ॐ श्री गुरुभ्यो नमः|| गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर: | गुरु साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ||

HTML codes

23 May 2011

!!-माण्डूक्योपनिषद्-!! maandukyopanishada-

!!-माण्डूक्योपनिषद्-!!


1
ओमित्येतदक्षरमिदं सर्वम् .
ओम् इति एतत् अक्षरम् इदम् सर्वम्.
तस्योपव्याख्यानम् .
तस्य उपव्याख्यानम्.
भूतं भवद्
भूतम् भवत्
भविष्यदिति सर्वमोङ्कार एव .
भविष्यत् इति सर्वम् ओङ्कारः एव.
यच्चान्यत्त्रिकालातीतं तदप्य्
यत् च अन्यत् त्रिकालातीतम् तत् अपि
ओङ्कार एव .
ओङ्कारः एव.
2
सर्वं ह्येतद्ब्रह्म .
सर्वम् हि एतत् ब्रह्म.
अयमात्मा ब्रह्म .
अयम् आत्मा ब्रह्म.
सो ऽयमात्मा चतुष्पात् .
सः अयम् आत्मा चतुष्पात्.
3
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्
जागरितस्थानः बहिःप्रज्ञः सप्ताङ्गः एकोनविंशतिमुखः स्थूलभुक्
वैश्वानरः प्रथमः पादः .
वैश्वानरः प्रथमः पादः.
4
स्वप्नस्थानो ऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्
स्वप्नस्थानः अन्तःप्रज्ञः सप्ताङ्गः एकोनविंशतिमुखः प्रविविक्तभुक्
तैजसो द्वितीयः पादः .
तैजसः द्वितीयः पादः.
5
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् .
यत्र सुप्तः न कञ्चन कामम् कामयते न कञ्चन स्वप्नम् पश्यति तत् सुषुप्तम्.
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्य्
सुषुप्तस्थानः एकीभूतः प्रज्ञानघनः एव आनन्दमयः हि
आनन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः .
आनन्दभुक् चेतोमुखः प्राज्ञः तृतीयः पादः.
6
एष सर्वेश्वरः .
एषः सर्वेश्वरः.
एष सर्वज्ञः .
एषः सर्वज्ञः.
एषो ऽन्तर्यामी .
एषः अन्तर्यामी.
एष योनिः सर्वस्य .
एषः योनिः सर्वस्य.
प्रभवाप्ययौ हि भूतानाम् .
प्रभवाप्ययौ हि भूतानाम्.
7
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् .
न अन्तःप्रज्ञम् न बहिःप्रज्ञम् न उभयतःप्रज्ञम् न प्रज्ञानघनम् न प्रज्ञम् न अप्रज्ञम्.
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यम्
अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम्
अव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं
अव्यपदेश्यम् एकात्मप्रत्ययसारम् प्रपञ्चोपशमम् शान्तम् शिवम् अद्वैतम्
चतुर्थं मन्यन्ते .
चतुर्थम् मन्यन्ते.
स आत्मा .
सः आत्मा.
स विज्ञेयः .
सः विज्ञेयः.
8
सो ऽयमात्माध्यक्षरमोङ्कारः .
सः अयम् आत्मा अध्यक्षरम् ओङ्कारः.
अधिमात्रं पादा मात्रा मात्राश्च पादा
अधिमात्रम् पादाः मात्राः मात्राः च पादाः
अकार उकारो मकार इति .
अकारः उकारः मकारः इति.
9
जागरितस्थानो वैश्वानरो ऽकारः प्रथमा मात्राप्तेरादिमत्त्वाद्वा .
जागरितस्थानः वैश्वानरः अकारः प्रथमा मात्रा आप्तेर् आदिमत्त्वात् वा.
आप्नोति ह वै सर्वान्कामानादिश्च भवति .
आप्नोति ह वै सर्वान् कामान् आदिः च भवति.
10
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्व .
स्वप्नस्थानः तैजसः उकारः द्वितीया मात्रा उत्कर्षात् उभयत्वात् व.
उत्कर्षति ह वै ज्ञानसन्ततिम् .
उत्कर्षति ह वै ज्ञानसन्ततिम्.
समानश्च भवति .
समानः च भवति.
नास्याब्रह्मवित्
न अस्य अब्रह्मवित्
कुले भवति य एवं वेद .
कुले भवति यः एवम् वेद.
11
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा .
सुषुप्तस्थानः प्राज्ञः मकारः तृतीया मात्रा मितेः अपीतेः वा.
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद .
मिनोति ह वै इदम् सर्वम् अपीतिः च भवति यः एवम् वेद.
{मिति: मिनोति; अपीति: मिनातिDeussen}
12
अमात्रश्चतुर्थो ऽव्यवहार्यः प्रपञ्चोपशमः शिवो ऽद्वैतः .
अमात्रः चतुर्थः अव्यवहार्यः प्रपञ्चोपशमः शिवः अद्वैतः.
एवमोङ्कार आत्मैव .
एवम् ओङ्कारः आत्मा एव.
संविशत्यात्मनात्मानं य एवं वेद .
संविशति आत्मना आत्मानम् यः एवम् वेद.

10 May 2011

छान्दोग्य उपनिषद् ( Chāndogya-Upaniṣad)

1.1
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओम् इत्य्+ एतद्+ अ-क्षरम् उद्गीथम् उपासीत ।
ओमिति ह्युद्गायति ।
ओम् इति ह्य्+ उद्गायति ।
तस्योपव्याख्यानम् ।।१०१.१।
तस्य+ उपव्याख्यानम् ॥१०१.१।
एषां भूतानां पृथिवी रसः ।
एषां+ भूतानां+ पृथिवी रसः ।
पृथिव्या आपो रसः ।
पृथिव्या+ आपो+ रसः ।
अपामोषधयो रसः ।
अपाम् ओषधयो+ रसः ।
ओषधीनां पुरुषो रसः ।
ओषधीनां+ पुरुषो+ रसः ।
पुरुषस्य वाग्रसः ।
पुरुषस्य वाग्+ रसः ।
वाच ऋग्रसः ।
वाच+ ऋग्+ रसः ।
ऋचः साम रसः ।
ऋचः साम रसः ।
साम्न उद्गीथो रसः ॥१०१.२।
साम्न+ उद्गीथो+ रसः ॥१०१.२।
स एष रसानां रसतमः परमः परार्ध्यो &ष्टमो यदुद्गीथः ॥१०१.३।
स एष+ रसानां+ रसतमः परमः पर-अर्ध्यो+ + अष्टमो+ यद्+ उद्गीथः ॥१०१.३।
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥१०१.४।
कतमा कतमा+ ऋक् कतमत् कतमत् साम कतमः कतम+ उद्गीथ+ इति विमृष्टं+ भवति ॥१०१.४।
वागेवर्क् ।
वाग्+ एव+ ऋक् ।
प्राणः साम ।
प्राणः साम ।
ओमित्येतदक्षरमुद्गीथः ।
ओम् इत्य्+ एतद्+ अ-क्षरम् उद्गीथः ।
तद्वाऐ एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥१०१.५।
तद्+ वाऐ+ एतन्+ मिथुनं+ यद्+ वाक् च प्राणश्+ च+ ऋक् च साम च ॥१०१.५।
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ।
तद्+ एतन्+ मिथुनम् ओम् इत्य्+ एतस्मिन्न्+ अ-क्षरे संसृज्यते ।
यदा वै मिथुनौ समागच्छत आपयतो वै तावन्यो ऽन्यस्य कामम् ।।१०१.६।
यदा वै मिथुनौ समागच्छत+ आपयतो+ वै ताव्+ अन्यो-अन्यस्य कामम् ॥१०१.६।
आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥१०१.७।
आपयिता ह वै कामानां+ भवति य+ एतद्+ एवं+ विद्वान् अ-क्षरम् उद्गीथम् उपास्ते ॥१०१.७।
तद्वा एतदनुज्ञाक्षरम् ।
तद्+ वा+ एतद्+ अनुज्ञा+ अ-क्षरम् ।
यद्धि किंचानुजानात्योमित्येव तदाह ।
यद्+ + धि किं-च+ अनुजानात्य्+ ओम् इत्य्+ एव तद्+ आह ।
एषो एव समृद्धिर्यदनुज्ञा ।
एषा+ उ एव समृद्धिर्+ यद्+ अनुज्ञा ।
समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥१०१.८।
समर्धयिता ह वै कामानां+ भवति य+ एतद्+ एवं+ विद्वान् अ-क्षरम् उद्गीथम् उपास्ते ॥१०१.८।
तेनेयं त्रयी विद्या वर्तते ।
तेन+ इयं+ त्रयी विद्या वर्तते ।
ओमित्याश्रावयति ।
ओम् इत्य्+ आश्रावयति ।
ओमिति शंसति ।
ओम् इति शंसति ।
ओमित्युद्गायति ।
ओम् इत्य्+ उद्गायति ।
एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन ॥१०१.९।
एतस्य+ एव अ-क्षरस्य+ अपचित्यै महिम्ना रसेन ॥१०१.९।
तेनोभौ कुरुतः {।}यश्चैतदेवं वेद यश्च न वेद ।
तेन+ उभौ कुरुतः {।} यश्+ च+ एतद्+ एवं+ वेद यश्+ च न वेद ।
नाना तु विद्या चाविद्या च ।
नाना तु विद्या च+ अ-विद्या च ।
यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥१०१.१०।
यद्+ एव विद्यया करोति श्रद्धया+ उपनिषदा तद्+ एव वीर्यवत्तरं+ भवति+ इति खल्व्+ एतस्य+ एव+ अ-क्षरस्य+ उपव्याख्यानं+ भवति ॥१०१.१०।
1.2
देवासुरा ह वै यत्र संयेतिरे {।}उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥१०२.१।
देव-असुरा+ ह वै यत्र संयेतिरे {।} उभये प्राजापत्यास् तद्+ + ध देवा+ उद्गीथम् आजह्रुर्+ अनेन+ एनान् अभिभविष्याम+ इति ॥१०२.१।
ते ह नासिक्यं प्राणमुद्गीथमुपासां चक्रिरे ।
ते ह नासिक्यं+ प्राणम् उद्गीथम् उपासां+ चक्रिरे ।
तं ह असुराः पाप्मना विविधुः ।
तं+ ह असुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।
तस्मात् तेन+ उभयं+ जिघ्रति सु-रभि च दुर्-गन्धि च ।
पाप्मना ह्येष विद्धः ॥१०२.२।
पाप्मना ह्य्+ एष+ विद्धः ॥१०२.२।
अथ ह वाचमुद्गीथमुपासां चक्रिरे ।
अथ ह वाचम् उद्गीथम् उपासां+ चक्रिरे ।
तां हासुराः पाप्मना विविधुः ।
तां+ ह+ असुराः पाप्मना विविधुः ।
तस्मात् (तयोभयं S तेनोभयं )वदति सत्यं चानृतं च ।
तस्मात् (तया+ उभयं+ S तेन+ उभयं+ ) वदति सत्यं+ च+ अन्-ऋतं+ च ।
पाप्मना ह्येषा विद्धा ॥१०२.३।
पाप्मना ह्य्+ एषा विद्धा ॥१०२.३।
अथ ह चक्षुरुद्गीथमुपासां चक्रिरे ।
अथ ह चक्षुर्+ उद्गीथम् उपासां+ चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तद्+ + ध+ असुराः पाप्मना विविधुः ।
तस्मात्तेन उभयं पश्यति दर्शनीयं चादर्शनीयं च ।
