ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

14 July 2011

kaamasutra _3

कन्यासंप्रयुक्तकंतृतीयम्अधिकरणम्
3.1_(16)
वरणसंविधानम् संबन्धनिश्चयः च
सवर्णायामनन्यपूर्वायां शास्त्रतो ऽधिगतायां धर्मो ऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनुपस्कृता रतिश्च ॥
सवर्णायाम् अनन्यपूर्वायां शास्त्रतो +अधिगतायां धर्मो +अर्थः पुत्राः संबन्धः पक्षवृद्धिर् अनुपस्कृता रतिश् च ॥
तस्मात्कन्यामभिजनोपेतां मातापितृमतीं त्रिवर्षात्प्रभृति न्यूनवयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धिप्रिये संबन्धिभिराकुले प्रसूतां प्रभूतमातृपितृपक्षां रूपशीललक्षणसंपन्नामन्यूनाधिकाविनष्टदन्तनखकर्णकेशाक्षिस्तनीमरोगिप्रकृतिशरीरां तथाविध एव श्रुतवाञ्शीलयेत् ।।
तस्मात् कन्याम् अभिजन^उपेतां माता-पितृ-मतीं त्रि-वर्षात् प्रभृति न्यून-वयसं श्लाघ्य^आचारे धनवति पक्षवति कुले संबन्धि-प्रिये संबन्धिभिर् आकुले प्रसूतां प्रभूत-मातृ-पितृ-पक्षां रूप-शील-लक्षण-संपन्नाम् अन्यून^अधिका--विनष्ट-दन्त-नख-कर्ण-केश^अक्षि-स्तनीम् अरोगि-प्रकृति-शरीरां तथा-विध एव श्रुतवाञ् शीलयेत् ॥
यां गृहीत्वा कृतिनमात्मानं मन्येत न च समानैर्निन्द्येत तस्यां प्रवृत्तिरिति घोटकमुखः ॥
यां गृहीत्वा कृतिनम् आत्मानं मन्येत न च समानैर् निन्द्येत तस्यां प्रवृत्तिर् इति घोटकमुखः ॥
तस्या वरणे मातापितरौ संबन्धिनश्च प्रयतेरन् ।मित्राणि च गृहीतवाक्यान्युभयसंबद्धानि ॥
तस्या वरणे माता-पितरौ संबन्धिनश् च प्रयतेरन् । मित्राणि च गृहीत-वाक्यान्य् उभय-संबद्धानि ॥
तान्यन्येषां वरयितॄणां दोषान्प्रत्यक्षानागमिकांश्च श्रावयेयुः ।कौलान्पौरुषेयानभिप्रायसंवर्धकांश्च नायकगुणान् ।विशेषतश्च कन्यामातुरनुकूलांस्तदात्वायतियुक्तान्दर्शयेयुः ॥
तान्य् अन्येषां वरयितॄणां दोषान् प्रत्यक्ष^अनागमिकांश् च श्रावयेयुः । कौलान् पौरुषेयान् अभिप्राय-संवर्धकांश् च नायकगुणान् । विशेषतश् च कन्यामातुर् अनुकूलांस् तदात्व^आयतियुक्तान् दर्शयेयुः ॥
दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नबललक्षणदर्शनेन नायकस्य भविष्यन्तमर्थसंयोगं कल्याणमनुवर्णयेत् ।।
दैव-चिन्तक-रूपश् च शकुन-निमित्त-ग्रह-लग्न-बल-लक्षण-दर्शनेन नायकस्य भविष्यन्तम् अर्थ-संयोगं कल्याणम् अनुवर्णयेत् ॥
अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातरमुन्मादयेयुः ॥
अपरे पुनर् अस्य^अन्यतो विशिष्टेन कन्यालाभेन कन्यामातरम् उन्मादयेयुः ॥
दैवनिमित्तशकुनोपश्रुतीनामानुलोम्येन कन्यां वरयेद्दद्याच्च ॥
दैव-निमित्त-शकुन^उपश्रुतीनाम् आनुलोम्येन कन्यां वरयेद् दद्याच् च ॥
न यदृच्छया केवलमानुषायेति घोटकमुखः ॥
न यदृच्छया केवल-मानुषाय^इति घोटकमुखः ॥
सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ।
सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ।
अप्रशस्तनामधेयां च गुप्तां दत्तां घोनां पृषतामृषभां विनतां विकटां विमुण्डां शुचिदूषितां सांकरिकीं राकां फलीनीं मित्रां स्वनुजाम्वर्षकरीं च वर्जयेत् ।।
अप्रशस्त-नामधेयां च गुप्तां दत्तां घोनां पृषताम् ऋषभां विनतां विकटां विमुण्डां शुचि-दूषितां सांकरिकीं राकां फलीनीं मित्रां स्वनुजाम् वर्षकरीं च वर्जयेत् ॥
नक्षत्राख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हिताम् ।
नक्षत्र^आख्यां नदी-नाम्नीं वृक्ष-नाम्नीं च गर्हिताम् ।
लकाररेफोपान्तां च वरणे परिवर्जयेत् ।।
लकार-रेफ^उपान्तां च वरणे परिवर्जयेत् ॥
यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिः ।नेतरामाद्रियेत ।इत्येके ॥
यस्यां मनश्-चक्षुषोर् निबन्धस् तस्याम् ऋद्धिः । न^इतराम् आद्रियेत । इत्य् एके ॥
तस्मात्प्रदानसमये कन्यामुदारवेषां स्थापयेयुः ।अपराह्णिकं च नित्यं प्रसाधितायाः सखीभिः सह क्रीडा ।यज्ञविवाहादिषु जनसंद्रावेषु प्रायत्निकं दर्शनम् ।तथोत्सवेषु च ।पण्यसधर्मत्वात् ।।
तस्मात् प्रदान-समये कन्याम् उदार-वेषां स्थापयेयुः । अपराह्णिकं च नित्यं प्रसाधितायाः सखीभिः सह क्रीडा । यज्ञ-विवाह^आदिषु जन-संद्रावेषु प्रायत्निकं दर्शनम् । तथ^उत्सवेषु च । पण्य-सधर्मत्वात् ॥
वरणार्थमुपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्संबन्धिसंगतान्पुरुषान्मङ्गलैः प्रतिगृह्णीयुः ।
वरण^अर्थम् उपगतांश् च भद्र-दर्शनान् प्रदक्षिण-वाचश् च तत्संबन्धि-संगतान् पुरुषान् मङ्गलैः प्रतिगृह्णीयुः ।
कन्यां चैषामलंकृतामन्यापदेशेन दर्शयेयुः ।
कन्यां च^एषाम् अलंकृताम् अन्य^अपदेशेन दर्शयेयुः ।
दैवं परीक्षणं चावधिं स्थापयेयुः ।आ प्रदाननिश्चयात् ।।
दैवं परीक्षणं च^अवधिं स्थापयेयुः । आ प्रदान-निश्चयात् ॥
स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्युक्त्वा न तदहरेवाभ्युपगच्छेयुः ॥
स्नान^आदिषु नियुज्यमाना वरयितारः सर्वं भविष्यति^इत्य् उक्त्वा न तद्-अहर्-एव^अभ्युपगच्छेयुः ॥
देशप्रवृत्तिसात्म्याद्वा ब्राह्मप्राजापत्यार्षदैवानामन्यतमेन विवाहेन शास्त्रतः परिणयेत् ।इति वरणविधानम् ।।
देश-प्रवृत्ति-सात्म्याद् वा ब्राह्म-प्राजापत्य^आर्ष-दैवानाम् अन्यतमेन विवाहेन शास्त्रतः परिणयेत् । इति वरण-विधानम् ॥
