वयं पादौ प्रक्षालयेत् ।।
परिचारिकाम् अपनुद्य स्वयं पादौ प्रक्षालयेत् ॥
नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत् ।।
नायकस्य च न विमुक्त-भूषणं विजने संदर्शने तिष्ठेत् ॥
अतिव्ययमसद्व्ययं वा कुर्वाणां रहसि बोधयेत् ।।
अतिव्ययम् असद्-व्ययं वा कुर्वाणां रहसि बोधयेत् ॥
आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमनमित्यनुज्ञाता कुर्यात् ।।
आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवता^अभिगमनम् इत्य् अनुज्ञाता कुर्यात् ॥
सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः ॥
सर्व-क्रीडासु च तद्-आनुलोम्येन प्रवृत्तिः ॥
पश्चात्संवेशनं पूर्वमुत्थानमनवबोधनं च सुप्तस्य ॥
पश्चात् संवेशनं पूर्वम् उत्थानम् अनवबोधनं च सुप्तस्य ॥
महानसं च सुगुप्तं स्याद्दर्शनीयं च ॥
महानसं च सुगुप्तं स्याद् दर्शनीयं च ॥
नायकापचारेषु किं चित्कलुषिता नात्यर्थं निर्वदेत् ।।
नायक^अपचारेषु किं चित् कलुषिता न^अत्यर्थं निर्वदेत् ॥
साधिक्षेपवचनं त्वेनं मित्रजनमध्यस्थमेकाकिनं वाप्युपालभेत ।न च मूलकारिका स्यात् ।।
साधिक्षेप-वचनं त्व् एनं मित्र-जन-मध्यस्थम् एकाकिनं वा^अप्य् उपालभेत । न च मूल-कारिका स्यात् ॥
न ह्यतो ऽन्यदप्रत्ययकारणमस्तीति गोनर्दीयः ॥
न ह्य् अतो +अन्यद् अप्रत्यय-कारणम् अस्ति^इति गोनर्दीयः ॥
दुर्व्याहृतं दुर्निरीक्षितमन्यतो मन्त्रणं द्वारदेशावस्थानं निरीक्षणं वा निष्कुटेषु मन्त्रणं विविक्तेषु चिरमवस्थानमिति वर्जयेत् ।।
दुर्व्याहृतं दुर्निरीक्षितम् अन्यतो मन्त्रणं द्वार-देश^अवस्थानं निरीक्षणं वा निष्कुटेषु मन्त्रणं विविक्तेषु चिरम् अवस्थानम् इति वर्जयेत् ॥
स्वेददन्तपङ्कदुर्गन्धांश्च बुध्येतेति विरागकारणम् ।।
स्वेद-दन्त-पङ्क-दुर्गन्धांश् च बुध्येत^इति विराग-कारणम् ॥
बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्ज्वलं वास इत्याभिगामिको वेषः ।
बहु-भूषणं विविध-कुसुम^अनुलेपनं विविध^अङ्ग-राग-समुज्ज्वलं वास इत्य् आभिगामिको वेषः ।
प्रतनुश्लक्ष्णाल्पदुकूलता परिमितमाभरणं सुगन्धिता नात्युल्बणमनुलेपनम् ।तथा शुक्लान्यन्यानि पुष्पाणीति वैहारिको वेषः ॥
प्रतनु-श्लक्ष्ण^अल्प-दुकूलता परिमितम् आभरणं सुगन्धिता न^अत्युल्बणम् अनुलेपनम् । तथा शुक्लान्य् अन्यानि पुष्पाणि^इति वैहारिको वेषः ॥
नायकस्य व्रतमुपवासं च स्वयमपि करणेनानुवर्तेत ।वारितायां च नाहमत्र निर्बन्धनीयेति तद्वचसो निवर्तनम् ।।