तस्मात् तेन+ उभयं+ पश्यति दर्शनीयं+ च+ अ-दर्शनीयं+ च ।
पाप्मना ह्येतद्विद्धम् ।।१०२.४।
पाप्मना ह्य्+ एतद्+ विद्धम् ॥१०२.४।
अथ ह श्रोत्रमुद्गीथमुपासां चक्रिरे ।
अथ ह श्रोत्रम् उद्गीथम् उपासां+ चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तद्+ + ध+ असुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च ।
तस्मात् तेन+ उभयं+ शृणोति श्रवणीयं+ च+ अ-श्रवणीयं+ च ।
पाप्मना ह्येतद्विद्धम् ।।१०२.५।
पाप्मना ह्य्+ एतद्+ विद्धम् ॥१०२.५।
अथ ह मन उद्गीथमुपासां चक्रिरे ।
अथ ह मन+ उद्गीथम् उपासां+ चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तद्+ + ध+ असुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं संकल्पयते संकल्पनीयं च ।
तस्मात् तेन+ उभयं+ संकल्पयते संकल्पनीयं+ च ।
पाप्मना ह्येतद्विद्धम् ।।१०२.६।
पाप्मना ह्य्+ एतद्+ विद्धम् ॥१०२.६।
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासां चक्रिरे ।
अथ ह य+ एव+ अयं+ मुख्यः प्राणस्+ तम् उद्गीथम् उपासां+ चक्रिरे ।
तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वंसेतैवम् ।।१०२.७।
तं+ ह+ असुरा+ ऋत्वा विदध्वंसुर्+ यथा+ अश्मानम् आखणम् ऋत्वा विध्वंसेत+ एवम् ॥१०२.७।
यथाश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश्चैनमभिदासति ।
यथा+ अश्मानम् आखणम् ऋत्वा विध्वंसतए+ एवं+ ह+ एव स+ विध्वंसते य+ एवं-विदि पापं+ कामयते यश्+ च+ एनम् अभिदासति ।
स एषो &श्माखणः ॥१०२.८।
स+ एषो+ + अश्मा+ आखणः ॥१०२.८।
नैवैतेन सुरभि न दुर्गन्धि विजानाति ।
न+ एव+ एतेन सु+ रभि न दुर्+ गन्धि विजानाति ।
अपहतपाप्मा ह्येषः ।
अपहत-पाप्मा ह्य्+ एषः ।
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति ।
तेन यद्+ अश्नाति यत् पिबति तेन+ इतरान् प्राणान् अवति ।
एतमु एवान्ततो (अवित्त्वोत्क्रामति S अवित्त्वोत्क्रामन्ति )।
एतम् उ एव+ अन्ततो+ (+ अ-वित्त्वा+ उत्क्रामति S + अ-वित्त्वा+ उत्क्रामन्ति ) ।
व्याददाति एवान्तत इति ॥१०२.९।
व्याददाति एव+ अन्तत+ इति ॥१०२.९।
तं हाङ्गिरा उद्गीथमुपासां चक्रे ।
तं+ ह+ अङ्गिरा+ उद्गीथम् उपासां+ चक्रे ।
एतमु एव अङ्गिरसं मन्यन्ते अङ्गानां यद्रसः ॥१०२.१०।
एतम् उ एव + अङ्गिरसं+ मन्यन्ते + अङ्गानां+ यद्+ रसः ॥१०२.१०।
तेन {S nimmt dieses "तेन " zum vorhergehenden Abschnitt.} तं ह बृहस्पतिरुद्गीथमुपासां चक्रे ।
तेन {S nimmt dieses "तेन" zum vorhergehenden Abschnitt.} तं+ ह बृहस्-पतिर्+ उद्गीथम् उपासां+ चक्रे ।
एतमु एव बृहस्पतिं मन्यन्ते ।
एतम् उ एव बृहस्पतिं+ मन्यन्ते ।
वाग्घि बृहती तस्या एषपतिः ॥१०२.११।
वाग्+ + घि बृहती तस्या+ एष+ पतिः ॥१०२.११।
तेन {S nimmt dieses "tena" zum vorhergehenden Abschnitt. }तं हायास्य उद्गीथमुपासां चक्रे ।
तेन {S nimmt dieses "tena" zum vorhergehenden Abschnitt. } तं+ ह+ अयास्य+ उद्गीथम् उपासां+ चक्रे ।
एतमु एवायास्यं मन्यन्ते ।
एतम् उ एव+ आयास्यं+ मन्यन्ते ।
आस्याद्यदयते ॥१०२.१२।
आस्याद्+ यद्+ अयते ॥१०२.१२।
तेन {S nimmt dieses "tena" zum vorhergehenden Abschnitt. }तं ह बको दाल्भ्यो विदां चकार ।
तेन {S nimmt dieses "tena" zum vorhergehenden Abschnitt. } तं+ ह बको+ दाल्भ्यो+ विदां+ चकार ।
स ह नैमिशीयानामुद्गाता बभूव ।
स+ ह नैमिशीयानाम् उद्गाता बभूव ।
स ह स्मैभ्यः कामानागायति ॥१०२.१३।
स+ ह स्म+ एभ्यः कामान् आगायति ॥१०२.१३।
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।
आगाता ह वै कामानां+ भवति य+ एतद्+ एवं+ विद्वान् अ-क्षरम् उद्गीथम् उपास्ते ।
इत्यध्यात्मम् ।।१०२.१४।
इत्य्+ अध्य्-आत्मम् ॥१०२.१४।
1.3
अथाधि (दैवम् S देवतम् )।
अथ+ अधि-(दैवम् S देवतम् ) ।
य एवासौ तपति तमुद्गीथमुपासीत ।
य एव+ असौ तपति तम् उद्गीथम् उपासीत ।
उद्यन्वाऐ एष प्रजाभ्य उद्गायति ।
उद्यन् वाऐ+ एष+ प्रजाभ्य+ उद्गायति ।
उद्यंस्तमो भयमपहन्ति ।
उद्यंस्+ तमो+ भयम् अपहन्ति ।
अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥१०३.१।
अपहन्ता ह वै भयस्य तमसो+ भवति य+ एवं+ वेद ॥१०३.१।
समान उ एवायं चासौ च ।
समान+ उ एव+ अयं+ च+ असौ च ।
उष्णो &यमुष्णो &सौ ।
उष्णो+ + अयम् उष्णो+ + असौ ।
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुम् ।
स्वर+ इति+ इमम् आचक्षते स्वर+ इति प्रत्यास्वर+ इत्य्+ अमुम् ।
तस्माद्वाऐ एतमिमममुं च उद्गीथमुपासीत ॥१०३.२।
तस्माद्+ वाऐ+ एतम् इमम् अमुं+ च उद्गीथम् उपासीत ॥१०३.२।
अथ खलु व्यानमेवोद्गीथमुपासीत ।
अथ खलु व्यानम् एव+ उद्गीथम् उपासीत ।
यद्वै प्राणिति स प्राणः ।
यद्+ वै प्राणिति स+ प्राणः ।
यदपानिति सो &पानः ।
यद्+ अपानिति सो+ + अपानः ।
अथ यः प्राणापानयोः संधिः स व्यानः ।
अथ यः प्राण-अपानयोः संधिः स+ व्यानः ।
यो व्यानः सा वाक् ।
यो+ व्यानः सा वाक् ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥१०३.३।
तस्माद्+ अ-प्राणन्न्+ अन्-अपानन् वाचम् अभिव्याहरति ॥१०३.३।
या वाक्सर्क् ।
या वाक् सा+ ऋक् ।
तस्मादप्राणन्ननपानन्नृचमभ्व्याहरति ।
तस्माद्+ अ-प्राणन्न्+ अन्-अपानन्न्+ ऋचम् अभ्व्याहरति ।
यर्क्तत्साम ।
या+ ऋक् तत् साम ।
तस्मादप्राणन्ननपानन्साम गायति ।
तस्माद्+ अ-प्राणन्न्+ अन्-अपानन् साम गायति ।
यत्साम स उद्गीथः ।
यत् साम स+ उद्गीथः ।
तस्मादप्रानन्ननपानन्नुद्गायति ॥१०३.४।
तस्माद्+ अ-प्रानन्न्+ अन्-अपानन्न्+ उद्गायति ॥१०३.४।
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ।
अतो+ यान्य्+ अन्यानि वीर्यवन्ति कर्माणि यथा+ अग्नेर्+ मन्थनम् आजेः सरणं+ दृढस्य धनुष+ आयमनम् अ-प्राणन्न्+ अन्-अपानंस्+ तानि करोति ।
एतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥१०३.५।
एतस्य हेतोर्+ व्यानम् एव+ उद्गीथम् उपासीत ॥१०३.५।
अथ खलूद्गीथाक्षराण्युपासीत उद् _गी थ इति ।
अथ खलु+ उद्गीथ-अ-क्षराण्य्+ उपासीत उद्_ गी थ इति ।
प्राण एवोत् ।
प्राण+ एव+ उत् ।
प्राणेन ह्युत्तिष्ठति ।
प्राणेन ह्य्+ उत्तिष्ठति ।
वग्गीः ।
वग्+ गीः ।
वाचो ह गिर इत्याचक्षते ।
वाचो+ ह गिर+ इत्य्+ आचक्षते ।
अन्नं थम् ।
अन्नं+ थम् ।
अन्ने हीदं सर्वं स्थितम् ।।१०३.६।
अन्ने हि+ इदं+ सर्वं+ स्थितम् ॥१०३.६।
द्यौरेवोत् ।
द्यौर्+ एव+ उत् ।
अन्तरिक्षं गीः ।
अन्तरिक्षं+ गीः ।
पृथिवी थम् ।
पृथिवी थम् ।
आदित्य एवोत् ।
आदित्य+ एव+ उत् ।
वायुर्गीः ।
वायुर्+ गीः ।
अग्निस्थम् ।
अग्निस्+ थम् ।
सामवेद एवोत् ।
साम-वेद+ एव+ उत् ।
यजुर्वेदो गीः ।
यजुर्-वेदो+ गीः ।
ऋग्वेदस्थम् ।
ऋग्-वेदस्+ थम् ।
दुग्धे अस्मै वाग्दोहं यो वाचो दोहः ।
दुग्धे + अस्मै वाग्+ दोहं+ यो+ वाचो+ दोहः ।
अन्नवानन्नादो भवति ।
अन्नवान् अन्न-अदो+ भवति ।
य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद् _गी थ इति ॥१०३.७।
य+ एतान्य्+ एवं+ विद्वान् उद्गीथ-अ-क्षराण्य्+ उपास्तए+ उद्_ गी थ इति ॥१०३.७।
अथ खल्वाशीः समृद्धिः ।
अथ खल्व्+ आशीः समृद्धिः ।
उपसरणानीत्युपासीत ।
उपसरणानि+ इत्य्+ उपासीत ।
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ।।१०३.८।
येन साम्ना स्तोष्यन् स्यात् तत् साम+ उपधावेत् ॥१०३.८।
यस्यामृचि तामृचं ,यदार्षेयं तमृषिं ,यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ।।१०३.९।
यस्याम् ऋचि ताम् ऋचं+ , यद्+ आर्षेयं+ तम् ऋषिं+ , यां+ देवताम् अभिष्टोष्यन् स्यात् तां+ देवताम् उपधावेत् ॥१०३.९।
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेत् ।
येन + च्छन्दसा स्तोष्यन् स्यात् तच्+ छन्द+ उपधावेत् ।
येन स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ।।१०३.१०।
येन स्तोमेन स्तोष्यमाणः स्यात् तं+ स्तोमम् उपधावेत् ॥१०३.१०।
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ।।१०३.११।
यां+ दिशम् अभिष्टोष्यन् स्यात् तां+ दिशम् उपधावेत् ॥१०३.११।
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तः ।
आत्मानम् अन्तत+ उपसृत्य स्तुवीत कामं+ ध्यायन्न्+ अ-प्रमत्तः ।
अभ्याशो ह यदस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥१०३.१२।