भवन्ति च^अत्र श्लोकाः ---
समस्याद्याः सहक्रीडा विवाहाः संगतानि च ।
समस्य^आद्याः सह-क्रीडा विवाहाः संगतानि च ।
समानैरेव कार्याणि नोत्तमैर्नापि वाधमैः ॥
समानैर् एव कार्याणि न^उत्तमैर् न^अपि वा^अधमैः ॥
कन्यां गृहीत्वा वर्तेत प्रेष्यवद्यत्र नायकः ।
कन्यां गृहीत्वा वर्तेत प्रेष्यवद् यत्र नायकः ।
तं विद्यादुच्चसंबन्धं परित्यक्तं मनस्विभिः ॥
तं विद्याद् उच्च-संबन्धं परित्यक्तं मनस्विभिः ॥
स्वामिवद्विचरेद्यत्र बान्धवैः स्वैः पुरस्कृतः ।
स्वामिवद् विचरेद् यत्र बान्धवैः स्वैः पुरस्कृतः ।
अश्लाघ्यो हीनसंबन्धः सो ऽपि सद्भिर्विनिन्द्यते ॥
अश्लाघ्यो हीन-संबन्धः सो +अपि सद्भिर् विनिन्द्यते ॥
परस्परसुखास्वादा क्रीडा यत्र प्रयुज्यते ।
परस्पर-सुख^आस्वादा क्रीडा यत्र प्रयुज्यते ।
विशेषयन्ती चान्योन्यं संबन्धः स विधीयते ॥
विशेषयन्ती च^अन्योन्यं संबन्धः स विधीयते ॥
कृत्वापि चोच्चसंबन्धं पश्चाज्ज्ञातिषु संनमेत् ।
कृत्वा^अपि च^उच्चसंबन्धं पश्चाज् ज्ञातिषु संनमेत् ।
न त्वेव हीनसंबन्धं कुर्यात्सद्भिर्विनिन्दितम् ।।
न त्व् एव हीन-संबन्धं कुर्यात् सद्भिर् विनिन्दितम् ॥
3.2
कन्याविस्रम्भणम्
संगतयोस्त्रिरात्रमधः शय्या ब्रह्मचर्यं क्षारलवणवर्जमाहारस्तथा सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संबन्धिनां च पूजनम् ।इति सार्ववर्णिकम् ।।
संगतयोस् त्रिरात्रम् अधः शय्या ब्रह्म-चर्यं क्षार-लवण-वर्जम् आहारस् तथा सप्ताहं सतूर्य-मङ्गल-स्नानं प्रसाधनं सह-भोजनं च प्रेक्षा संबन्धिनां च पूजनम् । इति सार्व-वर्णिकम् ॥
तस्मिन्नेतां निशि विजने मृदुभिरुपचारैरुपक्रमेत ॥
तस्मिन्न् एतां निशि विजने मृदुभिर् उपचारैर् उपक्रमेत ॥
त्रिरात्रमवचनं हि स्तम्भमिव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच्च तृतीयामिव प्रकृतिम् ।इति बाभ्रवीयाः ॥
त्रिरात्रम् अवचनं हि स्तम्भम् इव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच् च तृतीयाम् इव प्रकृतिम् । इति बाभ्रवीयाः ॥
उपक्रमेत विस्रम्भयेच्च ,न तु ब्रह्मचर्यमतिवर्तेत ।इति वात्स्यायनः ॥
उपक्रमेत विस्रम्भयेच् च, न तु ब्रह्मचर्यम् अतिवर्तेत । इति वात्स्यायनः ॥
उपक्रममाणश्च न प्रसह्य किंचिदाचरेत् ।।
उपक्रममाणश् च न प्रसह्य किंचिद् आचरेत् ॥
कुसुमसधर्माणो हि योषितः सुकुमारोपक्रमाः ।तास्त्वनधिगतविश्वासैः प्रसभमुपक्रम्यमाणाः संप्रयोगद्वेषिण्यो भवन्ति ।तस्मात्साम्नैवोपचरेत् ।।
कुसुम-सधर्माणो हि योषितः सुकुमार^उपक्रमाः । तास् त्व् अनधिगत-विश्वासैः प्रसभम् उपक्रम्यमाणाः संप्रयोग-द्वेषिण्यो भवन्ति । तस्मात् साम्ना^एव^उपचरेत् ॥
युक्त्यापि तु यतः प्रसरमुपलभेत्तेनैवानु प्रविशेत् ।।
युक्त्या^अपि तु यतः प्रसरम् उपलभेत् तेन^एव^अनु प्रविशेत् ॥
तत्प्रियेणालिङ्गनेनाचरितेन ।नातिकालत्वात् ।।
तत्-प्रियेण^आलिङ्गनेन^आचरितेन । न^अतिकालत्वात् ॥
पूर्वकायेण चोपक्रमेत् ।विषह्यत्वात् ।।
पूर्व-कायेण च^उपक्रमेत् । विषह्यत्वात् ॥
दीपालोके विगाढयौवनायाः पूर्वसंस्तुतायाः ।बालाया अपूर्वायाश्चान्धकारे ॥
दीप^आलोके विगाढ-यौवनायाः पूर्व-संस्तुतायाः । बालाया अपूर्वायाश् च^अन्धकारे ॥
अङ्गीकृतपरिष्वङ्गायाश्च वदनेन ताम्बूलदानम् ।तदप्रतिपद्यमानां च सान्त्वनैर्वाक्यैः शपथैः प्रतियाचितैः पादपतनैश्च ग्राहयेत् ।व्रीडायुक्तापि योषिदत्यन्तक्रुद्धापि न पादपतनमतिवर्तते इति सार्वत्रिकम् ।।
अङ्गीकृत-परिष्वङ्गायाश् च वदनेन ताम्बूल-दानम् । तद्-अप्रतिपद्यमानां च सान्त्वनैर् वाक्यैः शपथैः प्रतियाचितैः पाद-पतनैश् च ग्राहयेत् । व्रीडा-युक्ता^अपि योषिद्-अत्यन्त-क्रुद्धा^अपि न पाद-पतनम् अतिवर्तते इति सार्वत्रिकम् ॥
तद्दानप्रसङ्गेण मृदु विशदमकाहलमस्याश्चुम्बनम् ।
तद्-दान-प्रसङ्गेण मृदु विशदम् अकाहलम् अस्याश् चुम्बनम् ।
तत्र सिद्धामालापयेत् ।
तत्र सिद्धाम् आलापयेत् ।
तच्छ्रवणार्थं यत्किं चिदल्पाक्षराभिधेयमजानन्निव पृच्छेत् ।
तच्-छ्रवण^अर्थं यत् किं चिद् अल्प^अक्षर^अभिधेयम् अजानन्न् इव पृच्छेत् ।
तत्र निष्प्रतिपत्तिमनुद्वेजयन्सान्त्वना युक्तं बहुश एव पृच्छेत् ।
तत्र निष्प्रतिपत्तिम् अनुद्वेजयन् सान्त्वना युक्तं बहुश एव पृच्छेत् ।
*तत्र [Ch: यत्र ] अप्यवदन्तीं निर्बध्नीयात् ।।
*तत्र[Ch: यत्र] -अप्य् अवदन्तीं निर्बध्नीयात् ॥
सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते ।न तु लघुमिश्रामपि वाचं वदन्ति ।इति घोटकमुखः ॥
सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विष-हन्ते । न तु लघु-मिश्राम् अपि वाचं वदन्ति । इति घोटकमुखः ॥
निर्बध्यमाना तु शिरःकम्पेन प्रतिवचनानि योजयेत् ।कलहे तु न शिरः कम्पयेत् ।।
निर्बध्यमाना तु शिरः-कम्पेन प्रतिवचनानि योजयेत् । कलहे तु न शिरः कम्पयेत् ॥
इच्छसि मां नेच्छसि वा किं ते ऽहं रुचितो न रुचितो वेति पृष्टा चिरं स्थित्वा निर्बध्यमाना तदानुकूल्येन शिरः कम्पयेत् ।प्रपञ्च्यमाना तु विवदेत् ।।
इच्छसि मां न^इच्छसि वा किं ते +अहं रुचितो न रुचितो वा^इति पृष्टा चिरं स्थित्वा निर्बध्यमाना तदा^अनुकूल्येन शिरः कम्पयेत् । प्रपञ्च्यमाना तु विवदेत् ॥
