ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

14 July 2011

kaamasutra _2

सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्
2.1_(6)
प्रमाण^काल^भावेभ्यो रत^अवस्थापनम्
शशो वृषो ऽश्व इति लिङ्गतो नायकविशेषाः ।नायिका पुनर्मृगी वडवा हस्तिनी चेति ॥
शशो वृषो +अश्व इति लिङ्गतो नायक-विशेषाः । नायिका पुनर्मृगी वडवा हस्तिनी च^इति ॥
तत्र सदृशसंप्रयोगे समरतानि त्रीणि ॥
तत्र सदृश-संप्रयोगे समरतानि त्रीणि ॥
विपर्ययेण विषमाणि षट् ।विषमेष्वपि पुरुषाधिक्यं चेदनन्तरसंप्रयोगे द्वे उच्चरते ।व्यवहितमेकमुच्चतररतम् ।विपर्यये पुनर्द्वे नीचरते ।व्यवहितमेकं नीचतररतं च ।तेषु समानि श्रेष्ठानि ।तरशब्दाङ्किते द्वे कनिष्ठे ।शेषाणि मध्यमानि ॥
विपर्ययेण विषमाणि षट् । विषमेष्व् अपि पुरुष^आधिक्यं चेद् अनन्तर-संप्रयोगे द्वे उच्च-रते । व्यवहितम् एकम् उच्चतररतम् । विपर्यये पुनर् द्वे नीच-रते । व्यवहितम् एकं नीचतर-रतं च । तेषु समानि श्रेष्ठानि । तर-शब्द^अङ्किते द्वे कनिष्ठे । शेषाणि मध्यमानि ॥
साम्ये ऽप्युच्चाङ्कं नीचाङ्काज्ज्यायः ।इति प्रमाणतो नवरतानि ॥
साम्ये +अप्य् उच्च^अङ्कं नीच^अङ्काज् ज्यायः । इति प्रमाणतो नव-रतानि ॥
यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यमल्पं क्षतानि च न सहते स मन्दवेगः ॥
यस्य संप्रयोग-काले प्रीतिर् उदासीना वीर्यम् अल्पं क्षतानि च न सहते स मन्द-वेगः ॥
तद्विपर्ययौ मध्यमचण्डवेगौ भवतस्तथा नायिकापि ॥
तद् विपर्ययौ मध्यम-चण्ड-वेगौ भवतस् तथा नायिका^अपि ॥
तत्रापि प्रमाणवदेव नवरतानि ॥
तत्र^अपि प्रमाणवद् एव नव-रतानि ॥
तद्वत्कालतो ऽपि शीघ्रमध्यचिरकाला नायकाः ॥
तद्वत् कालतो +अपि शीघ्र-मध्य-चिरकाला नायकाः ॥
तत्र स्त्रियां विवादः ॥
तत्र स्त्रियां विवादः ॥
न स्त्री पुरुषवदेव भावमधिगच्छति ॥
न स्त्री पुरुषवद् एव भावम् अधिगच्छति ॥
सातत्यात्त्वस्याः पुरुषेण कण्डूतिरपनुद्यते ॥
सातत्यात् त्व् अस्याः पुरुषेण कण्डूतिर् अपनुद्यते ॥
सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति ।तस्मिन्सुखबुद्धिरस्याः ।
सा पुनर् आभिमानिकेन सुखेन संसृष्टा रस^अन्तरं जनयति । तस्मिन् सुख-बुद्धिर् अस्याः ।
पुरुष *प्रतीतेश् [Ch: प्रीतेश् ] चानभिज्ञत्वात्कथं ते सुखमिति प्रष्टुमशक्यत्वात् ।
पुरुष-*प्रतीतेश्[Ch: प्रीतेश्] च^अनभिज्ञत्वात् कथं ते सुखम् इति प्रष्टुम् अशक्यत्वात् ।
कथमेतदुपलभ्यत इति चेत्पुरुषो हि रतिमधिगम्य स्वेच्छया विरमति ,न स्त्रियमपेक्षते ,न त्वेवं स्त्रीत्यौद्दालकिः ॥
कथम् एतद् उपलभ्यत इति चेत् पुरुषो हि रतिम् अधिगम्य स्वेच्छया विरमति, न स्त्रियम् अपेक्षते, न त्व् एवं स्त्री^इत्य् औद्दालकिः ॥
तत्रैतत्स्यात् ।चिरवेगे नायके स्त्रियो ऽनुरज्यन्ते शीघ्रवेगस्य भावमनासाद्यावसाने ऽभ्यसूयिन्यो *भवति [Ch: भवन्ति ] ।तत्सर्वं भावप्राप्तेरप्राप्तेश्च लक्षणम् ।।
तत्र^एतत् स्यात् । चिर-वेगे नायके स्त्रियो +अनुरज्यन्ते शीघ्र-वेगस्य भावम् अनासाद्य^अवसाने +अभ्यसूयिन्यो *भवति[Ch: भवन्ति] । तत् सर्वं भाव-प्राप्तेर् अप्राप्तेश् च लक्षणम् ॥
तच्च न ।कण्डूतिप्रतीकारो ऽपि हि दीर्घकालं प्रिय इति ।एतदुपपद्यत एव ।तस्मात्संदिग्धत्वादलक्षणमिति ॥
तच् च न । कण्डूति-प्रतीकारो +अपि हि दीर्घ-कालं प्रिय इति । एतद् उपपद्यत एव । तस्मात् संदिग्धत्वाद् अलक्षणम् इति ॥
संयोगे योषितः पुंसा कण्डूतिरपनुद्यते ।
संयोगे योषितः पुंसा कण्डूतिर् अपनुद्यते ।
तच्च अभिमानसंसृष्टं सुखमित्यभिधीयते ॥
तच् च अभिमान-संसृष्टं सुखम् इत्य् अभिधीयते ॥
सातत्याद्युवतिरारम्भात्प्रभृति भावमधिगच्छति ।पुरुषः पुनरन्त एव ।एतदुपपन्नतरम् ।न ह्यसत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः ॥
सातत्याद् युवतिर् आरम्भात् प्रभृति भावम् अधिगच्छति । पुरुषः पुनर् अन्त एव । एतद् उपपन्नतरम् । न ह्य् असत्यां भाव-प्राप्तौ गर्भ-संभव इति बाभ्रवीयाः ॥
अत्रापि तावेवाशङ्कापरिहारौ भूयः ॥
अत्र^अपि ताव् एव^अशङ्का-परिहारौ भूयः ॥
तत्रैतत्स्यात् ---सातत्येन रसप्राप्तावारम्भकाले मध्यस्थचित्तता नातिसहिष्णुता च ।ततः क्रमेणाधिको रागयोगः शरीरे निरपेक्षत्वम् ।अन्ते च विरामाभीप्सेत्येतदुपपन्नमिति ॥
तत्र^एतत् स्यात् --- सातत्येन रस-प्राप्ताव् आरम्भ-काले मध्यस्थ-चित्तता न^अतिसहिष्णुता च । ततः क्रमेण^अधिको राग-योगः शरीरे निरपेक्षत्वम् । अन्ते च विराम^अभीप्सा^इत्य् एतद् उपपन्नम् इति ॥
तच्च न ।सामान्ये ऽपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूरणम्वेगस्येत्युपपद्यते ।धातुक्षयाच्च विरामाभीप्सेति ।तस्मादनाक्षेपः ॥
तच् च न । सामान्ये +अपि भ्रान्ति-संस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्ताव् एव वर्तमानस्य प्रारम्भे मन्द-वेगता ततश् च क्रमेण पूरणम् वेगस्या^इत्य् उपपद्यते । धातु-क्षयाच् च विराम^अभीप्सा^इति । तस्माद् अनाक्षेपः ॥
सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम् ।
सुरता^अन्ते सुखं पुंसां स्त्रीणां तु सततं सुखम् ।
धातुक्षयनिमित्ता च विरामेच्छोपजायते ॥
धातु-क्षय-निमित्ता च विराम^इच्छा^उपजायते ॥
तस्मात्पुरुषवदेव योषितो ऽपि रसव्यक्तिर्द्रष्टव्या ॥
तस्मात् पुरुषवद् एव योषितो +अपि रस-व्यक्तिर् द्रष्टव्या ॥
कथं हि समानायामेवाकृतावेकार्थमभिप्रपन्नयोः कार्यवैलक्षण्यं स्याद्
कथं हि समानायाम् एव^आकृताव् एक^अर्थम् अभिप्रपन्नयोः कार्य-वैलक्षण्यं स्याद्
उपायवैलक्षण्यादभिमानवैलक्षण्याच्च ॥
उपाय-वैलक्षण्याद् अभिमान-वैलक्षण्याच् च ॥
कथमुपायवैलक्षण्यं तु सर्गात् ।कर्ता हि पुरुषो ऽधिकरणं युवतिः ।अन्यथा हि कर्ता क्रियां प्रतिपद्यते ऽन्यथा चाधारः ।तस्माच्चोपायवैलक्षण्यात्सर्गादभिमानवैलक्षण्यमपि भवति ।अभियोक्ताहमिति पुरुषो ऽनुरज्यते ।अभियुक्ताहमनेनेति युवतिरिति वात्स्यायनः ॥
कथम् उपाय-वैलक्षण्यं तु सर्गात् । कर्ता हि पुरुषो +अधिकरणं युवतिः । अन्यथा हि कर्ता क्रियां प्रतिपद्यते +अन्यथा च^आधारः । तस्माच् च^उपाय-वैलक्षण्यात् सर्गाद् अभिमान-वैलक्षण्यम् अपि भवति । अभियोक्ता^अहम् इति पुरुषो +अनुरज्यते। अभियुक्ता^अहम् अनेन^इति युवतिर् इति वात्स्यायनः ॥
तत्रैतत्स्यादुपायवैलक्षण्यवदेव हि कार्यवैलक्षण्यमपि कस्मान्न स्यादिति ।तच्च न ।हेतुमदुपायवैलक्षण्यम् ।तत्र कर्त्राधारयोर्भिन्नलक्षणत्वादहेतुमत्कार्यवैलक्षण्यमन्याय्यं स्यात् ।आकृतेरभेदादिति ।
तत्र^एतत् स्याद् उपाय-वैलक्षण्यवद् एव हि कार्य-वैलक्षण्यम् अपि कस्मान् न स्याद् इति । तच् च न । हेतुमद् उपाय-वैलक्षण्यम् । तत्र कर्त्राधारयोर् भिन्न-लक्षणत्वाद् अहेतुमत् कार्य-वैलक्षण्यम् अन्याय्यं स्यात् । आकृतेर् अभेदाद् इति ।
तत्रैतत्स्यात् ।संहत्य कारकैरेको ऽर्थो ऽभिनिर्वर्त्यते ।पृथक्पृथक्स्वार्थसाधकौ पुनरिमौ तदयुक्तमिति ॥
तत्र^एतत् स्यात् । संहत्य कारकैर् एको +अर्थो +अभिनिर्वर्त्यते । पृथक् पृथक् स्वार्थ-साधकौ पुनर् इमौ तद् अयुक्तम् इति ॥
तच्च न ।युगपदनेकार्थसिद्धिरपि दृश्यते ।यथा मेषयोरभिघाते कपित्थयोर्भेदे मल्लयोर्युद्ध इति ।न तत्र कारकभेद इति चेदिहापि न वस्तुभेद इति ।उपायवैलक्षण्यं तु सर्गादिति तदभिहितं पुरस्तात् ।तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति ॥
तच् च न । युगपद् अनेक^अर्थ-सिद्धिर् अपि दृश्यते । यथा मेषयोर् अभिघाते कपित्थयोर् भेदे मल्लयोर् युद्ध इति । न तत्र कारक-भेद इति चेद् इह^अपि न वस्तु-भेद इति । उपाय-वैलक्षण्यं तु सर्गाद् इति तद् अभिहितं पुरस्तात् । तेन^उभयोर् अपि सदृशी सुख-प्रतिपत्तिर् इति ॥
जातेरभेदाद्दंपत्योः सदृशं सुखमिष्यते ।
जातेर् अभेदाद् दंपत्योः सदृशं सुखम् इष्यते ।
तस्मात्तथोपचर्या स्त्री यथाग्रे प्राप्नुयाद्रतिम् ।।
तस्मात् तथा^उपचर्या स्त्री यथा^अग्रे प्राप्नुयाद् रतिम् ॥
सदृशत्वस्य सिद्धत्वात् ,कालयोगिन्यपि भावतो ऽपि कालतः प्रमाणवदेव नव रतानि ॥
सदृशत्वस्य सिद्धत्वात्, काल-योगिन्य् अपि भावतो +अपि कालतः प्रमाणवद् एव नव रतानि ॥
रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः ।संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः ॥
रसो रतिः प्रीतिर् भावो रागो वेगः समाप्तिर् इति रति-पर्यायाः । संप्रयोगो रतं रहः शयनं मोहनं सुरत-पर्यायाः ॥
प्रमाणकालभावजानां संप्रयोगाणामेकैकस्य नवविधत्वात्तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुम् ।अतिबहुत्वात् ।।
प्रमाण-काल-भावजानां संप्रयोगाणाम् एकैकस्य नवविधत्वात् तेषां व्यतिकरे सुरत-संख्या न शक्यते कर्तुम् । अतिबहुत्वात् ॥
तेषु तर्कादुपचारान्प्रयोजयेदिति वात्स्यायनः ॥
तेषु तर्काद् उपचारान् प्रयोजयेद् इति वात्स्यायनः ॥
प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य ,तद्विपरीतमुत्तरेषु ।योषितः पुनरेतदेव विपरीतम् ।आ धातुक्षयात् ।
प्रथम-रते चण्ड-वेगता शीघ्र-कालता च पुरुषस्य, तद् विपरीतम् उत्तरेषु । योषितः पुनर् एतद् एव विपरीतम् । आ धातु-क्षयात् ।
प्राक्च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः ॥
प्राक् च स्त्री-धातु-क्षयात् पुरुष-धातु-क्षय इति प्रायोवादः ॥
मृदुत्वादुपमृद्यत्वान्निसर्गाच्चैव योषितः ।
मृदुत्वाद् उपमृद्यत्वान् निसर्गाच् च^एव योषितः ।
प्राप्नुवन्त्याशु ताः प्रीतिमित्याचार्या व्यवस्थिताः ॥
प्राप्नुवन्त्य् आशु ताः प्रीतिम् इत्य् आचार्या व्यवस्थिताः ॥
एतावदेव युक्तानां व्याख्यातं सांप्रयोगिकम् ।
एतावद् एव युक्तानां व्याख्यातं सांप्रयोगिकम् ।
मन्दानामवबोधार्थं विस्तरो ऽतः प्रवक्ष्यते ॥
मन्दानाम् अवबोध^अर्थं विस्तरो +अतः प्रवक्ष्यते ॥
अभ्यासादभिमानाच्च तथा संप्रत्ययादपि
अभ्यासाद् अभिमानाच् च तथा संप्रत्ययाद् अपि
विषयेभ्यश्च तन्त्रज्ञाः प्रीतिमाहुश्चतुर्विधाम् ।।
विषयेभ्यश् च तन्त्रज्ञाः प्रीतिम् आहुश् चतुर्विधाम् ॥
