ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

12 July 2011

kaamasutra _1

!!-कामसूत्र-!!
शास्त्रसंग्रहःप्रथमम्अधिकरणम्
1.1_(1)

धर्मार्थकामेभ्यो नमः ॥
धर्म^अर्थ-कामेभ्यो नमः ॥
शास्त्रे प्रकृतत्वात् ।।
शास्त्रे प्रकृतत्वात् ॥
तत्समयावबोधकेभ्यश्चाचार्येभ्यः ॥
तत्-समय^अवबोधकेभ्यश् च^आचार्येभ्यः ॥
तत्संबन्धात् ।।
तत्-संबन्धात् ॥
प्रजापतिर्हि प्रजाः सृष्ट्वा ताषां स्थितिनिबन्धनं त्रिवर्गस्य साधनमध्यायानां शतसहस्रेणाग्रे प्रोवाच ॥
प्रजापतिर् हि प्रजाः सृष्ट्वा ताषां स्थिति-निबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेण^अग्रे प्रोवाच ॥
तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक्चकार ॥
तस्य^एकदेशिकं मनुः स्वायंभुवो धर्म^अधिकारिकं पृथक् चकार ॥
बृहस्पतिरर्थाधिकारिकम् ।।
बृहस्पतिर् अर्थ^अधिकारिकम् ॥
महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ॥
महादेव^अनुचरश् च नन्दी सहस्रेण^अध्यायानां पृथक् कामसूत्रं प्रोवाच ॥
तदेव तु पञ्चभिरध्यायशतैरौद्दालकिः श्वेतकेतुः संचिक्षेप ॥
तद् एव तु पञ्चभिर् अध्यायशतैर् औद्दालकिः श्वेतकेतुः संचिक्षेप ॥
तदेव तु पुनरध्यर्धेनाध्यायशतेन साधारणसांप्रयोगिककन्यासंप्रयुक्तकभार्याधिकारिकपारदारिकवैशिकौपनिषदिकः सप्तभिरधिकरणैर्बाभ्रव्यः पाञ्चालः संचिक्षेप ॥
तद् एव तु पुनर् अध्यर्धेन^अध्यायशतेन साधारण-सांप्रयोगिक-कन्या-संप्रयुक्तक-भार्या^अधिकारिक-पारदारिक-वैशिक^औपनिषदिकः सप्तभिर् अधिकरणैर् बाभ्रव्यः पाञ्चालः संचिक्षेप ॥
तस्य षष्ठं वैशिकमधिकरणं पाटलिपुत्रिकाणां गणिकानां नियोगाद्दत्तकः पृथक्चकार ॥
तस्य षष्ठं वैशिकम् अधिकरणं पाटलिपुत्रिकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार ॥
तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं पृथक्प्रोवाच ।सुवर्णनाभः सांप्रयोगिकम् ।घोटकमुखः कन्यासंप्रयुक्तकम् ।गोनर्दीयो भार्याधिकारिकम् ।गोणिकापुत्रः पारदारिकम् ।कुचुमार औपनिषदिकमिति ।
तत्-प्रसङ्गाच् चारायणः साधारणम् अधिकरणं पृथक् प्रोवाच । सुवर्णनाभः सांप्रयोगिकम् । घोटकमुखः कन्या-संप्रयुक्तकम् । गोनर्दीयो भार्या^अधिकारिकम् । गोणिकापुत्रः पारदारिकम् । कुचुमार औपनिषदिकम् इति ।
एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतमुत्सन्नकल्पमभूत् ।
एवं बहुभिर् आचार्यैस् तच्छास्त्रं खण्डशः प्रणीतम् उत्सन्नकल्पम् अभूत् ।
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानामेकदेशत्वात् ,महदिति च बाभ्रवीयस्य दुरध्येयत्वात् ,संक्षिप्य सर्वमर्थमल्पेन ग्रन्थेन कामसूत्रमिदं प्रणीतम् ।।
तत्र दत्तक^आदिभिः प्रणीतानां शास्त्र^अवयवानाम् एकदेशत्वात्, महद् इति च बाभ्रवीयस्य दुरध्येयत्वात्, संक्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम् ॥
तस्यायं प्रकरणाधिकरणसमुद्देशः ---
तस्य^अयं प्रकरण^अधिकरण-समुद्देशः ---
शास्त्रसंग्रहः ।त्रिवर्गप्रतिपत्तिः ।विद्यासमुद्देशः ।नागरिकवृत्तम् ।नायकसहायदूतीकर्मविमर्शः ।इति साधारणं प्रथममधिकरणम् ।अध्यायाः पञ्च ।प्रकरणानि पञ्च ।
शास्त्र-संग्रहः । त्रिवर्ग-प्रतिपत्तिः । विद्या-समुद्देशः । नागरिक-वृत्तम् । नायक-सहाय-दूतीकर्म-विमर्शः । इति साधारणं प्रथमम् अधिकरणम् । अध्यायाः पञ्च । प्रकरणानि पञ्च ।
प्रमाणकालभावेभ्यो रतावस्थापनम् ।प्रीतिविशेषाः ।आलिङ्गनविचाराः ।चुम्बनविकल्पाः ।नखरदनजातयः ।दशनच्छेद्यविधयः ।देश्या उपचाराः ।संवेशनप्रकाराः ।चित्ररतानि ।प्रहणनयोगाः ।तद्युक्ताश्च सीत्कृतोपक्रमाः ।पुरुषायितम् ।पुरुषोपसृप्तानि ।औपरिष्टकम् ।रतारम्भावसानिकम् ।रतविशेषाः ।प्रणयकलहः ।इति सांप्रयोगिकं द्वितीयमधिकरणम् ।अध्याया दश ।प्रकरणानि सप्तदश ।
प्रमाण-काल-भावेभ्यो रत^अवस्थापनम् । प्रीति-विशेषाः । आलिङ्गन-विचाराः । चुम्बन-विकल्पाः । नख-रदन-जातयः । दशन-च्छेद्य-विधयः । देश्या उपचाराः । संवेशन-प्रकाराः । चित्र-रतानि । प्रहणन-योगाः । तद्युक्ताश् च सीत्कृत^उपक्रमाः । पुरुषायितम् । पुरुषोपसृप्तानि । औपरिष्टकम् । रतारम्भावसानिकम् । रतविशेषाः । प्रणयकलहः । इति सांप्रयोगिकं द्वितीयम् अधिकरणम् । अध्याया दश । प्रकरणानि सप्तदश ।
वरणविधानम् ।संबन्धनिर्णयः ।कन्याविस्रम्भणम् ।*बालाया [Ch: बालायाः ] उपक्रमाः ।इङ्गिताकारसूचनम् ।एकपुरुषाभियोगः ।प्रयोज्यस्योपावर्तनम् ।अभियोगतश्च कन्यायाः प्रतिपत्तिः ।विवाहयोगः ।इति कन्यासंप्रयुक्तकं तृतीयमधिकरणम् ।अध्यायाः पञ्च ।प्रकरणानि नव ।
वरण-विधानम् । संबन्ध-निर्णयः । कन्या-विस्रम्भणम् । *बालाया[Ch: बालायाः] उपक्रमाः । इङ्गित^आकार-सूचनम् । एक-पुरुष^अभियोगः । प्रयोज्यस्य^उपावर्तनम् । अभियोगतश् च कन्यायाः प्रतिपत्तिः । विवाह-योगः । इति कन्या-संप्रयुक्तकं तृतीयम् अधिकरणम् । अध्यायाः पञ्च । प्रकरणानि नव ।
एकचारिणीवृत्तम् ।प्रवासचर्या ।सपत्नीषु ज्येष्ठावृत्तम् ।कनिष्ठावृत्तम् ।पुनर्भूवृत्तम् ।दुर्भगावृत्तम् ।*आन्तःपुरिकम् [Ch: अन्तःपुरिकम् ] बह्वीषु प्रतिपत्तिः ।इति भार्याधिकारिकं चतुर्थमधिकरणम् ।अध्यायौ द्वौ ।प्रकरणान्यष्टौ ।