अभ्याशो+ ह यद्+ अस्मै स+ कामः स्मृध्येत यत्-कामः स्तुवीत+ इति यत्-कामः स्तुवीत+ इति ॥१०३.१२।
1.4
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओम् इत्य्+ एतद्+ अ-क्षरम् उद्गीथम् उपासीत ।
ओमिति ह्युद्गायति ।
ओम् इति ह्य्+ उद्गायति ।
तस्योपव्याख्यानम् ।।१०४.१।
तस्य+ उपव्याख्यानम् ॥१०४.१।
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ।
देवा+ वै मृत्योर्+ बिभ्यतस्+ त्रयीं+ विद्यां+ प्राविशन् ।
ते छन्दोभिरच्छादयन् ।
ते छन्दोभिर्+ अच्छादयन् ।
यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम् ।।१०४.२।
यद्+ एभिर्+ अच्छादयंस्+ तच्+ छन्दसां+ छन्दस्त्वम् ॥१०४.२।
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि ।
तान् उ तत्र मृत्युर्+ यथा मत्स्यम् उदके परिपश्येद्+ एवं+ पर्यपश्यद्+ ऋचि साम्नि यजुषि ।
ते नु (वित्त्वोर्ध्वा S विदित्वोर्ध्वा )ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ।।१०४.३।
ते नु (वित्त्वा+ उर्ध्वा+ S विदित्वा+ ऊर्ध्वा+ ) ऋचः साम्नो+ यजुषः स्वरम् एव प्राविशन् ॥१०४.३।
यदा वाऐ ऋचम् (आप्नोत्य् S समाप्नोति )ओमित्येवातिस्वरति एवं सामैवं यजुः ।
यदा वाऐ+ ऋचम् (आप्नोत्य्+ S समाप्नोति ) ओम् इत्य्+ एव+ अतिस्वरति एवं+ साम+ एवं+ यजुः ।
एष उ स्वरो यदेतदक्षरमेतदमृतमभयम् ।
एष+ उ स्वरो+ यद्+ एतद्+ अ-क्षरम् एतद्+ अ-मृतम् अ-भयम् ।
तत्प्रविश्य देवा अमृता अभवन् ।।१०४.४।
तत् प्रविश्य देवा+ अ-मृता+ अभवन् ॥१०४.४।
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं स्वरममृतमभयं प्रविशति ।
स+ य+ एतद्+ एवं+ विद्वान् अ-क्षरं+ प्रणौत्य्+ एतद्+ एव+ अ-क्षरं+ स्वरम् अ-मृतम् अ-भयं+ प्रविशति ।
तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥१०४.५।
तत् प्रविश्य यद्+ अ-मृता देवास्+ तद्+ अ-मृतो+ भवति ॥१०४.५।
1.5
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
अथ खलु य+ उद्गीथः स+ प्रणवो+ यः प्रणवः स+ उद्गीथ+ इति ।
असौ वाऐ आदित्य उद्गीथ एष प्रणवः ।
असौ वाऐ+ आदित्य+ उद्गीथ+ एष+ प्रणवः ।
ओमिति ह्येष स्वरन्नेति ॥१०५.१।
ओम् इति ह्य्+ एष+ स्वरन्न्+ एति ॥१०५.१।
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेको &सीति ह कौषीतकिः पुत्रमुवाच ।
एतम् उ एव+ अहम् अभ्यगासिषं+ तस्मान्+ मम त्वम् एको+ + असि+ इति ह कौषीतकिः पुत्रम् उवाच ।
रश्मींस्त्वं (पर्यावर्तयात् S पर्यावर्तयतात् )।
रश्मींस्+ त्वं+ (पर्यावर्तयात् S पर्यावर्तयतात् ) ।
बहवो वै ते भविष्यन्ति ।
बहवो+ वै ते भविष्यन्ति ।
इत्यधि (दैवतम् S देवतम् )॥१०५.२।
इत्य्+ अधि-(दैवतम् S देवतम् ) ॥१०५.२।
अथाध्यात्मम् ।
अथ+ अध्य्-आत्मम् ।
य एवायं मुख्यः प्राणस्तमुद्गीथमुपासित ।
य+ एव+ अयं+ मुख्यः प्राणस्+ तम् उद्गीथम् उपासित ।
ओमिति ह्येष स्वरन्नेति ॥१०५.३।
ओम् इति ह्य्+ एष+ स्वरन्न्+ एति ॥१०५.३।
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेको असीति ह कौषीतकिः पुत्रमुवाच ।
एतम् उ एव+ अहम् अभ्यगासिषं+ तस्मान्+ मम त्वम् एको+ असि+ इति ह कौषीतकिः पुत्रम् उवाच ।
(प्राणांस् S प्राणं )त्वं भूमानमभिगायताद्बहवो वै ( मे S ते )भविष्यन्तीति ॥१०५.४।
(प्राणांस्+ S प्राणं+ ) त्वं+ भूमानम् अभिगायताद्+ बहवो+ वै ( मे S ते ) भविष्यन्ति+ इति ॥१०५.४।
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
अथ खलु य+ उद्गीथः स+ प्रणवो+ यः प्रणवः स+ उद्गीथ+ इति ।
होतृषदनाद्ध एवापि दुरुद्गीथम् (अनुसमाहरतीत्यनुसमाहरतीति S अनुसमाहरति अनुसमाहरति )॥१०५.५।
होतृ-षदनाद्+ + ध एव+ अपि दुर्-उद्गीथम् (अनुसमाहरति+ इत्य्+ अनुसमाहरति+ इति S अनुसमाहरति अनुसमाहरति ) ॥१०५.५।
1.6
इयमेवर्क् ।
इयम् एव+ ऋक् ।
अग्निः साम ।
अग्निः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
इयमेव सा ।
इयम् एव सा ।
अग्निरमः ।
अग्निर्+ अमः ।
तत्साम ॥१०६.१।
तत् साम ॥१०६.१।
अन्तरिक्षमेवर्क् ।
अन्तरिक्षम् एव+ ऋक् ।
वायुः साम ।
वायुः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
अन्तरिक्षमेव सा ।
अन्तरिक्षम् एव सा ।
वायुरमः ।
वायुर्+ अमः ।
तत्साम ॥१०६.२।
तत् साम ॥१०६.२।
द्यौरेवर्क् ।
द्यौर्+ एव+ ऋक् ।
आदित्यः साम ।
आदित्यः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
द्यौरेव सा ।
द्यौर्+ एव सा ।
आदित्यो &मः ।
आदित्यो+ + अमः ।
तत्साम ॥१०६.३।
तत् साम ॥१०६.३।
नक्षत्रान्येवर्क् ।
नक्षत्रान्य्+ एव+ ऋक् ।
चन्द्रमाः साम ।
चन्द्र-माः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
नक्षत्राण्येव सा ।
नक्षत्राण्य्+ एव सा ।
चन्द्रमा अमः ।
चन्द्र-मा+ अमः ।
तत्साम ॥१०६.४।
तत् साम ॥१०६.४।
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क् ।
अथ यद्+ एतद्+ आदित्यस्य शुक्लं+ भाः सा+ एव+ ऋक् ।
अथ यन्नीलं परःकृष्णं तत्साम ।
अथ यन्+ नीलं+ परः-कृष्णं+ तत् साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मदृच्यध्यूढं साम गीयते ॥१०६.५।
तस्मद्+ ऋच्य्+ अध्यूढं+ साम गीयते ॥१०६.५।
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा ।
अथ यद्+ एव+ एतद्+ आदित्यस्य शुक्लं+ भाः सा+ एव सा ।
अथ यन्नीलं परःकृष्णं तदमः ।
अथ यन्+ नीलं+ परः-कृष्णं+ तद्+ अमः ।
तत्साम ।
तत् साम ।
अथ य एषो अन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ (प्रणखात् S प्रनखात् )सर्व एव सुवर्नः ॥१०६.६।
अथ य+ एषो+ अन्तर्-आदित्ये हिरण्मयः पुरुषो+ दृश्यते हिरण्य-श्मश्रुर्+ हिरण्य-केश+ आ (प्रणखात् S प्रनखात् ) सर्व+ एव सु-वर्नः ॥१०६.६।
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ।
तस्य यथा कप्यासं+ पुण्डरीकम् एवम् अक्षिणी ।
तस्योदिति नाम ।
तस्य+ उद्+ इति नाम ।
स एष सर्वेभ्यः पाप्मभ्य उदितः ।
स+ एष+ सर्वेभ्यः पाप्मभ्य+ उदितः ।
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥१०६.७।
उदेति ह वै सर्वेभ्यः पाप्मभ्यो+ य+ एवं+ वेद ॥१०६.७।
तस्यर्क्च साम च गेष्णौ ।
तस्य+ ऋक् च साम च गेष्णौ ।
तस्मादुद्गीथः ।
तस्माद्+ उद्गीथः ।
तस्मात्त्वेव उद्गाता ।
तस्मात् त्व्+ एव उद्गाता ।
एतस्य हि गाता ।
एतस्य हि गाता ।
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ट देवकामानां च ।
स+ एष+ ये च+ अमुष्मात् पराञ्चो+ लोकास्+ तेषां+ च+ ईष्टए+ देव-कामानां+ च ।
इत्यधि (दैवतम् S देवतम् )॥१०६.८।
इत्य्+ अधि-(दैवतम् S देवतम् ) ॥१०६.८।
1.7
अथाध्यात्मम् ।
अथ+ अध्य्-आत्मम् ।
वागेवर्क् ।
वाग्+ एव+ ऋक् ।
प्राणः साम ।
प्राणः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
वागेव सा ।
वाग्+ एव सा ।
प्राणो &मः ।
प्राणो+ + अमः ।
तत्साम ॥१०७.१।
तत् साम ॥१०७.१।
चक्षुरेवर्क् ।
चक्षुर्+ एव+ ऋक् ।
आत्मा साम ।
आत्मा साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
चक्षुरेव सा ।
चक्षुर्+ एव सा ।
आत्मामः ।
आत्मा+ अमः ।
तत्साम ॥१०७.२।
तत् साम ॥१०७.२।
श्रोत्रमेवर्क् ।
श्रोत्रम् एव+ ऋक् ।
मनः सआम ।
मनः सआम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
श्रोत्रमेव सा ।
श्रोत्रम् एव सा ।
मनो &मः ।
मनो+ + अमः ।
तत्साम ॥१०७.३।
तत् साम ॥१०७.३।
अथ यदेतदक्ष्नः शुक्लं भाः सैवर्क् ।
अथ यद्+ एतद्+ अक्ष्नः शुक्लं+ भाः सा+ एव+ ऋक् ।
अथ यन्नीलं परःकृष्णं तत्साम ।
अथ यन्+ नीलं+ परः-कृष्णं+ तत् साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तद्+ एतद्+ एतस्याम् ऋच्य्+ अध्यूढं+ साम ।
तस्मादृच्यध्यूढं साम गीयते ।
तस्माद्+ ऋच्य्+ अध्यूढं+ साम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव सा ।
अथ यद्+ एव+ एतद्+ अक्ष्णः शुक्लं+ भाः सा+ एव सा ।
अथ यन्नीलं परःकृष्णं तदमः ।
अथ यन्+ नीलं+ परः-कृष्णं+ तद्+ अमः ।
तत्साम ॥१०७.४।
तत् साम ॥१०७.४।
अथ य एषो (अन्तरक्षिणि S अन्तरक्षणि )पुरुषो दृश्यते सैवर्क् ।
अथ य+ एषो+ (+ अन्तर्+ अक्षिणि S + अन्तर्-अक्षणि ) पुरुषो+ दृश्यते सा+ एव+ ऋक् ।
तत्साम ।
तत् साम ।
तदुक्थम् ।
तद्+ उक्थम् ।
तद्यजुः ।
तद्+ यजुः ।
तद्ब्रह्म ।
