ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

10 May 2011

छान्दोग्य उपनिषद् ( Chāndogya-Upaniṣad)

1.1
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओम् इत्य्+ एतद्+ अ-क्षरम् उद्गीथम् उपासीत ।
ओमिति ह्युद्गायति ।
ओम् इति ह्य्+ उद्गायति ।
तस्योपव्याख्यानम् ।।१०१.१।
तस्य+ उपव्याख्यानम् ॥१०१.१।
एषां भूतानां पृथिवी रसः ।
एषां+ भूतानां+ पृथिवी रसः ।
पृथिव्या आपो रसः ।
पृथिव्या+ आपो+ रसः ।
अपामोषधयो रसः ।
अपाम् ओषधयो+ रसः ।
ओषधीनां पुरुषो रसः ।
ओषधीनां+ पुरुषो+ रसः ।
पुरुषस्य वाग्रसः ।
पुरुषस्य वाग्+ रसः ।
वाच ऋग्रसः ।
वाच+ ऋग्+ रसः ।
ऋचः साम रसः ।
ऋचः साम रसः ।
साम्न उद्गीथो रसः ॥१०१.२।
साम्न+ उद्गीथो+ रसः ॥१०१.२।
स एष रसानां रसतमः परमः परार्ध्यो &ष्टमो यदुद्गीथः ॥१०१.३।
स एष+ रसानां+ रसतमः परमः पर-अर्ध्यो+ + अष्टमो+ यद्+ उद्गीथः ॥१०१.३।
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥१०१.४।
कतमा कतमा+ ऋक् कतमत् कतमत् साम कतमः कतम+ उद्गीथ+ इति विमृष्टं+ भवति ॥१०१.४।
वागेवर्क् ।
वाग्+ एव+ ऋक् ।
प्राणः साम ।
प्राणः साम ।
ओमित्येतदक्षरमुद्गीथः ।
ओम् इत्य्+ एतद्+ अ-क्षरम् उद्गीथः ।
तद्वाऐ एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥१०१.५।
तद्+ वाऐ+ एतन्+ मिथुनं+ यद्+ वाक् च प्राणश्+ च+ ऋक् च साम च ॥१०१.५।
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ।
तद्+ एतन्+ मिथुनम् ओम् इत्य्+ एतस्मिन्न्+ अ-क्षरे संसृज्यते ।
यदा वै मिथुनौ समागच्छत आपयतो वै तावन्यो ऽन्यस्य कामम् ।।१०१.६।
यदा वै मिथुनौ समागच्छत+ आपयतो+ वै ताव्+ अन्यो-अन्यस्य कामम् ॥१०१.६।
आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥१०१.७।
आपयिता ह वै कामानां+ भवति य+ एतद्+ एवं+ विद्वान् अ-क्षरम् उद्गीथम् उपास्ते ॥१०१.७।
तद्वा एतदनुज्ञाक्षरम् ।
तद्+ वा+ एतद्+ अनुज्ञा+ अ-क्षरम् ।
यद्धि किंचानुजानात्योमित्येव तदाह ।
यद्+ + धि किं-च+ अनुजानात्य्+ ओम् इत्य्+ एव तद्+ आह ।
एषो एव समृद्धिर्यदनुज्ञा ।
एषा+ उ एव समृद्धिर्+ यद्+ अनुज्ञा ।
समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥१०१.८।
समर्धयिता ह वै कामानां+ भवति य+ एतद्+ एवं+ विद्वान् अ-क्षरम् उद्गीथम् उपास्ते ॥१०१.८।
तेनेयं त्रयी विद्या वर्तते ।
तेन+ इयं+ त्रयी विद्या वर्तते ।
ओमित्याश्रावयति ।
ओम् इत्य्+ आश्रावयति ।
ओमिति शंसति ।
ओम् इति शंसति ।
ओमित्युद्गायति ।
ओम् इत्य्+ उद्गायति ।
एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन ॥१०१.९।
एतस्य+ एव अ-क्षरस्य+ अपचित्यै महिम्ना रसेन ॥१०१.९।
तेनोभौ कुरुतः {।}यश्चैतदेवं वेद यश्च न वेद ।
तेन+ उभौ कुरुतः {।} यश्+ च+ एतद्+ एवं+ वेद यश्+ च न वेद ।
नाना तु विद्या चाविद्या च ।
नाना तु विद्या च+ अ-विद्या च ।
यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥१०१.१०।
यद्+ एव विद्यया करोति श्रद्धया+ उपनिषदा तद्+ एव वीर्यवत्तरं+ भवति+ इति खल्व्+ एतस्य+ एव+ अ-क्षरस्य+ उपव्याख्यानं+ भवति ॥१०१.१०।
1.2
देवासुरा ह वै यत्र संयेतिरे {।}उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥१०२.१।
देव-असुरा+ ह वै यत्र संयेतिरे {।} उभये प्राजापत्यास् तद्+ + ध देवा+ उद्गीथम् आजह्रुर्+ अनेन+ एनान् अभिभविष्याम+ इति ॥१०२.१।
ते ह नासिक्यं प्राणमुद्गीथमुपासां चक्रिरे ।
ते ह नासिक्यं+ प्राणम् उद्गीथम् उपासां+ चक्रिरे ।
तं ह असुराः पाप्मना विविधुः ।
तं+ ह असुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।
तस्मात् तेन+ उभयं+ जिघ्रति सु-रभि च दुर्-गन्धि च ।
पाप्मना ह्येष विद्धः ॥१०२.२।
पाप्मना ह्य्+ एष+ विद्धः ॥१०२.२।
अथ ह वाचमुद्गीथमुपासां चक्रिरे ।
अथ ह वाचम् उद्गीथम् उपासां+ चक्रिरे ।
तां हासुराः पाप्मना विविधुः ।
तां+ ह+ असुराः पाप्मना विविधुः ।
तस्मात् (तयोभयं S तेनोभयं )वदति सत्यं चानृतं च ।
तस्मात् (तया+ उभयं+ S तेन+ उभयं+ ) वदति सत्यं+ च+ अन्-ऋतं+ च ।
पाप्मना ह्येषा विद्धा ॥१०२.३।
पाप्मना ह्य्+ एषा विद्धा ॥१०२.३।
अथ ह चक्षुरुद्गीथमुपासां चक्रिरे ।
अथ ह चक्षुर्+ उद्गीथम् उपासां+ चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तद्+ + ध+ असुराः पाप्मना विविधुः ।
तस्मात्तेन उभयं पश्यति दर्शनीयं चादर्शनीयं च ।
तस्मात् तेन+ उभयं+ पश्यति दर्शनीयं+ च+ अ-दर्शनीयं+ च ।
पाप्मना ह्येतद्विद्धम् ।।१०२.४।
पाप्मना ह्य्+ एतद्+ विद्धम् ॥१०२.४।
अथ ह श्रोत्रमुद्गीथमुपासां चक्रिरे ।
अथ ह श्रोत्रम् उद्गीथम् उपासां+ चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तद्+ + ध+ असुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च ।
तस्मात् तेन+ उभयं+ शृणोति श्रवणीयं+ च+ अ-श्रवणीयं+ च ।
पाप्मना ह्येतद्विद्धम् ।।१०२.५।
पाप्मना ह्य्+ एतद्+ विद्धम् ॥१०२.५।
अथ ह मन उद्गीथमुपासां चक्रिरे ।
अथ ह मन+ उद्गीथम् उपासां+ चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तद्+ + ध+ असुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं संकल्पयते संकल्पनीयं च ।
तस्मात् तेन+ उभयं+ संकल्पयते संकल्पनीयं+ च ।
पाप्मना ह्येतद्विद्धम् ।।१०२.६।
पाप्मना ह्य्+ एतद्+ विद्धम् ॥१०२.६।
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासां चक्रिरे ।
अथ ह य+ एव+ अयं+ मुख्यः प्राणस्+ तम् उद्गीथम् उपासां+ चक्रिरे ।
तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वंसेतैवम् ।।१०२.७।
तं+ ह+ असुरा+ ऋत्वा विदध्वंसुर्+ यथा+ अश्मानम् आखणम् ऋत्वा विध्वंसेत+ एवम् ॥१०२.७।
यथाश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश्चैनमभिदासति ।
यथा+ अश्मानम् आखणम् ऋत्वा विध्वंसतए+ एवं+ ह+ एव स+ विध्वंसते य+ एवं-विदि पापं+ कामयते यश्+ च+ एनम् अभिदासति ।
स एषो &श्माखणः ॥१०२.८।
स+ एषो+ + अश्मा+ आखणः ॥१०२.८।
नैवैतेन सुरभि न दुर्गन्धि विजानाति ।
न+ एव+ एतेन सु+ रभि न दुर्+ गन्धि विजानाति ।
अपहतपाप्मा ह्येषः ।
अपहत-पाप्मा ह्य्+ एषः ।
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति ।
तेन यद्+ अश्नाति यत् पिबति तेन+ इतरान् प्राणान् अवति ।
एतमु एवान्ततो (अवित्त्वोत्क्रामति S अवित्त्वोत्क्रामन्ति )।
एतम् उ एव+ अन्ततो+ (+ अ-वित्त्वा+ उत्क्रामति S + अ-वित्त्वा+ उत्क्रामन्ति ) ।
व्याददाति एवान्तत इति ॥१०२.९।
व्याददाति एव+ अन्तत+ इति ॥१०२.९।
तं हाङ्गिरा उद्गीथमुपासां चक्रे ।
तं+ ह+ अङ्गिरा+ उद्गीथम् उपासां+ चक्रे ।
एतमु एव अङ्गिरसं मन्यन्ते अङ्गानां यद्रसः ॥१०२.१०।