एक-चारिणी-वृत्तम् । प्रवास-चर्या । सपत्नीषु ज्येष्ठा-वृत्तम् । कनिष्ठा-वृत्तम् । पुनर्भू-वृत्तम् । दुर्भगा-वृत्तम् । *आन्तःपुरिकम्[Ch: अन्तःपुरिकम्] बह्वीषु प्रतिपत्तिः । इति भार्या^अधिकारिकं चतुर्थम् अधिकरणम् । अध्यायौ द्वौ । प्रकरणान्य् अष्टौ ।
स्त्रीपुरुषशीलावस्थापनम् ।व्यावर्तनकारणानि ।स्त्रीषु सिद्धाः पुरुषाः ।अयत्नसाध्या योषितः ।परिचयकारणानि ।अभियोगाः ।भावपरीक्षा ।दूतीकर्माणि ।ईश्वरकामितम् ।आन्तःपुरिकं दाररक्षितकम् ।इति पारदारिकं पञ्चममधिकरणम् ।अध्यायाः षट् ।प्रकरणानि दश ।
स्त्री-पुरुष-शील^अवस्थापनम् । व्यावर्तन-कारणानि । स्त्रीषु सिद्धाः पुरुषाः । अयत्न-साध्या योषितः । परिचय-कारणानि । अभियोगाः । भाव-परीक्षा । दूती-कर्माणि । ईश्वर-कामितम् । आन्तःपुरिकं दार-रक्षितकम् । इति पार-दारिकं पञ्चमम् अधिकरणम् । अध्यायाः षट् । प्रकरणानि दश ।
गम्यचिन्ता ।गमनकारणानि ।उपावर्तनविधिः ।कान्तानुवर्तनम् ।अर्थागमोपायाः ।विरक्तलिङ्गानि ।विरक्तप्रतिपत्तिः ।निष्कासनप्रकाराः ।विशीर्णप्रतिसंधानम् ।लाभविशेषः ।अर्थानर्थानुबन्धसंशयविचारः ।वेश्याविशेषाश्च ।इति वैशिकं षष्ठमधिकरणम् ।अध्यायाः षट् ।प्रकरणानि द्वादश ।
गम्य-चिन्ता । गमन-कारणानि । उपावर्तन-विधिः । कान्त^अनुवर्तनम् । अर्थ^आगम^उपायाः । विरक्त-लिङ्गानि । विरक्त-प्रतिपत्तिः । निष्कासन-प्रकाराः । विशीर्ण-प्रतिसंधानम् । लाभ-विशेषः । अर्थ^अनर्थ^अनुबन्ध-संशय-विचारः । वेश्या-विशेषाश् च । इति वैशिकं षष्ठम् अधिकरणम् । अध्यायाः षट् । प्रकरणानि द्वादश ।
सुभगंकरणम् ।वशीकरणम् ।वृष्याश्च योगाः ।नष्टरागप्रत्यानयनम् ।वृद्धिविधयः ।चित्राश्च योगाः ।इत्यौपनिषदिकं सप्तममधिकरणम् ।अध्यायौ द्वौ ।प्रकरणानि षट् ।
सुभगं-करणम् । वशीकरणम् । वृष्याश् च योगाः । नष्ट-राग-प्रत्यानयनम् । वृद्धि-विधयः । चित्राश् च योगाः । इत्य् औपनिषदिकं सप्तमम् अधिकरणम् । अध्यायौ द्वौ । प्रकरणानि षट् ।
एवं षट्त्रिंशदध्यायाः ।चतुःषष्टिः प्रकरणानि ।अधिकरणानि सप्त ।सपादं श्लोकसहस्रम् ।इति शास्त्रस्य संग्रहः ॥
एवं षट्त्रिंशद् अध्यायाः । चतुःषष्टिः प्रकरणानि । अधिकरणानि सप्त । सपादं श्लोकसहस्रम् । इति शास्त्रस्य संग्रहः ॥
संक्षेपमिममुक्त्वास्य विस्तरो ऽतः प्रवक्ष्यते ।
संक्षेपम् इमम् उक्त्वा^अस्य विस्तरो +अतः प्रवक्ष्यते ।
इष्टं हि विदुषां लोके समासव्यासभाषणम् ।।
इष्टं हि विदुषां लोके समास-व्यास-भाषणम् ॥
1.2_(2)
त्रिवर्गप्रतिपत्तिः
शतायुर्वै पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत ॥
शत^आयुर् वै पुरुषो विभज्य कालम् अन्योन्य^अनुबद्धं परस्परस्य^अनुपघातकं त्रिवर्गं सेवेत ॥
बाल्ये विद्याग्रहणादीनर्थान् ।।
बाल्ये विद्या-ग्रहण^आदीन् अर्थान् ॥
कामं च यौवने ॥
कामं च यौवने ॥
स्थाविरे धर्मं मोक्षं च ॥
स्थाविरे धर्मं मोक्षं च ॥
अनित्यत्वादायुषो यथोपपादं वा सेवेत ॥
अनित्यत्वाद् आयुषो यथा^उपपादं वा सेवेत ॥
ब्रह्मचर्यमेव त्वा विद्याग्रहणात् ।।
ब्रह्मचर्यम् एव त्व् आ विद्या-ग्रहणात् ॥
अलौकिकत्वाददृष्टार्थत्वादप्रवृत्तानां यज्ञादीनां शास्त्रात्प्रवर्तनम् ,*लौकिकत्वाद् [Ch: लौकित्वाद् ] दृष्टार्थत्वाच्च प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः ॥
अलौकिकत्वाद् अदृष्ट^अर्थत्वाद् अप्रवृत्तानां यज्ञा^आदीनां शास्त्रात् प्रवर्तनम्, *लौकिकत्वाद्[Ch: लौकित्वाद्] दृष्ट^अर्थत्वाच् च प्रवृत्तेभ्यश् च मांस-भक्षण^आदिभ्यः शास्त्राद् एव निवारणं धर्मः ॥
तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत ॥
तं श्रुतेर् धर्मज्ञ-समवायाच् च प्रतिपद्येत ॥
विद्याभूमिहिरण्यपशुधान्यभाण्डोपस्करमित्रादीनामर्जनमर्जितस्य विवर्धनमर्थः ॥
विद्या-भूमि-हिरण्य-पशु-धान्य-भाण्ड^उपस्कर-मित्र^आदीनाम् अर्जनम् अर्जितस्य विवर्धनम् अर्थः ॥
तमध्यक्षप्रचाराद्वार्तासमयविद्भ्यो वणिग्भ्यश्चेति ॥
तम् अध्यक्ष-प्रचाराद् वार्ता-समयविद्भ्यो वणिग्भ्यश् च^इति ॥
स्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः ॥
स्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानाम् आत्म-संयुक्तेन मनसा^अधिष्ठितानां स्वेषु स्वेषु विषयेष्व् आनुकूल्यतः प्रवृत्तिः कामः ॥
स्पर्शविशेषविषयात्त्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात्कामः ॥
स्पर्श-विशेष-विषयात् त्व् अस्य^अभिमानिक-सुख^अनुविद्धा फलवत्य् अर्थ-प्रतीतिः प्राधान्यात् कामः ॥
तं कामसूत्रान्नागरिकजनसमवायाच्च प्रतिपद्येत ॥
तं कामसूत्रान् नागरिक-जन-समवायाच् च प्रतिपद्येत ॥
एषां समवाये पूर्वः पूर्वो गरीयान् ।।
एषां समवाये पूर्वः पूर्वो गरीयान् ॥
अर्थश्च राज्ञः ।तन्मूलत्वाल्लोकयात्रायाः ।वेश्यायाश्चेति त्रिवर्गप्रतिपत्तिः ॥
अर्थश् च राज्ञः । तन्-मूलत्वाल् लोकयात्रायाः । वेश्यायाश् च^इति त्रिवर्ग-प्रतिपत्तिः ॥
धर्मस्यालौकिकत्वात्तदभिधायकं शास्त्रं युक्तम् ।उपायपूर्वकत्वादर्थसिद्धेः ।उपायप्रतिपत्तिः शास्त्रात् ।।