शब्दादिभ्यो बहिर्भूता या कर्माभ्यासलक्षणा ।
शब्द^आदिभ्यो बहिर्भूता या कर्म^अभ्यास-लक्षणा ।
प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु ॥
प्रीतिः साभ्यासिकी ज्ञेया मृगया^आदिषु कर्मसु ॥
अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका ।
अनभ्यस्तेष्व् अपि पुरा कर्मस्व् अविषय^आत्मिका ।
संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी ॥
संकल्पाज् जायते प्रीतिर् या सा स्याद् आभिमानिकी ॥
प्रकृतेर्या तृतीयस्याः स्त्रियाश्चैवोपरिष्टके ।
प्रकृतेर् या तृतीयस्याः स्त्रियाश् च^एव^उपरिष्टके ।
तेषु तेषु च विज्ञेया चुम्बनादिषु कर्मसु ॥
तेषु तेषु च विज्ञेया चुम्बन^आदिषु कर्मसु ॥
नान्यो ऽयमिति यत्र स्यादन्यस्मिन्प्रीतिकारणे ।
न^अन्यो +अयम् इति यत्र स्याद् अन्यस्मिन् प्रीति-कारणे ।
तन्त्रज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका ॥
तन्त्रज्ञैः कथ्यते सा^अपि प्रीतिः संप्रत्यय^आत्मिका ॥
प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका ।
प्रत्यक्षा लोकतः सिद्धा या प्रीतिर् विषय^आत्मिका ।
प्रधानफलवत्त्वात्सा तदर्थाश्चेतरा अपि ॥
प्रधान-फलवत्त्वात् सा तद् अर्थाश् च^इतरा अपि ॥
प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः ।
प्रीतीर् एताः परामृश्य शास्त्रतः शास्त्र-लक्षणाः ।
यो यथा वर्तते भावस्तं तथैव प्रयोजयेत् ।।
यो यथा वर्तते भावस् तं तथा^एव प्रयोजयेत् ॥
2.2_(7)
आलिङ्गनविचारा
संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते ।चतुःषष्टिप्रकरणत्वात् ।।
संप्रयोग^अङ्गं चतुःषष्टिर् इत्य् आचक्षते । चतुःषष्टि-प्रकरणत्वात् ॥
शास्त्रमेवेदं चतुःषष्टिरित्याचार्यवादः ॥
शास्त्रम् एव^इदं चतुःषष्टिर् इत्य् आचार्य-वादः ॥
कलानां चतुःषष्टित्वात्तासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो वा चतुःषष्टिरिति ।ऋचां दशतयीनां च संज्ञितत्वात् ।इहापि तदर्थसंबन्धात् ।पञ्चालसंबन्धाच्च बह्व् $चैरेषा पूजार्थं संज्ञा प्रवर्तिता इत्येके ॥
कलानां चतुःषष्टित्वात् तासां च संप्रयोग^अङ्ग-भूतत्वात् कला-समूहो वा चतुःषष्टिर् इति । ऋचां दशतयीनां च संज्ञितत्वात् । इह^अपि तद्-अर्थ-संबन्धात् । पञ्चाल-संबन्धाच् च बह्व्$चैर् एषा पूजा^अर्थं संज्ञा प्रवर्तिता इत्य् एके ॥
आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीत्कृतपुरुषायितौपरिष्टकानामष्टानामष्टधा विकल्पभेदादष्टावष्टकाश्चतुःषष्टिरिति बाभ्रवीयाः ॥
आलिङ्गन-चुम्बन-नख-च्छेद्य-दशन-च्छेद्य-संवेशन-सीत्कृत-पुरुष^आयित^औपरिष्टकानाम् अष्टानाम् अष्टधा विकल्प-भेदाद् अष्टाव् अष्टकाश् चतुःषष्टिर् इति बाभ्रवीयाः ॥
विकल्पवर्गाणामष्टानां न्यूनाधिकत्वदर्शनात्प्रहणनविरुतपुरुषोपसृप्तचित्ररतादीनामन्येषामपि वर्गाणामिह प्रवेशनात्प्रायोवादो ऽयम् ।यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिरिति वात्स्यायनः ॥
विकल्प-वर्गाणाम् अष्टानां न्यून^अधिकत्व-दर्शनात् प्रहणन-विरुत-पुरुषोपसृप्त-चित्ररत^आदीनाम् अन्येषाम् अपि वर्गाणाम् इह प्रवेशनात् प्रायोवादो +अयम् । यथा सप्त-पर्णो वृक्षः पञ्च-वर्णो बलिर् इति वात्स्यायनः ॥
तत्रासमागतयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयम् ---स्पृष्टकम् ,विद्धकम् ,उद्धृष्टकम् ,पीडितकम् ,इति ॥
तत्र^असमागतयोः प्रीति-लिङ्ग-द्योतन^अर्थम् आलिङ्गन-चतुष्टयम् ---स्पृष्टकम्, विद्धकम्, उद्धृष्टकम्, पीडितकम्, इति ॥
सर्वत्र संज्ञार्थेनैव कर्मातिदेशः ॥
सर्वत्र संज्ञा^अर्थेन^एव कर्म^अतिदेशः ॥
संमुखागतायां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं स्पृष्टकम् ।।
संमुख^आगतायां प्रयोज्यायाम् अन्य^अपदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं स्पृष्टकम् ॥
प्रयोज्यं स्थितमुपविष्टं वा विजने किंचिद्गृह्णती पयोधरेण *विध्येत् [Ch: विद्ध्येत् ] ।नायको ऽपि तामवपीड्य गृह्णीयादिति विद्धकम् ।।
प्रयोज्यं स्थितम् उपविष्टं वा विजने किंचिद् गृह्णती पयोधरेण *विध्येत्[Ch: विद्ध्येत्] । नायको +अपि ताम् अवपीड्य गृह्णीयाद् इति विद्धकम् ॥
तदुभयमनतिप्रवृत्तसंभाषणयोः ॥
तद्-उभयम् अनतिप्रवृत्त-संभाषणयोः ॥
तमसि जनसंबाधे विजने वाथ शनकैर्गच्छतोर्नातिह्रस्वकालमुद्धर्षणं परस्परस्य गात्राणामुद्धृष्टकम् ।।
तमसि जन-संबाधे विजने वा^अथ शनकैर् गच्छतोर् न^अतिह्रस्व-कालम् उद्धर्षणं परस्परस्य गात्राणाम् उद्धृष्टकम् ॥
तदेव कुड्यसंदंशेन स्तम्भसंदंशेन वा स्फुटकमवपीडयेदिति पीडितकम् ।।
तद् एव कुड्य-संदंशेन स्तम्भ-संदंशेन वा स्फुटकम् अवपीडयेद् इति पीडितकम् ॥
तदुभयमवगतपरस्पराकारयोः ॥
तद् उभयम् अवगत-परस्पर^आकारयोः ॥
लतावेष्टितकं वृक्षाधिरूढकं तिलतण्डुलकं क्षीरनीरकमिति चत्वारि संप्रयोगकाले ॥
लता-वेष्टितकं वृक्ष^अधिरूढकं तिल-तण्डुलकं क्षीर-नीरकम् इति चत्वारि संप्रयोग-काले ॥
लतेव शालमावेष्टयन्ती चुम्बनार्थं मुखमवनमयेत् ।उद्धृत्य मन्दसीत्कृता तमाश्रिता वा किंचिद्रामणीयकं पश्येत्तल्लतावेष्टितकम् ।।
लता^इव शालम् आवेष्टयन्ती चुम्बन^अर्थं मुखम् अवनमयेत् । उद्धृत्य मन्द-सीत्कृता तम् आश्रिता वा किंचिद् रामणीयकं पश्येत् तल्-लता^आवेष्टितकम् ॥
चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती वा तत्पृष्ठसक्तैकबाहुर्द्वितीयेनांसमवनमयन्ती ईषन्मन्दसीत्कृतकूजिता चुम्बनार्थमेवाधिरोढुमिच्छेदिति वृक्षाधिरूढकम् ।।
चरणेन चरणम् आक्रम्य द्वितीयेन^ऊरु-देशम् आक्रमन्ती वेष्टयन्ती वा तत्-पृष्ठ-सक्त^एकबाहुर् द्वितीयेन^अंसम् अवनमयन्ती ईषन्-मन्द-सीत्कृत-कूजिता चुम्बन^अर्थम् एव^अधिरोढुम् इच्छेद् इति वृक्ष^अधिरूढकम् ॥
तदुभयं स्थितकर्म ॥
तद् उभयं स्थित-कर्म ॥
शयनगतावेवोरूव्यत्यासं भुजव्यत्यासं च ससंघर्षमिव घनं संस्वजेते तत्तिलतण्डुलकम् ।।
शयन-गताव् एव^ऊरू-व्यत्यासं भुज-व्यत्यासं च ससंघर्षम् इव घनं संस्वजेते तत्-तिल-तण्डुलकम् ॥
रागान्धावनपेक्षितात्ययौ परस्परमनुविशत इवोत्सङ्गगतायामभिमुखोपविष्टायां शयने वेति क्षीरजलकम् ।।
राग^अन्धाव् अनपेक्षित^अत्ययौ परस्परम् अनुविशत इव^उत्सङ्ग-गतायाम् अभिमुख^उपविष्टायां शयने वा^इति क्षीर-जलकम् ॥
तदुभयं रागकाले ॥
तद्-उभयं राग-काले ॥
इत्युपसूहनयोगा बाभ्रवीयाः ॥
इत्य् उपसूहन-योगा बाभ्रवीयाः ॥
सुवर्णनाभस्य त्वधिकमेकाङ्गोपगूहनचतुष्टयम् ।।
सुवर्णनाभस्य त्व् अधिकम् एक^अङ्ग^उपगूहन-चतुष्टयम् ॥
तत्रोरुसंदंशेनैकमूरुमूरुद्वयं वा सर्वप्राणं पीडयेतित्यूरूपगूहनम् ।।
तत्र^ऊरु-संदंशेन^एकम् ऊरुम् ऊरुद्वयं वा सर्व-प्राणं पीडयेत् इत्य् ऊरु^उपगूहनम् ॥
जघनेन जघनमवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनप्रहणनचुम्बनप्रयोजनाय तदुपरि लङ्घयेत्तज्जघनोपगूहनम् ।।
जघनेन जघनम् अवपीड्य प्रकीर्यमाण-केश-हस्ता नख-दशन-प्रहणन-चुम्बन-प्रयोजनाय तदुपरि लङ्घयेत् तज्-जघन^उपगूहनम् ॥
स्तनाभ्यामुरः प्रविश्य तत्रैव भारमारोपयेदिति स्तनालिङ्गनम् ।।
स्तनाभ्याम् उरः प्रविश्य तत्र^एव भारम् आरोपयेद् इति स्तन^आलिङ्गनम् ॥
मुखे मुखमासज्याक्षिणी अक्ष्णोर्ललाटेन ललाटमाहन्यात्सा ललाटिका ॥
मुखे मुखम् आसज्य^अक्षिणी अक्ष्णोर् ललाटेन ललाटम् आहन्यात् सा ललाटिका ॥
संवाहनमप्युपगूहनप्रकारमित्येके मन्यन्ते ।संस्पर्शत्वात् ।।
संवाहनम् अप्य् उपगूहन-प्रकारम् इत्य् एके मन्यन्ते । संस्पर्शत्वात् ॥
पृथक्कालत्वाद्भिन्नप्रयोजनत्वादसाधारणत्वान्नेति वात्स्यायनः ॥
पृथक् कालत्वाद् भिन्न-प्रयोजनत्वाद् असाधारणत्वान् न^इति वात्स्यायनः ॥
पृच्छतां शृण्वतां वापि तथा कथयतामपि ।
पृच्छतां शृण्वतां वा^अपि तथा कथयताम् अपि ।
उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम् ।।
उपगूह-विधिं कृत्स्नं रिरंसा जायते नृणाम् ॥
ये ऽपि ह्यशास्त्रिताः के चित्संयोगा रागवर्धनाः ।
ये +अपि ह्य् अशास्त्रिताः के चित् संयोगा राग-वर्धनाः ।
आदरेणैव ते ऽप्यत्र प्रयोज्याः सांप्रयोगिकाः ॥
आदरेण^एव ते +अप्य् अत्र प्रयोज्याः सांप्रयोगिकाः ॥
शास्त्राणां विषयस्तावद्यावन्मन्दरसा नराः ।
शास्त्राणां विषयस् तावद् यावन् मन्द-रसा नराः ।
रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न च क्रमः ॥
रति-चक्रे प्रवृत्ते तु न^एव शास्त्रं न च क्रमः ॥
2.3_(8)
चुम्बन^विकल्पास्
चुम्बननखदशनच्छेद्यानां न पौर्वापर्यमस्ति ।रागयोगात् ।प्राक्संयोगादेषां प्राधान्येन प्रयोगः ।प्रहणनसीत्कृतयोश्च संप्रयोगे ॥
चुम्बन-नख-दशन-च्छेद्यानां न पौर्व^अपर्यम् अस्ति । राग-योगात् । प्राक्-संयोगाद् एषां प्राधान्येन प्रयोगः । प्रहणन-सीत्कृतयोश् च संप्रयोगे ॥
सर्वं सर्वत्र ।रागस्यानपेक्षितत्वात् ।इति वात्स्यायनः ॥
सर्वं सर्वत्र । रागस्यान् अपेक्षितत्वात् । इति वात्स्यायनः ॥
तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत ।तथाभूतत्वाद्रागस्य ।ततः परमतित्वरया विशेषवत्समुच्चयेन रागसंधुक्षणार्थम् ।।
तानि प्रथम-रते न^अतिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत । तथाभूतत्वाद् रागस्य । ततः परम् अतित्वरया विशेषवत्सम् उच्चयेन राग-संधु-क्षण^अर्थम् ॥
ललाटालककपोलनयनवक्षःस्तनौष्ठान्तर्मुखेषु चुम्बनम् ।
ललाट^अलक-कपोल-नयन-वक्षः-स्तन^ओष्ठ^अन्तर्मुखेषु चुम्बनम् ।
ऊरुसंधिबाहुनाभिमूलयोर्लाटानाम् ।
ऊरु-संधिबाहु-नाभि-मूलयोर् लाटानाम् ।
रागवशाद्देशप्रवृत्तेश्च सन्ति तानि तानि स्थानानि ,न तु सर्वजनप्रयोज्यानीति वात्स्यायनः ॥
राग-वशाद् देश-प्रवृत्तेश् च सन्ति तानि तानि स्थानानि, न तु सर्व-जन-प्रयोज्यानि^इति वात्स्यायनः ॥
तद्यथा ---निमितकं स्फुरितकं घट्टितकमिति त्रीणि कन्याचुम्बनानि ॥
तद् यथा --- निमितकं स्फुरितकं घट्टितकम् इति त्रीणि कन्या-चुम्बनानि ॥
बलात्कारेण नियुक्ता मुखे मुखमाधत्ते न तु विचेष्टत इति निमितकम् ।।