एतम् उ एव + अङ्गिरसं+ मन्यन्ते + अङ्गानां+ यद्+ रसः ॥१०२.१०।
तेन {S nimmt dieses "तेन " zum vorhergehenden Abschnitt.} तं ह बृहस्पतिरुद्गीथमुपासां चक्रे ।
तेन {S nimmt dieses "तेन" zum vorhergehenden Abschnitt.} तं+ ह बृहस्-पतिर्+ उद्गीथम् उपासां+ चक्रे ।
एतमु एव बृहस्पतिं मन्यन्ते ।
एतम् उ एव बृहस्पतिं+ मन्यन्ते ।
वाग्घि बृहती तस्या एषपतिः ॥१०२.११।
वाग्+ + घि बृहती तस्या+ एष+ पतिः ॥१०२.११।
तेन {S nimmt dieses "tena" zum vorhergehenden Abschnitt. }तं हायास्य उद्गीथमुपासां चक्रे ।
तेन {S nimmt dieses "tena" zum vorhergehenden Abschnitt. } तं+ ह+ अयास्य+ उद्गीथम् उपासां+ चक्रे ।
एतमु एवायास्यं मन्यन्ते ।
एतम् उ एव+ आयास्यं+ मन्यन्ते ।
आस्याद्यदयते ॥१०२.१२।
आस्याद्+ यद्+ अयते ॥१०२.१२।
तेन {S nimmt dieses "tena" zum vorhergehenden Abschnitt. }तं ह बको दाल्भ्यो विदां चकार ।
तेन {S nimmt dieses "tena" zum vorhergehenden Abschnitt. } तं+ ह बको+ दाल्भ्यो+ विदां+ चकार ।
स ह नैमिशीयानामुद्गाता बभूव ।
स+ ह नैमिशीयानाम् उद्गाता बभूव ।
स ह स्मैभ्यः कामानागायति ॥१०२.१३।
स+ ह स्म+ एभ्यः कामान् आगायति ॥१०२.१३।
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।
आगाता ह वै कामानां+ भवति य+ एतद्+ एवं+ विद्वान् अ-क्षरम् उद्गीथम् उपास्ते ।
इत्यध्यात्मम् ।।१०२.१४।
इत्य्+ अध्य्-आत्मम् ॥१०२.१४।
1.3
अथाधि (दैवम् S देवतम् )।
अथ+ अधि-(दैवम् S देवतम् ) ।
य एवासौ तपति तमुद्गीथमुपासीत ।
य एव+ असौ तपति तम् उद्गीथम् उपासीत ।
उद्यन्वाऐ एष प्रजाभ्य उद्गायति ।
उद्यन् वाऐ+ एष+ प्रजाभ्य+ उद्गायति ।
उद्यंस्तमो भयमपहन्ति ।
उद्यंस्+ तमो+ भयम् अपहन्ति ।
अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥१०३.१।
अपहन्ता ह वै भयस्य तमसो+ भवति य+ एवं+ वेद ॥१०३.१।
समान उ एवायं चासौ च ।
समान+ उ एव+ अयं+ च+ असौ च ।
उष्णो &यमुष्णो &सौ ।
उष्णो+ + अयम् उष्णो+ + असौ ।
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुम् ।
स्वर+ इति+ इमम् आचक्षते स्वर+ इति प्रत्यास्वर+ इत्य्+ अमुम् ।
तस्माद्वाऐ एतमिमममुं च उद्गीथमुपासीत ॥१०३.२।
तस्माद्+ वाऐ+ एतम् इमम् अमुं+ च उद्गीथम् उपासीत ॥१०३.२।
अथ खलु व्यानमेवोद्गीथमुपासीत ।
अथ खलु व्यानम् एव+ उद्गीथम् उपासीत ।
यद्वै प्राणिति स प्राणः ।
यद्+ वै प्राणिति स+ प्राणः ।
यदपानिति सो &पानः ।
यद्+ अपानिति सो+ + अपानः ।
अथ यः प्राणापानयोः संधिः स व्यानः ।
अथ यः प्राण-अपानयोः संधिः स+ व्यानः ।
यो व्यानः सा वाक् ।
यो+ व्यानः सा वाक् ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥१०३.३।
तस्माद्+ अ-प्राणन्न्+ अन्-अपानन् वाचम् अभिव्याहरति ॥१०३.३।
या वाक्सर्क् ।
या वाक् सा+ ऋक् ।
तस्मादप्राणन्ननपानन्नृचमभ्व्याहरति ।
तस्माद्+ अ-प्राणन्न्+ अन्-अपानन्न्+ ऋचम् अभ्व्याहरति ।
यर्क्तत्साम ।
या+ ऋक् तत् साम ।
तस्मादप्राणन्ननपानन्साम गायति ।
तस्माद्+ अ-प्राणन्न्+ अन्-अपानन् साम गायति ।
यत्साम स उद्गीथः ।
यत् साम स+ उद्गीथः ।
तस्मादप्रानन्ननपानन्नुद्गायति ॥१०३.४।
तस्माद्+ अ-प्रानन्न्+ अन्-अपानन्न्+ उद्गायति ॥१०३.४।
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ।
अतो+ यान्य्+ अन्यानि वीर्यवन्ति कर्माणि यथा+ अग्नेर्+ मन्थनम् आजेः सरणं+ दृढस्य धनुष+ आयमनम् अ-प्राणन्न्+ अन्-अपानंस्+ तानि करोति ।
एतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥१०३.५।
एतस्य हेतोर्+ व्यानम् एव+ उद्गीथम् उपासीत ॥१०३.५।
अथ खलूद्गीथाक्षराण्युपासीत उद् _गी थ इति ।
अथ खलु+ उद्गीथ-अ-क्षराण्य्+ उपासीत उद्_ गी थ इति ।
प्राण एवोत् ।
प्राण+ एव+ उत् ।
प्राणेन ह्युत्तिष्ठति ।
प्राणेन ह्य्+ उत्तिष्ठति ।
वग्गीः ।
वग्+ गीः ।
वाचो ह गिर इत्याचक्षते ।
वाचो+ ह गिर+ इत्य्+ आचक्षते ।
अन्नं थम् ।
अन्नं+ थम् ।
अन्ने हीदं सर्वं स्थितम् ।।१०३.६।
अन्ने हि+ इदं+ सर्वं+ स्थितम् ॥१०३.६।
द्यौरेवोत् ।
द्यौर्+ एव+ उत् ।
अन्तरिक्षं गीः ।
अन्तरिक्षं+ गीः ।
पृथिवी थम् ।
पृथिवी थम् ।
आदित्य एवोत् ।
आदित्य+ एव+ उत् ।
वायुर्गीः ।
वायुर्+ गीः ।
अग्निस्थम् ।
अग्निस्+ थम् ।
सामवेद एवोत् ।
साम-वेद+ एव+ उत् ।
यजुर्वेदो गीः ।
यजुर्-वेदो+ गीः ।
ऋग्वेदस्थम् ।
ऋग्-वेदस्+ थम् ।
दुग्धे अस्मै वाग्दोहं यो वाचो दोहः ।
दुग्धे + अस्मै वाग्+ दोहं+ यो+ वाचो+ दोहः ।
अन्नवानन्नादो भवति ।
अन्नवान् अन्न-अदो+ भवति ।
य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद् _गी थ इति ॥१०३.७।
य+ एतान्य्+ एवं+ विद्वान् उद्गीथ-अ-क्षराण्य्+ उपास्तए+ उद्_ गी थ इति ॥१०३.७।
अथ खल्वाशीः समृद्धिः ।
अथ खल्व्+ आशीः समृद्धिः ।
उपसरणानीत्युपासीत ।
उपसरणानि+ इत्य्+ उपासीत ।
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ।।१०३.८।
येन साम्ना स्तोष्यन् स्यात् तत् साम+ उपधावेत् ॥१०३.८।
यस्यामृचि तामृचं ,यदार्षेयं तमृषिं ,यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ।।१०३.९।
यस्याम् ऋचि ताम् ऋचं+ , यद्+ आर्षेयं+ तम् ऋषिं+ , यां+ देवताम् अभिष्टोष्यन् स्यात् तां+ देवताम् उपधावेत् ॥१०३.९।
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेत् ।
येन + च्छन्दसा स्तोष्यन् स्यात् तच्+ छन्द+ उपधावेत् ।
येन स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ।।१०३.१०।
येन स्तोमेन स्तोष्यमाणः स्यात् तं+ स्तोमम् उपधावेत् ॥१०३.१०।
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ।।१०३.११।
यां+ दिशम् अभिष्टोष्यन् स्यात् तां+ दिशम् उपधावेत् ॥१०३.११।
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तः ।
आत्मानम् अन्तत+ उपसृत्य स्तुवीत कामं+ ध्यायन्न्+ अ-प्रमत्तः ।
अभ्याशो ह यदस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥१०३.१२।
अभ्याशो+ ह यद्+ अस्मै स+ कामः स्मृध्येत यत्-कामः स्तुवीत+ इति यत्-कामः स्तुवीत+ इति ॥१०३.१२।
1.4
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओम् इत्य्+ एतद्+ अ-क्षरम् उद्गीथम् उपासीत ।
ओमिति ह्युद्गायति ।
ओम् इति ह्य्+ उद्गायति ।
तस्योपव्याख्यानम् ।।१०४.१।
तस्य+ उपव्याख्यानम् ॥१०४.१।
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ।
देवा+ वै मृत्योर्+ बिभ्यतस्+ त्रयीं+ विद्यां+ प्राविशन् ।
ते छन्दोभिरच्छादयन् ।
ते छन्दोभिर्+ अच्छादयन् ।
यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम् ।।१०४.२।
यद्+ एभिर्+ अच्छादयंस्+ तच्+ छन्दसां+ छन्दस्त्वम् ॥१०४.२।