तद्+ ब्रह्म ।
तस्य एतस्य तदेव रूपं यदमुष्य रूपम् ।
तस्य एतस्य तद्+ एव रूपं+ यद्+ अमुष्य रूपम् ।
यावमुष्य गेष्णौ तौ तौ गोष्णौ ।
याव्+ अमुष्य गेष्णौ तौ तौ गोष्णौ ।
यन्नाम तन्नाम ॥१०७.५।
यन्+ नाम तन्+ नाम ॥१०७.५।
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां (चेति S च )।
स+ एष+ ये च+ एतस्माद्+ अर्वाञ्चो+ लोकास्+ तेषां+ च+ ईष्टे मनुष्य-कामानां+ (च+ इति S च ) ।
तद्य इमे वीणायां गायन्त्येतं ते गायन्ति ।
तद्+ यए+ इमे वीणायां+ गायन्त्य्+ एतं+ ते गायन्ति ।
तस्मात्ते धनसनयः ॥१०७.६।
तस्मात् ते धन-सनयः ॥१०७.६।
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति ।
अथ य+ एतद्+ एवं+ विद्वान् साम गायत्य्+ उभौ स+ गायति ।
सो &मुनैव (( S स एष S ))ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च ॥१०७.७।
सो+ + अमुना+ एव (( S स+ एष+ S ))ये च+ अमुष्मात् पराञ्चो+ लोकास्+ तांश्+ च+ आप्नोति देव-कामांश्+ च ॥१०७.७।
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च ।
अथ+ अनेन+ एव ये च+ एतस्माद्+ अर्वाञ्चो+ लोकास्+ तांश्+ च+ आप्नोति मनुष्य-कामांश्+ च ।
तस्मादु हैवंविदुद्गाता ब्रूयात् ।।१०७.८।
तस्माद्+ उ ह+ एवं-विद्+ उद्गाता ब्रूयात् ॥१०७.८।
कं ते काममागायानीति ।
कं+ ते कामम् आगायानि+ इति ।
एष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥१०७.९।
एष+ ह्य्+ एव काम-आगानस्य+ ईष्टे य+ एवं+ विद्वान् साम गायति साम गायति ॥१०७.९।
1.8
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ।
त्रयो+ ह+ उद्गीथे कुशला+ बभूवुः शिलकः शालावत्यश्+ चैकितायनो+ दाल्भ्यः प्रवाहणो+ जैवलिर्+ इति ।
ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां (वदाम इति S वदामेति )॥१०८.१।
ते ह+ ऊचुर्+ उद्गीथे वै कुशलाः स्मो+ हन्त+ उद्गीथे कथां+ (वदाम+ इति S वदाम+ इति ) ॥१०८.१।
तथेति ह समुपविविशुः ।
तथा+ इति ह समुपविविशुः ।
स ह प्रावहणो जैवलिरुवाच ।
स+ ह प्रावहणो+ जैवलिर्+ उवाच ।
भगवन्तावग्रे वदताम् ।
भगवन्ताव्+ अग्रे वदताम् ।
भ्रामणयोर्वदतोर्वाचं श्रोष्यामीति ॥१०८.२।
भ्रामणयोर्+ वदतोर्+ वाचं+ श्रोष्यामि+ इति ॥१०८.२।
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति ।
स+ ह शिलकः शालावत्यश्+ चैकितायनं+ दाल्भ्यम् उवाच हन्त त्वा पृच्छानि+ इति ।
पृच्छेति होवाच ॥१०८.३।
पृच्छ+ इति ह+ उवाच ॥१०८.३।
का साम्नो गतिरिति ।
का साम्नो+ गतिर्+ इति ।
स्वर इति होवाच ।
स्वर+ इति ह+ उवाच ।
स्वरस्य का गतिरिति ।
स्वरस्य का गतिर्+ इति ।
प्राण इति होवाच ।
प्राण+ इति ह+ उवाच ।
अन्नस्य का गतिरिति ।
अन्नस्य का गतिर्+ इति ।
अन्नमिति होवाच ।
अन्नम् इति ह+ उवाच ।
अन्नस्य का गतिरिति ।
अन्नस्य का गतिर्+ इति ।
आप इति होवाच ॥१०८.४।
आप+ इति ह+ उवाच ॥१०८.४।
अपां का गतिरिति ।
अपां+ का गतिर्+ इति ।
असौ लोक इति होवाच ।
असौ लोक+ इति ह+ उवाच ।
अमुष्य लोकस्य का गतिरिति ।
अमुष्य लोकस्य का गतिर्+ इति ।
न स्वर्गं लोकम् (अतिनयेद् S अति नयेद् )इति होवाच ।
न स्वर्गं+ लोकम् (अतिनयेद्+ S अति नयेद्+ ) इति ह+ उवाच ।
स्वर्गं वयं लोकं सामाभिसंस्थापयामः ।
स्वर्गं+ वयं+ लोकं+ साम+ अभिसंस्थापयामः ।
स्वर्गसंस्तावं हि सामेति ॥१०८.५।
स्वर्ग-संस्तावं+ हि साम+ इति ॥१०८.५।
तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम ।
तं+ ह शिलकः शालावत्यश्+ चैकितायनं+ दाल्भ्यम् उवाच+ अ-प्रतिष्ठितं+ वै किल ते दाल्भ्य साम ।
यस् (त्वेतर्हि S त्वैतर्हि )ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥१०८.६।
यस्+ (त्व्+ एतर्हि S त्वा+ एतर्हि ) ब्रूयान्+ मूर्धा ते विपतिष्यति+ इति मूर्धा ते विपतेद्+ इति ॥१०८.६।
हन्ताहमेतद् (भगवतो S भगवत्तो )वेदानीति ।
हन्त+ अहम् एतद्+ (भगवतो+ S भगवत्तो+ ) वेदानि+ इति ।
विद्धीति होवाच ।
विद्धि+ इति ह+ उवाच ।
अमुष्य लोकस्य का गतिरिति ।
अमुष्य लोकस्य का गतिर्+ इति ।
अयं लोक इति होवाच ।
अयं+ लोक+ इति ह+ उवाच ।
अस्य लोकस्य का गतिरिति ।
अस्य लोकस्य का गतिर्+ इति ।
न प्रतिष्ठां लोकम् (अतिनयेद् S अति नयेद् )इति होवाच ।
न प्रतिष्ठां+ लोकम् (अतिनयेद्+ S अति नयेद्+ ) इति ह+ उवाच ।
प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः ।
प्रतिष्ठां+ वयं+ लोकं+ साम+ अभिसंस्थापयामः ।
प्रतिष्ठासंस्तावं हि सामेति ॥१०८.७।
प्रतिष्ठा-संस्तावं+ हि साम+ इति ॥१०८.७।
तं ह प्रवाहणो जैवलिरुवाच ।
तं+ ह प्रवाहणो+ जैवलिर्+ उवाच ।
अन्तवद्वै किल ते शालावत्य साम ।
अन्तवद्+ वै किल ते शालावत्य साम ।
यस् (त्वेतर्हि S त्वैतर्हि )ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ।
यस्+ (त्व्+ एतर्हि S त्वा+ एतर्हि ) ब्रूयान्+ मूर्धा ते विपतिष्यति+ इति मूर्धा ते विपतेद्+ इति ।
हन्ताहमेतद् (भगवतो S भगवत्तो )वेदानीति ।
हन्त+ अहम् एतद्+ (भगवतो+ S भगवत्तो+ ) वेदानि+ इति ।
विद्धीति होवाच ॥१०८.८।
विद्धि+ इति ह+ उवाच ॥१०८.८।
1.9
अस्य लोकस्य का गतिरिति ।
अस्य लोकस्य का गतिर्+ इति ।
आकाश इति होवाच ।
आकाश+ इति ह+ उवाच ।
सर्वाणि ह वाऐ इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।
सर्वाणि ह वाऐ+ इमानि भूतान्य्+ आकाशाद्+ एव समुत्पद्यन्ते ।
आकाशं प्रत्यस्तं यन्ति ।
आकाशं+ प्रत्य्+ अस्तं+ यन्ति ।
आकाशो ह्येवैभ्यो ज्यायान् ।
आकाशो+ ह्य्+ एव+ एभ्यो+ ज्यायान् ।
आकाशः परायणम् ।।१०९.१।
आकाशः पर-अयणम् ॥१०९.१।
स एष परोवरीयानुद्गीथः ।
स+ एष+ परो-वरीयान् उद्गीथः ।
स एषो &नन्तः ।
स+ एषो+ + अन्-अन्तः ।
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते ॥१०९.२।
परो-वरीयो+ ह+ अस्य भवति परो-वरीयसो+ ह लोकाञ्+ जयति य+ एतद्+ एवं+ विद्वान् परो-वरीयांसम् उद्गीथम् उपास्ते ॥१०९.२।
तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच ।
तं+ ह+ एतम् अति-धन्वा शौनक+ उदर-शाण्डिल्याय+ उक्त्वा+ उवाच ।
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो (हैभ्यस् S ह्येभ्यस् )तावदस्मिंल्लोके जीवनं भविष्यति ॥१०९.३।
यावत् तए+ एनं+ प्रजायाम् उद्गीथं+ वेदिष्यन्ते परो-वरीयो+ (ह+ एभ्यस्+ S ह्य्+ एभ्यस्+ ) तावद्+ अस्मिंल्+ लोके जीवनं+ भविष्यति ॥१०९.३।
तथामुष्मिंल्लोके लोक इति ।
तथा+ अमुष्मिंल्+ लोके लोक+ इति ।
स य एतम् (एव S एवं )विद्वानुपास्ते परोवरीय एव ( हास्यामुष्मिंल् S हास्य अस्मिंल् )लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥१०९.४।
स+ य+ एतम् (एव S एवं+ ) विद्वान् उपास्ते परो-वरीय+ एव ( ह+ अस्य+ अमुष्मिंल्+ S ह+ अस्य अस्मिंल्+ ) लोके जीवनं+ भवति तथा+ अमुष्मिंल्+ लोके लोक+ इति लोके लोक इति ॥१०९.४।
1.10
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥११०.१।
मटची-हतेषु कुरुष्व्+ आटिक्या सह जायया+ उषस्तिर्+ ह चाक्रायण+ इभ्य-ग्रामे प्रद्राणक+ उवास ॥११०.१।
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे ।
स+ ह+ इभ्यं+ कुल्माषान् खादन्तं+ बिभिक्षे ।
तं होवाच ।
तं+ ह+ उवाच ।
नेतो &न्ये विद्यन्ते यच् (चये S च ये )म इम उपनिहिता इति ॥११०.२।
न+ इतो+ + अन्ये विद्यन्ते यच्+ (चये S च ये ) मए+ इमए+ उपनिहिता+ इति ॥११०.२।
एतेषां मे देहीति होवाच ।
एतेषां+ मे देहि+ इति ह+ उवाच ।
तानस्मै प्रददौ ।
तान् अस्मै प्रददौ ।
हन्तानुपानमिति ।
हन्त+ अनुपानम् इति ।
उच्छिष्टं वै मे पीतं स्यादिति होवाच ॥११०.३।
उच्छिष्टं+ वै मे पीतं+ स्याद्+ इति ह+ उवाच ॥११०.३।
न स्विदेते अप्युच्छिष्टा इति ।
न स्विद् एते + अप्य्+ उच्छिष्टा+ इति ।
न वाऐ अजीविष्यमिमानखादन्निति होवाच ।
न वाऐ+ अजीविष्यम् इमान् अ-खादन्न्+ इति ह+ उवाच ।
कामो म उदपानमिति ॥११०.४।
कामो+ मए+ उद-पानम् इति ॥११०.४।
स ह खादित्वातिशेषाञ्जायायाऐ आजहार ।
स+ ह खादित्वा+ अति-शेषाञ्+ जायायाऐ+ आजहार ।
साग्र एव सुभिक्षा बभूव ।
सा+ अग्रए+ एव सु-भिक्षा बभूव ।
तान्प्रतिगृह्य निदधौ ॥११०.५।
तान् प्रतिगृह्य निदधौ ॥११०.५।
स ह प्रातः संजिहान उवाच ।
स+ ह प्रातः संजिहान+ उवाच ।
यद्बतान्नस्य लभेमहि लभेमहि धनमात्राम् ।
यद्+ बत+ अन्नस्य लभेमहि लभेमहि धन-मात्राम् ।