नायकस्य व्रतम् उपवासं च स्वयम् अपि करणेन^अनुवर्तेत । वारितायां च न^अहम् अत्र निर्बन्धनीय^इति तद्-वचसो निवर्तनम् ॥
मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समर्घग्रहणम् ।।
मृद्-विदल-काष्ठ-चर्म-लोह-भाण्डानां च काले समर्घ-ग्रहणम् ॥
तथा लवणस्नेहयोश्च गन्धद्रव्यकटुकभाण्डौषधानां च दुर्लभानां भवनेसु प्रच्छन्नं निधानम् ।।
तथा लवण-स्नेहयोश् च गन्ध-द्रव्य-कटुक-भाण्ड^ओषधानां च दुर्लभानां भवनेसु प्रच्छन्नं निधानम् ॥
मूलकालुकपालङ्की दमनकाम्रातकैर्वारुकत्रपुसवार्ताककूष्माण्डालाबुसूरणशुकनासास्वयंगुप्तातिलपर्णीकाग्निमन्थलशुनपलाण्डुप्रभृतीनां सर्वौषधीनां च बीजग्रहणं काले वापश्च ॥
मूलक^आलुक-पालङ्की दमनक^आम्रातक^एर्वारुक-त्रपुस-वार्ताक-कूष्माण्ड^आलाबु-सूरण-शुकनासा-स्वयंगुप्ता-तिलपर्णीक^अग्निमन्थ-लशुन-पलाण्डु-प्रभृतीनां सर्व^ओषधीनां च बीज-ग्रहणं काले वापश् च ॥
स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च ॥
स्वस्य च सारस्य परेभ्यो न^आख्यानं भर्तृ-मन्त्रितस्य च ॥
समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोपचारैरतिशयीत ॥
समानाश् च स्त्रियः कौशलेन^उज्ज्वलतया पाकेन मानेन तथा^उपचारैर् अतिशयीत ॥
सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात् ।।
सांवत्सरिकमायं संख्याय तद्-अनुरूपं व्ययं कुर्यात् ॥
भोजनावशिष्टाद्गोरसाद्घृतकरणम्तथा तैलगुडयोः ।कर्पासस्य च सूत्रकर्तनम्सूत्रस्य वानम् ।शिक्यरज्जुपाशवल्कलसंग्रहणम् ।कुट्टनकण्डनावेक्षणम् ।*आचाम [Ch: आमचा ] मण्डतुष *कण [Ch: कख ] कुट्यङ्गाराणामुपयोजनम् ।भृत्यवेतनभरणज्ञानम् ।कृषिपशुपालनचिन्तावाहनविधानयोगाः ।मेश *कुक्कट [Ch: कुक्कुट ] लावकशुकशारिकापरभृतमयूरवानरमृगाणामवेक्षणम् ।दैवसिकायव्ययपिण्डीकरणमिति च विद्यात् ।।
भोजन^अवशिष्टाद् गोरसाद् घृत-करणम् तथा तैल-गुडयोः । कर्पासस्य च सूत्र-कर्तनम् सूत्रस्य वानम् । शिक्य-रज्जु-पाश-वल्कल-संग्रहणम् । कुट्टन-कण्डन^अवेक्षणम् । *आचाम[Ch: आमचा] -मण्ड-तुष-*कण [Ch: कख] -कुट्य्-अङ्गाराणाम् उपयोजनम् । भृत्य-वेतन-भरण-ज्ञानम् । कृषि-पशुपालन-चिन्ता-वाहन-विधान-योगाः । मेश-*कुक्कट[छ्:कुक्कुट]-लावक-शुक-शारिका-परभृत-मयूर-वानर-मृगाणाम् अवेक्षणम् । दैवसिकाय-व्यय-पिण्डीकरणम् इति च विद्यात् ॥
तज्जघन्यानां च जीर्णवाससां संचयस्तैर्विविधरागैः शुद्धैर्वा कृतकर्मणां परिचारकाणामनुग्रहो मानार्थेषु च दानमन्यत्र वोपयोगः ॥