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि ।
तान् उ तत्र मृत्युर्+ यथा मत्स्यम् उदके परिपश्येद्+ एवं+ पर्यपश्यद्+ ऋचि साम्नि यजुषि ।
ते नु (वित्त्वोर्ध्वा S विदित्वोर्ध्वा )ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ।।१०४.३।
ते नु (वित्त्वा+ उर्ध्वा+ S विदित्वा+ ऊर्ध्वा+ ) ऋचः साम्नो+ यजुषः स्वरम् एव प्राविशन् ॥१०४.३।
यदा वाऐ ऋचम् (आप्नोत्य् S समाप्नोति )ओमित्येवातिस्वरति एवं सामैवं यजुः ।
यदा वाऐ+ ऋचम् (आप्नोत्य्+ S समाप्नोति ) ओम् इत्य्+ एव+ अतिस्वरति एवं+ साम+ एवं+ यजुः ।
एष उ स्वरो यदेतदक्षरमेतदमृतमभयम् ।
एष+ उ स्वरो+ यद्+ एतद्+ अ-क्षरम् एतद्+ अ-मृतम् अ-भयम् ।
तत्प्रविश्य देवा अमृता अभवन् ।।१०४.४।
तत् प्रविश्य देवा+ अ-मृता+ अभवन् ॥१०४.४।
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं स्वरममृतमभयं प्रविशति ।
स+ य+ एतद्+ एवं+ विद्वान् अ-क्षरं+ प्रणौत्य्+ एतद्+ एव+ अ-क्षरं+ स्वरम् अ-मृतम् अ-भयं+ प्रविशति ।
तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥१०४.५।
तत् प्रविश्य यद्+ अ-मृता देवास्+ तद्+ अ-मृतो+ भवति ॥१०४.५।
1.5
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
अथ खलु य+ उद्गीथः स+ प्रणवो+ यः प्रणवः स+ उद्गीथ+ इति ।
असौ वाऐ आदित्य उद्गीथ एष प्रणवः ।
असौ वाऐ+ आदित्य+ उद्गीथ+ एष+ प्रणवः ।
ओमिति ह्येष स्वरन्नेति ॥१०५.१।
ओम् इति ह्य्+ एष+ स्वरन्न्+ एति ॥१०५.१।
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेको &सीति ह कौषीतकिः पुत्रमुवाच ।
एतम् उ एव+ अहम् अभ्यगासिषं+ तस्मान्+ मम त्वम् एको+ + असि+ इति ह कौषीतकिः पुत्रम् उवाच ।
रश्मींस्त्वं (पर्यावर्तयात् S पर्यावर्तयतात् )।
रश्मींस्+ त्वं+ (पर्यावर्तयात् S पर्यावर्तयतात् ) ।
बहवो वै ते भविष्यन्ति ।
बहवो+ वै ते भविष्यन्ति ।
इत्यधि (दैवतम् S देवतम् )॥१०५.२।
इत्य्+ अधि-(दैवतम् S देवतम् ) ॥१०५.२।
अथाध्यात्मम् ।
अथ+ अध्य्-आत्मम् ।
य एवायं मुख्यः प्राणस्तमुद्गीथमुपासित ।
य+ एव+ अयं+ मुख्यः प्राणस्+ तम् उद्गीथम् उपासित ।
ओमिति ह्येष स्वरन्नेति ॥१०५.३।
ओम् इति ह्य्+ एष+ स्वरन्न्+ एति ॥१०५.३।
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेको असीति ह कौषीतकिः पुत्रमुवाच ।
एतम् उ एव+ अहम् अभ्यगासिषं+ तस्मान्+ मम त्वम् एको+ असि+ इति ह कौषीतकिः पुत्रम् उवाच ।
(प्राणांस् S प्राणं )त्वं भूमानमभिगायताद्बहवो वै ( मे S ते )भविष्यन्तीति ॥१०५.४।
(प्राणांस्+ S प्राणं+ ) त्वं+ भूमानम् अभिगायताद्+ बहवो+ वै ( मे S ते ) भविष्यन्ति+ इति ॥१०५.४।
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
अथ खलु य+ उद्गीथः स+ प्रणवो+ यः प्रणवः स+ उद्गीथ+ इति ।
होतृषदनाद्ध एवापि दुरुद्गीथम् (अनुसमाहरतीत्यनुसमाहरतीति S अनुसमाहरति अनुसमाहरति )॥१०५.५।
होतृ-षदनाद्+ + ध एव+ अपि दुर्-उद्गीथम् (अनुसमाहरति+ इत्य्+ अनुसमाहरति+ इति S अनुसमाहरति अनुसमाहरति ) ॥१०५.५।
1.6
इयमेवर्क् ।
इयम् एव+ ऋक् ।
अग्निः साम ।
अग्निः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
इयमेव सा ।
इयम् एव सा ।
अग्निरमः ।
अग्निर्+ अमः ।
तत्साम ॥१०६.१।
तत् साम ॥१०६.१।
अन्तरिक्षमेवर्क् ।
अन्तरिक्षम् एव+ ऋक् ।
वायुः साम ।
वायुः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
अन्तरिक्षमेव सा ।
अन्तरिक्षम् एव सा ।
वायुरमः ।
वायुर्+ अमः ।
तत्साम ॥१०६.२।
तत् साम ॥१०६.२।
द्यौरेवर्क् ।
द्यौर्+ एव+ ऋक् ।
आदित्यः साम ।
आदित्यः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
द्यौरेव सा ।
द्यौर्+ एव सा ।
आदित्यो &मः ।
आदित्यो+ + अमः ।
तत्साम ॥१०६.३।
तत् साम ॥१०६.३।
नक्षत्रान्येवर्क् ।
नक्षत्रान्य्+ एव+ ऋक् ।
चन्द्रमाः साम ।
चन्द्र-माः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
नक्षत्राण्येव सा ।
नक्षत्राण्य्+ एव सा ।
चन्द्रमा अमः ।
चन्द्र-मा+ अमः ।
तत्साम ॥१०६.४।
तत् साम ॥१०६.४।
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क् ।
अथ यद्+ एतद्+ आदित्यस्य शुक्लं+ भाः सा+ एव+ ऋक् ।
अथ यन्नीलं परःकृष्णं तत्साम ।
अथ यन्+ नीलं+ परः-कृष्णं+ तत् साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मदृच्यध्यूढं साम गीयते ॥१०६.५।
तस्मद्+ ऋच्य्+ अध्यूढं+ साम गीयते ॥१०६.५।
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा ।
अथ यद्+ एव+ एतद्+ आदित्यस्य शुक्लं+ भाः सा+ एव सा ।
अथ यन्नीलं परःकृष्णं तदमः ।
अथ यन्+ नीलं+ परः-कृष्णं+ तद्+ अमः ।
तत्साम ।
तत् साम ।
अथ य एषो अन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ (प्रणखात् S प्रनखात् )सर्व एव सुवर्नः ॥१०६.६।
अथ य+ एषो+ अन्तर्-आदित्ये हिरण्मयः पुरुषो+ दृश्यते हिरण्य-श्मश्रुर्+ हिरण्य-केश+ आ (प्रणखात् S प्रनखात् ) सर्व+ एव सु-वर्नः ॥१०६.६।
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ।
तस्य यथा कप्यासं+ पुण्डरीकम् एवम् अक्षिणी ।
तस्योदिति नाम ।
तस्य+ उद्+ इति नाम ।
स एष सर्वेभ्यः पाप्मभ्य उदितः ।
स+ एष+ सर्वेभ्यः पाप्मभ्य+ उदितः ।
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥१०६.७।
उदेति ह वै सर्वेभ्यः पाप्मभ्यो+ य+ एवं+ वेद ॥१०६.७।
तस्यर्क्च साम च गेष्णौ ।
तस्य+ ऋक् च साम च गेष्णौ ।
तस्मादुद्गीथः ।
तस्माद्+ उद्गीथः ।
तस्मात्त्वेव उद्गाता ।
तस्मात् त्व्+ एव उद्गाता ।
एतस्य हि गाता ।
एतस्य हि गाता ।
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ट देवकामानां च ।
स+ एष+ ये च+ अमुष्मात् पराञ्चो+ लोकास्+ तेषां+ च+ ईष्टए+ देव-कामानां+ च ।
इत्यधि (दैवतम् S देवतम् )॥१०६.८।
इत्य्+ अधि-(दैवतम् S देवतम् ) ॥१०६.८।
1.7
अथाध्यात्मम् ।
अथ+ अध्य्-आत्मम् ।
वागेवर्क् ।
वाग्+ एव+ ऋक् ।
प्राणः साम ।
प्राणः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
वागेव सा ।
वाग्+ एव सा ।
प्राणो &मः ।
प्राणो+ + अमः ।
तत्साम ॥१०७.१।
तत् साम ॥१०७.१।
चक्षुरेवर्क् ।
चक्षुर्+ एव+ ऋक् ।
आत्मा साम ।
आत्मा साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
चक्षुरेव सा ।
चक्षुर्+ एव सा ।
आत्मामः ।
आत्मा+ अमः ।
तत्साम ॥१०७.२।
तत् साम ॥१०७.२।
श्रोत्रमेवर्क् ।
श्रोत्रम् एव+ ऋक् ।
मनः सआम ।
मनः सआम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
श्रोत्रमेव सा ।
श्रोत्रम् एव सा ।
मनो &मः ।
मनो+ + अमः ।
तत्साम ॥१०७.३।
तत् साम ॥१०७.३।
अथ यदेतदक्ष्नः शुक्लं भाः सैवर्क् ।
अथ यद्+ एतद्+ अक्ष्नः शुक्लं+ भाः सा+ एव+ ऋक् ।
अथ यन्नीलं परःकृष्णं तत्साम ।