राजासौ यक्ष्यते ।
राजा+ असौ यक्ष्यते ।
स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥११०.६।
स+ मा सर्वैर्+ आर्त्विज्यैर्+ वृणीत+ इति ॥११०.६।
तं जायोवाच ।
तं+ जाया+ उवाच ।
हन्त पत इम एव कुल्माषा इति ।
हन्त पतए+ इमए+ एव कुल्माषा+ इति ।
तान्खादित्वामुं यज्ञं विततमेयाय ॥११०.७।
तान् खादित्वा+ अमुं+ यज्ञं+ विततम् एयाय ॥११०.७।
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश ।
तत्र+ उद्गातॄन् आस्तावे स्तोष्यमाणान् उपोपविवेश ।
स ह प्रस्तोतरमुवाच ॥११०.८।
स+ ह प्रस्तोतरम् उवाच ॥११०.८।
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥११०.९।
प्रस्तोतर्+ या देवता प्रस्तावम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यति+ इति ॥११०.९।
एवमेवोद्गातारमुवाच ।
एवम् एव+ उद्गातारम् उवाच ।
उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ।।११०.१०।एवमेव प्रतिहर्तारमुवाच ।
उद्गातर्+ या देवता+ उद्गीथम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् उद्गास्यसि मूर्धा ते विपतिष्यति+ इति ॥११०.१०। एवम् एव प्रतिहर्तारम् उवाच ।
प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ।
प्रतिहर्तर्+ या देवता प्रतिहारम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यति+ इति ।
ते ह समारतास्तूष्णीमासां चक्रिरे ॥११०.११।
ते ह समारतास्+ तूष्णीम् आसां+ चक्रिरे ॥११०.११।
1.11
अथ हैनं यजमान उवाच ।
अथ ह+ एनं+ यजमान+ उवाच ।
भगवन्तं वाऐ अहं विविदिषाणीति ।
भगवन्तं+ वाऐ+ अहं+ विविदिषाणि+ इति ।
उषस्तिरस्मि चाक्रायण इति होवाच ॥१११.१।
उषस्तिर्+ अस्मि चाक्रायण+ इति ह+ उवाच ॥१११.१।
स होवाच ।
स+ ह+ उवाच ।
भगवन्तं वाऐ अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषम् ।
भगवन्तं+ वाऐ+ अहम् एभिः सर्वैर्+ आर्त्विज्यैः पर्यैषिषम् ।
भगवतो वाऐ अहमवित्त्यान्यानवृषि ॥१११.२।
भगवतो+ वाऐ+ अहम् अ-वित्त्या+ अन्यान् अवृषि ॥१११.२।
भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ।
भगवांस्+ त्व्+ एव मे सर्वैर्+ आर्त्विज्यैर्+ इति ।
तथेति ।
तथा+ इति ।
अथ तर्ह्येत एव समतिसृष्टाः स्तुवताम् ।
अथ तर्ह्य्+ एतए+ एव समतिसृष्टाः स्तुवताम् ।
यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति ।
यावत् त्व्+ एभ्यो+ धनं+ दद्यास्+ तावन्+ मम दद्या+ इति ।
तथेति ह यजमान उवाच ॥१११.३।
तथा+ इति ह यजमान+ उवाच ॥१११.३।
अथ हैनं प्रस्तोतोपससाद ।
अथ ह+ एनं+ प्रस्तोता+ उपससाद ।
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
प्रस्तोतर्+ या देवता प्रस्तावम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यति+ इति मा भगवान् अवोचत् ।
कतमा सा देवतेति ॥१११.४।
कतमा सा देवता+ इति ॥१११.४।
प्राण इति होवाच ।
प्राण+ इति ह+ उवाच ।
सर्वाणि ह वाऐ इमानि भूतानि प्राणमेवाभिसंविशन्ति ।
सर्वाणि ह वाऐ+ इमानि भूतानि प्राणम् एव+ अभिसंविशन्ति ।
प्राणमभ्युज्जिहते ।
प्राणम् अभ्युज्जिहते ।
सैषा देवता प्रस्तावमन्वायत्ता ।
सा+ एषा देवता प्रस्तावम् अन्वायत्ता ।
तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते विपतिष्यत्तथोक्तस्य मयेति ॥१११.५।
तां+ चेद्+ अ-विद्वान् प्रास्तोष्यो+ मूर्धा ते विपतिष्यत् तथा+ उक्तस्य मया+ इति ॥१११.५।
अथ हैनमुद्गातोपससाद ।
अथ ह+ एनम् उद्गाता+ उपससाद ।
उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
उद्गातर्+ या देवता+ उद्गीथम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् उद्गास्यसि मूर्धा ते विपतिष्यति+ इति मा भगवान् अवोचत् ।
कतमा सा देवता इति ॥१११.६।
कतमा सा देवता+ इति ॥१११.६।
आदित्य इति होवाच ।
आदित्य+ इति ह+ उवाच ।
सर्वाणि ह वाऐ इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति ।
सर्वाणि ह वाऐ+ इमानि भूतान्य्+ आदित्यम् उच्चैः सन्तं+ गायन्ति ।
सैषा देवतोद्गीथमन्वायत्ता ।
सा+ एषा देवता+ उद्गीथम् अन्वायत्ता ।
तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥१११.७।
तां+ चेद्+ अ-विद्वान् उदगास्यो+ मूर्धा ते व्यपतिष्यत् तथा+ उक्तस्य मया+ इति ॥१११.७।
अथ हैनं प्रतिहर्तोपससाद ।
अथ ह+ एनं+ प्रतिहर्ता+ उपससाद ।
प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
प्रतिहर्तर्+ या देवता प्रतिहारम् अन्वायत्ता तां+ चेद्+ अ-विद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यति+ इति मा भगवान् अवोचत् ।
कतमा सा देवतेति ॥१११.८।
कतमा सा देवता+ इति ॥१११.८।
अन्नमिति होवाच ।
अन्नम् इति ह+ उवाच ।
सर्वाणि ह वाऐ इमानि भूतन्यन्नमेव प्रतिहरमाणानि जीवन्ति ।
सर्वाणि ह वाऐ+ इमानि भूतन्य्+ अन्नम् एव प्रतिहरमाणानि जीवन्ति ।
सैषा देवता प्रतिहारमन्वायत्ता ।
सा+ एषा देवता प्रतिहारम् अन्वायत्ता ।
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥१११.९।
तां+ चेद्+ अ-विद्वान् प्रत्यहरिष्यो+ मूर्धा ते व्यपतिष्यत् तथा+ उक्तस्य मया+ इति तथा+ उक्तस्य मया+ इति ॥१११.९।
8.1
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो &स्मिन्नन्तराकासः ।
अथ यद्+ इदम् अस्मिन् ब्रह्म-पुरे दहरं+ पुण्डरीकं+ वेश्म दहरो+ + अस्मिन्न्+ अन्तर्-आकासः ।
तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥८०१.१।
तस्मिन् यद्+ अन्तस्+ तद्+ अन्वेष्टव्यं+ तद्+ वाव विजिज्ञासितव्यम् इति ॥८०१.१।
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो अस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति ।
तं+ चेद्+ ब्रूयुर्+ यद्+ इदम् अस्मिन् ब्रह्म-पुरे दहरं+ पुण्डरीकं+ वेश्म दहरो + अस्मिन्न्+ अन्तर्-आकाशः किं+ तद्+ अत्र विद्यते यद्+ अन्वेष्टव्यं+ यद्+ वाव विजिज्ञासितव्यम् इति ।
स ब्रूयात् ।।८०१.२।
स+ ब्रूयात् ॥८०१.२।
यावान्वाऐ अयमाकाशस्तावानेषो &न्तर्हृदय आकाशः ।
यावान् वाऐ+ अयम् आकाशस्+ तावान् एषो+ + अन्तर्-हृदयए+ आकाशः ।
उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते ।
उभे अस्मिन् द्यावा-पृथिवी अन्तर् एव समाहिते ।
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि ।
उभाव्+ अग्निश्+ च वायुश्+ च सूर्या-चन्द्रमसाव्+ उभौ विद्युन्+ नक्षत्राणि ।
यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥८०१.३।
यच्+ च+ अस्य+ इह+ अस्ति यच्+ च न+ अस्ति सर्वं+ तद्+ अस्मिन् समाहितम् इति ॥८०१.३।
तं चेद्ब्रूयुरस्मिंश्चेदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदेनज्जरा वाप्नोति प्रध्वंसते वा किं ततो &तिशिष्यत इति ॥८०१.४।
तं+ चेद्+ ब्रूयुर्+ अस्मिंश्+ च+ इदं+ ब्रह्म-पुरे सर्वं+ समाहितं+ सर्वाणि च भूतानि सर्वे च कामा+ यद्+ एनज्+ जरा वा+ आप्नोति प्रध्वंसते वा किं+ ततो+ + अतिशिष्यतए+ इति ॥८०१.४।
स ब्रूयात् ।
स+ ब्रूयात् ।
नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते ।
न+ अस्य जरया+ एतज्+ जीर्यति न वधेन+ अस्य हन्यते ।
एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिताः ।
एतत् सत्यं+ ब्रह्म-पुरम् अस्मिन् कामाः समाहिताः ।
एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो &पिपासः सत्यकामः सत्यसंकल्पः ।
एष+ आत्मा+ अपहत-पाप्मा वि-जरो+ वि-मृत्युर्+ वि-शोको+ वि-जिघत्सो+ + अ-पिपासः सत्य-कामः सत्य-संकल्पः ।
यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनम् ।
यथा ह्य्+ एव+ इह प्रजा+ अन्वाविशन्ति यथा+ अनुशासनम् ।
यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥८०१.५।
यं+ यम् अन्तम् अभिकामा+ भवन्ति यं+ जन-पदं+ यं+ क्षेत्र-भागं+ तं+ तम् एव+ उपजीवन्ति ॥८०१.५।
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते ।
तद्+ यथा+ इह कर्म-जितो+ लोकः क्षीयतए+ एवम् एव+ अमुत्र पुण्य-जितो+ लोकः क्षीयते ।
तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति ।
तद्+ यए+ इह+ आत्मानम् अन्-अनुविद्य व्रजन्त्य्+ एतांश्+ च सत्यान् कामांस्+ तेषां+ सर्वेषु लोकेष्व्+ अ-काम-चारो+ भवति ।
अथ य इहात्मानमनिवुद्य व्रजन्त्येतंश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥८०१.६।