अपि ब्रूयात् ।तत्र तामपनुद्य प्रतिवचनार्थमभ्यर्थ्यमाना तूष्णीमासीत ।निर्बध्यमाना तु नाहमेवं ब्रवीमीत्यव्यक्ताक्षरमनवसितार्थं वचनं ब्रूयात् ।नायकं च विहसन्ती कदा चित्कटाक्षैः प्रेक्षेत ।इत्यालापयोजनम् ।।
अपि ब्रूयात् । तत्र ताम् अपन्
एवं जातपरिचया चानिर्वदन्ती तत्समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात् ।उत्तरीये वास्य निबध्नीयात् ।
एवं जात-परिचया च^अनिर्वदन्ती तत्-समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात् । उत्तरीये वा^अस्य निबध्नीयात् ।
तथा युक्तामाच्छुरितकेन स्तनमुकुलयोरुपरि स्पृशेत् ।
तथा युक्ताम् आच्छुरितकेन स्तन-मुकुलयोर् उपरि स्पृशेत् ।
वार्यमाणश्च त्वमपि मां परिष्वजस्व ततो नैवमाचरिष्यामीति स्थित्या परिष्वञ्जयेत् ।स्वं च हस्तमा नाभिदेशात्प्रसार्य निर्वर्तयेत् ।क्रमेण चैनामुत्सङ्गमारोप्याधिकमधिकमुपक्रमेत् ।अप्रतिपद्यमानां च भीषयेत् ।।
वार्यमाणश् च त्वम् अपि मां परिष्वजस्व ततो न^एवम् आचरिष्यामि^इति स्थित्या परिष्वञ्जयेत् । स्वं च हस्तम् आ नाभि-देशात् प्रसार्य निर्वर्तयेत् । क्रमेण च^एनाम् उत्सङ्गम् आरोप्य^अधिकम् अधिकम् उपक्रमेत् । अप्रतिपद्यमानां च भीषयेत् ॥
अहं खलु तव दन्तपदान्यधरे करिष्यामि स्तनपृष्ठे च नखपदम् ।आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य पुरतः कथयिष्यामि ।सा त्वं किमत्र वक्ष्यसीति बालविभीषिकैर्बालप्रत्यायनैश्च शनैरेनां प्रतारयेत् ।
अहं खलु तव दन्त-पदान्य् अधरे करिष्यामि स्तन-पृष्ठे च नख-पदम् । आत्मनश् च स्वयं कृत्वा त्वया कृतम् इति ते सखी-जनस्य पुरतः कथयिष्यामि । सा त्वं किम् अत्र वक्ष्यसि^इति बाल-विभीषिकैर् बाल-प्रत्यायनैश् च शनैर् एनां प्रतारयेत् ।
द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिदधिकं विस्रम्भितां हस्तेन योजयेत् ।।
द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिद् अधिकं विस्रम्भितां हस्तेन योजयेत् ॥
सर्वाङ्गिकं चुम्बनमुपक्रमेत ॥
सर्व^अङ्गिकं चुम्बनम् उपक्रमेत ॥
ऊर्वोश्चोपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणोरुमूलमपि संवाहयेत् ।निवारिते संवाहने को दोष इत्याकुलयेदेनाम् ।तच्च स्थिरीकुर्यात् ।तत्र सिद्धाया गुह्यदेशाभिमर्शनं
ऊर्वोश् च^उपरि विन्यस्त-हस्तः संवाहन-क्रियायां सिद्धायां क्रमेण^ऊरु-मूलम् अपि संवाहयेत् । निवारिते संवाहने को दोष इत्य् आकुलयेद् एनाम् । तच् च स्थिरीकुर्यात् । तत्र सिद्धाया गुह्य-देश^अभिमर्शनं
रशनावियोजनं नीवी *विस्रंसनं [Ch: विस्रसनं ] वसनपरिवर्तनमूरुमूलसंवाहनं च ।एते चास्यान्यापदेशाः ।युक्तयन्त्रां रञ्जयेत् ।न त्वकाले व्रतखण्डनम्
रशना-वियोजनं नीवी-*विस्रंसनं[Ch: विस्रसनं] वसन-परिवर्तनम् ऊरु-मूल-संवाहनं च । एते च^अस्य^अन्य^अपदेशाः । युक्त-यन्त्रां रञ्जयेत् । न त्व् अकाले व्रत-खण्डनम्
अनुशिष्याच्च ।आत्मानुरागं दर्शयेत् ।मनोरथांश्च पूर्वकालिकाननुवर्णयेत् ।आयत्यां च तदानुकूल्येन प्रवृत्तिं प्रतिजानीयात् ।सपत्नीभ्यश्च साध्वसमवच्छिन्द्यात् ।कालेन च क्रमेण विमुक्तकन्याभावामनुद्वेजयन्नुपक्रमेत ।इति कन्याविस्रम्भणम् ।।
अनुशिष्याच् च । आत्म^अनुरागं दर्शयेत् । मनोरथांश् च पूर्व-कालिकान् अनुवर्णयेत् । आयत्यां च तदा^अनुकूल्येन प्रवृत्तिं प्रतिजानीयात् । सपत्नीभ्यश् च साध्वसम् अवच्छिन्द्यात् । कालेन च क्रमेण विमुक्त-कन्या-भावाम् अनुद्वेजयन्न् उपक्रमेत । इति कन्या-विस्रम्भणम् ॥
भवन्ति च^अत्र श्लोकाः ---
एवं चित्तानुगो बालामुपायेन प्रसाधयेत् ।
एवं चित्त^अनुगो बालाम् उपायेन प्रसाधयेत् ।
तथास्य सानुरक्ता च सुविस्रब्धा प्रजायते ॥
तथा^अस्य सानुरक्ता च सुविस्रब्धा प्रजायते ॥
नात्यन्तमानुलोम्येन न चातिप्रातिलोम्यतः ।
न^अत्यन्तम् आनुलोम्येन न च^अतिप्रातिलोम्यतः ।
सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साधयेत् ।।
सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत् ॥
आत्मनः प्रीतिजननं योषितां मानवर्धनम् ।
आत्मनः प्रीतिजननं योषितां मान-वर्धनम् ।
कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत् ।।
कन्या-विस्रम्भणं वेत्ति यः स तासां प्रियो भवेत् ॥
अतिलज्जान्वितेत्य् *एयं [Ch: एवं ] यस्तु कन्यामुपेक्षते ।
अतिलज्जा^अन्विता^इत्य् *एयं[Ch: एवं] यस् तु कन्याम् उपेक्षते ।
सो ऽनभिप्रायवेदीति पशुवत्परिभूयते ॥
सो +अनभिप्रायवेदि^इति पशुवत् परिभूयते ॥
सहसा वाप्युपक्रान्ता कन्याचित्तमविन्दता ।
सहसा वा^अप्य् उपक्रान्ता कन्या-चित्तम् अविन्दता ।
भयं वित्रासमुद्वेगं सद्यो द्वेषं च गच्छति ॥
भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति ॥
सा प्रीतियोगमप्राप्ता तेनोद्वेगेन दूषिता ।
सा प्रीतियोगम् अप्राप्ता तेन^उद्वेगेन दूषिता ।
पुरुषद्वेषिणी वा स्याद्विद्विष्टा वा ततो ऽन्यगा ॥
पुरुष-द्वेषिणी वा स्याद् विद्विष्टा वा ततो +अन्यगा ॥
3.3
बालायाम् उपक्रमाः इङ्गिताकारसूचनम् च
धनहीनस्तु गुणयुक्तो ऽपि ,मध्यस्थगुणो हीनापदेशो वा ,सधनो वा प्रातिवेश्यः ,मातृपितृभ्रातृषु च परतन्त्रः ,बालवृत्तिरुचितप्रवेशो वा कन्यामलभ्यत्वान्न वरयेत् ।