अथ यन्+ नीलं+ परः-कृष्णं+ तत् साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव सा ।
अथ यद्+ एव+ एतद्+ अक्ष्णः शुक्लं+ भाः सा+ एव सा ।
अथ यन्नीलं परःकृष्णं तदमः ।
अथ यन्+ नीलं+ परः-कृष्णं+ तद्+ अमः ।
तत्साम ॥१०७.४।
तत् साम ॥१०७.४।
अथ य एषो (अन्तरक्षिणि S अन्तरक्षणि )पुरुषो दृश्यते सैवर्क् ।
अथ य+ एषो+ (+ अन्तर्+ अक्षिणि S + अन्तर्-अक्षणि ) पुरुषो+ दृश्यते सा+ एव+ ऋक् ।
तत्साम ।
तत् साम ।
तदुक्थम् ।
तद्+ उक्थम् ।
तद्यजुः ।
तद्+ यजुः ।
तद्ब्रह्म ।
तद्+ ब्रह्म ।
तस्य एतस्य तदेव रूपं यदमुष्य रूपम् ।
तस्य एतस्य तद्+ एव रूपं+ यद्+ अमुष्य रूपम् ।
यावमुष्य गेष्णौ तौ तौ गोष्णौ ।
याव्+ अमुष्य गेष्णौ तौ तौ गोष्णौ ।
यन्नाम तन्नाम ॥१०७.५।
यन्+ नाम तन्+ नाम ॥१०७.५।
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां (चेति S च )।
स+ एष+ ये च+ एतस्माद्+ अर्वाञ्चो+ लोकास्+ तेषां+ च+ ईष्टे मनुष्य-कामानां+ (च+ इति S च ) ।
तद्य इमे वीणायां गायन्त्येतं ते गायन्ति ।
तद्+ यए+ इमे वीणायां+ गायन्त्य्+ एतं+ ते गायन्ति ।
तस्मात्ते धनसनयः ॥१०७.६।
तस्मात् ते धन-सनयः ॥१०७.६।
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति ।
अथ य+ एतद्+ एवं+ विद्वान् साम गायत्य्+ उभौ स+ गायति ।
सो &मुनैव (( S स एष S ))ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च ॥१०७.७।
सो+ + अमुना+ एव (( S स+ एष+ S ))ये च+ अमुष्मात् पराञ्चो+ लोकास्+ तांश्+ च+ आप्नोति देव-कामांश्+ च ॥१०७.७।
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च ।
अथ+ अनेन+ एव ये च+ एतस्माद्+ अर्वाञ्चो+ लोकास्+ तांश्+ च+ आप्नोति मनुष्य-कामांश्+ च ।
तस्मादु हैवंविदुद्गाता ब्रूयात् ।।१०७.८।
तस्माद्+ उ ह+ एवं-विद्+ उद्गाता ब्रूयात् ॥१०७.८।
कं ते काममागायानीति ।
कं+ ते कामम् आगायानि+ इति ।
एष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥१०७.९।
एष+ ह्य्+ एव काम-आगानस्य+ ईष्टे य+ एवं+ विद्वान् साम गायति साम गायति ॥१०७.९।
1.8
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ।
त्रयो+ ह+ उद्गीथे कुशला+ बभूवुः शिलकः शालावत्यश्+ चैकितायनो+ दाल्भ्यः प्रवाहणो+ जैवलिर्+ इति ।
ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां (वदाम इति S वदामेति )॥१०८.१।
ते ह+ ऊचुर्+ उद्गीथे वै कुशलाः स्मो+ हन्त+ उद्गीथे कथां+ (वदाम+ इति S वदाम+ इति ) ॥१०८.१।
तथेति ह समुपविविशुः ।
तथा+ इति ह समुपविविशुः ।
स ह प्रावहणो जैवलिरुवाच ।
स+ ह प्रावहणो+ जैवलिर्+ उवाच ।
भगवन्तावग्रे वदताम् ।
भगवन्ताव्+ अग्रे वदताम् ।
भ्रामणयोर्वदतोर्वाचं श्रोष्यामीति ॥१०८.२।
भ्रामणयोर्+ वदतोर्+ वाचं+ श्रोष्यामि+ इति ॥१०८.२।
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति ।
स+ ह शिलकः शालावत्यश्+ चैकितायनं+ दाल्भ्यम् उवाच हन्त त्वा पृच्छानि+ इति ।
पृच्छेति होवाच ॥१०८.३।
पृच्छ+ इति ह+ उवाच ॥१०८.३।
का साम्नो गतिरिति ।
का साम्नो+ गतिर्+ इति ।
स्वर इति होवाच ।
स्वर+ इति ह+ उवाच ।
स्वरस्य का गतिरिति ।
स्वरस्य का गतिर्+ इति ।
प्राण इति होवाच ।
प्राण+ इति ह+ उवाच ।
अन्नस्य का गतिरिति ।
अन्नस्य का गतिर्+ इति ।
अन्नमिति होवाच ।
अन्नम् इति ह+ उवाच ।
अन्नस्य का गतिरिति ।
अन्नस्य का गतिर्+ इति ।
आप इति होवाच ॥१०८.४।
आप+ इति ह+ उवाच ॥१०८.४।
अपां का गतिरिति ।
अपां+ का गतिर्+ इति ।
असौ लोक इति होवाच ।
असौ लोक+ इति ह+ उवाच ।
अमुष्य लोकस्य का गतिरिति ।
अमुष्य लोकस्य का गतिर्+ इति ।
न स्वर्गं लोकम् (अतिनयेद् S अति नयेद् )इति होवाच ।
न स्वर्गं+ लोकम् (अतिनयेद्+ S अति नयेद्+ ) इति ह+ उवाच ।
स्वर्गं वयं लोकं सामाभिसंस्थापयामः ।
स्वर्गं+ वयं+ लोकं+ साम+ अभिसंस्थापयामः ।
स्वर्गसंस्तावं हि सामेति ॥१०८.५।
स्वर्ग-संस्तावं+ हि साम+ इति ॥१०८.५।
तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम ।
तं+ ह शिलकः शालावत्यश्+ चैकितायनं+ दाल्भ्यम् उवाच+ अ-प्रतिष्ठितं+ वै किल ते दाल्भ्य साम ।
यस् (त्वेतर्हि S त्वैतर्हि )ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥१०८.६।
यस्+ (त्व्+ एतर्हि S त्वा+ एतर्हि ) ब्रूयान्+ मूर्धा ते विपतिष्यति+ इति मूर्धा ते विपतेद्+ इति ॥१०८.६।
हन्ताहमेतद् (भगवतो S भगवत्तो )वेदानीति ।
हन्त+ अहम् एतद्+ (भगवतो+ S भगवत्तो+ ) वेदानि+ इति ।
विद्धीति होवाच ।
विद्धि+ इति ह+ उवाच ।
अमुष्य लोकस्य का गतिरिति ।
अमुष्य लोकस्य का गतिर्+ इति ।
अयं लोक इति होवाच ।
अयं+ लोक+ इति ह+ उवाच ।
अस्य लोकस्य का गतिरिति ।
अस्य लोकस्य का गतिर्+ इति ।
न प्रतिष्ठां लोकम् (अतिनयेद् S अति नयेद् )इति होवाच ।
न प्रतिष्ठां+ लोकम् (अतिनयेद्+ S अति नयेद्+ ) इति ह+ उवाच ।
प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः ।
प्रतिष्ठां+ वयं+ लोकं+ साम+ अभिसंस्थापयामः ।
प्रतिष्ठासंस्तावं हि सामेति ॥१०८.७।
प्रतिष्ठा-संस्तावं+ हि साम+ इति ॥१०८.७।
तं ह प्रवाहणो जैवलिरुवाच ।
तं+ ह प्रवाहणो+ जैवलिर्+ उवाच ।
अन्तवद्वै किल ते शालावत्य साम ।
अन्तवद्+ वै किल ते शालावत्य साम ।
यस् (त्वेतर्हि S त्वैतर्हि )ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ।
यस्+ (त्व्+ एतर्हि S त्वा+ एतर्हि ) ब्रूयान्+ मूर्धा ते विपतिष्यति+ इति मूर्धा ते विपतेद्+ इति ।
हन्ताहमेतद् (भगवतो S भगवत्तो )वेदानीति ।
हन्त+ अहम् एतद्+ (भगवतो+ S भगवत्तो+ ) वेदानि+ इति ।
विद्धीति होवाच ॥१०८.८।
विद्धि+ इति ह+ उवाच ॥१०८.८।
1.9
अस्य लोकस्य का गतिरिति ।
अस्य लोकस्य का गतिर्+ इति ।
आकाश इति होवाच ।
आकाश+ इति ह+ उवाच ।
सर्वाणि ह वाऐ इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।
सर्वाणि ह वाऐ+ इमानि भूतान्य्+ आकाशाद्+ एव समुत्पद्यन्ते ।
आकाशं प्रत्यस्तं यन्ति ।
आकाशं+ प्रत्य्+ अस्तं+ यन्ति ।
आकाशो ह्येवैभ्यो ज्यायान् ।
आकाशो+ ह्य्+ एव+ एभ्यो+ ज्यायान् ।
आकाशः परायणम् ।।१०९.१।
आकाशः पर-अयणम् ॥१०९.१।
स एष परोवरीयानुद्गीथः ।
स+ एष+ परो-वरीयान् उद्गीथः ।
स एषो &नन्तः ।
स+ एषो+ + अन्-अन्तः ।
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते ॥१०९.२।
परो-वरीयो+ ह+ अस्य भवति परो-वरीयसो+ ह लोकाञ्+ जयति य+ एतद्+ एवं+ विद्वान् परो-वरीयांसम् उद्गीथम् उपास्ते ॥१०९.२।
तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच ।
तं+ ह+ एतम् अति-धन्वा शौनक+ उदर-शाण्डिल्याय+ उक्त्वा+ उवाच ।
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो (हैभ्यस् S ह्येभ्यस् )तावदस्मिंल्लोके जीवनं भविष्यति ॥१०९.३।