तज्-जघन्यानां च जीर्ण-वाससां संचयस् तैर् विविध-रागैः शुद्धैर् वा कृत-कर्मणां परिचारकाणाम् अनुग्रहो मान^अर्थेषु च दानम् अन्यत्र वा^उपयोगः ॥
सुराकुम्भीनामासवकुम्भीनां च स्थापनं तदुपयोगः क्रयविक्रयावायव्ययावेक्षणम् ।।
सुरा-कुम्भीनाम् आसव-कुम्भीनां च स्थापनं तद्-उपयोगः क्रय-विक्रयाव् आयव्यया^अवेक्षणम् ॥
नायकमित्राणां च स्रगनुलेपनताम्बूलदानैः पूजनं न्यायतः ।
नायक-मित्राणां च स्रग्-अनुलेपन-ताम्बूल-दानैः पूजनं न्यायतः ।
श्वश्रूश्वशुरपरिचर्या तत्पारतन्त्र्यमनुत्तरवादिता परिमिताप्रचण्डालापकरणमनुच्चैर्हासः ।तत्प्रियाप्रियेषु स्वप्रियाप्रियेष्विव वृत्तिः ।
श्वश्रू-श्वशुर-परिचर्या तत्-पारतन्त्र्यम् अनुत्तर-वादिता परिमित^अप्रचण्ड^आलापकरणम् अनुच्चैर् हासः । तत्-प्रिय^अप्रियेषु स्वप्रिय^अप्रियेष्व् इव वृत्तिः ।
भोगेष्वनुत्सेकः ।
भोगेष्व् अनुत्सेकः ।
परिजने दाक्षिण्यम् ।
परिजने दाक्षिण्यम् ।
नायकस्यानिवेद्य न कस्मै चिद्दानम् ।
नायकस्य^अनिवेद्य न कस्मै चिद् दानम् ।
स्वकर्मसु भृत्यजननियमनमुत्सवेषु चास्य पूजनमित्येकचारिणीवृत्तम् ।।
स्वकर्मसु भृत्यजन-नियमनम् उत्सवेषु च^अस्य पूजनम् इत्य् एकचारिणी-वृत्तम् ॥
प्रवासे मङ्गलमात्राभरणा देवतोपवासपरा वार्तायां स्थिता गृहानवेक्षेत ॥
प्रवासे मङ्गल-मात्र^आभरणा देवता^उपवास-परा वार्तायां स्थिता गृहान् अवेक्षेत ॥
शय्या च गुरुजनमूले ।तदभिमता कार्यनिष्पत्तिः ।नायकाभिमतानां चार्थानामर्जने प्रतिसंस्कारे च यत्नः ॥
शय्या च गुरु-जन-मूले । तद् अभिमता कार्य-निष्पत्तिः । नायक^अभिमतानां च^अर्थानाम् अर्जने प्रतिसंस्कारे च यत्नः ॥
नित्यनैमित्तिकेषु कर्मसूचितो व्ययः ।तदारब्धानां च कर्मणां समापने मतिः ॥
नित्य-नैमित्तिकेषु कर्मसु^उचितो व्ययः । तद्-आरब्धानां च कर्मणां समापने मतिः ॥
ज्ञातिकुलस्यानभिगमनमन्यत्र व्यसनोत्सवाभ्याम् ।तत्रापि नायकपरिजनाधिष्ठिताया नातिकालमवस्थानमपरिवर्तितप्रवासवेषता च ॥
ज्ञाति-कुलस्य^अनभिगमनम् अन्यत्र व्यसन^उत्सवाभ्याम् । तत्र^अपि नायक-परिजन^अधिष्ठिताया न^अतिकालम् अवस्थानम् अपरिवर्तित-प्रवास-वेषता च ॥
गुरुजनानुज्ञातानां करणमुपवासानाम् ।परिचारकैः शुचिभिराज्ञाधिष्ठितैरनुमतेन क्रयविक्रयकर्मणा सारस्यापूरणं तनूकरणं च शक्त्या व्ययानाम् ।।
गुरु-जन^अनुज्ञातानां करणम् उपवासानाम् । परिचारकैः शुचिभिर् आज्ञा^अधिष्ठितैर् अनुमतेन क्रय-विक्रय-कर्मणा सारस्य^आपूरणं तनू-करणं च शक्त्या व्ययानाम् ॥
आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनमुपहाराणां चाहरणमिति प्रवासचर्या ॥
आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवत-पूजनम् उपहाराणां च^आहरणम् इति प्रवास-चर्या ॥
भवतश् च^अत्र श्लोकौ ।
*सद् [Ch: तद् ] वृत्तमनुवर्तेत नायकस्य हितैषिणी ।
*सद्[Ch: तद्] -वृत्तम् अनुवर्तेत नायकस्य हित^एषिणी ।
कुलयोषा पुनर्भूर्वा वेश्या वाप्येकचारिणी ॥
कुलयोषा पुनर्भूर् वा वेश्या वा^अप्य् एकचारिणी ॥
धर्ममर्थं तथा कामं लभन्ते स्थानमेव च ।
धर्मम् अर्थं तथा कामं लभन्ते स्थानम् एव च ।
निःसपत्नं च भर्तारं नार्यः सद्वृत्तमाश्रिताः ॥
निःसपत्नं च भर्तारं नार्यः सद्-वृत्तम् आश्रिताः ॥
4.2
जाड्यदौःशील्यदौर्भाग्येभ्यः प्रजानुत्पत्तेराभीक्ष्ण्येन दारिकोत्पत्तेर्नायकचापलाद्वा सपत्न्यधिवेदनम् ।।
जाड्य-दौःशील्य-दौर्भाग्येभ्यः प्रजान् उत्पत्तेर् आभीक्ष्ण्येन दारिक^उत्पत्तेर् नायक-चापलाद् वा सपत्न्य्-अधिवेदनम् ॥
तदादित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्षेत् ।प्रजानुत्पत्तौ च स्वयमेव सापत्नके चोदयेत् ।।
तदा^आदित एव भक्ति-शील-वैदग्ध्यख्यापनेन परिजिहीर्षेत् । प्रजान् उत्पत्तौ च स्वयम् एव सापत्नके चोदयेत् ॥
अधिविद्यमाना च यावच्छक्तियोगादात्मनो ऽधिकत्वेन स्थितिं कारयेत् ।।
अधिविद्यमाना च यावच् छक्ति-योगाद् आत्मनो +अधिकत्वेन स्थितिं कारयेत् ॥
आगतां चैनां भगिनीवदीक्षेत ।नायकविदितं च प्रादोषिकं विधिमतीव यत्नादस्याः कारयेत्सौभाग्यजं वैकृतमुत्सेकं वास्या नाद्रियेत ॥
आगतां च^एनां भगिनीवद् ईक्षेत । नायक-विदितं च प्रादोषिकं विधिम् अतीव यत्नाद् अस्याः कारयेत् सौभाग्यजं वैकृतम् उत्सेकं वा^अस्या न^अद्रियेत ॥
भर्तरि प्रमाद्यन्तीमुपेक्षेत ।यत्र मन्येतार्थमियं स्वयमपि प्रतिपत्स्यत इति तत्रैनामादरत एवानुशिष्यात् ।।
भर्तरि प्रमाद्यन्तीम् उपेक्षेत । यत्र मन्येत^अर्थम् इयं स्वयम् अपि प्रतिपत्स्यत इति तत्र^एनाम् आदरत एव^अनुशिष्यात् ॥
नायकसंश्रवे च रहसि विशेषानधिकान्दर्शयेत् ।।
नायक-संश्रवे च रहसि विशेषान् अधिकान् दर्शयेत् ॥
तदपत्येष्वविशेषः ।परिजनवर्गे ऽधिकानुकम्पा ।मित्रवर्गे प्रीतिः ।आत्मज्ञातिषु नात्यादरः ।तज्ज्ञातिषु चातिसंभ्रमः ॥
तद्-अपत्येष्व् अविशेषः । परिजन-वर्गे +अधिक^अनुकम्पा । मित्र-वर्गे प्रीतिः । आत्म-ज्ञातिषु न^अत्यादरः । तज्ज्ञातिषु च^अतिसंभ्रमः ॥
बह्वीभिस्त्वधिविन्ना अव्यवहितया संसृज्येत ॥
बह्वीभिस् त्व् अधिविन्ना अव्यवहितया संसृज्येत ॥
यां तु नायको ऽधिकां चिकीर्षेत्तां भूतपूर्वसुभगया प्रोत्साह्य कलहयेत् ।।