धन-हीनस् तु गुण-युक्तो +अपि, मध्यस्थ-गुणो हीन^अपदेशो वा, सधनो वा प्रातिवेश्यः, मातृ-पितृ-भ्रातृषु च परतन्त्रः, बाल-वृत्तिर् उचित-प्रवेशो वा कन्याम् अलभ्यत्वान् न वरयेत् ।
बाल्यात्प्रभृति चैनां स्वयमेवानुरञ्जयेत् ।
बाल्यात् प्रभृति च^एनां स्वयम् एव^अनुरञ्जयेत् ।
तथायुक्तश्च मातुलकुलानुवर्ती दक्षिणापथे बाल एव मात्रा च पित्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षादलभ्यां मातुलदुहितरमन्यस्मै वा पूर्वदत्तां साधयेत् ।
तथा-युक्तश् च मातुल-कुल^अनुवर्ती दक्षिणा-पथे बाल एव मात्रा च पित्रा च वियुक्तः परिभूत-कल्पो धन^उत्कर्षा-दलभ्यां मातुल-दुहितरम् अन्यस्मै वा पूर्व-दत्तां साधयेत् ।
अन्यामपि बाह्यां स्पृहयेत्
अन्याम् अपि बाह्यां स्पृहयेत्
बालायामेवं सति धर्माधिगमे संवननं श्लाघ्यमिति घोटकमुखः ॥
बालायाम् एवं सति धर्म^अधिगमे संवननं श्लाघ्यम् इति घोटकमुखः ॥
तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणमिति कुर्वीत ।परिचयस्य वयसश्चानुरूप्यात् ।
तया सह पुष्प^अवचयं ग्रथनं गृहकं दुहितृका-क्रीडा-योजनं भक्त-पान-करणम् इति कुर्वीत । परिचयस्य वयसश् च^अनुरूप्यात् ।
आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि तत्सात्म्यात्तदाप्तदासचेटिकाभिस्तया च सहानुक्रीडेत ।
आकर्ष-क्रीडा पट्टिका-क्रीडा मुष्टि-द्यूत-क्षुल्लक^आदि-द्यूतानि मध्यम^अङ्गुलि-ग्रहणं षट्-पाषाणक^आदीनि च देश्यानि तत्-सात्म्यात् तद्-आप्त-दास-चेटिकाभिस् तया च सह^अनुक्रीडेत ।
क्ष्वेडितकानि सुनिमीलितकामारब्धिकां लवणवीथिकामनिलताडितकां गोधूमपुञ्जिकामङ्गुलिताडितकां सखीभिरन्यानि च देश्यानि ॥
क्ष्वेडितकानि सुनिमीलितकाम् आरब्धिकां लवण-वीथिकाम् अनिल-ताडितकां गोधूम-पुञ्जिकाम् अङ्गुलि-ताडितकां सखीभिर् अन्यानि च देश्यानि ॥
यां च विश्वास्यामस्यां मन्येत तया सह निरन्तरां प्रीतिं कुर्यात् ।परिचयांश्च बुध्येत ।
यां च विश्वास्याम् अस्यां मन्येत तया सह निरन्तरां प्रीतिं कुर्यात् । परिचयांश् च बुध्येत ।
धात्रेयिकां चास्याः प्रियहिताभ्यामधिकमुपगृह्णीयात् ।सा हि प्रीयमाणा विदिताकाराप्यप्रत्यादिशन्ती तं तां च योजयितुं शक्नुयात् ।अनभिहितापि प्रत्याचार्यकम् ।
धात्रेयिकां च^अस्याः प्रिय-हिताभ्याम् अधिकम् उपगृह्णीयात् । सा हि प्रीयमाणा विदित^आकारा^अप्य् अप्रत्यादिशन्ती तं तां च योजयितुं शक्नुयात् । अनभिहिता^अपि प्रत्याचार्यकम् ।
अविदिताकारापि हि गुणानेवानुरागात्प्रकाशयेत् ।यथा प्रयोज्यानुरज्येत ।
अविदित^आकारा^अपि हि गुणान् एव^अनुरागात् प्रकाशयेत् । यथा प्रयोज्या^अनुरज्येत ।
यत्र यत्र च कौतुकं प्रयोज्यायास्तदनु प्रविश्य साधयेत् ।
यत्र यत्र च कौतुकं प्रयोज्यायास् तद् अनु प्रविश्य साधयेत् ।
क्रीडनकद्रव्याणि यान्यपूर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अयत्नेन संपादयेत् ।
क्रीडनक-द्रव्याणि यान्य् अपूर्वाणि यान्य् अन्यासां विरलशो विद्येरंस् तान्य् अस्या अयत्नेन संपादयेत् ।
तत्र कन्दुकमनेकभक्तिचित्रमल्पकालान्तरितमन्यदन्यच्च संदर्शयेत् ।तथा सूत्रदारुगवलगजदन्तमयीर्दुहितृका मधूच्छिष्टपिष्टमृण्मयीश्च ।
तत्र कन्दुकम् अनेक-भक्ति-चित्रम् अल्प-काल^अन्तरितम् अन्यद् अन्यच् च संदर्शयेत् । तथा सूत्र-दारु-गवल-गज-दन्त-मयीर् दुहितृका मधु^उच्छिष्ट-पिष्ट-मृण्-मयीश् च ।
भक्तपाकार्थमस्या महानसिकस्य च दर्शनम् ।
भक्त-पाक^अर्थम् अस्या महान् असिकस्य च दर्शनम् ।
अलक्तकमनःशिलाहरितालहिङ्गुलकश्यामवर्णकादीनां तथा चन्दनकुङ्कुमयोः पूगफलानां पत्त्राणां कालयुक्तानां च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां च प्रकाशम् ।यथा च सर्वाभिप्रायसंवर्धकमेनं मन्येत तथा प्रयतितव्यम् ।
काष्ठ-मेध्रकयोश् च संयुक्तयोश् च स्त्री-पुंसयोर् अज^एडकानां देव-कुल-गृहकानां मृद्-विदल-काष्ठ-विनिर्मितानां शुक-परभृत-मदन-सारिका-लावक-कुक्कुट-तित्तिरि-पञ्जरकाणां च विचित्र^आकृति-संयुक्तानां जल-भाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् अलक्तक-मनःशिला-हरिताल-हिङ्गुलक-श्याम-वर्णक^आदीनां तथा चन्दन-कुङ्कुमयोः पूग-फलानां पत्त्राणां काल-युक्तानां च शक्ति-विषये प्रच्छन्नं दानं प्रकाश-द्रव्याणां च प्रकाशम् । यथा च सर्व^अभिप्राय-संवर्धकम् एनं मन्येत तथा प्रयतितव्यम् ।
वीक्षणे च प्रच्छन्नमर्थयेत् ।तथा कथायोजनम् ।
वीक्षणे च प्रच्छन्नम् अर्थयेत् । तथा कथा-योजनम् ।
प्रच्छन्नदानस्य तु कारणमात्मनो गुरुजनाद्भयं ख्यापयेत् ।देयस्य चान्येन स्पृहणीयत्वमिति ।
प्रच्छन्न-दानस्य तु कारणम् आत्मनो गुरु-जनाद् भयं ख्यापयेत् । देयस्य च^अन्येन स्पृहणीयत्वम् इति ।
वर्धमानानुरागं चाख्यानके मनः कुर्वतीमन्वर्थाभिः कथाभिश्चित्तहारिणीभिश्च रञ्जयेत् ।
वर्धमान^अनुरागं च^आख्यानके मनः कुर्वतीम् अन्वर्थाभिः कथाभिश् चित्त-हारिणीभिश् च रञ्जयेत् ।
विस्मयेषु प्रसह्यमानामिन्द्रजालैः प्रयोगैर्विस्मापयेत् ।कलासु कौतुकिनीं तत्कौशलेन गीतप्रियां श्रुतिहरैर्गीतैः ।आश्वयुज्यामष्टमीचन्द्रके कौमुद्यामुत्सवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैरापीडैः *कर्ण [Ch: कर्णं ] पत्त्रभङ्गैः सिक्थकप्रधानैर्वस्त्राङ्गुलीयकभूषणदानैश्च ।नो चेद्दोषकराणि मन्येत ।