बलात् कारेण नियुक्ता मुखे मुखम् आधत्ते न तु विचेष्टत इति निमितकम् ॥
वदने प्रवेशितं चौष्ठं मनागपत्रपावग्रहीतुमिच्छन्ती *स्यन्दयति [Ch: स्पन्दयति ] स्वमोष्ठं नोत्तरमुत्सहत इति स्फुरितकम् ।।
वदने प्रवेशितं च^ओष्ठं मनाग-पत्र-पावग्रहीतुम् इच्छन्ती *स्यन्दयति[Ch: स्पन्दयति] स्वम् ओष्ठं न^उत्तरम् उत्सहत इति स्फुरितकम् ॥
ईषत्परिगृह्य विनिमीलितनयना करेण च तस्य नयने अवच्छादयन्ती जिह्वाग्रेण घट्टयति इति घट्टितकम् ।।
ईषत्-परिगृह्य विनिमीलित-नयना करेण च तस्य नयने अवच्छादयन्ती जिह्वा^अग्रेण घट्टयति इति घट्टितकम् ॥
समं तिर्यगुद्भ्रान्तमवपीडितकमिति चतुर्विधमपरे ॥
समं तिर्यग् उद्भ्रान्तम् अवपीडितकम् इति चतुर्विधम् अपरे ॥
अङ्गुलिसंपुटेन पिण्डीकृत्य निर्दशनमोष्ठपुटेनावपीडयेदित्यवपीडितकं पञ्चममपि करणम् ।।
अङ्गुलि-संपुटेन पिण्डीकृत्य निर्दशनम् ओष्ठ-पुटेन^अवपीडयेद् इत्य् अवपीडितकं पञ्चमम् अपि करणम् ॥
द्यूतं चात्र प्रवर्तयेत् ।।
द्यूतं च^अत्र प्रवर्तयेत् ॥
पूर्वमधरसंपादनेन जितमिदं स्यात् ।।
पूर्वम् अधर-संपादनेन जितम् इदं स्यात् ॥
तत्र जिता सार्धरुदितं करं विधुनुयात्प्रणुदेद्दशेत्परिवर्तयेद्बलादाहृता विवदेत्पुनरप्यस्तु पण इति ब्रूयात् ।तत्रापि जिता द्विगुणमायस्येत् ।।
तत्र जिता स^अर्ध-रुदितं करं विधुनुयात् प्रणुदेद् दशेत् परिवर्तयेद् बलाद् आहृता विवदेत् पुनर् अप्य् अस्तु पण इति ब्रूयात् । तत्र^अपि जिता द्विगुणम् आयस्येत् ॥
विश्रब्धस्य प्रमत्तस्य वाधरमवगृह्य दशनान्तर्गतमनिर्गमं कृत्वा हसेदुत्क्रोशेत्तर्जयेद्वल्गेद् *आह्वयेन् [Ch: आह्लयेन् ] नृत्येत्प्रनर्तितभ्रुणा च विचलनयनेन मुखेन विहसन्ती तानि तानि च ब्रूयात् ।इति चुम्बनद्यूतकलहः ॥
विश्रब्धस्य प्रमत्तस्य वा^अधरम् अवगृह्य दशन^अन्तर्गतम् अनिर्गमं कृत्वा हसेद् उत्क्रोशेत् तर्जयेद् वल्गेद् *आह्वयेन्[Ch: आह्लयेन्] नृत्येत् प्रनर्तित-भ्रुणा च विचल-नयनेन मुखेन विहसन्ती तानि तानि च ब्रूयात् । इति चुम्बन-द्यूत-कलहः ॥
एतेन नखदशनच्छेद्यप्रहणनद्यूतकलहा व्याख्याताः ॥
एतेन नख-दशन-च्छेद्य-प्रहणन-द्यूत-कलहा व्याख्याताः ॥
चण्डवेगयोरेव त्वेषां प्रयोगः ।तत्सात्म्यात् ।।
चण्ड-वेगयोर् एव त्व् एषां प्रयोगः । तत्-सात्म्यात् ॥
तस्यां चुबन्त्यामयमप्युत्तरं गृह्णीयात् ।इत्युत्तरचुम्बितम् ।।
तस्यां चुबन्त्य् आमयम् अप्य् उत्तरं गृह्णीयात् । इत्य् उत्तर-चुम्बितम् ॥
ओष्ठसंदंशेनावगृह्यौष्ठद्वयमपि चुम्बेत ।इति संपुटकं स्त्रियाः ,पुंसो वा ऽजातव्यञ्जनस्य ॥
ओष्ठ-संदंशेन^अवगृह्य^ओष्ठ-द्वयम् अपि चुम्बेत । इति संपुटकं स्त्रियाः, पुंसो वा +अजातव्यञ् जनस्य ॥
तस्मिन्नितरो ऽपि जिह्वयास्या दशनान्घट्टयेत्तालु जिह्वां चेति जिह्वायुद्धम् ।।
तस्मिन्न् इतरो +अपि जिह्वया^आस्या दशनान् घट्टयेत् तालु जिह्वां च^इति जिह्वा-युद्धम् ॥
एतेन बलाद्वदनरदनग्रहणं दानं च व्याख्यातम् ।।
एतेन बलाद् वदन-रदन-ग्रहणं दानं च व्याख्यातम् ॥
समं पीडितमञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थानविशेषयोगात् ।इति चुम्बनविशेषाः ॥
समं पीडितम् अञ्चितं मृदु शेष^अङ्गेषु चुम्बनं स्थान-विशेष-योगात् । इति चुम्बन-विशेषाः ॥
सुप्तस्य मुखम् *अवलोकयन्त्याः [Ch: अवलोकयन्त्या ] स्वाभिप्रायेण चुम्बनं रागदीपनम् ।।
सुप्तस्य मुखम् *अवलोकयन्त्याः[Ch: अवलोकयन्त्या] स्व^अभिप्रायेण चुम्बनं राग-दीपनम् ॥
प्रमत्तस्य विवदमानस्य वा ऽन्यतो ऽभिमुखस्य सुप्ताभिमुखस्य वा निद्राव्याघातार्थं चलितकम् ।।
प्रमत्तस्य विवदमानस्य वा +अन्यतो +अभिमुखस्य सुप्त^अभिमुखस्य वा निद्रा-व्याघात^अर्थं चलितकम् ॥
चिररात्रावागतस्य शयनसुप्तायाः स्वाभिप्रायचुम्बनं प्रातिबोधिकम् ।।
चिररात्राव् आगतस्य शयन-सुप्तायाः स्व^अभिप्राय-चुम्बनं प्रातिबोधिकम् ॥
सापि तु भावजिज्ञासार्थिनी नायकस्यागमनकालं संलक्ष्य व्याजेन सुप्ता स्यात् ।।
सापि तु भाव-जिज्ञास^अर्थिनी नायकस्य^अगमन-कालं संलक्ष्य व्याजेन सुप्ता स्यात् ॥
आदर्शे कुड्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनमाकारप्रदर्शनार्थमेव कार्यम् ।।
आदर्शे कुड्ये सलिले वा प्रयोज्यायाश् छाया-चुम्बनम् आकार-प्रदर्शन^अर्थम् एव कार्यम् ॥
बालस्य चित्रकर्मणः प्रतिमायाश्च चुम्बनं संक्रान्तकमालिङ्गनं च ॥
बालस्य चित्र-कर्मणः प्रतिमायाश् च चुम्बनं संक्रान्तकम् आलिङ्गनं च ॥
तथा निशि प्रेक्षणके स्वजनसमाजे वा समीपे गतस्य प्रयोज्याया हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाङ्गुलिचुम्बनम् ।।
तथा निशि प्रेक्षणके स्वजन-समाजे वा समीपे गतस्य प्रयोज्याया हस्त^अङ्गुलि-चुम्बनं संविष्टस्य वा पाद^अङ्गुलि-चुम्बनम् ॥
संवाहिकायास्तु नायकमाकारयन्त्या निद्रावशादकामाया इव तस्योर्वोर्वदनस्य निधानमूरुचुम्बनं पादाङ्गुष्ठ *चुम्बनं [Ch: omits] चेत्याभियोगिकानि ॥
संवाहिकायास् तु नायकम् आकार-यन्त्या निद्रा-वशाद् अकामाया इव तस्य^ऊर्वोर् वदनस्य निधानम् ऊरु-चुम्बनं पाद^अङ्गुष्ठ-*चुम्बनं[Ch: omits] च^इत्य् आभियोगिकानि ॥
भवति च^अत्र श्लोकः ---
कृते प्रतिकृतं कुर्यात्ताडिते प्रतिताडितम् ।।
कृते प्रतिकृतं कुर्यात् ताडिते प्रतिताडितम् ॥
करणेन च तेनैव चुम्बिते प्रतिचुम्बितम् ।।
करणेन च तेन^एव चुम्बिते प्रतिचुम्बितम् ॥
2.4_(9)
रागवृद्धौ संघर्षात्मकं नखविलेखनम् ।।
राग-वृद्धौ संघर्ष^आत्मकं नख-विलेखनम् ॥
तस्य प्रथमसमागमे प्रवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां मत्तायां च प्रयोगः ।न नित्यमचण्डवेगयोः ॥
तस्य प्रथम-समागमे प्रवास-प्रत्यागमने प्रवास-गमने क्रुद्ध-प्रसन्नायां मत्तायां च प्रयोगः । न नित्यम् अचण्ड-वेगयोः ॥
तथा दशनच्छेद्यस्य सात्म्यवशाद्वा ॥
तथा दशन-च्छेद्यस्य सात्म्य-वशाद् वा ॥
तदाच्छुरितकमर्धचन्द्रो मण्डलं रेखा व्याघ्रनखं मयूरपदकं शशप्लुतकमुत्पलपत्रकमिति रूपतो ऽष्टविकल्पम् ।।
तद्-आच्छुरितकम् अर्धचन्द्रो मण्डलं रेखा व्याघ्र-नखं मयूर-पदकं शश-प्लुतकम् उत्पल-पत्रकम् इति रूपतो +अष्ट-विकल्पम् ॥
कक्षौ स्तनौ गलः पृष्ठं जघनमूरू च स्थानानि ॥
कक्षौ स्तनौ गलः पृष्ठं जघनम् ऊरू च स्थानानि ॥
प्रवृत्तरतिचक्राणां न स्थानमस्थानं वा विद्यत इति सुवर्णनाभः ॥
प्रवृत्त-रति-चक्राणां न स्थानम् अस्थानं वा विद्यत इति सुवर्णनाभः ॥
तत्र सव्यहस्तानि प्रत्यग्रशिखराणि द्वित्रिशिखराणि चण्डवेगयोर्नखानि स्युः ॥
तत्र सव्य-हस्तानि प्रत्यग्र-शिखराणि द्वि-त्रि-शिखराणि चण्ड-वेगयोर् नखानि स्युः ॥
अनुगतराजि सममुज्ज्वलममलिनमविपाटितं विवर्धिष्णु मृदुस्निग्धदर्शनमिति नखगुणाः ॥
अनुगतराजि समम् उज्ज्वलम् अमलिनम् अविपाटितं विवर्धिष्णु मृदु-स्निग्ध-दर्शनम् इति नख-गुणाः ॥
दीर्घाणि हस्तशोभीन्यालोके च योषितां चित्तग्राहीणि गौडानां नखानि स्युः ॥
दीर्घाणि हस्त-शोभीन्य् आलोके च योषितां चित्त-ग्राहीणि गौडानां नखानि स्युः ॥
ह्रस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छापातीनि दाक्षिणात्यानाम् ।।
ह्रस्वानि कर्म-सहिष्णूनि विकल्प-योजनासु च स्वेच्छापातीनि दाक्षिणात्यानाम् ॥
मध्यमान्युभयभाञ्जि महाराष्ट्रकाणामिति ॥
मध्यमान्य् उभय-भाञ्जि महाराष्ट्रकाणाम् इति ॥
तैः सुनियमितैर्हनुदेशे स्तनयोरधरे वा लघुकरणमनुद्गतलेखं स्पर्शमात्रजननाद्रोमाञ्चकरमन्ते संनिपातवर्धमानशब्दमाच्छुरितकम् ।।
तैः सुनियमितैर् हनु-देशे स्तनयोर् अधरे वा लघु-करणम् अनुद्गत-लेखं स्पर्श-मात्र-जननाद् रोमाञ् चकरमन्ते संनिपात-वर्धमान-शब्दम् आच्छुरितकम् ॥
प्रयोज्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेदने व्याकुलीकरणे भीषणेन प्रयोगः ॥
प्रयोज्यायां च तस्य^अङ्ग-संवाहने शिरसः कण्डूयने पिटक-भेदने व्याकुलीकरणे भीषणेन प्रयोगः ॥
ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशो ऽर्धचन्द्रकः ॥
ग्रीवायां स्तन-पृष्ठे च वक्रो नख-पद-निवेशो +अर्ध-चन्द्रकः ॥
तावेव द्वौ परस्पराभिमुखौ मण्डलम् ।।
ताव् एव द्वौ परस्पर^अभिमुखौ मण्डलम् ॥
नाभिमूलककुन्दरवङ्क्षणेषु तस्य प्रयोगः ॥
नाभि-मूल-ककुन्दर-वङ्क्षणेषु तस्य प्रयोगः ॥
सर्वस्थानेषु नातिदीर्घा लेखा ॥
सर्व-स्थानेषु न^अतिदीर्घा लेखा ॥
सैव वक्रा व्याघ्रनखकमास्तनमुखम् ।।
स^एव वक्रा व्याघ्र-नख-कमा-स्तन-मुखम् ॥
पञ्चभिरभिमुखैर्लेखा चूचुकाभिमुखी मयूरपदकम् ।।
पञ्चभिर् अभिमुखैर् लेखा चूचुक^अभिमुखी मयूर-पदकम् ॥
तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पञ्चनखपदानि शशप्लुतकम् ।।
तत्-संप्रयोग-श्लाघायाः स्तन-चूचुके संनिकृष्टानि पञ्च-नख-पदानि शश-प्लुतकम् ॥
स्तनपृष्ठे मेखलापथे चोत्पलपत्त्राकृतीत्युत्पलपत्रकम् ।।
स्तन-पृष्ठे मेखला-पथे च^उत्पल-पत्त्र^आकृति^इत्य् उत्पल-पत्रकम् ॥
ऊर्वोः स्तनपृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश्चतस्रस्तिस्रो वा लेखाः ।इति नखकर्माणि ॥
ऊर्वोः स्तन-पृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश् चतस्रस् तिस्रो वा लेखाः । इति नख-कर्माणि ॥
आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत ॥
आकृति-विकार-युक्तानि च^अन्यान्य् अपि कुर्वीत ॥
विकल्पानामनन्तत्वादानन्त्याच्च कौशलविधेरभ्यासस्य च सर्वगामित्वाद्रागात्मकत्वाच्छेद्यस्य प्रकारान्को ऽभिसमीक्षितुमर्हतीत्याचार्याः ॥
विकल्पानाम् अनन्तत्वाद् आनन्त्याच् च कौशल-विधेर् अभ्यासस्य च सर्व-गामित्वाद् राग^आत्मकत्वाच् छेद्यस्य प्रकारान् को +अभिसमीक्षितुम् अर्हति^इत्य् आचार्याः ॥
भवति हि रागे ऽपि चित्रापेक्षा ।वैचित्र्याच्च परस्परं रागो जनयितव्यः ।वैचक्षण्ययुक्ताश्च गणिकास्तत्कामिनश्च परस्परं प्रार्थनीया भवन्ति ।धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यमेवापेक्ष्यते किं पुनरिहेति वात्स्यायनः ॥