यां तु नायको +अधिकां चिकीर्षेत् तां भूत-पूर्व-सुभगया प्रोत्साह्य कलहयेत् ॥
ततश्चानुकम्पेत ॥
ततश् च^अनुकम्पेत ॥
ताभिरेकत्वेनाधिकां चिकीर्षितां स्वयमविवदमाना दुर्जनी कुर्यात् ।।
ताभिर् एकत्वेन^अधिकां चिकीर्षितां स्वयम् अविवदमाना दुर्जनी कुर्यात् ॥
नायकेन तु कलहितामेनां पक्षपातावलम्बनोपबृंहितामाश्वासयेत् ।।
नायकेन तु कलहिताम् एनां पक्षपाताव् अलम्बन^उपबृंहिताम् आश्वासयेत् ॥
कलहं च वर्धयेत् ।।
कलहं च वर्धयेत् ॥
मन्दं वा कलहमुपलभ्य स्वयमेव संधुक्षयेत् ।।
मन्दं वा कलहम् उपलभ्य स्वयम् एव संधुक्षयेत् ॥
यदि नायको ऽस्यामद्यापि सानुनय इति मन्येत तदा स्वयमेव संधौ प्रयतेतेति ज्येष्ठावृत्तम् ।।
यदि नायको +अस्याम् अद्य^अपि सानुनय इति मन्येत तदा स्वयम् एव संधौ प्रयतेत^इति ज्येष्ठा-वृत्तम् ॥
कनिष्ठा तु मातृवत्सपत्नीं पश्येत् ।।
कनिष्ठा तु मातृवत् सपत्नीं पश्येत् ॥
ज्ञातिदायमपि तस्या अविदितं नोपयुञ्जीत ॥
ज्ञाति-दायम् अपि तस्या अविदितं न^उपयुञ्जीत ॥
आत्मवृत्तान्तांस्तदधिष्ठितान्कुर्यात् ।।
आत्म-वृत्तान् तांस् तद्-अधिष्ठितान् कुर्यात् ॥
अनुज्ञाता पतिमधिशयीत ॥
अनुज्ञाता पतिम् अधिशयीत ॥
न वा तस्या वचनमन्यस्याः कथयेत् ।।
न वा तस्या वचनम् अन्यस्याः कथयेत् ॥
तदपत्यानि स्वेभ्यो ऽधिकानि पश्येत् ।।
तद्-अपत्यानि स्वेभ्यो +अधिकानि पश्येत् ॥
रहसि पतिमधिकमुपचरेत् ।।
रहसि पतिम् अधिकम् उपचरेत् ॥
आत्मनश्च सपत्नीविकारजं दुःखं नाचक्षीत ॥
आत्मनश् च सपत्नी-विकारजं दुःखं न^आचक्षीत ॥
पत्युश्च सविशेषकं गूढं मानं लिप्सेत् ।।
पत्युश् च सविशेषकं गूढं मानं लिप्सेत् ॥
अनेन खलु पथ्यदानेन जीवामीति ब्रूयात् ।।
अनेन खलु पथ्य-दानेन जीवामि^इति ब्रूयात् ॥
तत्तु श्लाघया रागेण वा बहिर्नाचक्षीत ॥
तत् तु श्लाघया रागेण वा बहिर् न^अचक्षीत ॥
भिन्नरहस्या हि भर्तुरवज्ञां लभते ॥
भिन्न-रहस्या हि भर्तुर् अवज्ञां लभते ॥
ज्येष्ठाभयाच्च निगूढसंमानार्थिनी स्यादिति गोनर्दीयः ॥
ज्येष्ठा-भयाच् च निगूढ-संमाना^अर्थिनी स्याद् इति गोनर्दीयः ॥
दुर्भगामनपत्यां च ज्येष्ठामनुकम्पेत नायकेन चानुकम्पयेत् ।।
दुर्भगाम् अनपत्यां च ज्येष्ठाम् अनुकम्पेत नायकेन च^अनुकम्पयेत् ॥
प्रसह्य त्वेनामेकचारिणीवृत्तमनुतिष्ठेदिति कनिष्ठावृत्तम् ।।
प्रसह्य त्व् एनाम् एकचारिणी-वृत्तम् अनुतिष्ठेद् इति कनिष्ठा-वृत्तम् ॥
विधवा त्विन्द्रियदौर्बल्यादातुरा भोगिनं गुणसंपन्नं च या पुनर्विन्देत्सा पुनर्भूः ॥