विस्मयेषु प्रसह्यमानाम् इन्द्र-जालैः प्रयोगैर् विस्मापयेत् । कलासु कौतुकिनीं तत्-कौशलेन गीत-प्रियां श्रुति-हरैर् गीतैः । आश्वयुज्याम् अष्टमी-चन्द्रके कौमुद्याम् उत्सवेषु यात्रायां ग्रहणे गृह^आचारे वा विचित्रैर् आपीडैः[Ch: कर्णं] *कर्ण-पत्त्र-भङ्गैः सिक्थक-प्रधानैर् वस्त्र^अङ्गुलीयक-भूषण-दानैश् च । नो चेद् दोष-कराणि मन्येत ।
अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकास्याः पुरुषप्रवृत्तौ चातुःषष्टिकान्योगान्ग्राहयेत् ।
अन्य-पुरुष-विशेष^अभिज्ञतया धात्रेयिका^अस्याः पुरुष-प्रवृत्तौ चातुःषष्टिकान् योगान् ग्राहयेत् ।
तद्ग्रहणोपदेशेन च प्रयोज्यायां रतिकौशलमात्मनः प्रकाशयेत् ।
तद्-ग्रहण^उपदेशेन च प्रयोज्यायां रति-कौशलम् आत्मनः प्रकाशयेत् ।
उदारवेषश्च स्वयमनुपहतदर्शनश्स्यात् ।भावं च कुर्वतीमिङ्गिताकारैः सूचयेत् ।
उदार-वेषश् च स्वयम् अनुपहत-दर्शनश् स्यात् । भावं च कुर्वतीम् इङ्गित^आकारैः सूचयेत् ।
युवतयो हि संसृष्टमभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते ।कामयमाना अपि तु नाभियुञ्जत इति प्रायोवादः ।इति बालायामुपक्रमाः ॥
युवतयो हि संसृष्टम् अभीक्ष्ण-दर्शनं च पुरुषं प्रथमं कामयन्ते । कामयमाना अपि तु न^अभियुञ्जत इति प्रायोवादः । इति बालायाम् उपक्रमाः ॥
तानिङ्गिताकारान्वक्ष्यामः ॥
तान् इङ्गित^आकारान् वक्ष्यामः ॥
संमुखं तं तु न वीक्षते ।वीक्षिता व्रीडां दर्शयति ।रुच्यमात्मनो ऽङ्गमपदेशेन प्रकाशयति ।प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते ।
संमुखं तं तु न वीक्षते । वीक्षिता व्रीडां दर्शयति । रुच्यम् आत्मनो +अङ्गम् अपदेशेन प्रकाशयति । प्रमत्तं प्रच्छन्नं नायकम् अतिक्रान्तं च वीक्षते ।
पृष्टा च किं चित्सस्मितमव्यक्ताक्षरमनवसितार्थं च मन्दं मन्दमधोमुखी कथयति ।तत्समीपे चिरं स्थानमभिनन्दति ।दूरे स्थिता पश्यतु मामिति मन्यमाना परिजनं सवदनविकारमाभाषते ।तं देशं न मुञ्चति ।
पृष्टा च किं चित् सस्मितम् अव्यक्त^अक्षरम् अनवसिता^अर्थं च मन्दं मन्दम् अधोमुखी कथयति । तत्-समीपे चिरं स्थानम् अभिनन्दति । दूरे स्थिता पश्यतु माम् इति मन्यमाना परिजनं सवदन-विकारम् आभाषते । तं देशं न मुञ्चति ।
यत्किं चिद्दृष्ट्वा विहसितं करोति ।तत्र कथामवस्थानार्थमनुबध्नाति ।बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति ।परिचारिकायास्तिलकं च रचयति ।परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ।
यत् किं चिद् दृष्ट्वा विहसितं करोति । तत्र कथाम् अवस्थान^अर्थम् अनुबध्नाति । बालस्य^अङ्क-गतस्य^आलिङ्गनं चुम्बनं च करोति । परिचारिकायास् तिलकं च रचयति । परिजनानवष्टभ्य तास् ताश् च लीला दर्शयति ।
तन्मित्रेषु विश्वसिति ।वचनं चैषां बहु मन्यते करोति च ।तत्परिचारकैः सह प्रीतिं संकथां द्यूतमिति च करोति ।स्वकर्मसु च प्रभविष्णुरिवैतान्नियुञ्क्ते ।तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति ।
तन्-मित्रेषु विश्वसिति । वचनं च^एषां बहु मन्यते करोति च । तत्-परिचारकैः सह प्रीतिं संकथां द्यूतम् इति च करोति । स्वकर्मसु च प्रभविष्णुर् इव^एतान् नियुञ्क्ते । तेषु च नायक-संकथाम् अन्यस्य कथयत्स्व् अवहिता तां शृणोति ।
परिहरति ।कर्णपत्त्रमङ्गुलीयकं स्रजं वा तेन याचिता सधीरमेव गात्रादवतार्य सख्या हस्ते ददाति ।तेन च दत्तं नित्यं धारयति ।अन्यवरसंकथासु विषण्णा भवति ।तत्पक्षकैश्च सह न संसृज्यत इति ॥भवतश् च^अत्र श्लोकौ ---
दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च ।
दृष्ट्वा^एतान् भाव-संयुक्तान् आकारान् इङ्गितानि च ।
कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ।।
कन्यायाः संप्रयोग^अर्थं तांस् तान् योगान् विचिन्तयेत् ॥
बालक्रीडनकैर्बाला कलाभिर्यौवने स्थिता ।
बाल-क्रीडनकैर् बाला कलाभिर् यौवने स्थिता ।
वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात् ।।
वत्सला च^अपि संग्राह्या विश्वास्यजन-संग्रहात् ॥
3.4
एकपुरुषाभियोगाः
दर्शितेङ्गिताकारां कन्याम् *उपायतो [Ch: उपायो ] ऽभियुञ्जीत ॥
दर्शित^इङ्गित^आकारां कन्याम् *उपायतो[Ch: उपायो] +अभियुञ्जीत ॥
द्यूते क्रीडनकेषु च विवदमानः साकारमस्याः पाणिमवलम्बेत ॥
द्यूते क्रीडनकेषु च विवदमानः साकारम् अस्याः पाणिम् अवलम्बेत ॥
यथोक्तं च स्पृष्टकादिकमालिङ्गनविधिं विदध्यात् ।।
यथोक्तं च स्पृष्टक^आदिकम् आलिङ्गन-विधिं विदध्यात् ॥
पत्रच्छेद्यक्रियायां च स्वाभिप्रायासूचकं मिथुनमस्या दर्शयेत् ।।
पत्र-च्छेद्य-क्रियायां च स्व^अभिप्राया-सूचकं मिथुनम् अस्या दर्शयेत् ॥
एवमन्यद्विरलशो दर्शयेत् ।।
एवम् अन्यद्-विरलशो दर्शयेत् ॥
जलक्रीडायां तद्दूरतो ऽप्सु निमग्नः समीपमस्या गत्वा स्पृष्ट्वा चैनां तत्रैवोन्मज्जेत् ।।
जल-क्रीडायां तद्-दूरतो +अप्सु निमग्नः समीपम् अस्या गत्वा स्पृष्ट्वा च^एनां तत्र^एव^उन्मज्जेत् ॥
नवपत्रिकादिषु च सविशेषभावनिवेदनम् ।।
नव-पत्रिक^आदिषु च सविशेष-भाव-निवेदनम् ॥