भवति हि रागे +अपि चित्र^अपेक्षा । वैचित्र्याच् च परस्परं रागो जनयितव्यः । वैचक्षण्य-युक्ताश् च गणिकास् तत्-कामिनश् च परस्परं प्रार्थनीया भवन्ति । धनुर्-वेदाद् इष्व् अपि हि शस्त्र-कर्म-शास्त्रेषु वैचित्र्यम् एव^अपेक्ष्यते किं पुनर् इह^इति वात्स्यायनः ॥
न तु परपरिगृहीतास्वेवं *कुर्थात् [Ch: कुर्यात् ] ।प्रच्छन्नेषु प्रदेशेषु तासामनुस्मरणार्थं रागवर्धनाच्च विशेषान्दर्शयेत् ।।
न तु परपरिगृहीतास्व् एवं *कुर्थात्[Ch: कुर्यात्] । प्रच्छन्नेषु प्रदेशेषु तासाम् अनुस्मरण^अर्थं राग-वर्धनाच् च विशेषान् दर्शयेत् ॥
नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः ।
नख-क्षतानि पश्यन्त्या गूढ-स्थानेषु योषितः ।
चिरोत्सृष्टाप्यभिनवा पीतिर्भवति पेशला ॥
चिर^उत्सृष्ट^अप्य् अभिनवा पीतिर् भवति पेशला ॥
चिरोत्सृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम् ।
चिर^उत्सृष्टेषु रागेषु प्रीतिर् गच्छेत् पराभवम् ।
रागायतनसंस्मारि यदि न स्यान्नखक्षतम् ।।
राग^आयतन-संस्मारि यदि न स्यान् नख-क्षतम् ॥
पश्यतो युवतिं दूरान्नखोच्छिष्टपयोधराम् ।
पश्यतो युवतिं दूरान् नख^उच्छिष्ट-पयोधराम् ।
बहुमानः परस्यापि रागयोगश्च जायते ॥
बहु-मानः परस्य^अपि राग-योगश् च जायते ॥
पुरुषश्च प्रदेशेषु नखचिह्नैर्विचिह्नितः ।
पुरुषश् च प्रदेशेषु नख-चिह्नैर् विचिह्नितः ।
चित्तं स्थिरमपि प्रायश्चलयत्येव योषितः ॥
चित्तं स्थिरम् अपि प्रायश् चलयत्य् एव योषितः ॥
नान्यत्पटुतरं किं चिदस्ति रागविवर्धनम् ।
न^अन्यत् पटुतरं किं चिद् अस्ति राग-विवर्धनम् ।
नखदन्तसमुत्थानां कर्मणां गतयो यथा ॥
नख-दन्त-समुत्थानां कर्मणां गतयो यथा ॥
2.5_(10)
दशन^च्छेद्यविहयो
उत्तरौष्ठमन्तर्मुखं नयनमिति मुक्त्वा चुम्बनवद्दशनरदनस्थानानि ॥
उत्तरौष्ठम् अन्तर्मुखं नयनम् इति मुक्त्वा चुम्बनवद् दशन-रदन-स्थानानि ॥
समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निश्छिद्रास्तीक्ष्णाग्रा इति दशनगुणाः ॥
समाः स्निग्ध-च्छाया राग-ग्राहिणो युक्त-प्रमाणा निश्छिद्रास् तीक्ष्ण^अग्रा इति दशन-गुणाः ॥
कुण्ठा राज्युद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः ॥
कुण्ठा राज्य्-उद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः ॥
गूढकमुच्छूनकं बिन्दुर्बिन्दुमाला *प्रवास [Ch: प्रवाल ] मणिर्मणिमाला खण्डाभ्रकं वराहचर्वितकमिति दशनच्छेदनविकल्पाः ॥
गूढकम् उच्छूनकं बिन्दुर् बिन्दुमाला *प्रवास[Ch: प्रवाल] -मणिर् मणि-माला खण्ड^अभ्रकं वराह-चर्वितकम् इति दशन-च्छेदन-विकल्पाः ॥
नातिलोहितेन रागमात्रेण विभावनीयं गूढकम् ।।
न^अतिलोहितेन राग-मात्रेण विभावनीयं गूढकम् ॥
तदेव पीडनादुच्छूनकम् ।।
तद् एव पीडनाद् उच्छूनकम् ॥
तदुभयं बिन्दुरधरमध्य इति ॥
तद् उभयं बिन्दुर् अधर-मध्य इति ॥
उच्छूनकं प्रवालमणिश्च कपोले ॥
उच्छूनकं प्रवाल-मणिश् च कपोले ॥
कर्णपूरचुम्बनं नखदशनच्छेद्यमिति सव्यकपोलमण्डनानि ॥
कर्ण-पूर-चुम्बनं नख-दशन-च्छेद्यम् इति सव्य-कपोल-मण्डनानि ॥
दन्तौष्ठसंयोगाभ्यासनिष्पादनात्प्रवालमणिसिद्धिः ॥
दन्त^ओष्ठ-संयोग^अभ्यास-निष्पादनात् प्रवाल-मणि-सिद्धिः ॥
सर्वस्येयं मणिमालायाश्च ॥
सर्वस्य^इयं मणि-मालायाश् च ॥
अल्पदेशायाश्च त्वचो दशनद्वयसंदंशजा बिन्दुसिद्धिः ॥
अल्प-देशायाश् च त्वचो दशन-द्वय-संदंशजा बिन्दु-सिद्धिः ॥
सर्वैर्बिन्दुमालायाश्च ॥
सर्वैर् बिन्दु-मालायाश् च ॥
तस्मान्मालाद्वयमपि गलकक्षवङ्क्षणप्रदेशेषु ॥
तस्मान् माला-द्वयम् अपि गल-कक्ष-वङ्क्षण-प्रदेशेषु ॥
ललाटे चोर्वोर्बिन्दुमाल ॥
ललाटे च^ऊर्वोर् बिन्दु-माल ॥
मण्डलमिव विषमकूटकयुक्तं खण्डाभ्रकं स्तनपृष्ठ एव ॥
मण्डलम् इव विषम-कूटक-युक्तं खण्ड^अभ्रकं स्तन-पृष्ठ एव ॥
संहताः प्रदीर्घा बह्व्यो दशनपदराजयस्ताम्रान्तराला वराहचर्वितकम् ।स्तनपृष्ठ एव ॥
संहताः प्रदीर्घा बह्व्यो दशन-पद-राजयस् ताम्र^अन्तराला वराह-चर्वितकम् । स्तन-पृष्ठ एव ॥
तदुभयमपि च चण्डवेगयोः ।इति दशनच्छेद्यानि ॥
तद्-उभयम् अपि च चण्ड-वेगयोः । इति दशन-च्छेद्यानि ॥
विशेषके कर्णपूरे पुष्पापीडे ताम्बूलपलाशे तमालपत्त्रे चेति प्रयोज्यागामिषु नखदशनच्छेद्यादीन्याभियोगिकानि ॥
विशेषके कर्ण-पूरे पुष्प^आपीडे ताम्बूल-पलाशे तमाल-पत्त्रे च^इति प्रयोज्य^आगामिषु नख-दशन-च्छेद्य^आदीन्य् आभियोगिकानि ॥
देशसात्म्याच्च योषित उपचरेत् ।।
देशसात्म्याच् च योषित उपचरेत् ॥
मध्यदेश्या आर्यप्रायाः शुच्युपचराश्चुम्बननखदन्तपदद्वेषिण्यः ॥
मध्यदेश्या आर्य-प्रायाः शुच्य्-उपचराश् चुम्बन-नख-दन्त-पद-द्वेषिण्यः ॥
बाह्लीकदेश्या आवन्तिकाश्च ॥
बाह्लीकदेश्या आवन्तिकाश् च ॥
चित्ररतेषु त्वासामभिनिवेशः ॥
चित्र-रतेषु त्व् आसाम् अभिनिवेशः ॥
परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहणनसाध्या मालव्य आभीर्यश्च ॥
परिष्वङ्ग-चुम्बन-नख-दन्त-चूषण-प्रधानाः क्षत-वर्जिताः प्रहणन-साध्या मालव्य आभीर्यश् च ॥
सिन्धुषष्ठानां च नदीनामन्तरालीया औपरिष्टकसात्म्याः ॥
सिन्धु-षष्ठानां च नदीनाम् अन्तरालीया औपरिष्टक-सात्म्याः ॥
चण्डवेगा मन्दसीत्कृता आपरान्तिका लाठ्यश्च ॥
चण्ड-वेगा मन्द-सीत्कृता आपरान्तिका लाठ्यश् च ॥
दृढप्रहणनयोगिन्यः खरवेगा एव ,अपद्रव्यप्रधानाः स्त्रीराज्ये कोशलायां च ॥
दृढ-प्रहणन-योगिन्यः खर-वेगा एव, अपद्रव्य-प्रधानाः स्त्रीराज्ये कोशलायां च ॥
प्रकृत्या मृद्व्यो रतिप्रिया अशुचिरुचयो निराचाराश्चान्ध्र्यः ॥
प्रकृत्या मृद्व्यो रति-प्रिया अशुचिरुचयो निराचाराश् च^आन्ध्र्यः ॥
सकलचतुःषष्टिप्रयोगरागिण्यो ऽश्लीलपरुषवाक्यप्रियाः शयने च सरभसोपक्रमा महाराष्ट्रिकाः ॥
सकल-चतुःषष्टि-प्रयोग-रागिण्यो +अश्लील-परुष-वाक्य-प्रियाः शयने च सरभस^उपक्रमा महाराष्ट्रिकाः ॥
तथाविधा एव रहसि प्रकाशन्ते नागरिकाः ॥
तथा-विधा एव रहसि प्रकाशन्ते नागरिकाः ॥
मृद्यमानाश्चाभियोगान्मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः ॥
मृद्यमानाश् च^अभियोगान् मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः ॥
मध्यमवेगाः सर्वंसहाः स्वाङ्गप्रच्छादिन्यः पराङ्गहासिन्यः कुत्सिताश्लीलपरुषपरिहारिण्यो वानवासिकाः ॥
मध्यम-वेगाः सर्वंसहाः स्वाङ्ग-प्रच्छादिन्यः पराङ्ग-हासिन्यः कुत्सित^अश्लील-परुष-परिहारिण्यो वानवासिकाः ॥
मृदुभाषिण्यो ऽनुरागवत्यो मृद्व्यङ्ग्यश्च गौड्यः ॥
मृदु-भाषिण्यो +अनुरागवत्यो मृद्व्यङ्ग्यश् च गौड्यः ॥
देशसात्म्यात्प्रकृतिसात्म्यं बलीय इति सुवर्णनाभः ।न तत्र देश्या उपचाराः ॥
देश-सात्म्यात् प्रकृति-सात्म्यं बलीय इति सुवर्णनाभः । न तत्र देश्या उपचाराः ॥
कालयोगाच्च देशाद्देशान्तरमुपचारवेषलीलाश्च *अनुगच्छन्ति [Ch: अनुच्छन्ति ] ।तच्च विद्यात् ।।
काल-योगाच् च देशाद् देश^अन्तरम् उपचार-वेष-लीलाश् च-*अनुगच्छन्ति[Ch: अनुच्छन्ति] । तच् च विद्यात् ॥
उपगूहनादिषु च रागवर्धनं पूर्वं पूर्वं विचित्रमुत्तरमुत्तरं च ॥
उपगूहन^आदिषु च राग-वर्धनं पूर्वं पूर्वं विचित्रम् उत्तरम् उत्तरं च ॥
वार्यमाणश्च पुरुषो यत्कुर्यात्तदनु क्षतम् ।
वार्यमाणश् च पुरुषो यत् कुर्यात् तद् अनु क्षतम् ।
अमृष्यमाणा द्विगुणं तदेव प्रतियोजयेत् ।।
अमृष्यमाणा द्विगुणं तद् एव प्रतियोजयेत् ॥
बिन्दोः प्रतिक्रिया माला मालायाश्चाभ्रखण्डकम् ।
बिन्दोः प्रतिक्रिया माला मालायाश् च^अभ्र-खण्डकम् ।
इति क्रोधादिवाविष्टा कलहान्प्रतियोजयेत् ।।
इति क्रोध^आदि-वाविष्टा कलहान् प्रतियोजयेत् ॥
सकचग्रहमुन्नम्य मुखं तस्य ततः पिबेत् ।
सकच-ग्रहम् उन्नम्य मुखं तस्य ततः पिबेत् ।
निलीयेत दशेच्चैव तत्र तत्र मदेरिता ॥
निलीयेत दशेच् च^एव तत्र तत्र मदेरिता ॥
उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम् ।
उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम् ।
मणिमालां प्रयुञ्जीत यच्चान्यदपि लक्षितम् ।।
मणि-मालां प्रयुञ्जीत यच् च^अन्यद् अपि लक्षितम् ॥
दिवापि जनसंबाधे नायकेन प्रदर्शितम् ।
दिवा^अपि जनसंबाधे नायकेन प्रदर्शितम् ।
उद्दिश्य स्वकृतं चिह्नं हसेदन्यैरलक्षिता ॥
उद्दिश्य स्वकृतं चिह्नं हसेद् अन्यैर् अलक्षिता ॥
विकूणयन्तीव मुखं कुत्सयन्तीव नायकम् ।
विकूणयन्ति^इव मुखं कुत्सयन्ति^इव नायकम् ।
स्वगात्रस्थानि चिह्नानि सासूयेव प्रदर्शयेत् ।।
स्व-गात्र-स्थानि चिह्नानि सासूय^इव प्रदर्शयेत् ॥
परस्परानुकूल्येन तदेवं लज्जमानयोः ।
परस्पर^अनुकूल्येन तद् एवं लज्जमानयोः ।
संवत्सरशतेनापि प्रीतिर्न परिहीयते ॥
संवत्सर-शतेन^अपि प्रीतिर् न परिहीयते ॥
2.6_(11)
संवेशनप्रकाराश्चित्ररतानि
रागकाले विशालयन्त्येव जघनं मृगी संविशेदुच्चरते ॥
राग-काले विशालयन्त्य् एव जघनं मृगी संविशेद् उच्च-रते ॥
अवह्रासयन्तीव हस्तिनी नीचरते ॥
अवह्रासयन्ती^इव हस्तिनी नीच-रते ॥
न्याय्यो यत्र योगस्तत्र समपृष्ठम् ।।
न्याय्यो यत्र योगस् तत्र सम-पृष्ठम् ॥
आभ्यां वडवा व्याख्याता ॥
आभ्यां वडवा व्याख्याता ॥
तत्र जघनेन नायकं प्रतिगृह्णीयात् ।।
तत्र जघनेन नायकं प्रतिगृह्णीयात् ॥
अपद्रव्याणि च सविशेषं नीचरते ॥
अपद्रव्याणि च सविशेषं नीच-रते ॥
उत्फुल्लकं विजृम्भितकमिन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण ॥
उत्फुल्लकं विजृम्भितकम् इन्द्राणिकं च^इति त्रितयं मृग्याः प्रायेण ॥
शिरो विनिपात्योर्ध्वं जघनमुत्फुल्लकम् ।।
शिरो विनिपात्य^ऊर्ध्वं जघनम् उत्फुल्लकम् ॥
तत्रापसारं दद्यात् ।।
तत्र^अपसारं दद्यात् ॥
अनीचे सक्थिनी तिर्यगवसज्य प्रतीच्छेदिति विजृम्भितकम् ।।
अनीचे सक्थिनी तिर्यग् अवसज्य प्रतीच्छेद् इति विजृम्भितकम् ॥
पार्श्वयोः सममूरू विन्यस्य पार्श्वयोर्जानुनी निदध्यादित्यभ्यासयोगादिन्द्राणी ॥
पार्श्वयोः समम् ऊरू विन्यस्य पार्श्वयोर् जानुनी निदध्याद् इत्य् अभ्यास-योगाद् इन्द्राणी ॥
तयोच्चतररतस्यापि परिग्रहः ॥
तया^उच्चतर-रतस्य^अपि परिग्रहः ॥
संपुटेन प्रतिग्रहो नीचरते ॥
संपुटेन प्रतिग्रहो नीच-रते ॥
एतेन नीचतररते ऽपि हस्तिन्याः ॥