यावत् तए+ एनं+ प्रजायाम् उद्गीथं+ वेदिष्यन्ते परो-वरीयो+ (ह+ एभ्यस्+ S ह्य्+ एभ्यस्+ ) तावद्+ अस्मिंल्+ लोके जीवनं+ भविष्यति ॥१०९.३।
तथामुष्मिंल्लोके लोक इति ।
तथा+ अमुष्मिंल्+ लोके लोक+ इति ।
स य एतम् (एव S एवं )विद्वानुपास्ते परोवरीय एव ( हास्यामुष्मिंल् S हास्य अस्मिंल् )लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥१०९.४।
स+ य+ एतम् (एव S एवं+ ) विद्वान् उपास्ते परो-वरीय+ एव ( ह+ अस्य+ अमुष्मिंल्+ S ह+ अस्य अस्मिंल्+ ) लोके जीवनं+ भवति तथा+ अमुष्मिंल्+ लोके लोक+ इति लोके लोक इति ॥१०९.४।
1.10
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥११०.१।
मटची-हतेषु कुरुष्व्+ आटिक्या सह जायया+ उषस्तिर्+ ह चाक्रायण+ इभ्य-ग्रामे प्रद्राणक+ उवास ॥११०.१।
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे ।
स+ ह+ इभ्यं+ कुल्माषान् खादन्तं+ बिभिक्षे ।
तं होवाच ।
तं+ ह+ उवाच ।
नेतो &न्ये विद्यन्ते यच् (चये S च ये )म इम उपनिहिता इति ॥११०.२।
न+ इतो+ + अन्ये विद्यन्ते यच्+ (चये S च ये ) मए+ इमए+ उपनिहिता+ इति ॥११०.२।
एतेषां मे देहीति होवाच ।
एतेषां+ मे देहि+ इति ह+ उवाच ।
तानस्मै प्रददौ ।
तान् अस्मै प्रददौ ।
हन्तानुपानमिति ।
हन्त+ अनुपानम् इति ।
उच्छिष्टं वै मे पीतं स्यादिति होवाच ॥११०.३।
उच्छिष्टं+ वै मे पीतं+ स्याद्+ इति ह+ उवाच ॥११०.३।
न स्विदेते अप्युच्छिष्टा इति ।
न स्विद् एते + अप्य्+ उच्छिष्टा+ इति ।
न वाऐ अजीविष्यमिमानखादन्निति होवाच ।
न वाऐ+ अजीविष्यम् इमान् अ-खादन्न्+ इति ह+ उवाच ।
कामो म उदपानमिति ॥११०.४।
कामो+ मए+ उद-पानम् इति ॥११०.४।
स ह खादित्वातिशेषाञ्जायायाऐ आजहार ।
स+ ह खादित्वा+ अति-शेषाञ्+ जायायाऐ+ आजहार ।
साग्र एव सुभिक्षा बभूव ।
सा+ अग्रए+ एव सु-भिक्षा बभूव ।
तान्प्रतिगृह्य निदधौ ॥११०.५।
तान् प्रतिगृह्य निदधौ ॥११०.५।
स ह प्रातः संजिहान उवाच ।
स+ ह प्रातः संजिहान+ उवाच ।
यद्बतान्नस्य लभेमहि लभेमहि धनमात्राम् ।
यद्+ बत+ अन्नस्य लभेमहि लभेमहि धन-मात्राम् ।
राजासौ यक्ष्यते ।
राजा+ असौ यक्ष्यते ।
स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥११०.६।
स+ मा सर्वैर्+ आर्त्विज्यैर्+ वृणीत+ इति ॥११०.६।
तं जायोवाच ।
तं+ जाया+ उवाच ।
हन्त पत इम एव कुल्माषा इति ।
हन्त पतए+ इमए+ एव कुल्माषा+ इति ।
तान्खादित्वामुं यज्ञं विततमेयाय ॥११०.७।
तान् खादित्वा+ अमुं+ यज्ञं+ विततम् एयाय ॥११०.७।
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश ।
तत्र+ उद्गातॄन् आस्तावे स्तोष्यमाणान् उपोपविवेश ।
स ह प्रस्तोतरमुवाच ॥११०.८।
स+ ह प्रस्तोतरम् उवाच ॥११०.८।
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥११०.९।
प्रस्तोतर्+ या देवता प्रस्तावम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यति+ इति ॥११०.९।
एवमेवोद्गातारमुवाच ।
एवम् एव+ उद्गातारम् उवाच ।
उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ।।११०.१०।एवमेव प्रतिहर्तारमुवाच ।
उद्गातर्+ या देवता+ उद्गीथम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् उद्गास्यसि मूर्धा ते विपतिष्यति+ इति ॥११०.१०। एवम् एव प्रतिहर्तारम् उवाच ।
प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ।
प्रतिहर्तर्+ या देवता प्रतिहारम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यति+ इति ।
ते ह समारतास्तूष्णीमासां चक्रिरे ॥११०.११।
ते ह समारतास्+ तूष्णीम् आसां+ चक्रिरे ॥११०.११।
1.11
अथ हैनं यजमान उवाच ।
अथ ह+ एनं+ यजमान+ उवाच ।
भगवन्तं वाऐ अहं विविदिषाणीति ।
भगवन्तं+ वाऐ+ अहं+ विविदिषाणि+ इति ।
उषस्तिरस्मि चाक्रायण इति होवाच ॥१११.१।
उषस्तिर्+ अस्मि चाक्रायण+ इति ह+ उवाच ॥१११.१।
स होवाच ।
स+ ह+ उवाच ।
भगवन्तं वाऐ अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषम् ।
भगवन्तं+ वाऐ+ अहम् एभिः सर्वैर्+ आर्त्विज्यैः पर्यैषिषम् ।
भगवतो वाऐ अहमवित्त्यान्यानवृषि ॥१११.२।
भगवतो+ वाऐ+ अहम् अ-वित्त्या+ अन्यान् अवृषि ॥१११.२।
भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ।
भगवांस्+ त्व्+ एव मे सर्वैर्+ आर्त्विज्यैर्+ इति ।
तथेति ।
तथा+ इति ।
अथ तर्ह्येत एव समतिसृष्टाः स्तुवताम् ।
अथ तर्ह्य्+ एतए+ एव समतिसृष्टाः स्तुवताम् ।
यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति ।
यावत् त्व्+ एभ्यो+ धनं+ दद्यास्+ तावन्+ मम दद्या+ इति ।
तथेति ह यजमान उवाच ॥१११.३।
तथा+ इति ह यजमान+ उवाच ॥१११.३।
अथ हैनं प्रस्तोतोपससाद ।
अथ ह+ एनं+ प्रस्तोता+ उपससाद ।
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
प्रस्तोतर्+ या देवता प्रस्तावम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यति+ इति मा भगवान् अवोचत् ।
कतमा सा देवतेति ॥१११.४।
कतमा सा देवता+ इति ॥१११.४।
प्राण इति होवाच ।
प्राण+ इति ह+ उवाच ।
सर्वाणि ह वाऐ इमानि भूतानि प्राणमेवाभिसंविशन्ति ।
सर्वाणि ह वाऐ+ इमानि भूतानि प्राणम् एव+ अभिसंविशन्ति ।
प्राणमभ्युज्जिहते ।
प्राणम् अभ्युज्जिहते ।
सैषा देवता प्रस्तावमन्वायत्ता ।
सा+ एषा देवता प्रस्तावम् अन्वायत्ता ।
तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते विपतिष्यत्तथोक्तस्य मयेति ॥१११.५।
तां+ चेद्+ अ-विद्वान् प्रास्तोष्यो+ मूर्धा ते विपतिष्यत् तथा+ उक्तस्य मया+ इति ॥१११.५।
अथ हैनमुद्गातोपससाद ।
अथ ह+ एनम् उद्गाता+ उपससाद ।
उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
उद्गातर्+ या देवता+ उद्गीथम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् उद्गास्यसि मूर्धा ते विपतिष्यति+ इति मा भगवान् अवोचत् ।
कतमा सा देवता इति ॥१११.६।
कतमा सा देवता+ इति ॥१११.६।
आदित्य इति होवाच ।
आदित्य+ इति ह+ उवाच ।
सर्वाणि ह वाऐ इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति ।
सर्वाणि ह वाऐ+ इमानि भूतान्य्+ आदित्यम् उच्चैः सन्तं+ गायन्ति ।
सैषा देवतोद्गीथमन्वायत्ता ।
सा+ एषा देवता+ उद्गीथम् अन्वायत्ता ।
तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥१११.७।
तां+ चेद्+ अ-विद्वान् उदगास्यो+ मूर्धा ते व्यपतिष्यत् तथा+ उक्तस्य मया+ इति ॥१११.७।
अथ हैनं प्रतिहर्तोपससाद ।
अथ ह+ एनं+ प्रतिहर्ता+ उपससाद ।
प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
प्रतिहर्तर्+ या देवता प्रतिहारम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यति+ इति मा भगवान् अवोचत् ।
कतमा सा देवतेति ॥१११.८।
कतमा सा देवता+ इति ॥१११.८।
अन्नमिति होवाच ।