धर्मस्य^अलौकिकत्वात् तदभिधायकं शास्त्रं युक्तम् । उपाय-पूर्वकत्वाद् अर्थ-सिद्धेः । उपाय-प्रतिपत्तिः शास्त्रात् ॥
तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यमस्तीत्याचार्याः ॥
तिर्यग्-योनिष्व् अपि तु स्वयं प्रवृत्तत्वात् कामस्य नित्यत्वाच् च न शास्त्रेण कृत्यम् अस्ति^इत्य् आचार्याः ॥
संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते ॥
संप्रयोग-पराधीनत्वात् स्त्रीपुंसयोर् उपायम् अपेक्षते ॥
सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः ॥
सा च^उपाय-प्रतिपत्तिः कामसूत्राद् इति वात्स्यायनः ॥
त्रियग्योनिषु पुनरनावृतत्वात्स्त्रीजातेश्च ,ऋतौ यावदर्थं प्रवृत्तेरबुद्धिपूर्वकत्वाच्च प्रवृत्तीनामनुपायः प्रत्ययः ॥
त्रियग्-योनिषु पुनर् अनावृतत्वात् स्त्रीजातेश् च, ऋतौ यावद् अर्थं प्रवृत्तेर् अबुद्धि-पूर्वकत्वाच् च प्रवृत्तीनाम् अनुपायः प्रत्ययः ॥
न धर्मांश्चरेत् ।एष्यत्फलत्वात् ,सांशयिकत्वाच्च ॥
न धर्मांश् चरेत् । एष्यत्-फलत्वात्, सांशयिकत्वाच् च ॥
को ह्यबालिशो हस्तगतं परगतं कुर्यात् ।।
को ह्य् अबालिशो हस्तगतं परगतं कुर्यात् ॥
वरमद्य कपोतः श्वो मयूरात् ।।
वरम् अद्य कपोतः श्वो मयूरात् ॥
वरं सांशयिकान्निष्कादसांशयिकः कार्षापणः ।इति *लौकायतिकाः [Ch: लौकायातिकाः ] ॥
वरं सांशयिकान् निष्काद् असांशयिकः कार्षापणः । इति *लौकायतिकाः[Ch: लौकायातिकाः] ॥
शास्त्रस्यानभिशङ्क्यत्वादभिचारानुव्याहारयोश्च क्वचित्फलदर्शनान्नक्षत्रचन्द्रसूर्यताराग्रहचक्रस्य लोकार्थं बुद्धिपूर्वकमिव प्रवृत्तेर्दर्शनाद्वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्यार्थे त्यागदर्शनाच्चरेद्धर्मानिति वात्स्यायनः ॥
शास्त्रस्य^अनभिशङ्क्यत्वाद् अभिचार^अनुव्याहारयोश् च क्वचित् फल-दर्शनान् नक्षत्र-चन्द्र-सूर्य-तारा-ग्रह-चक्रस्य लोक^अर्थं बुद्धि-पूर्वकम् इव प्रवृत्तेर् दर्शनाद् वर्ण^आश्रम^आचार-स्थिति-लक्षणत्वाच् च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्य^अर्थे त्यागदर्शनाच् चरेद् धर्मान् इति वात्स्यायनः ॥
नार्थांश्चरेत् ।प्रयत्नतो ऽपि ह्येते ऽनुष्ठीयमाना नैव कदाचित्स्युः ।।अननुष्ठीयमाना अपि यदृच्छया भवेयुः ॥
न^अर्थांश् चरेत् । प्रयत्नतो +अपि ह्य् एते +अनुष्ठीयमाना न^एव कदाचित् स्युः ॥ अननुष्ठीयमाना अपि यदृच्छया भवेयुः ॥
तत्सर्वं कालकारितमिति ॥
तत्-सर्वं कालकारितम् इति ॥
काल एव हि पुरुषानर्थानर्थयोर्जयपराजययोः सुखदुःखयोश्च स्थापयति ॥
काल एव हि पुरुषान् अर्थ^अनर्थयोर् जय-पराजययोः सुख-दुःखयोश् च स्थापयति ॥
कालेन बलिरिन्द्रः कृतः ।कालेन *व्यवरोपितः [Ch: व्यपरोपितः ] ।काल एव पुनरप्येनं कर्तेति कालकारणिकाः ॥
कालेन बलिर् इन्द्रः कृतः । कालेन *व्यवरोपितः[Ch: व्यपरोपितः] । काल एव पुनर् अप्य् एनं कर्ता^इति काल-कारणिकाः ॥
पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनामुपायः प्रत्ययः ॥
पुरुष-कार-पूर्वकत्वात् सर्व-प्रवृत्तीनाम् उपायः प्रत्ययः ॥
अवश्यं भाविनो ऽप्यर्थस्योपायपूर्वकत्वादेव ।न निष्कर्मणो भद्रमस्तीति वात्स्यायनः ॥
अवश्यं भाविनो +अप्य् अर्थस्य^उपाय-पूर्वकत्वाद् एव । न निष्कर्मणो भद्रम् अस्ति^इति वात्स्यायनः ॥
न कामांश्चरेत् ।धर्मार्थयोः प्रधानयोरेवमन्येषां च सतां प्रत्यनीकत्वात् ।अनर्थजनसंसर्गमसद्व्यवसायमशौचमनायतिं चैते पुरुषस्य जनयन्ति ॥
न कामांश् चरेत् । धर्म^अर्थयोः प्रधानयोर् एवम् अन्येषां च सतां प्रत्यनीकत्वात् । अनर्थ-जन-संसर्गम् असद्-व्यवसायम् अशौचम् अनायतिं च^एते पुरुषस्य जनयन्ति ॥
तथा प्रमादं लाघवमप्रत्ययमग्राह्यतां च ।
तथा प्रमादं लाघवम् अप्रत्ययम् अग्राह्यतां च ।
बहवश्च कामवशगाः सगणा एव विनष्टाः श्रूयन्ते ॥
बहवश् च कामवशगाः सगणा एव विनष्टाः श्रूयन्ते ॥
यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश ॥
यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण-कन्याम् अभिमन्यमानः सबन्धु-राष्ट्रो विननाश ॥
देवराजश्चाहल्यामतिबलश्च कीचको द्रौपदीं रावणश्च सीतामपरे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचिन्तकाः ॥
देवराजश् च^अहल्याम् अतिबलश् च कीचको द्रौपदीं रावणश् च सीताम् अपरे च^अन्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्य् अर्थ-चिन्तकाः ॥
शरीरस्थितिहेतुत्वादाहारसधर्माणो हि कामाः ।फलभूताश्च धर्मार्थयोः ॥
शरीर-स्थिति-हेतुत्वाद् आहार-सधर्माणो हि कामाः । फल-भूताश् च धर्म^अर्थयोः ॥
बोद्धव्यं तु दोषेष्विव ।न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते ।न हि मृगाः सन्तीति यवा नोपयन्त इति वात्स्यायनः ॥
बोद्धव्यं तु दोषेष्व् इव । न हि भिक्षुकाः सन्ति^इति स्थाल्यो न^अधिश्रीयन्ते । न हि मृगाः सन्ति^इति यवा न^उपयन्त इति वात्स्यायनः ॥
भवन्ति च^अत्र श्लोकाः: ---
एवमर्थं च कामं च धर्मं चोपाचरन्नरः ।
एवम् अर्थं च कामं च धर्मं च^उपाचरन् नरः ।
इहामुत्र च निःशल्यमत्यन्तं सुखमश्नुते ॥