विधवा त्व् इन्द्रिय-दौर्बल्याद् आतुरा भोगिनं गुण-संपन्नं च या पुनर् विन्देत् सा पुनर्भूः ॥
यतस्तु स्वेच्छया पुनरपि निष्क्रमणं निर्गुणो ऽयमिति तदा अन्यं काङ्क्षेदिति बाभ्रवीयाः ॥
यतस् तु स्वेच्छया पुनर् अपि निष्क्रमणं निर्गुणो +अयम् इति तदा अन्यं काङ्क्षेद् इति बाभ्रवीयाः ॥
सौख्यार्थिनी सा किलान्यं पुनर्विन्देत ॥
सौख्या^अर्थिनी सा किल^अन्यं पुनर् विन्देत ॥
गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात्ततो विशेष इति गोनर्दीयः ॥
गुणेषु सोपभोगेषु सुख-साकल्यं तस्मात् ततो विशेष इति गोनर्दीयः ॥
आत्मनश्चित्तानुकूल्यादिति वात्स्यायनः ॥
आत्मनश् चित्त^अनुकूल्याद् इति वात्स्यायनः ॥
सा बान्धवैर्नायकादापानकोद्यानश्रद्धादानमित्रपूजनादि व्ययसहिष्णु कर्म लिप्सेत ॥
सा बान्धवैर् नायकाद् आपानक^उद्यान-श्रद्धा-दान-मित्र-पूजन^आदि व्ययसहिष्णु कर्म लिप्सेत ॥
आत्मनः सारेण वालंकारं तदीयमात्मीयं वा बिभृयात् ।।
आत्मनः सारेण वालंकारं तदीयम् आत्मीयं वा बिभृयात् ॥
प्रीतिदायेष्वनियमः ॥
प्रीति-दायेष्व् अनियमः ॥
स्वेच्छया च गृहान्निर्गच्छन्ती प्रीतिदायादन्यन्नायकदत्तं जीयेत ।निष्कास्यमाना तु न किं चिद्दद्यात् ।।
स्वेच्छया च गृहान् निर्गच्छन्ती प्रीति-दायाद् अन्यन् नायक-दत्तं जीयेत । निष्कास्यमाना तु न किं चिद् दद्यात् ॥
सा *प्रभुविष्णुर् [Ch: प्रभविष्णुर् ] इव तस्य भवनमाप्नुयात् ।।
सा *प्रभुविष्णुर्[Ch: प्रभविष्णुर्] इव तस्य भवनम् आप्नुयात् ॥
कुलजासु तु प्रीत्या वर्तेत ॥
कुलजासु तु प्रीत्या वर्तेत ॥
दाक्षिण्येन परिजने सर्वत्र सपरिहासा मित्रेषु प्रतिपत्तिः ।कलासु कौशलमधिकस्य च ज्ञानम् ।।
दाक्षिण्येन परिजने सर्वत्र सपरिहासा मित्रेषु प्रतिपत्तिः । कलासु कौशलम् अधिकस्य च ज्ञानम् ॥
कलहस्थानेषु च नायकं स्वयमुपालभेत ॥
कलह-स्थानेषु च नायकं स्वयम् उपालभेत ॥
रहसि च कलया चतुःषष्ट्यानुवर्तेत ।सपत्नीनां च स्वयमुपकुर्यात् ।तासामपत्येष्वाभरणदानम् ।तेषु *स्वामिवद् [Ch: स्वामीवद् ] उपचारः ।मण्डनकानि वेषानादरेण कुर्वीत ।परिजने मित्रवर्गे चाधिकं विश्राणनम् ।समाजापानकोद्यानयात्राविहारशीलता चेति पुनर्भूवृत्तम् ।।
रहसि च कलया चतुःषष्ट्या^अनुवर्तेत । सपत्नीनां च स्वयम् उपकुर्यात् । तासाम् अपत्येष्व् आभरण-दानम् । तेषु *स्वामिवद्[Ch: स्वामीवद्] उपचारः । मण्डनकानि वेषान् आदरेण कुर्वीत । परिजने मित्रवर्गे च^अधिकं विश्राणनम् । समाज^आपानक^उद्यानयात्रा-विहार-शीलता च^इति पुनर्भू-वृत्तम् ॥