आत्मदुःखस्यानिर्वेदेन कथनम् ।।
आत्म-दुःखस्य^अनिर्वेदेन कथनम् ॥
स्वप्नस्य च भावयुक्तस्यान्यापदेशेन ॥
स्वप्नस्य च भाव-युक्तस्य^अन्य^अपदेशेन ॥
प्रेक्षणके स्वजनसमाजे वा समीपोपवेशनम् ।तत्रान्यापदिष्टं स्पर्शनम् ।।
प्रेक्षणके स्वजन-समाजे वा समीप^उपवेशनम् । तत्र^अन्य^अपदिष्टं स्पर्शनम् ॥
अपाश्रयार्थं च चरणेन चरणस्य पीडनम् ।।
अपाश्रय^अर्थं च चरणेन चरणस्य पीडनम् ॥
ततः शनकैरेकैकामङ्गुलिमभिस्पृशेत् ।।
ततः शनकैर् एक^एकाम् अङ्गुलिम् अभिस्पृशेत् ॥
पादाङ्गुष्ठेन च नखाग्राणि घट्टयेत् ।।
पाद^अङ्गुष्ठेन च नख^अग्राणि घट्टयेत् ॥
तत्र सिद्धः पदात्पदमधिकमाकाङ्क्षेत् ।।
तत्र सिद्धः पदात् पदम् अधिकम् आकाङ्क्षेत् ॥
क्षान्त्यर्थं च तदेवाभ्यसेत् ।।
क्षान्त्य् अर्थं च तद् एव^अभ्यसेत् ॥
पादशौचे पादाङ्गुलिसंदंशेन तदङ्गुलिपीडनम् ।।
पाद-शौचे पाद^अङ्गुलि-संदंशेन तद्-अङ्गुलि-पीडनम् ॥
द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः ॥
द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः ॥
आचमनान्ते चोदकेनासेकः ॥
आचमन^अन्ते च^उदकेन^असेकः ॥
विजने तमसि च द्वन्द्वमासीनः क्षान्तिं क्रुवीत ।समानदेशशय्यायां च ॥
विजने तमसि च द्वन्द्वम् आसीनः क्षान्तिं क्रुवीत । समान-देश-शय्यायां च ॥
तत्र यथार्थमनुद्वेजयतो भावनिवेदनम् ।।
तत्र यथार्थम् अनुद्वेजयतो भाव-निवेदनम् ॥
विविक्ते च किं चिदस्ति कथयितव्यमित्युक्त्वा निर्वचनं भावं च तत्रोपलक्षयेत् ।यथा पारदारिके वक्ष्यामः ॥
विविक्ते च किं चिद् अस्ति कथयितव्यम् इत्य् उक्त्वा निर्वचनं भावं च तत्र^उपलक्षयेत् । यथा पार-दारिके वक्ष्यामः ॥
विदितभावस्तु व्याधिमपदिश्यैनां वार्ताग्रहणार्थं स्वमुदवसितमानयेत् ।।
विदित-भावस् तु व्याधिम् अपदिश्य^एनां वार्ता-ग्रहण^अर्थं स्वम् उदवसितम् आनयेत् ॥
आगतायाश्च शिरःपीडने नियोगः ।पाणिमवलम्ब्य चास्याः साकारं नयनयोर्ललाटे च निदध्यात् ।।
आगतायाश् च शिरः-पीडने नियोगः । पाणिम् अवलम्ब्य च^अस्याः साकारं नयनयोर् ललाटे च निदध्यात् ॥
औषधापदेशार्थं चास्याः कर्म विनिर्दिशेत् ।।
औषध^अपदेश^अर्थं च^अस्याः कर्म विनिर्दिशेत् ॥
इदं त्वया कर्तव्यम् ।न ह्येतदृते कन्यया अन्येन कार्यमिति गच्छन्तीं पुनरागमनानुबन्धमेनां विसृजेत् ।।
इदं त्वया कर्तव्यम् । न ह्य् एतद् ऋते कन्यया अन्येन कार्यम् इति गच्छन्तीं पुनर् आगमन^अनुबन्धम् एनां विसृजेत् ॥
अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥
अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः ॥
अभीक्ष्णदर्शनार्थमागतायाश्च गोष्ठीं वर्धयेत् ।।
अभीक्ष्ण-दर्शन^अर्थम् आगतायाश् च गोष्ठीं वर्धयेत् ॥
अन्याभिरपि सह विश्वासनार्थमधिकमधिकं चाभियुञ्जीत ।न तु वाचा निर्वदेत् ।।
अन्याभिर् अपि सह विश्वासन^अर्थम् अधिकम् अधिकं च^अभियुञ्जीत । न तु वाचा निर्वदेत् ॥
दूरगतभावो ऽपि हि कन्यासु न निर्वेदेन सिद्ध्यतीति घोटकमुखः ॥
दूरगत-भावो +अपि हि कन्यासु न निर्वेदेन सिद्ध्यति^इति घोटकमुखः ॥
यदा तु बहुसिद्धां मन्येत तदैवोपक्रमेत् ।।
यदा तु बहु-सिद्धां मन्येत तदा^एव^उपक्रमेत् ॥
रागवत्यश्च भवन्ति ।न च पुरुषं प्रत्याचक्षते ।तस्मात्तत्कालं प्रयोजयितव्या इति प्रायोवादः ॥
रागवत्यश् च भवन्ति । न च पुरुषं प्रत्याचक्षते । तस्मात् तत्कालं प्रयोजयितव्या इति प्रायोवादः ॥
एकपुरुषाभियोगानां त्वसंभवे गृहीतार्थया धात्रेयिकया सख्या वा तस्यामन्तर्भूतया तमर्थमनिर्वदन्त्या सहैनामङ्कमानाययेत् ।ततो यथोक्तमभियुञ्जीत ॥
एक-पुरुष^अभियोगानां त्व् असंभवे गृहीत^अर्थया धात्रेयिकया सख्या वा तस्याम् अन्तर्भूतया तम् अर्थम् अनिर्वदन्त्या सह^एनाम् अङ्कम् आनाययेत् । ततो यथोक्तम् अभियुञ्जीत ॥
स्वां वा परिचारिकामादावेव सखीत्वेनास्याः प्रणिदध्यात् ।।
स्वां वा परिचारिकाम् आदाव् एव सखीत्वेन^अस्याः प्रणिदध्यात् ॥
यज्ञे विवाहे यात्रायामुत्सवे व्यसने प्रेक्षणकव्यापृते जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षितभावामेकाकिनीमुपक्रमेत ।
यज्ञे विवाहे यात्रायाम् उत्सवे व्यसने प्रेक्षणक-व्यापृते जने तत्र तत्र च दृष्ट^इङ्गित^आकारां परीक्षित-भावाम् एकाकिनीम् उपक्रमेत ।
न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना व्यावर्तन्त इति वात्स्यायनः ।इत्येकपुरुषाभियोगाः ।
न हि दृष्ट-भावा योषितो देशे काले च प्रयुज्यमाना व्यावर्तन्त इति वात्स्यायनः । इत्य् एकपुरुष^अभियोगाः ।
मन्दापदेशा गुणवत्यपि कन्या धनहीना कुलीनापि समानैरयाच्यामाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना पाणिग्रहणं स्वयमभीप्सेत ॥
मन्द^अपदेशा गुणवत्य् अपि कन्या धन-हीना कुलीना^अपि समानैर् अयाच्यामाना माता-पितृ-वियुक्ता वा ज्ञाति-कुल-वर्तिनी वा प्राप्त-यौवना पाणि-ग्रहणं स्वयम् अभीप्सेत ॥
सा तु गुणवन्तं शक्तं सुदर्शनं बालप्रीत्याभियोजयेत् ।।
सा तु गुणवन्तं शक्तं सुदर्शनं बाल-प्रीत्या^अभियोजयेत् ॥
यं वा मन्येत मातापित्रोरसमीक्षया स्वयमप्ययमिन्द्रियदौर्बल्यान्मयि प्रवर्तिष्यत इति प्रियहितोपचारैरभीक्ष्णसंदर्शनेन च तमावर्जयेत् ।।