अथ यए+ इह+ आत्मानम् अनिवुद्य व्रजन्त्य्+ एतंश्+ च सत्यान् कामांस्+ तेषां+ सर्वेषु लोकेषु काम-चारो+ भवति ॥८०१.६।
8.2
स यदि पितृलोककामो भवति ।
स+ यदि पितृ-लोक-कामो+ भवति ।
संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य पितरः समुत्तिष्ठन्ति ।
तेन पितृलोकेन संपन्नो महीयते ॥८०२.१।
तेन पितृ-लोकेन संपन्नो+ महीयते ॥८०२.१।
अथ यदि मातृलोककामो भवति ।
अथ यदि मातृ-लोक-कामो+ भवति ।
संकल्पादेवास्य मातरः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य मातरः समुत्तिष्ठन्ति ।
तेन मातृलोकेन संपन्नो महीयते ॥८०२.२।
तेन मातृ-लोकेन संपन्नो+ महीयते ॥८०२.२।
अथ यदि भ्रातृलोककामो भवति ।
अथ यदि भ्रातृ-लोक-कामो+ भवति ।
संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य भ्रातरः समुत्तिष्ठन्ति ।
तेन भ्रातृलोकेन संपन्नो महीयते ॥८०२.३।
तेन भ्रातृ-लोकेन संपन्नो+ महीयते ॥८०२.३।
अथ यदि स्वसृलोककामो भवति ।
अथ यदि स्वसृ-लोक-कामो भवति ।
संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य स्वसारः समुत्तिष्ठन्ति ।
तेन स्वसृलोकेन संपन्नो महीयते ॥८०२.४।
तेन स्वसृ-लोकेन संपन्नो+ महीयते ॥८०२.४।
अथ यदि सखिलोककामो भवति ।
अथ यदि सखि-लोक-कामो+ भवति ।
संकल्पादेवास्य सखायः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य सखायः समुत्तिष्ठन्ति ।
तेन सखिलोकेन संपन्नो महीयते ॥८०२.५।
तेन सखि-लोकेन संपन्नो+ महीयते ॥८०२.५।
अथ यदि गन्धमाल्यलोककामो भवति ।
अथ यदि गन्ध-माल्य-लोक-कामो भवति ।
संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः ।
संकल्पाद्+ एव+ अस्य गन्ध-माल्ये समुत्तिष्ठतः ।
तेन गन्धमाल्यलोकेन संपन्नो महीयते ॥८०२.६।
तेन गन्ध-माल्य-लोकेन संपन्नो+ महीयते ॥८०२.६।
अथ यद्यन्नपानलोककामो भवति ।
अथ यद्य्+ अन्न-पान-लोक-कामो भवति ।
संकल्पादेवास्यान्नपाने समुत्तिष्ठतः ।
संकल्पाद्+ एव+ अस्य+ अन्न-पाने समुत्तिष्ठतः ।
तेनान्नपानलोकेन संपन्नो महीयते ॥८०२.७।
तेन+ अन्न-पान-लोकेन संपन्नो+ महीयते ॥८०२.७।
अथ यदि गीतवादितलोककामो भवति ।
अथ यदि गीत-वादित-लोक-कामो भवति ।
संकल्पादेवास्य गीतवादिते समुत्तिष्ठतः ।
संकल्पाद्+ एव+ अस्य गीत-वादिते समुत्तिष्ठतः ।
तेन गीतवादितलोकेन संपन्नो महीयते ॥८०२.८।
तेन गीत-वादित-लोकेन संपन्नो+ महीयते ॥८०२.८।
अथ यदि स्त्रीलोककामो भवति ।
अथ यदि स्त्री-लोक-कामो+ भवति ।
संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति ।
संकल्पाद्+ एव+ अस्य स्त्रियः समुत्तिष्ठन्ति ।
तेन स्त्रीलोकेन संपन्नो महीयते ॥८०२.९।
तेन स्त्री-लोकेन संपन्नो+ महीयते ॥८०२.९।
यं यमन्तमभिकामो भवति ।
यं+ यम् अन्तम् अभिकामो भवति ।
यं कामं कामयते ।
यं+ कामं+ कामयते ।
सो &स्य संकल्पादेव समुत्तिष्ठति ।
सो+ + अस्य संकल्पाद्+ एव समुत्तिष्ठति ।
तेन संपन्नो महीयते ॥८०२.१०।
तेन संपन्नो महीयते ॥८०२.१०।
8.3
त इमे सत्याः कामा अनृतापिधानाः ।
तए+ इमे सत्याः कामा+ अन्-ऋत-अपिधानाः ।
तेषां सत्यानां सतामनृतमपिधानम् ।
तेषां+ सत्यानां+ सताम् अन्-ऋतम् अपिधानम् ।
यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥८०३.१।
यो+ यो+ ह्य्+ अस्य+ इतः प्रैति न तम् इह दर्शनाय लभते ॥८०३.१।
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दते ।
अथ ये च+ अस्य+ इह जीवा+ ये च प्रेता+ यच्+ च+ अन्यद्+ इच्छन् न लभते सर्वं+ तद्+ अत्र गत्वा विन्दते ।
अत्र ह्यस्यैते सत्याः कामा अनृतापिधानाः ।
अत्र ह्य्+ अस्य+ एते सत्याः कामा+ अन्-ऋत-अपिधानाः ।
तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः ।
तद्+ यथा+ अपि हिरण्य-निधिं+ निहितम् अ-क्षेत्र-ज्ञा+ उपर्य्+ उपरि सञ्चरन्तो+ न विन्देयुः ।
एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥८०३.२।
एवम् एव+ इमाः सर्वाः प्रजा+ अहर्+ अहर्+ गच्छन्त्य+ एतं+ ब्रह्म-लोकं+ न विन्दन्त्य्+ अन्-ऋतेन हि प्रत्यूढाः ॥८०३.२।
स वाऐ एष आत्मा हृदि ।
स+ वाऐ+ एष+ आत्मा हृदि ।
तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम् ।
तस्य+ एतद्+ एव निरुक्तं+ हृद्य्+ अयम् इति तस्माद्+ + धृद्+ अयम् ।
अहरहर्वाऐ एवंवित्स्वर्गं लोकमेति ॥८०३.३।
अहर्+ अहर्+ वाऐ+ एवं-वित्+ स्वर्गं+ लोकम् एति ॥८०३.३।
अथ य एष संप्रसादो &स्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेनाभिनिष्पद्यत एष आत्मेति होवाच ।
अथ य+ एष+ संप्रसादो+ + अस्माच्+ + छरीरात् समुत्थाय परं+ ज्योतिर्+ उपसंपद्य स्वेन रूपेन+ अभिनिष्पद्यतए+ एष+ आत्मा+ इति ह+ उवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
एतद्+ अ-मृतम् अ-भयम् एतद्+ ब्रह्म+ इति ।
तस्य ह वाऐ एतस्य ब्रह्मणो नाम सत्यमिति ॥८०३.४।
तस्य ह वाऐ+ एतस्य ब्रह्मणो+ नाम सत्यम् इति ॥८०३.४।
तानि ह वाऐ एतानि त्रीण्यक्षराणि सतीयमिति ।
तानि ह वाऐ+ एतानि त्रीण्य्+ अ-क्षराणि सतीयम् इति ।
तद्यत्सत्तदमृतम् ।
तद्+ यत् सत् तद्+ अ-मृतम् ।
अथ यत्ति तन्मर्त्यम् ।
अथ यत् ति तन्+ मर्त्यम् ।
अथ यद्यं तेनोभे यच्छति ।
अथ यद्+ यं+ तेन+ उभे यच्छति ।
यदनेनोभे यच्छति तस्माद्यम् ।
यद्+ अनेन+ उभे यच्छति तस्माद्+ यम् ।
अहरहर्वाऐ एवंवित्स्वर्गं लोकमेति ॥८०३.५।
अहर्+ अहर्+ वाऐ+ एवं-वित्+ स्वर्गं+ लोकम् एति ॥८०३.५।
8.4
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय ।
अथ य+ आत्मा स+ सेतुर्+ धृतिर्+ एषां+ लोकानाम् अ-संभेदाय ।
नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतम् ।
न+ एतं+ सेतुम् अहो-रात्रे तरतो+ न जरा न मृत्युर्+ न शोको+ न सु-कृतम् ।
सर्वे पाप्मानो &तो निवर्तन्ते ।
सर्वे पाप्मानो+ + अतो+ निवर्तन्ते ।
अपहतपाप्मा ह्येष ब्रह्मलोकः ॥८०४.१।
अपहत-पाप्मा ह्य्+ एष+ ब्रह्म-लोकः ॥८०४.१।
तस्माद्वा एतं सेतुं तीर्त्वा अन्धः सन्ननन्धो भवति ।
तस्माद्+ वा एतं+ सेतुं+ तीर्त्वा + अन्धः सन्न्+ अन्-अन्धो+ भवति ।
विद्धः सन्नविद्धो भवति ।
विद्धः सन्न्+ अविद्धो+ भवति ।
उपतापी सन्ननुपतापी भवति ।
उपतापी सन्न्+ अन्-उपतापी भवति ।
तस्माद्वा एतं सेतुं तीर्त्वा अपि नक्तमहरेवाभिनिष्पद्यते ।
तस्माद्+ वा एतं+ सेतुं+ तीर्त्वा + अपि नक्तम् अहर्+ एव+ अभिनिष्पद्यते ।
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥८०४.२।
सकृद्+ विभातो+ ह्य्+ एव+ एष+ ब्रह्म-लोकः ॥८०४.२।
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः ।
तद्+ यए+ एव+ एतं+ ब्रह्म-लोकं+ ब्रह्म-चर्येण+ अनुविन्दन्ति तेषाम् एव+ एष+ ब्रह्म-लोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति ॥८०४.३।
तेषां+ सर्वेषु लोकेषु काम-चारो+ भवति ॥८०४.३।
8.5
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यद्+ यज्ञ+ इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दते ।
ब्रह्म-चर्येण ह्य्+ एव यो+ ज्ञाता तं+ विन्दते ।
अथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यद्+ इष्टम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥८०५.१।
ब्रह्म-चर्येण ह्य्+ एव+ इष्ट्वा+ आत्मानम् अनुविन्दते ॥८०५.१।
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यत् सत्-त्रायणम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दते ।
ब्रह्म-चर्येण ह्य्+ एव सत+ आत्मनस्+ त्राणं+ विन्दते ।
अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यन्+ मौनम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥८०५.२।
ब्रह्म-चर्येण ह्य्+ एव+ आत्मानम् अनुविद्य मनुते ॥८०५.२।
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यद्+ अन्-आशक-अयनम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ।
एष+ ह्य्+ आत्मा न नश्यति यं+ ब्रह्म-चर्येण+ अनुविन्दते ।
अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अथ यद्+ अरण्य-अयनम् इत्य्+ आचक्षते ब्रह्म-चर्यम् एव तत् ।
ततरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि ।
तत्+ अरश्+ च ह वै ण्यश्+ च+ अर्णवौ ब्रह्म-लोके तृतीयस्याम् इतो+ दिवि ।
तदैरंमदीयं सरः ।