एतेन नीचतर-रते +अपि हस्तिन्याः ॥
संपुटकं पीडितकं वेष्टितकं वाडवकमिति ॥
संपुटकं पीडितकं वेष्टितकं वाडवकम् इति ॥
ऋजुप्रसारितावुभावप्युभयोश्चरणाविति संपुटः ॥
ऋजु-प्रसारिताव् उभाव् अप्य् उभयोश् चरणाव् इति संपुटः ॥
स द्विविधः ---पार्श्वसंपुट उत्तानसंपुटश्च ।तथा कर्मयोगात् ।
स द्विविधः --- पार्श्व-संपुट उत्तान-संपुटश् च । तथा कर्म-योगात् ।
पार्श्वेण तु शयानो दक्षिणेन नारीमधिशयीतेति सार्वत्रिकमेतत् ।।
पार्श्वेण तु शयानो दक्षिणेन नारीम् अधिशयीतेति सार्व-त्रिकम् एतत् ॥
संपुटकप्रयुक्तयन्त्रेणैव दृढमूरू पीडयेदिति पीडितकम् ।।
संपुटक-प्रयुक्त-यन्त्रेण^एव दृढम् ऊरू पीडयेद् इति पीडितकम् ॥
ऊरू व्यत्यस्येदिति वेष्टितकम् ।।
ऊरू व्यत्यस्येद् इति वेष्टितकम् ॥
वडवेव निष्ठुरमवगृह्णीयादिति वाडवकमाभ्यासिकम् ।।
वडवा^इव निष्ठुरम् अवगृह्णीयाद् इति वाडवकम् आभ्यासिकम् ॥
तदान्ध्रीषु प्रायेण ।इति संवेशनप्रकारा बाभ्रवीयाः ॥
तदा^अन्ध्रीषु प्रायेण । इति संवेशन-प्रकारा बाभ्रवीयाः ॥
सौवर्णनाभास्तु ।
सौवर्णनाभास् तु ।
उभावप्यूरू ऊर्ध्वाविति तद्भुग्नकम् ।।
उभाव् अप्य् ऊरू ऊर्ध्वाव् इति तद्-भुग्नकम् ॥
चरणावूर्ध्वं नायको ऽस्या धारयेदिति जृम्भितकम् ।।
चरणाव् ऊर्ध्वं नायको +अस्या धारयेद् इति जृम्भितकम् ॥
तत्कुञ्चितावुत्पीडितकम् ।।
तत्-कुञ्चिताव् उत्पीडितकम् ॥
तदेकस्मिन्प्रसारिते ऽर्धपीडितकम् ।।
तद् एकस्मिन् प्रसारिते +अर्ध-पीडितकम् ॥
नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर्व्यत्यासेन वेणुदारितकम् ।।
नायकस्य^अंस एको द्वितीयकः प्रसारित इति पुनः पुनर् व्यत्यासेन वेणु-दारितकम् ॥
एकः शिरस उपरि गच्छेद्द्वितीयः प्रसारित इति शूलचितकमाभ्यासिकम् ।।
एकः शिरस उपरि गच्छेद् द्वितीयः प्रसारित इति शूल-चितकम् आभ्यासिकम् ॥
संकुचितौ *स्वबस्तिदेशे [Ch: स्वस्तिदेशे ] निदध्यादिति कार्कटकम् ।।
संकुचितौ *स्वबस्तिदेशे[Ch: स्वस्तिदेशे] निदध्याद् इति कार्कटकम् ॥
ऊर्ध्वावूरू व्यत्यस्येदिति पीडितकम् ।।
ऊर्ध्वाव् ऊरू व्यत्यस्येद् इति पीडितकम् ॥
जङ्घाव्यत्यासेन पद्मासनवत् ।।
जङ्घा-व्यत्यासेन पद्म^आसनवत् ॥
पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकमाभ्यासिकम् ।।
पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकम् आभ्यासिकम् ॥
जले च संविष्टोपविष्टस्थितात्मकांश्चित्रान्योगानुपलक्षयेत् ।तथा सुकरत्वादिति सुवर्णनाभः ॥
जले च संविष्ट^उपविष्ट-स्थित^आत्मकांश् चित्रान् योगान् उपलक्षयेत् । तथा सुकरत्वाद् इति सुवर्णनाभः ॥
वार्तं तु तत् ।शिष्टैरपस्मृतत्वादिति वात्स्यायनः ॥
वार्तं तु तत् । शिष्टैर् अपस्मृतत्वाद् इति वात्स्यायनः ॥
अथ चित्ररतानि ॥
अथ चित्ररतानि ॥
ऊर्ध्वस्थितयोर्यूनोः परस्परापाश्रययोः कुड्यस्तम्भापाश्रितयोर्वा स्थितरतम् ।
ऊर्ध्व-स्थितयोर् यूनोः परस्पर^अपाश्रययोः कुड्यस्तम्भ^अपाश्रितयोर् वा स्थित-रतम् ।
कुड्यापाश्रितस्य कण्ठावसक्तबाहुपाशायास्तद्धस्तपञ्जरोपविष्टाया ऊरुपाशेन जघनमभिवेष्टयन्त्या कुड्ये चरणक्रमेण वलन्त्या अवलम्बितकं रतम् ।।
कुड्य^अपाश्रितस्य कण्ठ^अवसक्त-बाहु-पाशायास् तद्-धस्त-पञ्जर^उपविष्टाया ऊरुपाशेन जघनम् अभिवेष्टयन्त्या कुड्ये चरण-क्रमेण वलन्त्या अवलम्बितकं रतम् ॥
भूमौ वा चतुष्पदवदास्थिताया वृषलीलयावस्कन्दनं धेनुकम् ।।
भूमौ वा चतुष्पदवद् आस्थिताया वृष-लीलया^अवस्कन्दनं धेनुकम् ॥
तत्र पृष्ठमुरःकर्माणि लभते ॥
तत्र पृष्ठम् उरःकर्माणि लभते ॥
एतेनैव योगेन शौनमैणेयं छागलं गर्दभाक्रान्तं मार्जारललितकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराहघृष्टकं तुरगाधिरूढकमिति यत्र यत्र विशेषो योगो ऽपूर्वस्तत्तदुपलक्षयेत् ।।
एतेन^एव योगेन शौन-मैणेयं छागलं गर्दभ^आक्रान्तं मार्जार-ललितकं व्याघ्र^अवस्कन्दनं गज^उपमर्दितं वराह-घृष्टकं तुरग^अधिरूढकम् इति यत्र यत्र विशेषो योगो +अपूर्वस् तत् तद् उपलक्षयेत् ॥
मिश्रीकृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम् ।।
मिश्रीकृत-सद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम् ॥
बह्वीभिश्च सह गोयूथिकम् ।।
बह्वीभिश् च सह गोयूथिकम् ॥
वारिक्रीडितकं छागलमैणेयमिति तत्कर्मानुकृतियोगात् ।।
वारि-क्रीडितकं छागल-मैणेयम् इति तत्-कर्म^अनुकृति-योगात् ॥
ग्रामनारिविषये स्त्रीराज्ये च बाह्लीके बहवो युवानो ऽन्तःपुरसधर्माण एकैकस्याः परिग्रहभूताः ।
ग्राम-नारि-विषये स्त्रीराज्ये च बाह्लीके बहवो युवानो +अन्तःपुर-सधर्माण एकैकस्याः परिग्रह-भूताः ।
तेषामेकैकशो युगपच्च यथासात्म्यं यथायोगं च रञ्जयेयुः ॥
तेषाम् एकैकशो युगपच् च यथा-सात्म्यं यथा-योगं च रञ्जयेयुः ॥
एको धारयेदेनामन्यो निषेवेत ।अन्यो *जघनमुखम् [Ch: जघनं मुखम् ] अन्यो मध्यमन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः ॥
एको धारयेद् एनाम् अन्यो निषेवेत । अन्यो *जघन-मुखम्[Ch: जघनं मुखम्] अन्यो मध्यम् अन्य इति वारं वारेण व्यतिकरेण च^अनुतिष्ठेयुः ॥
एतया गोष्ठीपरिग्रहा वेश्या राजयोषा *परिग्रहश् [Ch: परिग्रहाश् ] च व्याख्यातः ॥
एतया गोष्ठी-परिग्रहा वेश्या राज-योषा-*परिग्रहश्[Ch: परिग्रहाश्] च व्याख्यातः ॥
अघोरतं पायावपि दाक्षिणात्यानाम् ।इति चित्ररतानि ॥
अघोरतं पायाव् अपि दाक्षिणात्यानाम् । इति चित्ररतानि ॥
पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः ॥
पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः ॥
भवतश् च^अत्र श्लोकौ ---
पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः ।
पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः ।
तैस्तैसुपायैश्चित्तज्ञो रतियोगान्विवर्धयेत् ।।
तैस् तैस् उपायैश् चित्तज्ञो रति-योगान् विवर्धयेत् ॥
तत्सात्म्याद्देशसात्म्याच्च तैस्तैर्भावैः प्रयोजितैः ।
तत्-सात्म्याद् देश-सात्म्याच् च तैस् तैर् भावैः प्रयोजितैः ।
स्त्रीणां स्नेहश्च रागश्च बहुमानश्च जायते ॥
स्त्रीणां स्नेहश् च रागश् च बहुमानश् च जायते ॥
2.7_(12)
प्रहणनप्रयोगास् तद्युक्ताश् च सीत्कृतक्रमाः
कलहरूपं सुरतमाचक्षते ।विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य ॥
कलह-रूपं सुरतम् आचक्षते । विवाद^आत्मकत्वाद् वाम-शीलत्वाच् च कामस्य ॥
तस्मात्प्रहणनस्थानमङ्गम् ।स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि ॥
तस्मात् प्रहणन-स्थानम् अङ्गम् । स्कन्धौ शिरः स्तन^अन्तरं पृष्ठं जघनं पार्श्व इति स्थानानि ॥
तच्चतुर्विधम् ---अपहस्तकं प्रसृतकं मुष्टिः समतलकमिति ॥
तच् चतुर्विधम् --- अपहस्तकं प्रसृतकं मुष्टिः सम-तलकम् इति ॥
तदुद्भवं च सीत्कृतम् ।तस्य *अतिरूपत्वात् [Ch: आर्तिरूपत्वात् ] ।तदनेकविधम् ।।
तद् उद्भवं च सीत्कृतम् । तस्य-*अतिरूपत्वात्[Ch: आर्तिरूपत्वात्] । तद् अनेक-विधम् ॥
विरुतानि चाष्टौ ॥
विरुतानि च^अष्टौ ॥
हिंकारस्तनितकूजितरुदितसूत्कृतदूत्कृतफूत्कृतानि ॥
हिंकार-स्तनित-कूजित-रुदित-सूत्कृत-दूत्कृत-फूत्कृतानि ॥
अम्वार्थाः शब्दा वारणार्था मोक्षणार्थाश्चालमर्थास्ते ते चार्थयोगात् ।।
अम्वार्थाः शब्दा वारण^अर्था मोक्षण^अर्थाश् चालम् अर्थास् ते ते च^अर्थ-योगात् ॥
पारावतपरभृतहारीतशुकमधुकरदात्यूहहंसकारण्डवलावकविरुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत ॥
पारावत-परभृत-हारीत-शुक-मधुक-रदात् यूह-हंस-कारण्डव-लावक-विरुतानि सीत्कृत-भूयिष्ठानि विकल्पशः प्रयुञ्जीत ॥
उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना प्रहारः ॥
उत्सङ्ग^उपविष्टायाः पृष्ठे मुष्टिना प्रहारः ॥
तत्र सासूयाया इव स्तनितरुदितकूजितानि प्रतीघातश्च स्यात् ।।
तत्र सासूयाया इव स्तनित-रुदित-कूजितानि प्रतीघातश् च स्यात् ॥
युक्तयन्त्रायाः स्तनान्तरे ऽपहस्तकेन प्रहरेत् ।।
युक्त-यन्त्रायाः स्तन^अन्तरे +अपहस्तकेन प्रहरेत् ॥
मन्दोपक्रमं वर्धमानरागमा *परिसमाप्तेः [Ch: परिसमाप्तः ] ॥
मन्द^उपक्रमं वर्धमानरागमा *परिसमाप्तेः[Ch: परिसमाप्तः] ॥
तत्र हिंकारादीनामनियमेनाभ्यासेन विकल्पेन च तत्कालमेव प्रयोगः ॥
तत्र हिंकार^आदीनाम् अनियमेन^अभ्यासेन विकल्पेन च तत्कालम् एव प्रयोगः ॥
शिरसि किं चिदाकुञ्चिताङ्गुलिना करेण विवदन्त्याः फूत्कृत्य प्रहणनं तत्प्रसृतकम् ।।
शिरसि किं चिद् आकुञ्चित^अङ्गुलिना करेण विवदन्त्याः फूत्कृत्य प्रहणनं तत्प्रसृतकम् ॥
तत्रान्तर्मुखेन कूजितं फूत्कृतं च ॥
तत्र^अन्तर्मुखेन कूजितं फूत्कृतं च ॥
रतान्ते च श्वसितरुदिते ।
रत^अन्ते च श्वसित-रुदिते ।
वेणोरिव स्फुटतः शब्दानुकरणं दूत्कृतम् ।।
वेणोर् इव स्फुटतः शब्द^अनुकरणं दूत्कृतम् ॥
अप्सु बदरस्येव निपततः (शब्दानुकरणं )फूत्कृतम् ।।
अप्सु बदरस्य^इव निपततः (शब्द^अनुकरणं) फूत्कृतम् ॥
सर्वत्र चुम्बनादिष्वपक्रान्तायाः ससीत्कृतं तेनैव प्रत्युत्तरम् ।।
सर्वत्र चुम्बन^आदिष्व् अपक्रान्तायाः ससीत्कृतं तेन^एव प्रत्युत्तरम् ॥
रागवशात्प्रहणनाभ्यासे वारणमोक्षणालमर्थानां शब्दानामम्बार्थानां च सतान्तश्वसितरुदितस्तनितमिश्रीकृतप्रयोगा विरुतानां च ।रागावसानकाले जघनपार्श्वयोस्ताडनमित्यतित्वरया चापरिसमाप्तेः ॥
रागवशात् प्रहणन^अभ्यासे वारण-मोक्षणालम् अर्थानां शब्दानाम् अम्ब^अर्थानां च सतान्त-श्वसित-रुदित-स्तनित-मिश्रीकृत-प्रयोगा विरुतानां च । राग^अवसान-काले जघन-पार्श्वयोस् ताडनम् इत्य् अतित्वरया च^अपरिसमाप्तेः ॥
तत्र लावकहंसविकूजितं त्वरयैवइ॑ति स्तननप्रहणनयोगाः ॥
तत्र लावक-हंस-विकूजितं त्वरया^एवइ॑ति स्तनन-प्रहणन-योगाः ॥
पारुष्यं रभसत्वं च पौरुषं तेज उच्यते ।
पारुष्यं रभसत्वं च पौरुषं तेज उच्यते ।
अशक्तिरार्तिर्व्यावृत्तिरबलत्वं च योषितः ॥
अशक्तिर् आर्तिर्व्यावृत्तिर् अबलत्वं च योषितः ॥
रागात्प्रयोगसात्म्याच्च व्यत्ययो ऽपि क्व चिद्भवेत् ।
रागात् प्रयोग-सात्म्याच् च व्यत्ययो +अपि क्व चिद् भवेत् ।