अन्नम् इति ह+ उवाच ।
सर्वाणि ह वाऐ इमानि भूतन्यन्नमेव प्रतिहरमाणानि जीवन्ति ।
सर्वाणि ह वाऐ+ इमानि भूतन्य्+ अन्नम् एव प्रतिहरमाणानि जीवन्ति ।
सैषा देवता प्रतिहारमन्वायत्ता ।
सा+ एषा देवता प्रतिहारम् अन्वायत्ता ।
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥१११.९।
तां+ चेद्+ अ-विद्वान् प्रत्यहरिष्यो+ मूर्धा ते व्यपतिष्यत् तथा+ उक्तस्य मया+ इति तथा+ उक्तस्य मया+ इति ॥१११.९।
8.1
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो &स्मिन्नन्तराकासः ।
अथ यद्+ इदम् अस्मिन् ब्रह्म-पुरे दहरं+ पुण्डरीकं+ वेश्म दहरो+ + अस्मिन्न्+ अन्तर्-आकासः ।
तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥८०१.१।
तस्मिन् यद्+ अन्तस्+ तद्+ अन्वेष्टव्यं+ तद्+ वाव विजिज्ञासितव्यम् इति ॥८०१.१।
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो अस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति ।
तं+ चेद्+ ब्रूयुर्+ यद्+ इदम् अस्मिन् ब्रह्म-पुरे दहरं+ पुण्डरीकं+ वेश्म दहरो + अस्मिन्न्+ अन्तर्-आकाशः किं+ तद्+ अत्र विद्यते यद्+ अन्वेष्टव्यं+ यद्+ वाव विजिज्ञासितव्यम् इति ।
स ब्रूयात् ।।८०१.२।
स+ ब्रूयात् ॥८०१.२।
यावान्वाऐ अयमाकाशस्तावानेषो &न्तर्हृदय आकाशः ।
यावान् वाऐ+ अयम् आकाशस्+ तावान् एषो+ + अन्तर्-हृदयए+ आकाशः ।
उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते ।
उभे अस्मिन् द्यावा-पृथिवी अन्तर् एव समाहिते ।
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि ।
उभाव्+ अग्निश्+ च वायुश्+ च सूर्या-चन्द्रमसाव्+ उभौ विद्युन्+ नक्षत्राणि ।
यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥८०१.३।
यच्+ च+ अस्य+ इह+ अस्ति यच्+ च न+ अस्ति सर्वं+ तद्+ अस्मिन् समाहितम् इति ॥८०१.३।
तं चेद्ब्रूयुरस्मिंश्चेदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदेनज्जरा वाप्नोति प्रध्वंसते वा किं ततो &तिशिष्यत इति ॥८०१.४।
तं+ चेद्+ ब्रूयुर्+ अस्मिंश्+ च+ इदं+ ब्रह्म-पुरे सर्वं+ समाहितं+ सर्वाणि च भूतानि सर्वे च कामा+ यद्+ एनज्+ जरा वा+ आप्नोति प्रध्वंसते वा किं+ ततो+ + अतिशिष्यतए+ इति ॥८०१.४।
स ब्रूयात् ।
स+ ब्रूयात् ।
नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते ।
न+ अस्य जरया+ एतज्+ जीर्यति न वधेन+ अस्य हन्यते ।
एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिताः ।
एतत् सत्यं+ ब्रह्म-पुरम् अस्मिन् कामाः समाहिताः ।
एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो &पिपासः सत्यकामः सत्यसंकल्पः ।
एष+ आत्मा+ अपहत-पाप्मा वि-जरो+ वि-मृत्युर्+ वि-शोको+ वि-जिघत्सो+ + अ-पिपासः सत्य-कामः सत्य-संकल्पः ।
यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनम् ।
यथा ह्य्+ एव+ इह प्रजा+ अन्वाविशन्ति यथा+ अनुशासनम् ।
यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥८०१.५।
यं+ यम् अन्तम् अभिकामा+ भवन्ति यं+ जन-पदं+ यं+ क्षेत्र-भागं+ तं+ तम् एव+ उपजीवन्ति ॥८०१.५।
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते ।
तद्+ यथा+ इह कर्म-जितो+ लोकः क्षीयतए+ एवम् एव+ अमुत्र पुण्य-जितो+ लोकः क्षीयते ।
तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति ।
तद्+ यए+ इह+ आत्मानम् अन्-अनुविद्य व्रजन्त्य्+ एतांश्+ च सत्यान् कामांस्+ तेषां+ सर्वेषु लोकेष्व्+ अ-काम-चारो+ भवति ।
अथ य इहात्मानमनिवुद्य व्रजन्त्येतंश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥८०१.६।
अथ यए+ इह+ आत्मानम् अनिवुद्य व्रजन्त्य्+ एतंश्+ च सत्यान् कामांस्+ तेषां+ सर्वेषु लोकेषु काम-चारो+ भवति ॥८०१.६।
8.2
स यदि पितृलोककामो भवति ।
स+ यदि पितृ-लोक-कामो+ भवति ।
संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य पितरः समुत्तिष्ठन्ति ।
तेन पितृलोकेन संपन्नो महीयते ॥८०२.१।
तेन पितृ-लोकेन संपन्नो+ महीयते ॥८०२.१।
अथ यदि मातृलोककामो भवति ।
अथ यदि मातृ-लोक-कामो+ भवति ।
संकल्पादेवास्य मातरः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य मातरः समुत्तिष्ठन्ति ।
तेन मातृलोकेन संपन्नो महीयते ॥८०२.२।
तेन मातृ-लोकेन संपन्नो+ महीयते ॥८०२.२।
अथ यदि भ्रातृलोककामो भवति ।
अथ यदि भ्रातृ-लोक-कामो+ भवति ।
संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य भ्रातरः समुत्तिष्ठन्ति ।
तेन भ्रातृलोकेन संपन्नो महीयते ॥८०२.३।
तेन भ्रातृ-लोकेन संपन्नो+ महीयते ॥८०२.३।
अथ यदि स्वसृलोककामो भवति ।
अथ यदि स्वसृ-लोक-कामो भवति ।
संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य स्वसारः समुत्तिष्ठन्ति ।
तेन स्वसृलोकेन संपन्नो महीयते ॥८०२.४।
तेन स्वसृ-लोकेन संपन्नो+ महीयते ॥८०२.४।
अथ यदि सखिलोककामो भवति ।
अथ यदि सखि-लोक-कामो+ भवति ।
संकल्पादेवास्य सखायः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य सखायः समुत्तिष्ठन्ति ।
तेन सखिलोकेन संपन्नो महीयते ॥८०२.५।
तेन सखि-लोकेन संपन्नो+ महीयते ॥८०२.५।
अथ यदि गन्धमाल्यलोककामो भवति ।
अथ यदि गन्ध-माल्य-लोक-कामो भवति ।
संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः ।
संकल्पाद्+ एव+ अस्य गन्ध-माल्ये समुत्तिष्ठतः ।
तेन गन्धमाल्यलोकेन संपन्नो महीयते ॥८०२.६।
तेन गन्ध-माल्य-लोकेन संपन्नो+ महीयते ॥८०२.६।
अथ यद्यन्नपानलोककामो भवति ।
अथ यद्य्+ अन्न-पान-लोक-कामो भवति ।
संकल्पादेवास्यान्नपाने समुत्तिष्ठतः ।
संकल्पाद्+ एव+ अस्य+ अन्न-पाने समुत्तिष्ठतः ।
तेनान्नपानलोकेन संपन्नो महीयते ॥८०२.७।
तेन+ अन्न-पान-लोकेन संपन्नो+ महीयते ॥८०२.७।
अथ यदि गीतवादितलोककामो भवति ।
अथ यदि गीत-वादित-लोक-कामो भवति ।
संकल्पादेवास्य गीतवादिते समुत्तिष्ठतः ।
संकल्पाद्+ एव+ अस्य गीत-वादिते समुत्तिष्ठतः ।
तेन गीतवादितलोकेन संपन्नो महीयते ॥८०२.८।
तेन गीत-वादित-लोकेन संपन्नो+ महीयते ॥८०२.८।
अथ यदि स्त्रीलोककामो भवति ।
अथ यदि स्त्री-लोक-कामो+ भवति ।
संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य स्त्रियः समुत्तिष्ठन्ति ।
तेन स्त्रीलोकेन संपन्नो महीयते ॥८०२.९।
तेन स्त्री-लोकेन संपन्नो+ महीयते ॥८०२.९।
यं यमन्तमभिकामो भवति ।
यं+ यम् अन्तम् अभिकामो भवति ।
यं कामं कामयते ।
यं+ कामं+ कामयते ।
सो &स्य संकल्पादेव समुत्तिष्ठति ।
सो+ + अस्य संकल्पाद्+ एव समुत्तिष्ठति ।
तेन संपन्नो महीयते ॥८०२.१०।
तेन संपन्नो महीयते ॥८०२.१०।
8.3
त इमे सत्याः कामा अनृतापिधानाः ।
तए+ इमे सत्याः कामा+ अन्-ऋत-अपिधानाः ।
तेषां सत्यानां सतामनृतमपिधानम् ।