इह^अमुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते ॥
किं स्यात्परत्रेत्याशङ्का कार्ये यस्मिन्न जायते ।
किं स्यात् परत्र^इत्य् आशङ्का कार्ये यस्मिन् न जायते ।
न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः ॥
न च^अर्थघ्नं सुखं च^इति शिष्टास् तत्र व्यवस्थिताः ॥
त्रिवर्गसाधकं यत्स्याद्द्वयोरेकस्य वा पुनः ।
त्रिवर्ग-साधकं यत् स्याद् द्वयोर् एकस्य वा पुनः ।
कार्यं तदपि कुर्वीत न त्वेकार्थं द्विबाधकम् ।।
कार्यं तद् अपि कुर्वीत न त्व् एक^अर्थं द्वि-बाधकम् ॥
1.3_(3)
विद्यासमुद्देशः
धर्मार्थाङ्गविद्याकालाननुपरोधयन्कामसूत्रं तदङ्गविद्याश्च पुरुषो ऽधीयीत ॥
धर्म^अर्थ^अङ्गविद्या-कालान् अनुपरोधयन् कामसूत्रं तद्-अङ्गविद्याश् च पुरुषो +अधीयीत ॥
प्राग्यौवनात्स्त्री ।प्रत्ता च पत्युरभिप्रायात् ।
प्राग्-यौवनात् स्त्री । प्रत्ता च पत्युर् अभिप्रायात् ।
योषितां शास्त्रग्रहणस्याभावादनर्थकमिह शास्त्रे स्त्रीशासनमित्याचार्याः ॥
योषितां शास्त्र-ग्रहणस्य^अभावाद् अनर्थकम् इह शास्त्रे स्त्री-शासनम् इत्य् आचार्याः ॥
प्रयोगग्रहणं त्वासाम् ।प्रयोगस्य च शास्त्रपूर्वकत्वादिति वात्स्यायनः ॥
प्रयोग-ग्रहणं त्व् आसाम् । प्रयोगस्य च शास्त्र-पूर्वकत्वाद् इति वात्स्यायनः ॥
तन्न केवलमिहैव ।सर्वत्र हि लोके कति चिदेव शास्त्रज्ञाः ।सर्वजनविषयश्च प्रयोगः ॥
तन् न केवलम् इह^एव । सर्वत्र हि लोके कति चिद् एव शास्त्रज्ञाः । सर्वजन-विषयश् च प्रयोगः ॥
प्रयोगस्य च दूरस्थमपि शास्त्रमेव हेतुः ॥
प्रयोगस्य च दूरस्थम् अपि शास्त्रम् एव हेतुः ॥
अस्ति व्याकरणमित्यवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते ॥
अस्ति व्याकरणम् इत्य् अवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते ॥
अस्ति ज्यौतिषमिति पुण्याहेषु कर्म कुर्वते ॥
अस्ति ज्यौतिषम् इति पुण्य^अहेषु कर्म कुर्वते ॥
तथाश्वारोहा गजारोहाश्चाश्वान्गजांश्चानधिगतशास्त्रा अपि विनयन्ते ॥
तथा^अश्व^आरोहा गज^आरोहाश् च^अश्वान् गजांश् च^अनधिगत-शास्त्रा अपि विनयन्ते ॥
तथास्ति राजेति दूरस्था अपि जनपदा न मर्यादामतिवर्तन्ते तद्वदेतत् ।।
तथा^अस्ति राजा^इति दूरस्था अपि जनपदा न मर्यादाम् अतिवर्तन्ते तद्वद् एतत् ॥
सन्त्यपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुत्र्यो महामात्रदुहितरश्च ॥
सन्त्य् अपि खलु शास्त्र-प्रहत-बुद्धयो गणिका राजपुत्र्यो महामात्र-दुहितरश् च ॥
तस्माद्वैश्वासिकाज्जनाद्रहसि प्रयोगाञ्छास्त्रमेकदेशं वा स्त्री गृह्णीयात् ।।
तस्माद् वैश्वासिकाज् जनाद् रहसि प्रयोगाञ् छास्त्रम् एकदेशं वा स्त्री गृह्णीयात् ॥
अभ्यासप्रयोज्यांश्च चातुःषष्टिकान्योगान्कन्या रहस्येकाकिन्यभ्यसेत् ।।
अभ्यास-प्रयोज्यांश् च चातुःषष्टिकान् योगान् कन्या रहस्य् एकाकिन्य् अभ्यसेत् ॥
आचार्यास्तु कन्यानां प्रवृत्तपुरुषसंप्रयोगा सहसंप्रवृद्धा धात्रेयिका ।तथाभूता वा निरत्ययसंभाषणा सखी ।सवयाश्च मातृष्वसा ।विस्रब्धा तत्स्थानीया वृद्धदासी ।पूर्वसंसृष्टा वा भिक्षुकी ।स्वसा च विश्वासप्रयोगात् ।।
आचार्यास् तु कन्यानां प्रवृत्त-पुरुष-संप्रयोगा सह-संप्रवृद्धा धात्रेयिका । तथा-भूता वा निरत्यय-संभाषणा सखी । सवयाश् च मातृष्वसा । विस्रब्धा तत्-स्थानीया वृद्ध-दासी । पूर्व-संसृष्टा वा भिक्षुकी । स्वसा च विश्वास-प्रयोगात् ॥
ऐन्द्रजालाः ,कौचुमाराश्च योगाः ,हस्तलाघवं ,विचित्रशाकयूषभक्ष्यविकारक्रिया ,पानकरसरागासवयोजनं ,सूचीवानकर्माणि ,सूत्रक्रीडा ,वीणाडमरुकवाद्यानि ,प्रहेलिका ,प्रतिमाला ,दुर्वाचकयोगाः ,पुस्तकवाचनं ,नाटकाख्यायिकादर्शनं ,काव्यसमस्यापूरणं ,पट्टिका *वेत्रवान [Ch: वान .वेत्र ] विकल्पाः ,तक्षकर्माणि ,तक्षणं ,वास्तुविद्या ,रूप्य *रत्न [Ch omits] परीक्षा ,धातुवादः ,मणिरागाकरज्ञानं ,वृक्षायुर्वेदयोगाः ,मेषकुक्कुटलावकयुद्धविधिः ,शुकसारिकाप्रलापनम् ,उत्सादने संवाहने केशमर्दने च कौशल्यं [Ch: कौशलं ] ,अक्षरमुष्टिकाकथनं ,म्लेच्छितविकल्पाः ,देशभाषाविज्ञानं ,पुष्पशकटिका ,निमित्तज्ञानं ,यन्त्रमातृका ,धारणमातृका ,संपाथ्यं ,मानसी ,काव्यक्रिया ,अभिधान *कोषः [Ch: काषः ] ,छन्दोज्ञानं ,क्रियाकल्पः ,छलितकयोगाः ,वस्त्रगोपनानि ,*द्यूतिविशेषाः [Ch: द्यूतविशेषः ] वैजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम् ,इति चतुःषष्टिरङ्गविद्याः कामसूत्रस्यावयविन्यः ॥
ऐन्द्रजालाः, कौचुमाराश् च योगाः, हस्त-लाघवं, विचित्र-शाक-यूष-भक्ष्य-विकार-क्रिया, पानक-रस-राग^आसव-योजनं, सूचीवान-कर्माणि, सूत्र-क्रीडा, वीणा-डमरुक-वाद्यानि, प्रहेलिका, प्रतिमाला, दुर्वाचकयोगाः, पुस्तक-वाचनं, नाटक^आख्यायिका-दर्शनं, काव्य-समस्या-पूरणं, पट्टिका-*वेत्र-वान[छ्:वान.वेत्र]-विकल्पाः, तक्ष-कर्माणि, तक्षणं, वास्तु-विद्या, रूप्य-*रत्न[ch omits] -परीक्षा, धातु-वादः, मणि-राग^आकर-ज्ञानं, वृक्षायुर्वेद-योगाः, मेष-कुक्कुट-लावक-युद्ध-विधिः, शुक-सारिका-प्रलापनम्, उत्सादने संवाहने केश-मर्दने च कौशल्यं[छ्:कौशलं], अक्षर-मुष्टिका-कथनं, म्लेच्छित-विकल्पाः, देश-भाषा-विज्ञानं, पुष्प-शकटिका, निमित्त-ज्ञानं, यन्त्र-मातृका, धारण-मातृका, संपाथ्यं, मानसी, काव्य-क्रिया, अभिधान-*कोषः[छ्:काषः], छन्दो-ज्ञानं, क्रिया-कल्पः, छलितक-योगाः, वस्त्र-गोपनानि, *द्यूति-विशेषाः [Ch.: द्यूत-विशेषः ], वैजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम्, इति चतुःषष्टिर् अङ्गविद्याः कामसूत्रस्य^अवयविन्यः ॥