तद्+ ऐरं-मदीयं+ सरः ।
तदश्वत्थः सोमसवनः ।
तद्- अश्वत्थः सोम-सवनः ।
तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ।।८०५.३।
तद्+ अ-पराजिता पूर्+ ब्रह्मणः प्रभु-विमितं+ हिरण्-मयम् ॥८०५.३।
तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः ।
तद्+ यए+ एव+ एतौ+ अरं+ च ण्यं+ च+ अर्णवौ ब्रह्म-लोके ब्रह्म-चर्येण+ अनुविन्दन्ति तेषाम् एव+ एष+ ब्रह्म-लोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति ॥८०५.४।
तेषां+ सर्वेषु लोकेषु काम-चारो+ भवति ॥८०५.४।
page23
8.11
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच ।
तद्+ यत्र+ एतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं+ न विजानाति+ एष+ आत्मा+ इति ह+ उवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
एतद्+ अ-मृतम् अ-भयम् एतद्+ ब्रह्म+ इति ।
स ह शान्तहृदयः प्रवव्राज ।
स+ ह शान्त-हृदयः प्रवव्राज ।
स हाप्राप्यैव देवानेतद्भयं ददर्श ।
स+ ह+ अ-प्राप्य+ एव देवान् एतद्+ भयं+ ददर्श ।
नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति ।
न+ अह खल्व्+ अयम् एवं+ सं-प्रत्य्+ आत्मानं+ जानात्य्+ अयम् अहम् अस्मि+ इति ।
नो एवेमानि भूतानि ।
न+ उ एव+ इमानि भूतानि ।
विनाशमेवापीतो भवति ।
विनाशम् एव+ अपीतो+ भवति ।
नाहमत्र भोग्यं पश्यामीति ॥८११.१।
न+ अहम् अत्र भोग्यं+ पश्यामि+ इति ॥८११.१।
स समित्पाणिः पुनरेयाय ।
स+ समित्-पाणिः पुनर्+ एयाय ।
तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति ।
तं+ ह प्रजा-पतिर्+ उवाच मघवन् यच्+ + छान्त-हृदयः प्राव्राजीः किम् इच्छन् पुनर्+ आगम+ इति ।
स होवाच नाह खल्वयं भगव एवं संप्रत्यात्मानं जानात्ययमहमस्मीति ।
स+ ह+ उवाच न+ अह खल्व्+ अयं+ भगव+ एवं+ सं-प्रत्य्+ आत्मानं+ जानात्य्+ अयम् अहम् अस्मि+ इति ।
नो एवेमानि भूतानि ।
नो+ एव+ इमानि भूतानि ।
विनाशमेवापीतो भवति ।
विनाशम् एव+ अपीतो+ भवति ।
नाहमत्र भोग्यं पश्यामीति ॥८११.२।
न+ अहम् अत्र भोग्यं+ पश्यामि+ इति ॥८११.२।
एवमेवैष मघवन्निति होवाच ।
एवम् एव+ एष+ मघवन्न्+ इति ह+ उवाच ।
एतं त्वेव ते भूयो &नुव्याख्यास्यामि ।
एतं+ त्व्+ एव ते भूयो+ + अनुव्याख्यास्यामि ।
नो एवान्यत्रैतस्मात् ।
न+ उ एव+ अन्यत्र+ एतस्मात् ।
वसापराणि पञ्च वर्षाणीति ।
वस+ अपराणि पञ्च वर्षाणि+ इति ।
स हापराणि पञ्च वर्षाण्युवास ।
स+ ह+ अपराणि पञ्च वर्षाणि+ उवास ।
तान्येकशतं संपेदुः ।
तान्य्+ एक-शतं+ संपेदुः ।
एतत्तद्यदाहुः ।
एतत् तद्+ यद्+ आहुः ।
एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास ।
एक-शतं+ ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्म-चर्यम् उवास ।
तस्मै होवाच ॥८११.३।
तस्मै ह+ उवाच ॥८११.३।
8.12
मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना ।
मघवन् मर्त्यं+ वा इदं+ शरीरम् आत्तं+ मृत्युना ।
तदस्यामृतस्याशरीरस्यात्मनो &धिष्ठानम् ।
तद्+ अस्य+ अ-मृतस्य+ अ-शरीरस्य+ आत्मनो+ + अधिष्ठानम् ।
आत्तो वै सशरीरः प्रियाप्रियाभ्याम् ।
आत्तो+ वै स-शरीरः प्रिय-अ-प्रियाभ्याम् ।
न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ।
न वै स-शरीरस्य सतः प्रिय-अ-प्रिययोर्+ अपहतिर्+ अस्ति ।
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥८१२.१।
अ-शरीरं+ वाव सन्तं+ न प्रिय-अ-प्रिये स्पृशतः ॥८१२.१।
अशरीरो वायुः ।
अ-शरीरो+ वायुः ।
अभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि ।
अभ्रं+ विद्युत् स्तनयित्नुर्+ अ-शरीराण्य्+ एतानि ।
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥८१२.२।
तद्+ यथा+ एतान्य्+ अमुष्माद्+ आकाशात् समुत्थाय परं+ ज्योतिर्+ उपसंपद्य स्वेन रूपेण+ अभिनिष्पद्यन्ते ॥८१२.२।
एवमेवैष संप्रसादो &स्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ।
एवम् एव+ एष+ संप्रसादो+ + अस्माच्+ + छरीरात् समुत्थाय परं+ ज्योतिर्+ उपसंपद्य स्वेन रूपेण+ अभिनिष्पद्यते ।
स उत्तमपुरुषः ।
स+ उत्तम-पुरुषः ।
स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् ।
स+ तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्+ वा यानैर्+ वा ज्ञातिभिर्+ वा न+ उपजनं+ स्मरन्न्+ इदं+ शरीरम् ।
स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥८१२.३।
स+ यथा प्रयोग्य+ आचरणे युक्त+ एवम् एव+ अयम् अस्मिञ्+ + छरीरे प्राणो+ युक्तः ॥८१२.३।
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः ।
अथ यत्र+ एतद् आकाशम् अनुविषण्णं+ चक्षुः स+ चाक्षुषः पुरुषो+ दर्शनाय चक्षुः ।
अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् ।
अथ यो+ वेद+ इदं+ जिघ्राणि+ इति स+ आत्मा गन्धाय घ्राणम् ।
अथ यो वेदेदमभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् ।
अथ यो+ वेद+ इदम् अभिव्याहराणि+ इति स+ आत्मा + अभिव्याहाराय वाक् ।
अथ यो वेदेदं शृण्वानीति स आत्मा श्रवणाय श्रोत्रम् ।।८१२.४।
अथ यो+ वेद+ इदं+ शृण्वानि+ इति स+ आत्मा श्रवणाय श्रोत्रम् ॥८१२.४।
अथ यो वेदेदं मन्वानीति स आत्मा ।
अथ यो+ वेद+ इदं+ मन्वानि+ इति स+ आत्मा ।
मनो &स्य दैवं चक्षुः ।
मनो+ + अस्य दैवं+ चक्षुः ।
स वाऐ एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥८१२.५।
स+ वाऐ+ एष+ एतेन दैवेन चक्षुषा मनसा+ एतान् कामान् पश्यन् रमते यए+ एते ब्रह्म-लोके ॥८१२.५।
तं वाऐ एतं देवा आत्मानमुपासते ।
तं+ वाऐ+ एतं+ देवा+ आत्मानम् उपासते ।
तस्मात्तेषां सर्वे च लोका आत्ताः सर्वे च कामाः ।
तस्मात् तेषां+ सर्वे च लोका+ आत्ताः सर्वे च कामाः ।
स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति ।
स+ सर्वांश्+ च लोकान् आप्नोति सर्वांश्+ च कामान् यस्+ तम् आत्मानम् अनुविद्य विजानाति ।
इति ह प्र्जापतिरुवाच प्रजापतिरुवाच ॥८१२.६।
इति ह प्र्जा-पतिर्+ उवाच प्रजा-पतिर्+ उवाच ॥८१२.६।
8.13
{8,13-15 mit Senart verglichen}श्यामाच्छबलं प्रपद्ये ।
{8,13-15 mit Senart verglichen}श्यामाच्+ + छबलं+ प्रपद्ये ।
शबलाच्छ्यामं प्रपद्ये ।
शबलाच्+ + छ्यामं+ प्रपद्ये ।
अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥८१३.१।
अश्व+ इव रोमाणि विधूय पापं+ चन्द्र+ इव राहोर्+ मुखात् प्रमुच्य धूत्वा शरीरम् अ-कृतं+ कृत-आत्मा ब्रह्म-लोकम् अभिसंभवामि+ इत्य्+ अभिसंभवामि+ इति ॥८१३.१।
8.14
आकाशो वै नाम नामरूपयोर्निर्वहिता ।
आकाशो+ वै नाम नाम-रूपयोर्+ निर्वहिता ।
ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा ।
ते यद्-अन्तरा+ तद्+ ब्रह्म तद्+ अ-मृतं+ स+ आत्मा ।
प्रजापतेः सभां वेश्म प्रपद्ये यशो &हं भवामि ब्राह्मणानां यशो राज्ञाम्यशो विशाम् ।
प्रजा-पतेः सभां+ वेश्म प्रपद्ये यशो+ + अहं+ भवामि ब्राह्मणानां+ यशो+ राज्ञाम् यशो+ विशाम् ।
यशो &हमनुप्रापत्सि ।
यशो+ + अहम् अनुप्रापत्सि ।
स हाहं यशसां यशः ।
स+ ह+ अहं+ यशसां+ यशः ।
श्येतमदत्कमदत्कं श्येतं लिन्दु माभिगां लिन्दु मा अभिगाम् ।।८१४.१।
श्येतम् अ-दत्कम् अ-दत्कं+ श्येतं+ लिन्दु मा+ अभिगां+ लिन्दु मा + अभिगाम् ॥८१४.१।
8.15
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः ।
तद्+ + ध+ एतद्+ ब्रह्मा प्रजा-पतय+ उवाच प्रजा-पतिर्+ मनवे मनुः प्रजाभ्यः ।
आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः (कर्मातिशेषेणाभिसमावृत्य S कर्म कृत्वा {अतिशेषेण }अभिसमावृत्य )कुटुम्बे ( S स्थित्वा )शुचौ देशे स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः ।
आचार्य-कुलाद्+ वेदम् अधीत्य यथा-विधानं+ गुरोः (कर्म+ अति-शेषेण+ अभिसमावृत्य S कर्म कृत्वा {अति-शेषेण} अभिसमावृत्य ) कुटुम्बे ( S स्थित्वा ) शुचौ देशे स्व-अध्यायम् अधीयानो+ धर्मिकान् विदधद्+ आत्मनि सर्व-इन्द्रियाणि संप्रतिष्ठाप्य+ अ-हिंसन् सर्व-भूतान्य्+ अन्यत्र तीर्थेभ्यः ।
स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते ।
स+ खल्व्+ एवं+ वर्तयन् यावद्+ आयुषं+ ब्रह्म-लोकम् अभिसंपद्यते ।
न च पुनरावर्तते न च पुनरावर्तते ॥८१५.१।
न च पुनर्+ आवर्तते न च पुनर्+ आवर्तते ॥८१५.१। The Sanskrit Library.