तेषां+ सत्यानां+ सताम् अन्-ऋतम् अपिधानम् ।
यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥८०३.१।
यो+ यो+ ह्य्+ अस्य+ इतः प्रैति न तम् इह दर्शनाय लभते ॥८०३.१।
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दते ।
अथ ये च+ अस्य+ इह जीवा+ ये च प्रेता+ यच्+ च+ अन्यद्+ इच्छन् न लभते सर्वं+ तद्+ अत्र गत्वा विन्दते ।
अत्र ह्यस्यैते सत्याः कामा अनृतापिधानाः ।
अत्र ह्य्+ अस्य+ एते सत्याः कामा+ अन्-ऋत-अपिधानाः ।
तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः ।
तद्+ यथा+ अपि हिरण्य-निधिं+ निहितम् अ-क्षेत्र-ज्ञा+ उपर्य्+ उपरि सञ्चरन्तो+ न विन्देयुः ।
एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥८०३.२।
एवम् एव+ इमाः सर्वाः प्रजा+ अहर्+ अहर्+ गच्छन्त्य+ एतं+ ब्रह्म-लोकं+ न विन्दन्त्य्+ अन्-ऋतेन हि प्रत्यूढाः ॥८०३.२।
स वाऐ एष आत्मा हृदि ।
स+ वाऐ+ एष+ आत्मा हृदि ।
तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम् ।
तस्य+ एतद्+ एव निरुक्तं+ हृद्य्+ अयम् इति तस्माद्+ + धृद्+ अयम् ।
अहरहर्वाऐ एवंवित्स्वर्गं लोकमेति ॥८०३.३।
अहर्+ अहर्+ वाऐ+ एवं-वित्+ स्वर्गं+ लोकम् एति ॥८०३.३।
अथ य एष संप्रसादो &स्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेनाभिनिष्पद्यत एष आत्मेति होवाच ।
अथ य+ एष+ संप्रसादो+ + अस्माच्+ + छरीरात् समुत्थाय परं+ ज्योतिर्+ उपसंपद्य स्वेन रूपेन+ अभिनिष्पद्यतए+ एष+ आत्मा+ इति ह+ उवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
एतद्+ अ-मृतम् अ-भयम् एतद्+ ब्रह्म+ इति ।
तस्य ह वाऐ एतस्य ब्रह्मणो नाम सत्यमिति ॥८०३.४।
तस्य ह वाऐ+ एतस्य ब्रह्मणो+ नाम सत्यम् इति ॥८०३.४।
तानि ह वाऐ एतानि त्रीण्यक्षराणि सतीयमिति ।
तानि ह वाऐ+ एतानि त्रीण्य्+ अ-क्षराणि सतीयम् इति ।
तद्यत्सत्तदमृतम् ।
तद्+ यत् सत् तद्+ अ-मृतम् ।
अथ यत्ति तन्मर्त्यम् ।
अथ यत् ति तन्+ मर्त्यम् ।
अथ यद्यं तेनोभे यच्छति ।
अथ यद्+ यं+ तेन+ उभे यच्छति ।
यदनेनोभे यच्छति तस्माद्यम् ।
यद्+ अनेन+ उभे यच्छति तस्माद्+ यम् ।
अहरहर्वाऐ एवंवित्स्वर्गं लोकमेति ॥८०३.५।
अहर्+ अहर्+ वाऐ+ एवं-वित्+ स्वर्गं+ लोकम् एति ॥८०३.५।
8.4
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय ।
अथ य+ आत्मा स+ सेतुर्+ धृतिर्+ एषां+ लोकानाम् अ-संभेदाय ।
नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतम् ।
न+ एतं+ सेतुम् अहो-रात्रे तरतो+ न जरा न मृत्युर्+ न शोको+ न सु-कृतम् ।
सर्वे पाप्मानो &तो निवर्तन्ते ।
सर्वे पाप्मानो+ + अतो+ निवर्तन्ते ।
अपहतपाप्मा ह्येष ब्रह्मलोकः ॥८०४.१।
अपहत-पाप्मा ह्य्+ एष+ ब्रह्म-लोकः ॥८०४.१।
तस्माद्वा एतं सेतुं तीर्त्वा अन्धः सन्ननन्धो भवति ।
तस्माद्+ वा एतं+ सेतुं+ तीर्त्वा + अन्धः सन्न्+ अन्-अन्धो+ भवति ।
विद्धः सन्नविद्धो भवति ।
विद्धः सन्न्+ अविद्धो+ भवति ।
उपतापी सन्ननुपतापी भवति ।
उपतापी सन्न्+ अन्-उपतापी भवति ।
तस्माद्वा एतं सेतुं तीर्त्वा अपि नक्तमहरेवाभिनिष्पद्यते ।
तस्माद्+ वा एतं+ सेतुं+ तीर्त्वा + अपि नक्तम् अहर्+ एव+ अभिनिष्पद्यते ।
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥८०४.२।
सकृद्+ विभातो+ ह्य्+ एव+ एष+ ब्रह्म-लोकः ॥८०४.२।
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः ।
तद्+ यए+ एव+ एतं+ ब्रह्म-लोकं+ ब्रह्म-चर्येण+ अनुविन्दन्ति तेषाम् एव+ एष+ ब्रह्म-लोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति ॥८०४.३।
तेषां+ सर्वेषु लोकेषु काम-चारो+ भवति ॥८०४.३।
8.5
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यद्+ यज्ञ+ इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दते ।
ब्रह्म-चर्येण ह्य्+ एव यो+ ज्ञाता तं+ विन्दते ।
अथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यद्+ इष्टम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥८०५.१।
ब्रह्म-चर्येण ह्य्+ एव+ इष्ट्वा+ आत्मानम् अनुविन्दते ॥८०५.१।
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यत् सत्-त्रायणम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दते ।
ब्रह्म-चर्येण ह्य्+ एव सत+ आत्मनस्+ त्राणं+ विन्दते ।
अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यन्+ मौनम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥८०५.२।
ब्रह्म-चर्येण ह्य्+ एव+ आत्मानम् अनुविद्य मनुते ॥८०५.२।
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यद्+ अन्-आशक-अयनम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ।
एष+ ह्य्+ आत्मा न नश्यति यं+ ब्रह्म-चर्येण+ अनुविन्दते ।
अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यद्+ अरण्य-अयनम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ततरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि ।
तत्+ अरश्+ च ह वै ण्यश्+ च+ अर्णवौ ब्रह्म-लोके तृतीयस्याम् इतो+ दिवि ।
तदैरंमदीयं सरः ।
तद्+ ऐरं-मदीयं+ सरः ।
तदश्वत्थः सोमसवनः ।
तद्- अश्वत्थः सोम-सवनः ।
तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ।।८०५.३।
तद्+ अ-पराजिता पूर्+ ब्रह्मणः प्रभु-विमितं+ हिरण्-मयम् ॥८०५.३।
तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः ।
तद्+ यए+ एव+ एतौ+ अरं+ च ण्यं+ च+ अर्णवौ ब्रह्म-लोके ब्रह्म-चर्येण+ अनुविन्दन्ति तेषाम् एव+ एष+ ब्रह्म-लोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति ॥८०५.४।
तेषां+ सर्वेषु लोकेषु काम-चारो+ भवति ॥८०५.४।
page23
8.11
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच ।
तद्+ यत्र+ एतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं+ न विजानाति+ एष+ आत्मा+ इति ह+ उवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
एतद्+ अ-मृतम् अ-भयम् एतद्+ ब्रह्म+ इति ।
स ह शान्तहृदयः प्रवव्राज ।
स+ ह शान्त-हृदयः प्रवव्राज ।
स हाप्राप्यैव देवानेतद्भयं ददर्श ।
स+ ह+ अ-प्राप्य+ एव देवान् एतद्+ भयं+ ददर्श ।
नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति ।
न+ अह खल्व्+ अयम् एवं+ सं-प्रत्य्+ आत्मानं+ जानात्य्+ अयम् अहम् अस्मि+ इति ।
नो एवेमानि भूतानि ।
न+ उ एव+ इमानि भूतानि ।
विनाशमेवापीतो भवति ।
विनाशम् एव+ अपीतो+ भवति ।
नाहमत्र भोग्यं पश्यामीति ॥८११.१।
न+ अहम् अत्र भोग्यं+ पश्यामि+ इति ॥८११.१।
स समित्पाणिः पुनरेयाय ।
स+ समित्-पाणिः पुनर्+ एयाय ।
तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति ।