पाञ्चालिकी च चतुःषष्टिरपरा ।तस्याः प्रयोगानन्ववेत्य सांप्रयोगिके वक्ष्यामः ।कामस्य तदात्मकत्वात् ।।
पाञ्चालिकी च चतुःषष्टिर् अपरा । तस्याः प्रयोगान् अन्ववेत्य सांप्रयोगिके वक्ष्यामः । कामस्य तद्-आत्मकत्वात् ॥
आभिरभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता ।
आभिर् अभ्युच्छ्रिता वेश्या शील-रूप-गुण^अन्विता ।
लभते गणिकाशब्दं स्थानं च जनसंसदि ॥
लभते गणिका-शब्दं स्थानं च जनसंसदि ॥
पूजिता सा सदा राज्ञा गुणवद्भिश्च संस्तुता ।
पूजिता सा सदा राज्ञा गुणवद्भिश् च संस्तुता ।
प्रार्थनीयाभिगम्या च लक्ष्यभूता च जायते ॥
प्रार्थनीया^अभिगम्या च लक्ष्य-भूता च जायते ॥
योगज्ञा राजपुत्री च महामात्रसुता तथा ।
योगज्ञा राजपुत्री च महामात्र-सुता तथा ।
सहस्र *अन्तःपुनर् [Ch: अन्तःपुरम् ] अपि स्ववशे कुरुते पतिम् ।।
सहस्र-*अन्तःपुनर्[Ch: अन्तःपुरम्] अपि स्ववशे कुरुते पतिम् ॥
तथा पतिवियोगे च व्यसनं दारुणं गता ।
तथा पतिवियोगे च व्यसनं दारुणं गता ।
देशान्तरे ऽपि विद्याभिः सा सुखेनैव जीवति ॥
देश^अन्तरे +अपि विद्याभिः सा सुखेन^एव जीवति ॥
नरः कलासु कुशलो वाचालश्चाटुकारकः ।
नरः कलासु कुशलो वाचालश् चाटुकारकः ।
असंस्तुतो ऽपि नारीणां चित्तमाश्वेव विन्दति ॥
असंस्तुतो +अपि नारीणां चित्तम् आश्व् एव विन्दति ॥
कलानां ग्रहनादेव सौभाग्यमुपजायते ।
कलानां ग्रहनाद् एव सौभाग्यम् उपजायते ।
देशकालौ त्वपेक्ष्यासां प्रयोगः संभवेन्न वा ॥
देश-कालौ त्व् अपेक्ष्य^आसां प्रयोगः संभवेन् न वा ॥
1.4_(4)
नागरकवृत्तम्
गृहीतविद्यः प्रतिग्रहजयक्रयनिर्वेशाधिगतैरर्थैरन्वयागतैरुभयैर्वा गार्हस्थ्यमधिगम्य नागरकवृत्तं वर्तेत ॥
गृहीतविद्यः प्रतिग्रह-जय-क्रय-निर्वेश^अधिगतैर् अर्थैर् अन्वय^आगतैर् उभयैर् वा गार्हस्थ्यम् अधिगम्य नागरक-वृत्तं वर्तेत ॥
नगरे पत्तने खर्वटे महति वा सज्जनाश्रये स्थानम् ।यात्रावशाद्वा ॥
नगरे पत्तने खर्वटे महति वा सज्जन^आश्रये स्थानम् । यात्रा-वशाद् वा ॥
तत्र भवनमासन्नोदकं वृक्षवाटिकावद्विभक्तकर्मकक्षं द्विवासगृहं कारयेत् ।।
तत्र भवनम् आसन्न^उदकं वृक्ष-वाटिकावद् विभक्त-कर्म-कक्षं द्वि-वास-गृहं कारयेत् ॥
बाह्ये च वासगृहे सुश्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात् ।प्रतिशय्यिका च ।तस्य शिरोभागे कूर्चस्थानम् ,वेदिका च ।तत्र रात्रिशेषमनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः ।भूमौ पतद्ग्रहः ।नागदन्तावसक्ता वीणा ।चित्रफलकम् ।वर्तिकासमुद्गकः ।यः कश्चित्पुस्तकः ।कुरण्टकमालाश्च ।नातिदूरे भूमौ वृत्तास्तरणं समस्तकम् ।आकर्षफलकं द्यूतफलकं च ।तस्य बहिः क्रीडाशकुनिपञ्जराणि ।एकान्ते च तक्षतक्षणस्थानमन्यासां च क्रीडानाम् ।स्वास्तीर्णा प्रेङ्खादोला वृक्षवाटिकायां सप्रच्छाया ।स्थण्डिलपीठिका च सकुसुमेति भवनविन्यासः ॥
बाह्ये च वास-गृहे सुश्लक्ष्णम् उभय^उपधानं मध्ये विनतं शुक्ल^उत्तर-च्छदं शयनीयं स्यात् । प्रतिशय्यिका च । तस्य शिरो-भागे कूर्च-स्थानम्, वेदिका च । तत्र रात्रि-शेषम् अनुलेपनं माल्यं सिक्थ-करण्डकं सौगन्धिक-पुटिका मातुलुङ्ग-त्वचस् ताम्बूलानि च स्युः । भूमौ पतद्-ग्रहः । नाग-दन्त^अवसक्ता वीणा ।चित्रफलकम् । वर्तिकासमुद्गकः । यः कश्चित् पुस्तकः । कुरण्टकमालाश् च । नातिदूरे भूमौ वृत्त^आस्तरणं समस्तकम् । आकर्ष-फलकं द्यूत-फलकं च । तस्य बहिः क्रीडा-शकुनि-पञ्जराणि । एकान्ते च तक्ष-तक्षण-स्थानम् अन्यासां च क्रीडानाम् । स्वास्तीर्णा प्रेङ्खादोला वृक्षवाटिकायां सप्रच्छाया । स्थण्डिल-पीठिका च सकुसुमेति भवन-विन्यासः ॥
स प्रातरुत्थाय कृतनियतकृत्यः ,गृहीतदन्तधावनः ,मात्रयानुलेपनं धूपं स्रजमिति च गृहीत्वा ,दत्त्वा सिक्थकमलक्तकं च ,दृष्ट्वादर्शे मुखम् ,गृहीतमुखवासताम्बूलः ,कार्याण्यनुतिष्ठेत् ।।
स प्रातर् उत्थाय कृत-नियत-कृत्यः, गृहीत-दन्त-धावनः, मात्रया^अनुलेपनं धूपं स्रजम् इति च गृहीत्वा, दत्त्वा सिक्थकम् अलक्तकं च, दृष्ट्वा^आदर्शे मुखम्, गृहीत-मुख-वास-ताम्बूलः, कार्याण्य् अनुतिष्ठेत् ॥
नित्यं स्नानम् ।द्वितीयकमुत्सादनम् ।तृतीयकः फेनकः ।चतुर्थकमायुष्यम् ।पञ्चमकं दशमकं वा प्रत्यायुष्यमित्यहीनम् ।सातत्याच्च संवृतकक्षास्वेदापनोदः ।
नित्यं स्नानम् । द्वितीयकम् उत्सादनम् । तृतीयकः फेनकः । चतुर्थकम् आयुष्यम् । पञ्चमकं दशमकं वा प्रत्यायुष्यम् इत्य् अहीनम् । सातत्याच् च संवृत-कक्षा-स्वेद^अपनोदः ।
पूर्वाह्णापराह्णयोर्भोजनम् ।सायं चारायणस्य ।
पूर्वाह्ण^अपराह्णयोर् भोजनम् । सायं चारायणस्य ।