यं वा मन्येत माता-पित्रोर् असमीक्षया स्वयम् अप्य् अयम् इन्द्रिय-दौर्बल्यान् मयि प्रवर्तिष्यत इति प्रिय-हित^उपचारैर् अभीक्ष्ण-संदर्शनेन च तम् आवर्जयेत् ॥
माता चैनां सखीभिर्धात्रेयिकाभिश्च सह तदभिमुखीं कुर्यात् ।।
माता च^एनां सखीभिर् धात्रेयिकाभिश् च सह तद्-अभिमुखीं कुर्यात् ॥
पुष्पगन्धताम्बूलहस्ताया विजने विकाले च तदुपस्थानम् ।कलाकौशलप्रकाशने वा संवाहने शिरसः पीडने चौचित्यदर्शनम् ।प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायामुपक्रमेषु यथोक्तमाचरेत् ।।
पुष्प-गन्ध-ताम्बूल-हस्ताया विजने विकाले च तद्-उपस्थानम् । कला-कौशल-प्रकाशने वा संवाहने शिरसः पीडने च^औचित्य-दर्शनम् । प्रयोज्यस्य सात्म्य-युक्ताः कथा-योगाः बालायाम् उपक्रमेषु यथोक्तम् आचरेत् ॥
न चैवान्तरापि पुरुषं स्वयमभियुञ्जीत ।स्वयमभियोगिनी हि युवतिः सौभाग्यं जहातीत्याचार्याः ॥
न च^एव^अन्तरा^अपि पुरुषं स्वयम् अभियुञ्जीत । स्वयम् अभियोगिनी हि युवतिः सौभाग्यं जहाति^इत्य्-आचार्याः ॥
तत्प्रयुक्तानां त्वभियोगानामानुलोम्येन ग्रहणम् ।
तत्-प्रयुक्तानां त्व् अभियोगानाम् आनुलोम्येन ग्रहणम् ।
परिष्वक्ता च न विकृतिं भजेत् ।श्लक्ष्णमाकारमजानतीव प्रतिगृह्णीयात् ।वदनग्रहणे बलात्कारः ।
परिष्वक्ता च न विकृतिं भजेत् । श्लक्ष्णम् आकारम् अजानती^इव प्रतिगृह्णीयात् । वदन-ग्रहणे बलात् कारः ।
रतिभावनामभ्यर्थ्यमानायाः कृच्छ्राद्गुह्यसंस्पर्शनम् ।।
रति-भावनाम् अभ्यर्थ्यमानायाः कृच्छ्राद् गुह्य-संस्पर्शनम् ॥
अभ्यर्थितापि नातिविवृता स्वयं स्यात् ।अन्यत्रानिश्चयकालात् ।
अभ्यर्थिता^अपि न^अतिविवृता स्वयं स्यात् । अन्यत्र^अनिश्चय-कालात् ।
यदा तु मन्येतानुरक्तो मयि न व्यावर्तिष्यत इति तदैवैनमभियुञ्जानं बालभावमोक्षाय *त्वरयेत् [Ch: त्वरेत् ] ।
यदा तु मन्येत^अनुरक्तो मयि न व्यावर्तिष्यत इति तदा^एव^एनम् अभियुञ्जानं बाल-भाव-मोक्षाय *त्वरयेत्[Ch: त्वरेत्] ।
विमुक्तकन्याभावा च विश्वास्येषु प्रकाशयेत् ।इति प्रयोज्यस्योपावर्तनम् ।।
विमुक्त-कन्या-भावा च विश्वास्येषु प्रकाशयेत् । इति प्रयोज्यस्य^उपावर्तनम् ॥
कन्याभियुज्यमाना तु यं मन्येताश्रयं सुखम् ।
कन्या^अभियुज्यमाना तु यं मन्येत^आश्रयं सुखम् ।
अनुकूलं च वश्यं च तस्य कुर्यात्परिग्रहम् ।।
अनुकूलं च वश्यं च तस्य कुर्यात् परिग्रहम् ॥
अनपेक्ष्य गुणान्यत्र रूपमौचित्यमेव च ।
अनपेक्ष्य गुणान् यत्र रूप-मौचित्यम् एव च ।
कुर्वीत धनलोभेन पतिं सापत्नकेष्वपि ॥
कुर्वीत धन-लोभेन पतिं स^अपत्नकेष्व् अपि ॥
तत्र युक्तगुणं वश्यं शक्तं बलवदर्थिनम् ।
तत्र युक्त-गुणं वश्यं शक्तं बलवद् अर्थिनम् ।
उपायैरभियुञ्जानं कन्या न प्रतिलोभयेत् ।।
उपायैर् अभियुञ्जानं कन्या न प्रतिलोभयेत् ॥
वरं वश्यो दरिद्रो ऽपि निर्गुणो ऽप्यात्मधारणः ।
वरं वश्यो दरिद्रो +अपि निर्गुणो +अप्य् आत्म-धारणः ।
गुणैर्युक्तो ऽपि न त्वेवं बहुसाधारणः पतिः ॥
गुणैर् युक्तो +अपि न त्व् एवं बहु-साधारणः पतिः ॥
प्रायेण धनिनां दारा बहवो निरवग्रहाः ।
प्रायेण धनिनां दारा बहवो निरवग्रहाः ।
बाह्ये सत्युपभोगे ऽपि निर्विस्रम्भा बहिःसुखाः ॥
बाह्ये सत्य् उपभोगे +अपि निर्विस्रम्भा बहिः-सुखाः ॥
नीचो यस्त्वभियुञ्जीत पुरुषः पलितो ऽपि वा ।
नीचो यस् त्व् अभियुञ्जीत पुरुषः पलितो +अपि वा ।
विदेशगतिशीलश्च न स संयोगमर्हति ॥
विदेश-गति-शीलश् च न स संयोगम् अर्हति ॥
यद् $च्छयाभियुक्तो यो दम्भद्यूताधिको ऽपि वा ।
यद्$च्छया^अभियुक्तो यो दम्भ-द्यूत^अधिको +अपि वा ।
सपत्नीकश्च सापत्यो न स संयोगमर्हति ॥
सपत्नीकश् च स^अपत्यो न स संयोगम् अर्हति ॥
गुणसाम्ये ऽभियोक्तॄणामेको वरयिता वरः ।
गुण-साम्ये +अभियोक्तॄणाम् एको वरयिता वरः ।
तत्राभियोक्तरि श्रेष्ठ्यमनुरागात्मको हि सः ॥
तत्र^अभियोक्तरि श्रेष्ठ्यम् अनुराग^आत्मको हि सः ॥
3.5
प्राचुर्येण कन्याया विविक्तदर्शनस्यालाभे धात्रेयिकां प्रियहिताभ्यामुपगृह्योपसर्पेत् ।।
प्राचुर्येण कन्याया विविक्त-दर्शनस्य^आलाभे धात्रेयिकां प्रिय-हिताभ्याम् उपगृह्य^उपसर्पेत् ॥
सा चैनामविदिता नाम नायकस्य भूत्वा तद्गुणैरनुरञ्जयेत् ।तस्याश्च रुच्यान्नायकगुणान्भूयिष्ठमुपवर्णयेत् ।
सा च^एनाम् अविदिता नाम नायकस्य भूत्वा तद्-गुणैर् अनुरञ्जयेत् । तस्याश् च रुच्यान् नायक-गुणान् भूयिष्ठम् उपवर्णयेत् ।
अन्येषां वरपितॄणां दोशानभिप्रायविरुद्धान्प्रतिपादयेत् ।
अन्येषां वर-पितॄणां दोशान् अभिप्राय-विरुद्धान् प्रतिपादयेत् ।
मातापित्रोश्च गुणानभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम् ।
माता-पित्रोश् च गुणान् अभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम् ।
याश्चान्या अपि समानजातीयाः कन्याः शकुन्तलाद्याः स्वबुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म ताश्चास्या निदर्शयेत् ।
याश् च^अन्या अपि समान-जातीयाः कन्याः शकुन्तला^आद्याः स्वबुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म ताश् च^अस्या निदर्शयेत् ।
महाकुलेषु सापत्नकैर्बाध्यामाना *विद्विष्टा [Ch: विद्विष्टाः ] दुःखिताः परित्यक्ताश्च दृश्यन्ते ।