न चिरं तस्य चैवान्ते प्रकृतेरेव योजनम् ।।
न चिरं तस्य च^एव^अन्ते प्रकृतेर् एव योजनम् ॥
कीलामुरसि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश्चेति पूर्वैः सह प्रहणनमष्टविधमिति दाक्षिणात्यानाम् ।तद्युवतीनामुरसि कीलानि च तत्कृतानि दृष्यन्ते ।देशसात्म्यमेतत् ।।
कीलाम् उरसि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश् च^इति पूर्वैः सह प्रहणनम् अष्टविधम् इति दाक्षिणात्यानाम् । तद्-युवतीनाम् उरसि कीलानि च तत्कृतानि दृष्यन्ते । देश-सात्म्यम् एतत् ॥
कष्टमनार्यवृत्तमनादृतमिति वात्स्यायनः ॥
कष्टम् अनार्य-वृत्तम् अनादृतम् इति वात्स्यायनः ॥
तथान्यदपि देशसात्म्यात्प्रयुक्तमन्यत्र न प्रयुञ्जीत् ।।
तथा^अन्यद् अपि देश-सात्म्यात् प्रयुक्तम् अन्यत्र न प्रयुञ्जीत् ॥
आत्ययिकं तु तत्रापि परिहरेत् ।।
आत्ययिकं तु तत्र^अपि परिहरेत् ॥
रतियोगे हि कीलया गणिकां चित्रसेणां चोलराजो जघान ।
रति-योगे हि कीलया गणिकां चित्रसेणां चोल-राजो जघान ।
कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम् ।।
कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम् ॥
नरदेवः कुपाणिर्विद्धया दुष्प्रयुक्तया नटीं काणां चकार ॥
नर-देवः कुपाणिर् विद्धया दुष्प्रयुक्तया नटीं काणां चकार ॥
भवन्ति च^अत्र श्लोकाः ---
नास्त्यत्र गणना का चिन्न च शास्त्रपरिग्रहः ।
नास्त्य् अत्र गणना का चिन् न च शास्त्र-परिग्रहः ।
प्रवृत्ते रतिसंयोगे राग एवात्र कारणम् ।।
प्रवृत्ते रति-संयोगे राग एव^अत्र कारणम् ॥
स्वप्नेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रमाः ।
स्वप्नेष्व् अपि न दृश्यन्ते ते भावास् ते च विभ्रमाः ।
सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः ॥
सुरत-व्यवहारेषु ये स्युस् तत्-क्षण-कल्पिताः ॥
यथा हि पञ्चमीं धारामास्थाय तुरगः पथि ।
यथा हि पञ्चमीं धाराम् आस्थाय तुरगः पथि ।
स्थाणुम्श्वभ्रं दरीं वापि वेगान्धो न समीक्षते ॥
स्थाणुम् श्वभ्रं दरीं वा^अपि वेग^अन्धो न समीक्षते ॥
एवं सुरतसंमर्दे रागान्धौ कामिनावपि ।
एवं सुरत-संमर्दे राग^अन्धौ कामिनाव् अपि ।
चण्डवेगौ प्रवर्तेते समीक्षेते न चात्ययम् ।।
चण्ड-वेगौ प्रवर्तेते समीक्षेते न च^अत्ययम् ॥
तस्मान्मृदुत्वं चण्डत्वं युवत्या बलमेव च ।
तस्मान् मृदुत्वं चण्डत्वं युवत्या बलम् एव च ।
आत्मनश्च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् ।।
आत्मनश् च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित् ॥
न सर्वदा न सर्वासु प्रयोगाः सांप्रयोगिकाः ।
न सर्वदा न सर्वासु प्रयोगाः सांप्रयोगिकाः ।
स्थाने देशे च काले च योग एषां विधीयते ॥
स्थाने देशे च काले च योग एषां विधीयते ॥
2.8_(13)
पुरुषोपसृप्तानि पुरुषायितं
नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपशमम् ,अनुमता तेन तमधो ऽवपात्य पुरुषायितेन साहाय्यं दद्यात् ।
नायकस्य संतत^आभ्यासात् परिश्रमम् उपलभ्य रागस्य च^अनुपशमम्, अनुमता तेन तम्-अधो +अवपात्य पुरुष^आयितेन साहाय्यं दद्यात् ।
स्वाभिप्रायाद्वा विकल्पयोजनार्थिनी
स्व^अभिप्रायाद् वा विकल्प-योजन^अर्थिनी
नायककुतूहलाद्वा ॥
नायक-कुतूहलाद् वा ॥
तत्र युक्तयन्त्रेणैवेतरेणोत्थाप्यमाना तमधः पातयेत् ।एवं च रतमविच्छिन्नरसं तथा प्रवृत्तमेव स्यात् ।इत्येको ऽयं मार्गः ।
तत्र युक्त-यन्त्रेण^एव^इतरेण^उत्थाप्यमाना तम्-अधः पातयेत् । एवं च रतम् अविच्छिन्न-रसं तथा प्रवृत्तम् एव स्यात् । इत्य् एको +अयं मार्गः ।
पुनरारम्भेणादित एवोपक्रमेत् ।इति द्वितीयः ॥
पुनर् आरम्भेण^आदित एव^उपक्रमेत् । इति द्वितीयः ॥
सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गार्थं स्तनाभ्यामुरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश्चेष्टाः पूर्वम् *अंसौ [Ch: असौ ] दर्शितवांस्ता एव प्रतिकुर्वीत ।पातिता प्रतिपातयामीति ।हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात् ।पुनश्च व्रीडां दर्शयेत् ।श्रमं विरामाभीप्सां च ।पुरुषोपसृप्तैरेवोपसर्पेत् ।।
सा प्रकीर्यमाण-केश-कुसुमा श्वास-विच्छिन्न-हासिनी वक्त्र-संसर्ग^अर्थं स्तनाभ्याम् उरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश् चेष्टाः पूर्वम् *अंसौ[Ch: असौ] दर्शितवांस् ता एव प्रतिकुर्वीत । पातिता प्रतिपातयामि^इति । हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात् । पुनश् च व्रीडां दर्शयेत् । श्रमं विराम^अभीप्सां च । पुरुषोपसृप्तैर् एव^उपसर्पेत् ॥
तानि च वक्ष्यामः ॥
तानि च वक्ष्यामः ॥
पुरुषः शयनस्थाया योषितस्तद्वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत् ।तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत् ।
पुरुषः शयनस्थाया योषितस् तद् वचन-व्याक्षिप्त-चित्ताया इव नीवीं विश्लेषयेत् । तत्र विवदमानां कपोल-चुम्बनेन पर्याकुलयेत् ।
स्थिरलिङ्गश्च तत्र तत्रैनां परिस्पृशेत् ।
स्थिर-लिङ्गश् च तत्र तत्र^एनां परिस्पृशेत् ।
प्रथमसंगता चेत्संहतोर्वोरन्तरे घट्टनम् ।
प्रथम-संगता चेत् संहत^ऊर्वोर् अन्तरे घट्टनम् ।
कन्यायाश्च ।
कन्यायाश् च ।
तथा स्तनयोः संहतयोर्हस्तयोः कक्षयोरंसयोर्ग्रीवायामिति च ।
तथा स्तनयोः संहतयोर् हस्तयोः कक्षयोर् अंसयोर् ग्रीवायाम् इति च ।
स्वैरिण्यां यथासात्म्यं यथायोगं च ।अलके चुम्बनार्थमेनां निर्दयमवलम्बेत् ।हनुदेशे चाङ्गुलिसंपुटेन ।
स्वैरिण्यां यथा-सात्म्यं यथा-योगं च । अलके चुम्बन^अर्थम् एनां निर्दयम् अवलम्बेत् । हनु-देशे च^अङ्गुलि-संपुटेन ।
तत्रेतरस्या व्रीडा निमीलनं च ।प्रथमसमागमे कन्यायाश्च ॥
तत्र^इतरस्या व्रीडा निमीलनं च । प्रथम-समागमे कन्यायाश् च ॥
रतिसंयोगे चैनां कथमनुरज्यत इति प्रवृत्त्या परीक्षेत ॥
रति-संयोगे च^एनां कथम् अनुरज्यत इति प्रवृत्त्या परीक्षेत ॥
युक्तयन्त्रेणोपसृप्यमाणा यतो दृष्टिमावर्तयेत्तत एवैनां पीडयेत् ।।एतद्रहस्यं युवतीनामिति सुवर्णनाभः ॥
युक्त-यन्त्रेण^उपसृप्यमाणा यतो दृष्टिम् आवर्तयेत् तत एव^एनां पीडयेत् ॥ एतद् रहस्यं युवतीनाम् इति सुवर्णनाभः ॥
गात्राणां स्रंसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रतियोजनेति स्त्रीणां भावलक्षणम् ।।
गात्राणां स्रंसनं नेत्र-निमीलनं व्रीडा-नाशः समधिका च रति-योजना^इति स्त्रीणां भाव-लक्षणम् ॥
हस्तौ विधुनोति स्विद्यति दशत्युत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी ॥
हस्तौ विधुनोति स्विद्यति दशत्य् उत्थातुं न ददाति पादेन^आहन्ति रत^अवमाने च पुरुष^अतिवर्तिनी ॥
तस्याः प्राग्यन्त्रयोगात्करेण संबाधं गज एव क्षोभयेत् ।आ मृदुभावात् ।ततो यन्त्रयोजनम् ।।
तस्याः प्राग्-यन्त्र-योगात् करेण संबाधं गज एव क्षोभयेत् । आ मृदुभावात् । ततो यन्त्र-योजनम् ॥
उपसृप्तकं मन्थनं हुलो ऽवमर्दनं पीडितकं निर्घातो वराहघातो वृषाघातश्चटकविलसितं संपुट इति पुरुषोपसृप्तानि ।
उपसृप्तकं मन्थनं हुलो +अवमर्दनं पीडितकं निर्घातो वराह-घातो वृष^आघातश् चटक-विलसितं संपुट इति पुरुषोपसृप्तानि ।
न्याय्यमृजुसंमिश्रणमुपसृप्तकम् ।
न्याय्यम् ऋजु-संमिश्रणम् उपसृप्तकम् ।
हस्तेन लिङ्गं सर्वतो भ्रामयेतिति मन्थनम् ।
हस्तेन लिङ्गं सर्वतो भ्रामयेत् इति मन्थनम् ।
नीचीकृत्य जघनमुपरिष्टाद्घट्टयेदिति हुलः ।
नीचीकृत्य जघनम् उपरिष्टाद् घट्टयेद् इति हुलः ।
तदेव विपरीतं सरभसमवमर्दनम् ।
तद् एव विपरीतं सरभ-समवमर्दनम् ।
लिङ्गेन समाहत्य पीडयंश्चिरम् *अवतिष्ठेद् [Ch: अवतिष्ठेत ] इति पीडितकम् ।
लिङ्गेन समाहत्य पीडयंश् चिरम् *अवतिष्ठेद्[Ch: अवतिष्ठेत-] इति पीडितकम् ।
सुदूरमुत्कृष्य वेगेन स्वजघनमवपातयेदिति निर्घातः ।
सुदूरम् उत्कृष्य वेगेन स्वजघनम् अवपातयेद् इति निर्घातः ।
एकत एव भूयिष्ठमवलिखेदिति वराहघातः ।
एकत एव भूयिष्ठम् अवलिखेद् इति वराह-घातः ।
स एवोभयतः पर्यायेण वृषाघातः ।
स एव^उभयतः पर्यायेण वृष^आघातः ।
सकृन्मिश्रितमनिष्क्रमय्य द्विस्त्रिश्चतुरिति घट्टयेदिति चटकविलसितम् ।
सकृन्-मिश्रितम् अनिष्क्रमय्य द्विस्त्रिश् चतुर् इति घट्टयेद् इति चटक-विलसितम् ।
रागावसानिकं व्याखातं करणं संपुटमिति ॥
राग^अवसानिकं व्याखातं करणं संपुटम् इति ॥
तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः ॥
तेषां स्त्री-सात्म्याद् विकल्पेन प्रयोगः ॥
पुरुषायिते तु संदंशो भ्रमरकः प्रेङ्खोलितमित्यधिकानि ॥
पुरुषायिते तु संदंशो भ्रमरकः प्रेङ्खोलितम् इत्य् अधिकानि ॥
वाडवेन लिङ्गमवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिरावस्थानं संदंशः ॥
वाडवेन लिङ्गम् अवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिर^अवस्थानं संदंशः ॥
युक्तयन्त्रा चक्रवद्भ्रमेदिति भ्रमरक आभ्यासिकः ॥
युक्त-यन्त्रा चक्रवद् भ्रमेद् इति भ्रमरक आभ्यासिकः ॥
तत्रेतरः स्वजघनमुत्क्षिपेत् ।।
तत्र^इतरः स्वजघनम् उत्क्षिपेत् ॥
जघनमेव दोलायमानं सर्वतो भ्रामयेदिति प्रेङ्खोलितकम् ।।
जघनम् एव दोलायमानं सर्वतो भ्रामयेद् इति प्रेङ्खोलितकम् ॥
युक्तयन्त्रैव ललाटे ललाटे निधाय विश्राम्येत ॥
युक्त-यन्त्र^एव ललाटे ललाटे निधाय विश्राम्येत ॥
विश्रान्तायां च पुरुषस्य पुनरावर्तनम् ।इति पुरुषायितानि ॥
विश्रान्तायां च पुरुषस्य पुनर् आवर्तनम् । इति पुरुष^आयितानि ॥
भवन्ति च^अत्र श्लोकाः ---
प्रच्छादितस्वभावापि गूढाकारापि कामिनी ।
प्रच्छादित-स्वभावा^अपि गूढ^आकारा^अपि कामिनी ।
विवृणोत्येव भावं स्वं रागादुपरिवर्तिनी ॥
विवृणोत्य् एव भावं स्वं रागाद् उपरिवर्तिनी ॥
यथाशीला भवेन्नारी यथा च रतिलालसा ।
यथाशीला भवेन् नारी यथा च रति-लालसा ।
तस्या एव विचेष्टाभिस्तत्सर्वमुपलक्षयेत् ।।
तस्या एव विचेष्टाभिस् तत्सर्वम् उपलक्षयेत् ॥
न त्वेवर्तौ न प्रसूतां न मृगीं न च गर्भिणीम्
न त्व् एव-र्तौ न प्रसूतां न मृगीं न च गर्भिणीम्