भोजनानन्तरं शुकसारिकाप्रलापनव्यापाराः ।लावक *कुक्कट [Ch: कुक्कुट ] मेषयुद्धानि ।तास्ताश्च कलाक्रीडाः ।पीठमर्दविटविदूषकायत्ता व्यापाराः ।दिवाशय्या च ।
भोजन^अनन्तरं शुक-सारिका-प्रलापन-व्यापाराः । लावक-*कुक्कट[Ch: कुक्कुट] -मेष-युद्धानि । तास् ताश् च कला-क्रीडाः । पीठमर्द-विट-विदूषक^आयत्ता व्यापाराः । दिवा-शय्या च ।
गृहीतप्रसाधनस्यापराह्णे गोष्ठीविहाराः ।
गृहीत-प्रसाधनस्य^अपराह्णे गोष्ठी-विहाराः ।
प्रदोषे च संगीतकानि ।तदन्ते च प्रसाधिते वासगृहे संचारितसुरभिधूपे ससहायस्य शय्यायामभिसारिकाणां प्रतीक्षणम् ,
प्रदोषे च संगीतकानि । तद् अन्ते च प्रसाधिते वास-गृहे संचारित-सुरभि-धूपे ससहायस्य शय्यायाम् अभिसारिकाणां प्रतीक्षणम्,
दूतीनां प्रेषणम् ,स्वयं वा गमनम् ।
दूतीनां प्रेषणम्, स्वयं वा गमनम् ।
आगतानां च मनोहरैरालापैरुपचारैश्च ससहायस्योपक्रमाः ।
आगतानां च मनोहरैर् आलापैर् उपचारैश् च ससहायस्य^उपक्रमाः ।
वर्षप्रमृष्टने पथ्यानां दुर्दिनाभिसारिकाणां स्वयमेव पुनर्मण्डनम् ,मित्रजनेन वा परिचरणमित्याहोरात्रिकम् ।।
वर्ष-प्रमृष्टने पथ्यानां दुर्दिना^अभिसारिकाणां स्वयम् एव पुनर् मण्डनम्, मित्र-जनेन वा परिचरणम् इत्य् आहोरात्रिकम् ॥
घटानिबन्धनम् ,गोष्ठीसमवायः ,समापानकम् ,उद्यानगमनम् ,समस्याः क्रीडाश्च प्रवर्तयेत् ।
घटा-निबन्धनम्, गोष्ठी-समवायः, समापानकम्, उद्यान-गमनम्, समस्याः क्रीडाश् च प्रवर्तयेत् ।
ऽहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः ।
+अहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः ।
कुशीलवाश्चागन्तवः प्रेक्षणकमेषां दद्युः ।द्वितीये ऽहनि तेभ्यः पूजा नियतं लभेरन् ।ततो यथाश्रद्धमेषां दर्शनमुत्सर्गो वा ।व्यसनोत्सवेषु चैषां परस्परस्यैककार्यता ।
कुशीलवाश् च^आगन्तवः प्रेक्षणकम् एषां दद्युः । द्वितीये +अहनि तेभ्यः पूजा नियतं लभेरन् । ततो यथाश्रद्धम् एषां दर्शनम् उत्सर्गो वा । व्यसन^उत्सवेषु च^एषां परस्परस्य^एककार्यता ।
आगन्तूनां च कृतसमवायानां पूजनमभ्युपपत्तिश्च ।इति गणधर्मः ।
आगन्तूनां च कृत-समवायानां पूजनम् अभ्युपपत्तिश् च । इति गण-धर्मः ।
एतेन तं तं देवताविशेषमुद्दिश्य संभावितस्थितयो घटा व्याख्याताः ॥
एतेन तं तं देवता-विशेषम् उद्दिश्य संभावित-स्थितयो घटा व्याख्याताः ॥
वेश्याभवने सभायामन्यतमस्य *उदवसिते [Ch: उद्वसिते ] वा समानविद्याबुद्धिशीलवित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्धो गोष्ठी ।
वेश्या-भवने सभायाम् अन्यतमस्य-*उदवसिते[Ch: उद्वसिते] वा समान-विद्या-बुद्धि-शील-वित्त-वयसां सह वेश्याभिर् अनुरूपैर् आलापैर् आसन-बन्धो गोष्ठी ।
तत्र चैषां काव्यसमस्या कलासमस्या वा ।
तत्र च^एषां काव्य-समस्या कलासमस्या वा ।
तस्यामुज्ज्वला लोककान्ताः पूज्याः ।प्रीतिसमानाश् *चाहारिताः [Ch: चाहारितः ] ॥
तस्याम् उज्ज्वला लोक-कान्ताः पूज्याः । प्रीतिसमानाश् *चाहारिताः[Ch: चाहारितः] ॥
परस्परभवनेषु चापानकानि ॥
परस्पर-भवनेषु च^आपानकानि ॥
वेश्याः पाययेयुरनुपिबेयुश्च ।
वेश्याः पाययेयुर् अनुपिबेयुश् च ।
एतेनोद्यानगमनं व्याख्यातम् ।।
एतेन^उद्यान-गमनं व्याख्यातम् ॥
पूर्वाह्ण एव स्वलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः ।दैवसिकीं च यात्रां तत्रानुभूय कुक्कुटयुद्धद्यूतैः प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीततदुद्यानोपभोगचिह्नास्तथैव प्रत्याव्रजेयुः ।
पूर्वाह्ण एव स्वलंकृतास् तुरग^अधिरूढा वेश्याभिः सह परिचारक^अनुगता गच्छेयुः । दैवसिकीं च यात्रां तत्र^अनुभूय कुक्कुट-युद्ध-द्यूतैः प्रेक्षाभिर् अनुकूलैश् च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीत-तद्-उद्यान^उपभोग-चिह्नास् तथा^एव प्रत्याव्रजेयुः ।
एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् ।।
एतेन रचित^उद्ग्राह^उदकानां ग्रीष्मे जल-क्रीडा-गमनं व्याख्यातम् ॥
यक्षरात्रिः ।कौमुदीजागरः ।सुवसन्तकः ॥
यक्ष-रात्रिः । कौमुदी-जागरः । सुवसन्तकः ॥
सहकारभञ्जिका ,अभ्यूषखादिका ,विसखादिका ,नवपत्रिका ,उदकक्ष्वेडिका ,पाञ्चालानुयानम् ,एकशाल्मली ,कदम्बयुद्धानि ,तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुः ।इति संभूय क्रीडाः ॥
सहकार-भञ्जिका, अभ्यूषखादिका, विसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चाल^अनुयानम्, एक-शाल्मली, कदम्बयुद्धानि, तास् ताश् च माहिमान्यो देश्याश् च क्रीडा जनेभ्यो विशिष्टम् आचरेयुः । इति संभूय क्रीडाः ॥
एकचारिणश्च विभवसामर्थ्याद्
एकचारिणश् च विभव-सामर्थ्याद्
गणिकाया नायिकायाश्च सखीभिर्नागरकैश्च सह चरितमेतेन व्याख्यातम् ।।
गणिकाया नायिकायाश् च सखीभिर् नागरकैश् च सह चरितम् एतेन व्याख्यातम् ॥
देशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेदात्मानमिति पीठमर्दः ॥
देशाद् आगतः कलासु विचक्षणस् तद्-उपदेशेन गोष्ठ्यां वेश^उचिते च वृत्ते साधयेद् आत्मानम् इति पीठ-मर्दः ॥
भुक्तविभवस्तु गुणवान्सकलत्रो वेशे गोष्ठ्यां च बहुमतस्तदुपजीवी च विटः ॥