तं+ ह प्रजा-पतिर्+ उवाच मघवन् यच्+ + छान्त-हृदयः प्राव्राजीः किम् इच्छन् पुनर्+ आगम+ इति ।
स होवाच नाह खल्वयं भगव एवं संप्रत्यात्मानं जानात्ययमहमस्मीति ।
स+ ह+ उवाच न+ अह खल्व्+ अयं+ भगव+ एवं+ सं-प्रत्य्+ आत्मानं+ जानात्य्+ अयम् अहम् अस्मि+ इति ।
नो एवेमानि भूतानि ।
नो+ एव+ इमानि भूतानि ।
विनाशमेवापीतो भवति ।
विनाशम् एव+ अपीतो+ भवति ।
नाहमत्र भोग्यं पश्यामीति ॥८११.२।
न+ अहम् अत्र भोग्यं+ पश्यामि+ इति ॥८११.२।
एवमेवैष मघवन्निति होवाच ।
एवम् एव+ एष+ मघवन्न्+ इति ह+ उवाच ।
एतं त्वेव ते भूयो &नुव्याख्यास्यामि ।
एतं+ त्व्+ एव ते भूयो+ + अनुव्याख्यास्यामि ।
नो एवान्यत्रैतस्मात् ।
न+ उ एव+ अन्यत्र+ एतस्मात् ।
वसापराणि पञ्च वर्षाणीति ।
वस+ अपराणि पञ्च वर्षाणि+ इति ।
स हापराणि पञ्च वर्षाण्युवास ।
स+ ह+ अपराणि पञ्च वर्षाणि+ उवास ।
तान्येकशतं संपेदुः ।
तान्य्+ एक-शतं+ संपेदुः ।
एतत्तद्यदाहुः ।
एतत् तद्+ यद्+ आहुः ।
एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास ।
एक-शतं+ ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्म-चर्यम् उवास ।
तस्मै होवाच ॥८११.३।
तस्मै ह+ उवाच ॥८११.३।
8.12
मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना ।
मघवन् मर्त्यं+ वा इदं+ शरीरम् आत्तं+ मृत्युना ।
तदस्यामृतस्याशरीरस्यात्मनो &धिष्ठानम् ।
तद्+ अस्य+ अ-मृतस्य+ अ-शरीरस्य+ आत्मनो+ + अधिष्ठानम् ।
आत्तो वै सशरीरः प्रियाप्रियाभ्याम् ।
आत्तो+ वै स-शरीरः प्रिय-अ-प्रियाभ्याम् ।
न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ।
न वै स-शरीरस्य सतः प्रिय-अ-प्रिययोर्+ अपहतिर्+ अस्ति ।
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥८१२.१।
अ-शरीरं+ वाव सन्तं+ न प्रिय-अ-प्रिये स्पृशतः ॥८१२.१।
अशरीरो वायुः ।
अ-शरीरो+ वायुः ।
अभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि ।
अभ्रं+ विद्युत् स्तनयित्नुर्+ अ-शरीराण्य्+ एतानि ।
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥८१२.२।
तद्+ यथा+ एतान्य्+ अमुष्माद्+ आकाशात् समुत्थाय परं+ ज्योतिर्+ उपसंपद्य स्वेन रूपेण+ अभिनिष्पद्यन्ते ॥८१२.२।
एवमेवैष संप्रसादो &स्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ।
एवम् एव+ एष+ संप्रसादो+ + अस्माच्+ + छरीरात् समुत्थाय परं+ ज्योतिर्+ उपसंपद्य स्वेन रूपेण+ अभिनिष्पद्यते ।
स उत्तमपुरुषः ।
स+ उत्तम-पुरुषः ।
स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् ।
स+ तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्+ वा यानैर्+ वा ज्ञातिभिर्+ वा न+ उपजनं+ स्मरन्न्+ इदं+ शरीरम् ।
स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥८१२.३।
स+ यथा प्रयोग्य+ आचरणे युक्त+ एवम् एव+ अयम् अस्मिञ्+ + छरीरे प्राणो+ युक्तः ॥८१२.३।
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः ।
अथ यत्र+ एतद् आकाशम् अनुविषण्णं+ चक्षुः स+ चाक्षुषः पुरुषो+ दर्शनाय चक्षुः ।
अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् ।
अथ यो+ वेद+ इदं+ जिघ्राणि+ इति स+ आत्मा गन्धाय घ्राणम् ।
अथ यो वेदेदमभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् ।
अथ यो+ वेद+ इदम् अभिव्याहराणि+ इति स+ आत्मा + अभिव्याहाराय वाक् ।
अथ यो वेदेदं शृण्वानीति स आत्मा श्रवणाय श्रोत्रम् ।।८१२.४।
अथ यो+ वेद+ इदं+ शृण्वानि+ इति स+ आत्मा श्रवणाय श्रोत्रम् ॥८१२.४।
अथ यो वेदेदं मन्वानीति स आत्मा ।
अथ यो+ वेद+ इदं+ मन्वानि+ इति स+ आत्मा ।
मनो &स्य दैवं चक्षुः ।
मनो+ + अस्य दैवं+ चक्षुः ।
स वाऐ एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥८१२.५।
स+ वाऐ+ एष+ एतेन दैवेन चक्षुषा मनसा+ एतान् कामान् पश्यन् रमते यए+ एते ब्रह्म-लोके ॥८१२.५।
तं वाऐ एतं देवा आत्मानमुपासते ।
तं+ वाऐ+ एतं+ देवा+ आत्मानम् उपासते ।
तस्मात्तेषां सर्वे च लोका आत्ताः सर्वे च कामाः ।
तस्मात् तेषां+ सर्वे च लोका+ आत्ताः सर्वे च कामाः ।
स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति ।
स+ सर्वांश्+ च लोकान् आप्नोति सर्वांश्+ च कामान् यस्+ तम् आत्मानम् अनुविद्य विजानाति ।
इति ह प्र्जापतिरुवाच प्रजापतिरुवाच ॥८१२.६।
इति ह प्र्जा-पतिर्+ उवाच प्रजा-पतिर्+ उवाच ॥८१२.६।
8.13
{8,13-15 mit Senart verglichen}श्यामाच्छबलं प्रपद्ये ।
{8,13-15 mit Senart verglichen}श्यामाच्+ + छबलं+ प्रपद्ये ।
शबलाच्छ्यामं प्रपद्ये ।
शबलाच्+ + छ्यामं+ प्रपद्ये ।
अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥८१३.१।
अश्व+ इव रोमाणि विधूय पापं+ चन्द्र+ इव राहोर्+ मुखात् प्रमुच्य धूत्वा शरीरम् अ-कृतं+ कृत-आत्मा ब्रह्म-लोकम् अभिसंभवामि+ इत्य्+ अभिसंभवामि+ इति ॥८१३.१।
8.14
आकाशो वै नाम नामरूपयोर्निर्वहिता ।
आकाशो+ वै नाम नाम-रूपयोर्+ निर्वहिता ।
ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा ।
ते यद्-अन्तरा+ तद्+ ब्रह्म तद्+ अ-मृतं+ स+ आत्मा ।
प्रजापतेः सभां वेश्म प्रपद्ये यशो &हं भवामि ब्राह्मणानां यशो राज्ञाम्यशो विशाम् ।
प्रजा-पतेः सभां+ वेश्म प्रपद्ये यशो+ + अहं+ भवामि ब्राह्मणानां+ यशो+ राज्ञाम् यशो+ विशाम् ।
यशो &हमनुप्रापत्सि ।
यशो+ + अहम् अनुप्रापत्सि ।
स हाहं यशसां यशः ।
स+ ह+ अहं+ यशसां+ यशः ।
श्येतमदत्कमदत्कं श्येतं लिन्दु माभिगां लिन्दु मा अभिगाम् ।।८१४.१।
श्येतम् अ-दत्कम् अ-दत्कं+ श्येतं+ लिन्दु मा+ अभिगां+ लिन्दु मा + अभिगाम् ॥८१४.१।
8.15
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः ।
तद्+ + ध+ एतद्+ ब्रह्मा प्रजा-पतय+ उवाच प्रजा-पतिर्+ मनवे मनुः प्रजाभ्यः ।
आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः (कर्मातिशेषेणाभिसमावृत्य S कर्म कृत्वा {अतिशेषेण }अभिसमावृत्य )कुटुम्बे ( S स्थित्वा )शुचौ देशे स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः ।
आचार्य-कुलाद्+ वेदम् अधीत्य यथा-विधानं+ गुरोः (कर्म+ अति-शेषेण+ अभिसमावृत्य S कर्म कृत्वा {अति-शेषेण} अभिसमावृत्य ) कुटुम्बे ( S स्थित्वा ) शुचौ देशे स्व-अध्यायम् अधीयानो+ धर्मिकान् विदधद्+ आत्मनि सर्व-इन्द्रियाणि संप्रतिष्ठाप्य+ अ-हिंसन् सर्व-भूतान्य्+ अन्यत्र तीर्थेभ्यः ।
स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते ।
स+ खल्व्+ एवं+ वर्तयन् यावद्+ आयुषं+ ब्रह्म-लोकम् अभिसंपद्यते ।
न च पुनरावर्तते न च पुनरावर्तते ॥८१५.१।
न च पुनर्+ आवर्तते न च पुनर्+ आवर्तते ॥८१५.१। The Sanskrit Library.

No comments:

Post a Comment