महा-कुलेषु स^अपत्नकैर् बाध्यामाना *विद्विष्टा[Ch: विद्विष्टाः] दुःखिताः परित्यक्ताश् च दृश्यन्ते ।
आयतिं चास्य वर्णयेत् ।
आयतिं च^अस्य वर्णयेत् ।
सुखमनुपहतमेकचारितायां *नायिका [Ch: नायका ] अनुरागं च वर्णयेत् ।
सुखम् अनुपहतम् एकचारितायां *नायिका[Ch: नायका] -अनुरागं च वर्णयेत् ।
समनोरथायाश्चास्या अपायं साध्वसं व्रीडां च हेतुभिरवच्छिन्द्यात् ।
समनोरथायाश् च^अस्या अपायं साध्वसं व्रीडां च हेतुभिर् अवच्छिन्द्यात् ।
दूतीकल्पं च सकलमाचरेत् ।
दूतीकल्पं च सकलम् आचरेत् ।
त्वामजानतीमिव नायको बलाद्ग्रहीष्यतीति तथा सुपरिगृहीतं स्यादिति योजयेत् ।।
त्वाम् अजानतीम् इव नायको बलाद् ग्रहीष्यति^इति तथा सुपरिगृहीतं स्याद् इति योजयेत् ॥
प्रतिपन्नामभिप्रेतावकाशवर्तिनीं नायकः श्रोत्रियागारादग्निमानाय्य कुशानास्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत् ।
प्रतिपन्नाम् अभिप्रेत^अवकाश-वर्तिनीं नायकः श्रोत्रिय^आगाराद् अग्निम् आनाय्य कुशान् आस्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत् ।
ततो मातरि पितरि च प्रकाशयेत् ।
ततो मातरि पितरि च प्रकाशयेत् ।
अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्याचार्यसमयः ॥
अग्नि-साक्षिका हि विवाहा न निवर्तन्त इत्य् आचार्य-समयः ॥
दूषयित्वा चैनां शनैः स्वजने प्रकाशयेत् ।
दूषयित्वा च^एनां शनैः स्वजने प्रकाशयेत् ।
तद्बान्धवाश्च यथा कुलस्याधं परिहरन्तो दण्डभयाच्च तस्मा एवैनां दद्युस्तथा योजयेत् ।
तद्-बान्धवाश् च यथा कुलस्य^अधं परिहरन्तो दण्ड-भयाच् च तस्मा एव^एनां दद्युस् तथा योजयेत् ।
अनन्तरं च प्रीत्युपग्रहेण रागेण तद्बान्धवान्प्रीणयेदिति ।
अनन्तरं च प्रीत्य्-उपग्रहेण रागेण तद्-बान्धवान् प्रीणयेद् इति ।
गान्धर्वेण विवाहेन वा चेष्टेत ॥
गान्धर्वेण विवाहेन वा चेष्टेत ॥
अप्रतिपद्यमानायामन्तश्चारिणीमन्यां कुलप्रमदां पूर्वसंसृष्टां प्रीयमाणां चोपगृह्य तया सह विषह्यमवकाशमेनामन्यकार्यापदेशेनानययेत् ।
अप्रतिपद्यमानायाम् अन्तश् चारिणीम् अन्यां कुल-प्रमदां पूर्व-संसृष्टां प्रीयमाणां च^उपगृह्य तया सह विषह्यम् अवकाशम् एनाम् अन्य-कार्य^अपदेशेन^आनययेत् ।
ततः श्रोत्रियागारादग्निमिति समानं पूर्वेण ॥
ततः श्रोत्रिय^आगाराद् अग्निम् इति समानं पूर्वेण ॥
आसन्ने च विवाहे मातरमस्यास्तदभिमतदोषैरनुशयं ग्राहयेत् ।
आसन्ने च विवाहे मातरम् अस्यास् तद् अभिमत-दोषैर् अनुशयं ग्राहयेत् ।
ततस्तदनुमतेन प्रातिवेश्याभवने निशि नायकमानाय्य श्रोत्रियागारादग्निमिति समानं पूर्वेण ॥
ततस् तद्-अनुमतेन प्रातिवेश्य^अभवने निशि नायकम् आनाय्य श्रोत्रिय^आगाराद् अग्निम् इति समानं पूर्वेण ॥
भ्रातरमस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तमसुकरेण साहायदानेन प्रियोपग्रहैश्च सुदीर्घकालमनुरञ्जयेत् ।अन्ते च स्वाभिप्रायं ग्राहयेत् ।
भ्रातरम् अस्या वा समान-वयसं वेश्यासु परस्त्रीषु वा प्रसक्तम् असुकरेण साहाय-दानेन प्रिय^उपग्रहैश् च सुदीर्घ-कालम् अनुरञ्जयेत् । अन्ते च स्व^अभिप्रायं ग्राहयेत् ।
प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानामर्थे जीवितमपि त्यजन्ति ।ततस्तेनैवान्यकार्यात्तामानाययेत् ।विषह्यं सावकाशमिति समानं पूर्वेण ॥
प्रायेण हि युवानः समान-शील-व्यसन-वयसां वयस्यानाम् अर्थे जीवितम् अपि त्यजन्ति । ततस् तेन^एव^अन्यकार्यात् ताम् आनाययेत् । विषह्यं सा^अवकाशम् इति समानं पूर्वेण ॥
अष्टमीचन्द्रिकादिषु च धात्रेयिका मदनीयमेनां पाययित्वा किं चिदात्मनः कार्यमुद्दिश्य नायकस्य विषह्यं देशमानयेत् ।तत्रैनां मदात्संज्ञामप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण ॥
अष्टमी-चन्द्रिक^आदिषु च धात्रेयिका मदनीयम् एनां पाययित्वा किं चिद् आत्मनः कार्यम् उद्दिश्य नायकस्य विषह्यं देशम् आनयेत् । तत्र^एनां मदात् संज्ञाम् अप्रतिपद्यमानां दूषयित्वा^इति समानं पूर्वेण ॥
सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञामप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण ॥
सुप्तां च^एकचारिणीं धात्रेयिकां वारयित्वा संज्ञाम् अप्रतिपद्यमानां दूषयित्वा^इति समानं पूर्वेण ॥
ग्रामान्तरमुद्यानं वा गच्छन्तीं विदित्वा सुसंभृतसहायो नायकस्तदा रक्षिणो वित्रास्य हत्वा वा कन्यामपहरेत् ।इति विवाहयोगाः ॥
ग्राम^अन्तरम् उद्यानं वा गच्छन्तीं विदित्वा सुसंभृत-सहायो नायकस् तदा रक्षिणो वित्रास्य हत्वा वा कन्याम् अपहरेत् । इति विवाह-योगाः ॥
पूर्वः पूर्वः प्रधानं स्याद्विवाहो धर्मतः स्थितेः ।
पूर्वः पूर्वः प्रधानं स्याद् विवाहो धर्मतः स्थितेः ।
पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः ॥
पूर्व^अभावे ततः कार्यो यो य उत्तर उत्तरः ॥
व्यूढानां हि विवाहानामनुरागः फलं यतः ।
व्यूढानां हि विवाहानाम् अनुरागः फलं यतः ।
मध्यमो ऽपि हि सद्योगो गान्धर्वस्तेन पूजितः ॥
मध्यमो +अपि हि सद्योगो गान्धर्वस् तेन पूजितः ॥
सुखत्वादबहुक्लेशादपि चावरणादिह ।
सुखत्वाद् अबहुक्लेशाद् अपि च^अवरणाद् इह ।
अनुरागात्मकत्वाच्च गान्धर्वः प्रवरो मतः ॥
अनुराग^आत्मकत्वाच् च गान्धर्वः प्रवरो मतः ॥

No comments:

Post a Comment