भुक्त-विभवस् तु गुणवान् सकलत्रो वेशे गोष्ठ्यां च बहुमतस् तद् उपजीवी च विटः ॥
एकदेशविद्यस्तु क्रीडनको विश्वास्यश्च विदूषकः ।वैहासिको वा ।
एकदेश-विद्यस् तु क्रीडनको विश्वास्यश् च विदूषकः । वैहासिको वा ।
एते वेश्यानां नागरकाणां च मन्त्रिणः संधिविग्रहनियुक्ताः ॥
एते वेश्यानां नागरकाणां च मन्त्रिणः संधि-विग्रह-नियुक्ताः ॥
तैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश्च व्याख्याताः ॥
तैर् भिक्षुक्यः कला-विदग्धा मुण्डा वृषल्यो वृद्ध-गणिकाश् च व्याख्याताः ॥
ग्रामवासी च सजातान्विचक्षणान्कौतूहलिकान्प्रोत्साह्य नागरकजनस्य वृत्तं वर्णयञ्श्रद्धां च जनयंस्तदेवानुकुर्वीत ।गोष्ठीश्च प्रवर्तयेत् ।संगत्या जनमनुरञ्जयेत् ।कर्मसु च साहाय्येन चानुगृह्णीयात् ।उपकारयेच्च ।इति नागरकवृत्तम् ।।
ग्राम-वासी च सजातान् विचक्षणान् कौतूहलिकान् प्रोत्साह्य नागरकजनस्य वृत्तं वर्णयञ् श्रद्धां च जनयंस् तद् एव^अनुकुर्वीत । गोष्ठीश् च प्रवर्तयेत् । संगत्या जनम् अनुरञ्जयेत् । कर्मसु च साहाय्येन च^अनुगृह्णीयात् । उपकारयेच् च । इति नागरक-वृत्तम् ॥
नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ।
न^अत्यन्तं संस्कृतेन^एव न^अत्यन्तं देश-भाषया ।
कथां गोष्ठीषु कथयंल्लोके बहुमतो भवेत् ।।
कथां गोष्ठीषु कथयंल् लोके बहुमतो भवेत् ॥
या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी ।
या गोष्ठी लोक-विद्विष्टा या च स्वैर-विसर्पिणी ।
परहिंसात्मिका या च न तामवतरेद्बुधः ॥
परहिंसा^आत्मिका या च न ताम् अवतरेद् बुधः ॥
लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया ।
लोक-चित्त^अनुवर्तिन्या क्रीडा-मात्र^एककार्यया ।
गोष्ठ्या सहचरन्विद्वांल्लोके सिद्धिं नियच्छति ॥
गोष्ठ्या सहचरन् विद्वांल् लोके सिद्धिं नियच्छति ॥
1.5_(5)
नायकसहायदूतीकर्मविमर्शः
कामश्चतुर्षु वर्णेषु सवर्णतः शास्त्रतश्चानन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश्च भवति ॥
कामश् चतुर्षु वर्णेषु सवर्णतः शास्त्रतश् च^अनन्य-पूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश् च भवति ॥
तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च ।प्रतिषिद्धो ऽवरवर्णास्वनिरवसितासु ।वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः ।सुखार्थत्वात् ।।
तद्-विपरीत उत्तम-वर्णासु पर-परिगृहीतासु च । प्रतिषिद्धो +अवर-वर्णास्व् अनिरवसितासु । वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः । सुख^अर्थत्वात् ॥
तत्र नायिकास्तिस्रः कन्या पुनर्भूर्वेश्या च ।इति ॥
तत्र नायिकास् तिस्रः कन्या पुनर्भूर् वेश्या च । इति ॥
अन्यकारणवशात्परपरिगृहीतापि पाक्षिकी चतुर्थीति गोणिकापुत्रः ॥
अन्यकारण-वशात् परपरिगृहीतापि पाक्षिकी चतुर्थी^इति गोणिकापुत्रः ॥
स यदा मन्यते स्वैरिणीयम् ।।
स यदा मन्यते स्वैरिणीयम् ॥
अन्यतो ऽपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायामिव गमनमुत्तमवर्णिन्यामपि न धर्मपीडां करिष्यति ।पुनर्भूरियम् ।।
अन्यतो +अपि बहुशो व्यवसित-चारित्रा तस्यां वेश्यायाम् इव गमनम् उत्तम-वर्णिन्याम् अपि न धर्म-पीडां करिष्यति । पुनर्भूर् इयम् ॥
अन्यपूर्वावरुद्धा नात्र शङ्कास्ति ॥
अन्य-पूर्वा^अवरुद्धा न^अत्र शङ्का^अस्ति ॥
पतिं वा महान्तमीश्वरमस्मदमित्रसंसृष्टमियमवगृह्य प्रभुत्वेन चरति ।सा मया संसृष्टा स्नेहादेनं व्यावर्तयिष्यति ॥
पतिं वा महान्तम् ईश्वरम् अस्मद्-अमित्र-संसृष्टम् इयम् अवगृह्य प्रभुत्वेन चरति । सा मया संसृष्टा स्नेहाद् एनं व्यावर्तयिष्यति ॥
विरसं वा मयि शक्तमपकर्तुकामं च प्रकृतिमापादयिष्यति ॥
विरसं वा मयि शक्तम् अपकर्तुकामं च प्रकृतिम् आपादयिष्यति ॥
तया वा मित्रीकृतेन मित्रकार्यममित्रप्रतीघातमन्यद्वा दुष्प्रतिपादकं कार्यं साधयिष्यामि ॥
तया वा मित्री-कृतेन मित्र-कार्यम् अमित्र-प्रतीघातम् अन्यद् वा दुष्प्रतिपादकं कार्यं साधयिष्यामि ॥
संसृष्टो वानया हत्वास्याः पतिमस्मद्भाव्यं तदैश्वर्यमेवमधिगमिष्यामि ॥
संसृष्टो वा^अनया हत्वा^अस्याः पतिम् अस्मद्भाव्यं तद् ऐश्वर्यम् एवम् अधिगमिष्यामि ॥
निरत्ययं वास्या गमनमर्थानुबद्धम् ।अहं च निःसारत्वात्क्षीणवृत्त्युपायः ।सो ऽहमनेनोपायेन तद्धनमतिमहदकृच्छ्रादधिगमिष्यामि ।
निरत्ययं वा^अस्या गमनम् अर्थ^अनुबद्धम् । अहं च निःसारत्वात् क्षीण-वृत्त्य्-उपायः । सो +अहम् अनेन^उपायेन तद्धनम् अतिमहद् अकृच्छ्राद् अधिगमिष्यामि ।
मर्मज्ञा वा मयि दृधमभिकामा सा मामनिच्छन्तं दोषविख्यापानेन दूषयिष्यति ॥
मर्मज्ञा वा मयि दृधम् अभिकामा सा माम् अनिच्छन्तं दोष-विख्यापानेन दूषयिष्यति ॥
असद्भूतं वा दोषं श्रद्धेयं दुष्परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात् ।।
असद्-भूतं वा दोषं श्रद्धेयं दुष्परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात् ॥
आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति ॥
आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति ॥