न चातिव्यायतां नारीं योजयेत्पुरुषायिते ॥
न च^अतिव्यायतां नारीं योजयेत् पुरुष^आयिते ॥
2.9_(14)
औपरिष्टकं नवमो
द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥
द्विविधा तृतीया-प्रकृतिः स्त्री-रूपिणी पुरुष-रूपिणी च ॥
तत्र स्त्रीरूपिणी स्त्रीया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धतामसहिष्णुतां व्रीडां चानुकुर्वीत ॥
तत्र स्त्री-रूपिणी स्त्रीया वेष-मालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम् असहिष्णुतां व्रीडां च^अनुकुर्वीत ॥
तस्या वदने जघनकर्म ।तदौपरिष्टकमाचक्षते ॥
तस्या वदने जघन-कर्म । तद्-औपरिष्टकम् आचक्षते ॥
सा ततो रतिमाभिमानिकीं वृत्तिं च लिप्सेत् ।
सा ततो रतिम् आभिमानिकीं वृत्तिं च लिप्सेत् ।
वेश्यावच्चरितं प्रकाशयेत् ।इति स्त्रीरूपिणी ॥
वेश्यावच् चरितं प्रकाशयेत् । इति स्त्री-रूपिणी ॥
पुरुषरूपिणी तु प्रच्छन्नकामा पुरुषं लिप्समाना संवाहकभावमुपजीवेत् ।
पुरुष-रूपिणी तु प्रच्छन्न-कामा पुरुषं लिप्समाना संवाहक-भावम् उपजीवेत् ।
संवाहने परिष्वजमानेव गात्रैरूरूनायकस्य मृद्गीयात् ।
संवाहने परिष्वजमाना^इव गात्रैर् ऊरू-नायकस्य मृद्गीयात् ।
प्रसृतपरिचया चोरुमूलं सजघनमिति संस्पृशेत् ।
प्रसृत-परिचया च^ऊरुमूलं सजघनम् इति संस्पृशेत् ।
तत्र स्थिरलिङ्गतामुपलभ्य चास्य पाणिमन्थेन परिघट्टयेत् ।चापलमस्य कुत्सयन्तीव हसेत् ।
तत्र स्थिर-लिङ्गताम् उपलभ्य च^अस्य पाणिमन्थेन परिघट्टयेत् । च^अपलम् अस्य कुत्सयन्ती^इव हसेत् ।
कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत्स्वयमुपक्रमेत् ।
कृत-लक्षणेन^अप्य् उपलब्ध-वैकृतेन^अपि न चोद्यत इति चेत् स्वयम् उपक्रमेत् ।
पुरुषेण च चोद्यमाना विवदेत् ।कृच्छ्रेण चाभ्युपगच्छेत् ।।
पुरुषेण च चोद्यमाना विवदेत् । कृच्छ्रेण च^अभ्युपगच्छेत् ॥
तत्र कर्माष्टविधं समुच्चयप्रयोज्यम् ।
तत्र कर्म^अष्टविधं समुच्चय-प्रयोज्यम् ।
निमितं पार्श्वतो दष्टं बहिःसंदंशो ऽन्तःसंदंशश्चुम्बितकं परिमृष्टकमाम्रचूषितकं संगर इति ॥
निमितं पार्श्वतो दष्टं बहिःसंदंशो +अन्तःसंदंशश् चुम्बितकं परिमृष्टकम् आम्रचूषितकं संगर इति ॥
तेष्वेकैकमभ्युपगम्य विरामाभीप्सां दर्शयेत् ।।
तेष्व् एकैकम् अभ्युपगम्य विराम^अभीप्सां दर्शयेत् ॥
इतरश्च पूर्वस्मिन्नभ्युपगते तदुत्तरमेवापरं निर्दिशेत् ।तस्मिन्नपि सिद्धे तदुत्तरमिति ॥
इतरश् च पूर्वस्मिन्न् अभ्युपगते तदुत्तरम् एव^अपरं निर्दिशेत् । तस्मिन्न् अपि सिद्धे तदुत्तरम् इति ॥
करावलम्बितमोष्ठयोरुपरि विन्यस्तमपविध्य मुखं विधुनुयात् ।तन्निमितम् ।।
कर^अवलम्बितम् ओष्ठयोर् उपरि विन्यस्तम् अपविध्य मुखं विधुनुयात् । तन्-निमितम् ॥
हस्तेणाग्रमवच्छाद्य पार्श्वतो निर्दशनमोष्टाभ्यामवपीड्य भवत्वेतावदिति सान्त्वयेत् ।तत्पार्श्वतो दष्टम् ।।
हस्तेण^अग्रम् अवच्छाद्य पार्श्वतो निर्दशनम् ओष्टाभ्याम् अवपीड्य भवत्व् एतावद् इति सान्त्वयेत् । तत्-पार्श्वतो दष्टम् ॥
भूयश्चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव चुम्बेत् ।इति बहिःसंदंशः ॥
भूयश् चोदिता संमीलित^ओष्ठी तस्य^अग्रं निष्पीड्य कर्षयन्ती^इव चुम्बेत् । इति बहिःसंदंशः ॥
तस्मिन्नेवाभ्यर्थनया किं चिदधिकं प्रवेशयेत् ।सापि चाग्रमोष्ठाभ्यां निष्पीड्य निष्ठीवेत् ।इत्यन्तःसंदंशः ॥
तस्मिन्न् एव^अभ्यर्थनया किं चिद् अधिकं प्रवेशयेत् । सा^अपि च^अग्रम् ओष्ठाभ्यां निष्पीड्य निष्ठीवेत् । इत्य् अन्तःसंदंशः ॥
करावलम्बितस्यौष्ठवद्ग्रहणं चुम्बितकम् ।।
कर^अवलम्बितस्य^ओष्ठवद् ग्रहणं चुम्बितकम् ॥
तत्कृत्वा जिह्वाग्रेण सर्वतो घट्टनमग्रे च व्यधनमिति परिमृष्टकम् ।।
तत् कृत्वा जिह्वा^अग्रेण सर्वतो घट्टनम् अग्रे च व्यधनम् इति परिमृष्टकम् ॥
तथाभूतमेव रागवशादर्धप्रविष्टं निर्दयमवपीड्यावपीड्य मुञ्चेत् ।इति आम्रचूषितकम् ।।
तथाभूतम् एव रागवशाद् अर्ध-प्रविष्टं निर्दयम् अवपीड्याव् अपीड्य मुञ्चेत् । इति आम्र-चूषितकम् ॥
पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तेः ।इति संगरः ॥
पुरुष^अभिप्रायाद् एव गिरेत् पीडयेच् च^अपरिसमाप्तेः । इति संगरः ॥
यथार्थं चात्र स्तननप्रहणनयोः प्रयोगः ।इत्यौपरिष्टकम् ।।
यथा^अर्थं च^अत्र स्तनन-प्रहणनयोः प्रयोगः । इत्य् औपरिष्टकम् ॥
कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति ॥
कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश् च^अप्य् एतत् प्रयोजयन्ति ॥
तदेतत्तु न कार्यम् ।समयविरोधादसभ्यत्वाच्च ।पुनरपि ह्यासां वदनसंसर्गे स्वयमेवार्तिं प्रपद्येत ।इत्याचार्याः ॥
तद् एतत् तु न कार्यम् । समय-विरोधाद् असभ्यत्वाच् च । पुनर् अपि ह्य् आसां वदन-संसर्गे स्वयम् एव^आर्तिं प्रपद्येत । इत्य् आचार्याः ॥
वेश्याकामिनो ऽयमदोषः ।अन्यतो ऽपि परिहार्यः स्यात् ।इति वात्स्यायनः ॥
वेश्या-कामिनो +अयम् अदोषः । अन्यतो +अपि परिहार्यः स्यात् । इति वात्स्यायनः ॥
तस्माद्यास्त्वौपरिष्टकमाचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः ॥
तस्माद् यास् त्व् औपरिष्टकम् आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः ॥
वेश्याभिरेव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति ॥
वेश्याभिर् एव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुख-कर्म तासां परिहरन्ति ॥
निरपेक्षाः साकेताः संसृज्यन्ते ॥
निरपेक्षाः साकेताः संसृज्यन्ते ॥
न तु स्वयमौपरिष्टकमाचरन्ति नागरकाः ॥
न तु स्वयम् औपरिष्टकम् आचरन्ति नागरकाः ॥
सर्वमविशङ्कया प्रयोजयन्ति सौरसेनाः ॥
सर्वम् अविशङ्कया प्रयोजयन्ति सौरसेनाः ॥
एवं ह्याहुः ---को हि योषितां शीलं शौचमाचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुमर्हति ।निसर्गादेव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः ।तस्मादासां स्मृतित एव शौचमन्वेष्टव्यम् ।एवं ह्याहुः ---
एवं ह्य् आहुः --- को हि योषितां शीलं शौचम् आचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुम् अर्हति । निसर्गाद् एव हि मलिन-दृष्टयो भवन्त्य् एता न परित्याज्याः । तस्माद् आसां स्मृतित एव शौचम् अन्वेष्टव्यम् । एवं ह्य् आहुः ---
वत्सः प्रस्रवणे मेध्यः श्वा मृग^ग्रहणे शुचिः ।
शकुनिः फल^पाते तु स्त्री^मुखं रति^संगमे ॥
शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरात्मनश्च वृत्तिप्रत्ययानुरूपं प्रवर्तेत ।इति वात्स्यायनः ॥
शिष्ट-विप्रतिपत्तेः स्मृति-वाक्यस्य च सावकाशत्वाद् देशस्थितेर् आत्मनश् च वृत्ति-प्रत्यय^अनुरूपं प्रवर्तेत । इति वात्स्यायनः ॥
भवन्ति च^अत्र श्लोकाः ---
प्रमृष्टकुण्डलाश्चापि युवानः परिचारकाः ।
प्रमृष्ट-कुण्डलाश् च^अपि युवानः परिचारकाः ।
केषां चिदेव कुर्वन्ति नराणामौपरिष्टकम् ।।
केषां चिद् एव कुर्वन्ति नराणाम् औपरिष्टकम् ॥
तथा नागरकाः के चिदन्योन्यस्य हितैषिणः ।
तथा नागरकाः के चिद् अन्योन्यस्य हित^एषिणः ।
कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम् ।।
कुर्वन्ति रूढ-विश्वासाः परस्पर-परिग्रहम् ॥
पुरुषाश्च तथा स्त्रीषु कर्मैतत्किल कुर्वते ।
पुरुषाश् च तथा स्त्रीषु कर्म^एतत् किल कुर्वते ।
व्यासस्तस्य च विज्ञेयो मुखचुम्बनवद्विधिः ॥
व्यासस् तस्य च विज्ञेयो मुख-चुम्बनवद् विधिः ॥
परिवर्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम् ।
परिवर्तित-देहौ तु स्त्री-पुंसौ यत् परस्परम् ।
युगपत्संप्रयुज्येते स कामः काकिलः स्मृतः ॥
युगपत्-संप्रयुज्येते स कामः काकिलः स्मृतः ॥
तस्माद्गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो नरान् ।
तस्माद् गुणवतस् त्यक्त्वा चतुरांस् त्यागिनो नरान् ।
वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥
वेश्याः खलेषु रज्यन्ते दास-हस्ति-पक^आदिषु ॥
न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः ॥
न त्व् एतद् ब्राह्मणो विद्वान् मन्त्री वा राज-धूर्-धरः ॥
गृहीतप्रत्ययो वापि कारयेदौपरिष्टकम् ।।
गृहीत-प्रत्ययो वा^अपि कारयेद् औपरिष्टकम् ॥
न शास्त्रमस्तीत्येतावत्प्रयोगे कारणं भवेत् ।
न शास्त्रम् अस्ति^इत्य् एतावत् प्रयोगे कारणं भवेत् ।
शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ।।
शास्त्र^अर्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एक-देशिकान् ॥
रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके ।
रस-वीर्य-विपाका हि श्व-मांसस्य^अपि वैद्यके ।
कीर्तिता इति तत्किं स्याद्भक्षणीयं विचक्षणैः ॥
कीर्तिता इति तत् किं स्याद् भक्षणीयं विचक्षणैः ॥
सन्त्येव पुरुषाः के चित्सन्ति देशास्तथाविधाः ।
सन्त्य् एव पुरुषाः के चित् सन्ति देशास् तथा-विधाः ।
सन्ति कालाश्च येष्वेते योगा न स्युर्निरर्थकाः ॥
सन्ति कालाश् च येष्व् एते योगा न स्युर् निरर्थकाः ॥
तस्माद्देशं च कालं च प्रयोगं शास्त्रमेव च ।
तस्माद् देशं च कालं च प्रयोगं शास्त्रम् एव च ।
आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा ॥
आत्मानं च^अपि संप्रेक्ष्य योगान् युञ्जीत वा न वा ॥
अर्थस्यास्य रहस्यत्वाच्चलत्वान्मनसस्तथा ।
अर्थस्य^अस्य रहस्यत्वाच् चलत्वान् मनसस् तथा ।
कः कदा किं कुतः कुर्यादिति को ज्ञातुमर्हति ॥
कः कदा किं कुतः कुर्याद् इति को ज्ञातुम् अर्हति ॥
2.10_(15)
रत^अरम्भ^अवसानिकं रत^विशेषाः प्रणयकलहश् च
नागरकः सह मित्रजनेन परिचारकैश्च कृतपुष्पोपहारे संचारितसुरभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्या पीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत् ।
नागरकः सह मित्रजनेन परिचारकैश् च कृत-पुष्प^उपहारे संचारित-सुरभि-धूपे रत्य्-आवासे प्रसाधिते वास-गृहे कृत-स्नान-प्रसाधनां युक्त्या पीतां स्त्रियं सान्त्वनैः पुनः पानेन च^उपक्रमेत् ।
दक्षिणतश्चास्या उपवेशनम् ।केशहस्ते वस्त्रान्ते नीव्यामित्यवलम्बनम् ।रत्यर्थं सव्येन बाहुनानुद्धतः परिष्वङ्गः ।