दुर्भगा तु सापत्नकपीडिता या तासामधिकमिव पत्यावुपचरेत्तामाश्रयेत् ।*प्रकाश्यानि [Ch: प्रकाम्यानि ] च कलाविज्ञानानि दर्शयेत् ।दौर्भाग्याद्रहस्यानामभावः ॥
दुर्भगा तु सापत्नक-पीडिता या तासाम् अधिकम् इव पत्याव् उपचरेत् ताम् आश्रयेत् । *प्रकाश्यानि[Ch: प्रकाम्यानि] च कला-विज्ञानानि दर्शयेत् । दौर्भाग्याद् रहस्यानाम् अभावः ॥
नायकापत्यानं धात्रेयिकानि कुर्यात् ।।
नायक^अपत्यानं धात्रेयिकानि कुर्यात् ॥
तन्मित्राणि चोपगृह्य तैर्भक्तिमात्मनः प्रकाशयेत् ।।
तन् मित्राणि च^उपगृह्य तैर् भक्तिम् आत्मनः प्रकाशयेत् ॥
धर्मकृत्येषु च पुरश्चारिणी स्याद्व्रतोपवासयोश्च ॥
धर्म-कृत्येषु च पुरश्-चारिणी स्याद् व्रत^उपवासयोश् च ॥
परिजने दाक्षिण्यम् ।न चाधिकमात्मानं पश्येत् ।।
परिजने दाक्षिण्यम् । न च^अधिकम् आत्मानं पश्येत् ॥
शयने तत्सात्म्येनात्मनो ऽनुरागप्रत्यानयनम् ।।
शयने तत्-सात्म्येन^आत्मनो +अनुराग-प्रत्यानयनम् ॥
न चोपालभेत वामतां च न दर्शयेत् ।।
न च^उपालभेत वामतां च न दर्शयेत् ॥
यया च कलहितः स्यात्कामं तामावर्तयेत् ।।
यया च कलहितः स्यात् कामं ताम् आवर्तयेत् ॥
यां च प्रच्छन्नां कामयेत्तामनेन सह संगमयेद्गोपयेच्च ॥
यां च प्रच्छन्नां कामयेत् ताम् अनेन सह संगमयेद् गोपयेच् च ॥
यथा च पतिव्रतात्वमशाठ्यं नायको मन्येत तथा प्रतिविदध्यादिति दुर्भगावृत्तम् ।।
यथा च पतिव्रतात्वम् अशाठ्यं नायको मन्येत तथा प्रतिविद् अध्याद् इति दुर्भगा-वृत्तम् ॥
अन्तःपुराणां च वृत्तमेतेष्वेव प्रकरणेषु लक्षयेत् ।।
अन्तःपुराणां च वृत्तम् एतेष्व् एव प्रकरणेषु लक्षयेत् ॥
माल्यानुलेपनवासांसि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर्देवीभिः प्रहितमिति ।
माल्या^अनुलेपन-वासांसि च^आसां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर् देवीभिः प्रहितम् इति ।
तदादाय राजा निर्माल्यमासां प्रतिप्राभृतकं दद्यात् ।
तद्-आदाय राजा निर्माल्यम् आसां प्रतिप्राभृतकं दद्यात् ।
अलंकृतश्च स्वलंकृतानि चापराह्णे सर्वाण्यन्तःपुराण्यैकध्येन पश्येत् ।।
अलंकृतश् च स्वलंकृतानि च^अपराह्णे सर्वाण्य् अन्तःपुराण्य^एकध्येन पश्येत् ॥
तासां यथाकालं यथार्हं च स्थानमानानुवृत्तिः सपरिहासाश्च कथाः कुर्यात् ।।
तासां यथा-कालं यथा^अर्हं च स्थान-मान^अनुवृत्तिः सपरिहासाश् च कथाः कुर्यात् ॥
तदनन्तरं पुनर्भुवस्तथैव पश्येत् ।।
तद्-अनन्तरं पुनर्भुवस् तथा^एव पश्येत् ॥
ततो वेश्या आभ्यन्तरिका नाटकीयाश्च ॥