स्वयं वा तैः सह संसृज्येत ।मदवरोधानां वा दूषयिता पतिरस्यास्तदस्याहमपि दारानेव दूषयन्प्रतिकरिष्यामि ॥
स्वयं वा तैः सह संसृज्येत । मदवरोधानां वा दूषयिता पतिर् अस्यास् तद् अस्याहम् अपि दारान् एव दूषयन् प्रतिकरिष्यामि ॥
राजनियोगाच्चान्तर्वर्तिनं शत्रुं वास्य निर्हनिष्यामि ॥
राजनियोगाच् च^अन्तर्वर्तिनं शत्रुं वास्य निर्हनिष्यामि ॥
यामन्यां कामयिष्ये सास्या वशगा ।तामनेन संक्रमेणाधिगमिष्यामि ।
यामन्यां कामयिष्ये सास्या वशगा । ताम् अनेन संक्रमेण^अधिगमिष्यामि ।
कन्यामलभ्यां वात्माधीनामर्थरूपवतीं मयि संक्रामयिष्यति ।
कन्याम् अलभ्यां वात्माधीनाम् अर्थरूपवतीं मयि संक्रामयिष्यति ।
ममामित्रो वास्याः पत्या सहैकीभावमुपगतस्तमनया रसेन योजयिष्यामीत्येवमादिभिः कारणैः परस्त्रियमपि प्रकुर्वीत ॥
मम^अमित्रो वास्याः पत्या सहैकीभावम् उपगतस् तम् अनया रसेन योजयिष्यामि^इत्य् एवम् आदिभिः कारणैः परस्त्रियम् अपि प्रकुर्वीत ॥
इति साहसिक्यं न केवलं रागादेव ।इति परपरिग्रहगमनकारणानि ।
इति साहसिक्यं न केवलं रागाद् एव । इति पर-परिग्रह-गमन-कारणानि ।
एतैरेव कारणैर्महामात्रसंबद्धा राजसंबद्धा वा तत्रैकदेशचारिणी का चिदन्या वा कार्यसंपादिनी विधवा पञ्चमीति चारायणः ।
एतैर् एव कारणैर् महामात्र-संबद्धा राज-संबद्धा वा तत्र^एक-देश-चारिणी का चिद् अन्या वा कार्य-संपादिनी विधवा पञ्चमी^इति चारायणः ।
सैव प्रव्रजिता षष्ठीति सुवर्णनाभः ।
सैव प्रव्रजिता षष्ठी^इति सुवर्णनाभः ।
गणिकाया दुहिता परिचारिका वानन्यपूर्वा सप्तमीति घोटकमुखः ।
गणिकाया दुहिता परिचारिका वानन्य-पूर्वा सप्तमी^इति घोटकमुखः ।
उत्क्रान्तबालभावा कुलयुवतिरुपचारान्यत्वादष्टमीति गोनर्दीयः ।
उत्क्रान्त-बाल-भावा कुलयुवतिर् उपचार^अन्यत्वाद् अष्टमी^इति गोनर्दीयः ।
कार्यान्तराभावादेतासामपि पूर्वास्वेवोपलक्षणम् ,तस्माच्चतस्र एव नायिका इति वात्स्यायनः ।
कार्य^अन्तर^अभावाद् एतासाम् अपि पूर्वास्व् एव^उपलक्षणम्, तस्माच् चतस्र एव नायिका इति वात्स्यायनः ।
भिन्नत्वात्तृतीया प्रकृतिः पञ्चमीत्येके ॥
भिन्नत्वात् तृतीया प्रकृतिः पञ्चमी^इत्य् एके ॥
एक एव तु सार्वलौकिको नायकः ।प्रच्छन्नस्तु द्वितीयः ।विशेषालाभात् ।उत्तमाधममध्यमतां तु गुणागुणतो विद्यात् ।तांस्तूभयोरपि गुणागुणान्वैशिके वक्ष्यामः ॥
एक एव तु सार्व-लौकिको नायकः । प्रच्छन्नस् तु द्वितीयः । विशेषा-लाभात् । उत्तम^अधम-मध्यमतां तु गुण^अगुणतो विद्यात् । तांस् तु^उभयोर् अपि गुण^अगुणान् वैशिके वक्ष्यामः ॥
अगम्यास्त्वेवैताः ---कुष्ठिन्युन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राययौवनातिश्वेतातिकृष्णा दुर्गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रियराजदाराश्च ॥
अगम्यास् त्व् एव^एताः ---कुष्ठिन्य् उन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राययौवना^अतिश्वेता^अतिकृष्णा दुर्गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धि-सखि-श्रोत्रिय-राजदाराश् च ॥
दृष्टपञ्चपुरुषा नागम्या का चिदस्तीति बाभ्रवीयाः ॥
दृष्ट-पञ्च-पुरुषा न^अगम्या का चिद् अस्ति^इति बाभ्रवीयाः ॥
संबन्धिसखिश्रोत्रियराजदारवर्जमिति गोणिकापुत्रः ॥
संबन्धि-सखि-श्रोत्रिय-राजदार-वर्जम् इति गोणिकापुत्रः ॥
सह पांसुक्रीडितमुपकारसंबद्धं समानशीलव्यसनं सहाध्यायिनं यश्चास्य मर्माणि रहस्यानि च विद्यात् ,यस्य चायं विद्याद्वा धात्रपत्यं सहसंवृद्धं मित्रम् ।।
सह पांसु-क्रीडितम् उपकार-संबद्धं समान-शील-व्यसनं सह^अध्यायिनं यश् च^अस्य मर्माणि रहस्यानि च विद्यात्, यस्य च^अयं विद्याद् वा धात्रपत्यं सहसंवृद्धं मित्रम् ॥
पितृपैतामहमविसंवादकमदृष्टवैकृतं वश्यं ध्रुवमलोभशीलमपरिहार्यममन्त्रविस्रावीति मित्रसंपत् ।।
पितृ-पैतामहम् अविसंवादकम् अदृष्ट-वैकृतं वश्यं ध्रुवम् अलोभ-शीलम् अपरिहार्यम् अमन्त्र-विस्रावि^इति मित्रसंपत् ॥
रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकसौवर्णिकपीठमर्दविटविदूषकादयो मित्राणि ।तद्योषिन्मित्राश्च नागरकाः स्युरिति वात्स्यायनः ॥
रजक-नापित-मालाकार-गान्धिक-सौरिक-भिक्षुक-गोपालक-ताम्बूलिक-सौवर्णिक-पीठमर्द-विट-विदूषकादयो मित्राणि । तद्-योषिन्-मित्राश् च नागरकाः स्युर् इति वात्स्यायनः ॥
यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायाः सुविस्रब्धं तत्र दूतकर्म ॥
यद् उभयोः साधारणम् उभयत्रोदारं विशेषतो नायिकायाः सुविस्रब्धं तत्र दूतकर्म ॥
पटुता धार्ष्ट्यमिङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया चेति दूतगुणाः ॥
पटुता धार्ष्ट्यम् इङ्गिताकारज्ञता प्रतारण-कालज्ञता विषह्य-बुद्धित्वं लघ्वी प्रतिपत्तिः स^उपाया च^इति दूतगुणाः ॥
भवति च^अत्र श्लोकः ---
आत्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित् ।
आत्मवान् मित्रवान् युक्तो भावज्ञो देश-कालवित् ।
 अलभ्यामप्ययत्नेन स्त्रियं संसाधयेन्नरः ॥
अलभ्याम् अप्य् अयत्नेन स्त्रियं संसाधयेन् नरः!!

No comments:

Post a Comment