दक्षिणतश् च^अस्या उपवेशनम् । केश-हस्ते वस्त्र^अन्ते नीव्याम् इत्य् अवलम्बनम् । रत्यर्थं सव्येन बाहुना^अनुद्धतः परिष्वङ्गः ।
पूर्वप्रकरणसंबद्धैः परिहासानुरागैर्वचोभिरनुवृत्तिः ।
पूर्व-प्रकरण-संबद्धैः परिहास^अनुरागैर् वचोभिर् अनुवृत्तिः ।
गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम् ।
गूढ^अश्लीलानां च वस्तूनां समस्यया परिभाषणम् ।
सनृत्तमनृत्तं वा गीतं वादित्रम् ।कलासु संकथाः ।पुनः पानेनोपच्छन्दनम् ।
सनृत्तम् अनृत्तं वा गीतं वादित्रम् । कलासु संकथाः । पुनः पानेन^उपच्छन्दनम् ।
जातानुरागायां कुसुमानुलेपनताम्बूल (१७७)दानेन च शेषजनविसृष्टिः ।विजने च यथोक्तैरालिङ्गनादिभिरेनामुद्धर्षयेत् ।ततो नीवीविश्लेषणादि यथोक्तमुपक्रमेत ।इत्ययं रतारम्भः ॥
जात^अनुरागायां कुसुम^अनुलेपन-ताम्बूल-(१७७) दानेन च शेष-जन-विसृष्टिः । विजने च यथा^उक्तैर् आलिङ्गन^आदिभिर् एनाम् उद्धर्षयेत् । ततो नीवी-विश्लेषण^आदि यथा^उक्तम् उपक्रमेत । इत्य् अयं रत^आरम्भः ॥
रतावसानिकं रागमतिवाह्यासंस्तुतयोरिव सव्रीडयोः परस्परमपश्यतोः पृथक्पृथगाचारभूमिगमनम् ।प्रतिनिवृत्त्य चाव्रीडायमानयोरुचितदेशोपविष्टयोस्ताम्बूलग्रहणमच्छीकृतं चन्दनमन्यद्वानुलेपनं तस्या गात्रे स्वयमेव निवेशयेत् ।
रत^अवसानिकं रागम् अतिवाह्य^असंस्तुतयोर् इव सव्रीडयोः परस्परम् अपश्यतोः पृथक् पृथग् आचार-भूमि-गमनम् । प्रतिनिवृत्त्य च^आव्रीडायमानयोर् उचित-देश^उपविष्टयोस् ताम्बूल-ग्रहणम् अच्छीकृतं चन्दनम् अन्यद् वा^अनुलेपनं तस्या गात्रे स्वयम् एव निवेशयेत् ।
सव्येन बाहुना चैनां परिरभ्य चषकहस्तः सान्त्वयन्पाययेत् ।जलानुपानं वा खण्डखाद्यकमन्यद्वा प्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम् ।
सव्येन बाहुना च^एनां परिरभ्य चषक-हस्तः सान्त्वयन् पाययेत् । जल^अनुपानं वा खण्ड-खाद्यकम् अन्यद् वा प्रकृति-सात्म्य-युक्तम् उभाव् अप्य् उपयुञ्जीयाताम् ।
अच्छरसकयूषमम्लयवागूं भृष्टमांसोपदंशानि पानकानि चूतफलानि शुष्कमांसं मातुलुङ्गचुक्रकाणि सशर्कराणि च यथादेशसात्म्यं च ।तत्र मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तदुपाहरेत् ।
अच्छ-रसक-यूषम् अम्लयवागूं भृष्ट-मांस^उपदंशानि पानकानि चूत-फलानि शुष्क-मांसं मातुलुङ्ग-चुक्रकाणि सशर्कराणि च यथा-देश-सात्म्यं च । तत्र मधुरम् इदं मृदु विशदम् इति च विदश्य विदश्य तत् तद् उपाहरेत् ।
हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थमासनम् ।तत्रानुकूलाभिः कथाभिरनुवर्तेत ।तदङ्कसंलीनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्तीकरणम् ।अरुन्धतीध्रुवसप्तर्षिमालादर्शनं च ।इति रतावसानिकम् ।।
हर्म्य-तल-स्थितयोर् वा चन्द्रिका-सेवन^अर्थम् आसनम् । तत्र^अनुकूलाभिः कथाभिर् अनुवर्तेत । तद्-अङ्क-संलीनायाश् चन्द्रमसं पश्यन्त्या नक्षत्र-पङ्क्ति-व्यक्ती-करणम् । अरुन्धती-ध्रुव-सप्तर्षि-माला-दर्शनं च । इति रत^अवसानिकम् ॥
अवसाने ऽपि च प्रीतिरुपचारैरुपस्कृता ।
अवसाने +अपि च प्रीतिर् उपचारैर् उपस्कृता ।
सविस्रम्भकथायोगै रतिं जनयते पराम् ।।
सविस्रम्भ-कथा-योगै रतिं जनयते पराम् ॥
परस्परप्रीतिकरैरात्मभावानुवर्तनैः ।
परस्पर-प्रीति-करैर् आत्म-भाव^अनुवर्तनैः ।
क्षणात्क्रोधपरावृत्तैः क्षणात्प्रीतिविलोकितैः ॥
क्षणात् क्रोध-परावृत्तैः क्षणात् प्रीति-विलोकितैः ॥
हल्लीसकक्रीडनकैर्गायनैर्लाटरासकैः ।
हल्लीसक-क्रीडनकैर् गायनैर् लाटरासकैः ।
रागलोलार्द्रनयनैश्चन्द्रमण्डलवीक्षणैः ॥
राग-लोल^आर्द्र-नयनैश् चन्द्र-मण्डल-वीक्षणैः ॥
आद्ये संदर्शने जाते पूर्वं ये स्युर्मनोरथाः ।
आद्ये संदर्शने जाते पूर्वं ये स्युर् मनोरथाः ।
पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः ॥
पुनर्-वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः ॥
कीर्तनान्ते च रागेण परिष्वङ्गैः सचुम्बनैः ।
कीर्तन^अन्ते च रागेण परिष्वङ्गैः सचुम्बनैः ।
तैस्तैश्च भावैः संयुक्तो यूनो रागो विवर्धते ॥
तैस् तैश् च भावैः संयुक्तो यूनो रागो विवर्धते ॥
रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरतमयन्त्रितरतमिति रतविशेषाः ॥
रागवद् आहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरतम् अयन्त्रितरतम् इति रतविशेषाः ॥
संदर्शनात्प्रभृत्युभयोरपि प्रवृद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्रागवत् ।।
संदर्शनात् प्रभृत्य् उभयोर् अपि प्रवृद्ध-रागयोः प्रयत्न-कृते समागमे प्रवास-प्रत्यागमने वा कलह-वियोग-योगे तद्-रागवत् ॥
तत्रात्माभिप्रायाद्यावदर्थं च प्रवृत्तिः ॥
तत्र^आत्म^अभिप्रायाद् यावद् अर्थं च प्रवृत्तिः ॥
मध्यस्थरागयोरारब्धं यदनुरज्यते तदाहार्यरागम् ।।
मध्यस्थ-रागयोर् आरब्धं यद् अनुरज्यते तद् आहार्यरागम् ॥
तत्र चातुःषष्टिकैर्योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत ।
तत्र चातुःषष्टिकैर् योगैः सात्म्य^अनुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत ।
तत्कार्यहेतोरन्यत्र सक्तयोर्वा कृत्रिमरागम् ।।
तत्-कार्य-हेतोर् अन्यत्र सक्तयोर् वा कृत्रिमरागम् ॥
तत्र समुच्चयेन योगाञ्शास्त्रतः पश्येत् ।।
तत्र समुच्चयेन योगाञ् शास्त्रतः पश्येत् ॥
पुरुषस्तु हृदयप्रियामन्यां मनसि निधाय व्यवहरेत् ।संप्रयोगात्प्रभृति रतिं यावत् ।अतस्तद्व्यवहितरागम् ।।
पुरुषस् तु हृदय-प्रियाम् अन्यां मनसि निधाय व्यवहरेत् । संप्रयोगात् प्रभृति रतिं यावत् । अतस् तद्-व्यवहितरागम् ॥
न्यूनायां कुम्भदास्यां परिचारिकायां वा यावदर्थं संप्रयोगस्तत्पोटारतम् ।।
न्यूनायां कुम्भ-दास्यां परिचारिकायां वा यावद् अर्थं संप्रयोगस् तत्-पोटारतम् ॥
तत्रोपचारान्नाद्रियेत ॥
तत्र^उपचारान् न^आद्रियेत ॥
तथा वेश्याया ग्रामीणेन सह यावदर्थं खलरतम् ।।
तथा वेश्याया ग्रामीणेन सह यावद् अर्थं खलरतम् ॥
ग्रामव्रजप्रत्यन्तयोषिद्भिश्च नागरकस्य ॥
ग्राम-व्रज-प्रत्यन्त-योषिद्भिश् च नागरकस्य ॥
उत्पन्नविस्रम्भयोश्च परस्परानुकूल्यादयन्त्रितरतम् ।इति रतानि ॥
उत्पन्न-विस्रम्भयोश् च परस्पर^अनुकूल्याद् अयन्त्रितरतम् । इति रतानि ॥
वर्धमानप्रणया तु नायिका सपत्नीनामग्रहणं तदाश्रयमालापं वा गोत्रस्खलितं वा न मर्षयेत् ।नायकव्यलीकं च ॥
वर्धमान-प्रणया तु नायिका सपत्नीनाम् अग्रहणं तद्-आश्रयम् आलापं वा गोत्र-स्खलितं वा न मर्षयेत् । नायक-व्यलीकं च ॥
तत्र सुभृशः कलहो रुदितमायासः शिरोरुहाणामवक्षोदनं प्रहणनमासनाच्छयनाद्वा मह्यां पतनं माल्यभूषणावमोक्षो भूमौ शय्या च ॥
तत्र सुभृशः कलहो रुदितम् आयासः शिरो-रुहाणाम् अवक्षोदनं प्रहणनम् आसनाच् छयनाद् वा मह्यां पतनं माल्य-भूषण^अवमोक्षो भूमौ शय्या च ॥
तत्र युक्तरूपेण साम्ना पादपतनेन वा प्रसन्नमनास्तामनुनयन्नुपक्रम्य शयनमारोहयेत् ।।
तत्र युक्त-रूपेण साम्ना पाद-पतनेन वा प्रसन्न-मनास् ताम् अनुनयन्न् उपक्रम्य शयनम् आरोहयेत् ॥
तस्य च वचनमुत्तरेण योजयन्ती विवृद्धक्रोधा सकचग्रहमस्यास्यमुन्नमय्य पादेन बाहौ शिरोसि वक्षसि पृष्ठे वा सकृद्द्विस्त्रिरवहन्यात् ।द्वारदेशं गच्छेत् ।तत्रोपविश्याश्रुकरणमिति ।
तस्य च वचनम् उत्तरेण योजयन्ती विवृद्ध-क्रोधा सकच-ग्रहम् अस्य^आस्यम् उन्नमय्य पादेन बाहौ शिरोसि वक्षसि पृष्ठे वा सकृद् द्विस् त्रिर् अवहन्यात् । द्वार-देशं गच्छेत् । तत्र^उपविश्य^अश्रुकरणम् इति ।
अतिक्रुद्धापि तु न द्वारदेशाद्भूयो गच्छेत् ।दोषवत्त्वात् ।इति दत्तकः ।तत्र युक्तितो ऽनुनीयमाना प्रसादमाकाङ्क्षेत् ।प्रसन्नापि तु सकषायैरेव वाक्यैरेनं तुदतीव प्रसन्नरतिकाङ्क्षिणी नायकेन परिरभ्येत ॥
अतिक्रुद्धा^अपि तु न द्वार-देशाद् भूयो गच्छेत् । दोषवत्त्वात् । इति दत्तकः । तत्र युक्तितो +अनुनीयमाना प्रसादम् आकाङ्क्षेत् । प्रसन्ना^अपि तु सकषायैर् एव वाक्यैर् एनं तुदती^इव प्रसन्न-रति-काङ्क्षिणी नायकेन परिरभ्येत ॥
स्वभवनस्था तु निमित्तात्कलहिता तथाविधचेष्टैव नायकमभिगच्छेत् ।
स्वभवनस्था तु निमित्तात् कलहिता तथा-विध-चेष्टा^एव नायकम् अभिगच्छेत् ।
तत्र पीठमर्दविटविदूषकैर्नायकप्रयुक्तैरुपशमितरोषा तैरेवानुनीता तैः सहैव तद्भवनमधिगच्छेत् ।तत्र च वसेत् ।इति प्रणयकलहः ॥
तत्र पीठमर्द-विट-विदूषकैर् नायक-प्रयुक्तैर् उपशमित-रोषा तैर् एव^अनुनीता तैः सह^एव तद्-भवनम् अधिगच्छेत् । तत्र च वसेत् । इति प्रणयकलहः ॥
भवन्ति च^अत्र श्लोकाः ---
एवमेतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम् ।
एवम् एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम् ।
प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः ॥
प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः ॥
ब्रुवन्नप्यन्यशास्त्राणि चतुःषष्टिविवर्जितः ।
ब्रुवन्न् अप्य् अन्यशास्त्राणि चतुःषष्टि-विवर्जितः ।
विद्वत्संसदि नात्यर्थं कथासु परिपूज्यते ॥
विद्वत्-संसदि न^अत्यर्थं कथासु परिपूज्यते ॥
वर्जितो ऽप्यन्यविज्ञानैरेतया यस्त्वलंकृतः ।
वर्जितो +अप्य् अन्य-विज्ञानैर् एतया यस् त्व् अलंकृतः ।
स गोष्ठ्यां नरनारीणां कथास्वग्रं विगाहते ॥
स गोष्ठ्यां नर-नारीणां कथास्व् अग्रं विगाहते ॥
विद्वद्भिः पूजितामेनां खलैरपि सुपूजिताम् ।
विद्वद्भिः पूजिताम् एनां खलैर् अपि सुपूजिताम् ।
पूजितां गणिकासंघैर्नन्दिनीं को न पूजयेत् ।।
पूजितां गणिकासंघैर् नन्दिनीं को न पूजयेत् ॥
नन्दिनी सुभगा सिद्धा सुभगंकरणीति च ।
नन्दिनी सुभगा सिद्धा सुभगंकरणी^इति च ।
नारीप्रियेति चाचार्यैः शास्त्रेष्वेषा निरुच्यते ॥
नारीप्रिया^इति च^आचार्यैः शास्त्रेष्व् एषा निरुच्यते ॥
कन्याभिः परयोषिद्भिर्गणिकाभिश्च भावतः ।
कन्याभिः पर-योषिद्भिर् गणिकाभिश् च भावतः ।
वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः ॥
वीक्ष्यते बहु-मानेन चतुःषष्टि-विचक्षणः ॥

No comments:

Post a Comment