ततो वेश्या आभ्यन्तरिका नाटकीयाश् च ॥
तासां यथोक्तकक्षाणि स्थानानि ॥
तासां यथोक्त-कक्षाणि स्थानानि ॥
वासकपाल्यस्तु यस्या वासको यस्याश्चातीतो यस्याश्च ऋतुस्तत्परिचारिकानुगता दिवा शय्योत्थितस्य राज्ञस्ताभ्यां प्रहितमङ्गुलीयकाङ्कमनुलेपनमृतुं वासकं च निवेदयेयुः ।
वासक-पाल्यस् तु यस्या वासको यस्याश् च^अतीतो यस्याश् च ऋतुस् तत्-परिचारिक^अनुगता दिवा शय्या^उत्थितस्य राज्ञस् ताभ्यां प्रहितम् अङ्गुलीयक^अङ्कम् अनुलेपनम् ऋतुं वासकं च निवेदयेयुः ।
तत्र राजा यद्गृह्णीयात्तस्या वासकमाज्ञापयेत् ।।
तत्र राजा यद् गृह्णीयात् तस्या वासकम् आज्ञापयेत् ॥
उत्सवेषु च सर्वासामनुरूपेण पूजापानकं च ।संगीतदर्शनेषु च ॥
उत्सवेषु च सर्वासाम् अनुरूपेण पूजा^आपानकं च । संगीत-दर्शनेषु च ॥
अन्तःपुरचारिणीनां बहिरनिष्क्रमो बाह्यानां चाप्रवेशः ।अन्यत्र विदितशौचाभ्यः ।अपरिक्लिष्टश्च कर्मयोग इत्यान्तःपुरिकम् ।।
अन्तःपुर-चारिणीनां बहिर् अनिष्क्रमो बाह्यानां च^अप्रवेशः । अन्यत्र विदित-शौचाभ्यः । अपरिक्लिष्टश् च कर्म-योग इत्य् आन्तःपुरिकम् ॥
भवन्ति च^अत्र श्लोकाः ---
पुरुषस्तु बहून्दारान्समाहृत्य समो भवेत् ।
पुरुषस् तु बहून् दारान् समाहृत्य समो भवेत् ।
न चावज्ञां चरेदासु व्यलीकान्न सहेत च ॥
न च^अवज्ञां चरेद् आसु व्यलीकान् न सहेत च ॥
एकस्यां या रतिक्रीडा वैकृतं वा शरीरजम् ।
एकस्यां या रति-क्रीडा वैकृतं वा शरीरजम् ।
विस्रम्भाद्वाप्युपालम्भस्तमन्यासु न कीर्तयेत् ।।
विस्रम्भाद् वा^अप्य् उपालम्भस् तम् अन्यासु न कीर्तयेत् ॥
न दद्यात्प्रसरं स्त्रीणां सपत्न्याः कारणे क्व चित् ।
न दद्यात् प्रसरं स्त्रीणां सपत्न्याः कारणे क्व चित् ।
तथोपालभमानां च दोषैस्तामेव योजयेत् ।।
तथा^उपालभमानां च दोषैस् ताम् एव योजयेत् ॥
अन्यां रहसि विस्रम्भैरन्यां प्रत्यक्षपूजनैः ।
अन्यां रहसि विस्रम्भैर् अन्यां प्रत्यक्ष-पूजनैः ।
बहुमानैस्तथा चान्यामित्येवं रञ्जयेत्स्त्रियः ॥
बहु-मानैस् तथा च^अन्याम् इत्य् एवं रञ्जयेत् स्त्रियः ॥
उद्यानगमनैर्भोगैर्दानैस्तज्ज्ञातिपूजनैः ।
उद्यान-गमनैर् भोगैर् दानैस् तज्-ज्ञाति-पूजनैः ।
रहस्यैः प्रीतियोगैश्चेत्येकैकामनुरञ्जयेत् ।।
रहस्यैः प्रीति-योगैश् च^इत्य् एकैकाम् अनुरञ्जयेत् ॥
युवतिश्च जितक्रोधा यथाशास्त्रप्रवर्तिनी ।
युवतिश् च जितक्रोधा यथा-शास्त्र-प्रवर्तिनी ।
करोति वश्यं भर्तारं सपत्नीश्चाधितिष्ठति ॥
करोति वश्यं भर्तारं सपत्नीश् च^अधितिष्ठति ॥

No comments:

Post a Comment