कैवल्य उपनिषद् (Kaivalya-Upaniṣad)

0
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो ऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।
1
अथाश्वलायनो भगवन्तं परमेष्टिनमुपसमेत्योवाच धीहि भगवन्ब्रह्मविद्यां वरिष्टां सदा सद्भिः सेव्यमानां निगूढाम् ।
यया ऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ।।१।।
2
तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि ।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥२॥
3
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ।
वेदान्तविज्ञानसुनिश्रितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ॥३॥
4
ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ।
विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरोरः ॥४॥
5
ञत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ।
हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशोदं विशोकम् ।।५।।
6
अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ।
तथा ऽऽदिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ।।६।।
7
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ।।७।।
8
स ब्रह्मा स शिवः सेन्द्रः सो ऽक्षरः परमः स्वराट् ।
स एव विष्णुः स प्राणः स कालो ऽग्निः स चन्द्रमाः ॥८॥
9
स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥९॥
10
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥१०॥
11
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः ॥११॥
12
स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।
स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥१२॥
13
स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।
सुषुप्तिकाले सकले विलीने तमो ऽभिभूतः सुखरूपमेति ॥
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ॥१३॥
14
पुरत्रये क्रीडति यश्च जीव स्ततस्तु जातं सकलं विचित्रम् ।
धारमानन्दमखण्डबोधं यस्मिंल्लयं याति पुरत्रयं च ॥१४॥
15
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥१५॥
16
यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
मृक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ।।१६।।
17
जाग्नत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥१७॥
18
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रो ऽहं सदाशिवः ॥१८॥
19
मय्येव सकलं जातं मयि सर्वं प्रतिष्टितम् ।
मयि सर्वं लपं याति तद्ब्रह्माद्वयमस्म्यहम् ।।१९।।
20
अणोरणियानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।
पुरातनो ऽहं पुरुषो ऽहमीशो हिरण्मयो ऽहं शिवरूपमस्मि ॥२०॥
21
अपाणिपादो ऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदा ऽहम् ।
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।।२१।।
22
न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ।
न भूमिरापो न च वह्गिरस्ति न चानिलो मे ऽस्ति न चाम्बरं च ॥२२॥
23
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ।।२३।।
इति प्रथमः खण्डः ॥
0
यः शतरूद्रीयमधीते सो ऽग्निपूतो भवति सुरापानात्पूतो भवति ब्रह्महत्यात्पूतो भवति कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवति ।
अत्याश्रमी सर्वदा सकृद्वा जपेत् ।।
1
अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् ।
तस्मादेवं विदित्वैनं कैवल्यं फलमश्नुते कैवल्यं फलमश्नुत इति ॥१॥
इति द्वितीयः खण्डः ।।
।।इत्यथर्ववेदे कैवल्योपनिषत्समाप्ता ॥
The Sanskrit Library.

kenopanishada

आऊं
0.1
आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रम्
आप्यायन्तु मम~ अङ्गानि वाक् प्राणस्~ चक्षुस्~ श्रोत्रम्
अथो बलमिन्द्रियाणि च सर्वाणि
अथ~उ बलम् इन्द्रियाणि च सर्वाणि
0.2
सर्वं ब्रह्मोपनिषदं
सर्वम्~ ब्रह्म~-उपनिषदम्~
माहं ब्रह्म निराकुर्यां
मा~ अहम्~ ब्रह्म निस्~-आ-कुर्याम्~
मा मा ब्रह्म निराकारोद्
मा मा ब्रह्म निस्~-आ-कारोत्~
अनिराकरणमस्त्वनिराकरणं मे ऽस्तु
अनिराकरणम् अस्तु~ अनिराकरणम्~ मे ~अस्तु
0.3
तदात्मनि निरते
तद् आत्मनि नि-रते
य उपनिषत्सु धर्मास्
ये~ उपनिषत्सु धर्माः~
ते मयि सन्तु ते मयि सन्तु
ते मयि सन्तु ते मयि सन्तु
आऊं शान्तिः शान्तिः शान्तिः
आऊम्~ शान्तिस्~ शान्तिस्~ शान्तिस्~
Part I
आऊं
1.1
केनेषितं पतति प्रेषितं मनः
केन~ इषितम्~ पतति प्र~-इषितम्~ मनस्~
केन प्राणः प्रथमः प्रैति युक्तः
केन प्राणस्~ प्रथमस्~ प्र~-एति युक्तस्~
केनेषितां वाचमिमां वदन्ति
केन~ इषिताम्~ वाचम् इमाम्~
चक्षुः श्रोत्रं क उ देवो युनक्ति
वदन्ति चक्षुस्~ श्रोत्रम्~ कस्~ उ देवस्~ युनक्ति
1.2
श्रोत्रस्य श्रोत्रं मनसो मनो यद्
श्रोत्रस्य श्रोत्रम्~ मनसस्~ मनस्~ यद्
वाचो ह वाचं स उ प्राणस्य प्राणः
वाचस्~ ह वाचम्~ स उ प्राणस्य प्राणस्~
चक्षुषश्चक्षुरतिमुच्य धीराः
चक्षुषस्~ चक्षुस्~ अति-मुच्य धीरास्~
प्रेत्यास्माल्लोकाद्
प्र~-इत्य~ अस्माद्~ लोकाद्
अमृता भवन्ति
अमृतास्~ भवन्ति
1.3
न तत्र चक्षुर्गच्छति
न तत्र चक्षुस्~ गच्छति
न वाग्गच्छति नो मनः
न वाक्~ गच्छति न~ उ मनस्~
न विद्मो न वीजानीमो
न विद्मस्~ न वीजानीमस्~
यथैतदनुशिष्यात्
यथा~ एतद् अनु-शिष्यात्
1.4
अन्यदेव तद्विदिताद्
अन्यद् एव तद् विदिताद्
अथो अविदितादधि
अथ~ उ अविदिताद् अधि
इति शुश्रुम पूर्वेषां
इति शुश्रुम पूर्वेषाम्~
ये नस्तद्व्याचचक्षिरे
ये नः~ तद् वि~-आ-चचक्षिरे
1.5
यद्वाचानभ्युदितं
यद् वाचा~ अनभ्युदितं
येन वागभ्युद्यते
येन वाक्~ अभि~-उद्यते
तदेव ब्रह्म त्वं विद्धि
तद् एव ब्रह्म त्वम्~ विद्धि
नेदं यदिदमुपासते
न~ इदम्~ यद् इदम् उप~-आसते
1.6
यन्मनसा न मनुते
यद्~ मनसा न मनुते
येनाहुर्मनो मतम्
येन~ आहुर् मनस्~ मतम्
तदेव ब्रह्म त्वं विद्धि
तद् एव ब्रह्म त्वम्~ विद्धि
नेदं यदिदमुपासते
न~ इदम्~ यद् इदम् उप~-आसते
1.7
यच्चक्षुषा न पश्यति
यद्~ चक्षुषा न पश्यति
येन चक्षूंषि पश्यति
येन चक्षूंषि पश्यति
तदेव ब्रह्म त्वं विद्धि
तद् एव ब्रह्म त्वम्~ विद्धि
नेदं यदिदमुपासते
न~ इदम्~ यद् इदम् उप~-आसते
1.8
यच्छ्रोत्रेण न शृणोति
यद्~ छ्रोत्रेण न शृणोति
येन श्रोत्रमिदं श्रुतम्
येन श्रोत्रम् इदम्~ श्रुतम्
तदेव ब्रह्म त्वं विद्धि
तद् एव ब्रह्म त्वम्~ विद्धि
नेदं यदिदमुपासते
न~ इदम्~ यद् इदम् उप~-आसते
1.9
यत्प्राणेन न प्राणिति
यद्~ प्राणेन न प्र~-अणिति
येन प्राणः प्रणीयते
येन प्राणस्~ प्र-~नीयते
तदेव ब्रह्म त्वं विद्धि
तद् एव ब्रह्म त्वम्~ विद्धि
नेदं यदिदमुपासते
न~ इदम्~ यद् इदम् उप~-आसते
Part II
2.1
यदि मन्यसे सुवेदेति
यदि मन्यसे सुवेद~ इति
दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं
दहरम् एव~ अपि नूनम्~ त्वम्~ वेत्थ ब्रह्मणस्~ रूपम्~
यदस्य त्वं यदस्य देवेष्व्
यद् अस्य त्वम्~ यद् अस्य देवेषु~
अथ नु मीमांस्यमेव ते
अथ नु मीमांस्यम् एव ते
मन्ये विदितम्
मन्ये विदितम्
2.2
नाहं मन्ये सुवेदेति
न~ अहम्~ मन्ये सुवेद~ इति
नो न वेदेति वेद च
न~ उ न वेद~ इति वेद च
यो नस्तद्वेद तद्वेद
यो नः~ तद् वेद तद् वेद
नो न वेदेति वेद च
न~ उ न वेद~ इति वेद च
2.3
यस्यामतं तस्य मतं
यस्य~ अमतं तस्य
मतं यस्य न वेद सः
मतम्~ मतम्~ यस्य न वेद सस्~
अविज्ञातं विजानतां
अविज्ञातम्~ विजानताम्~
विज्ञातमविजानताम्
विज्ञातम् अविजानताम्
2.4
प्रतिबोधविदितं मतम्
प्रतिबोध-विदितम्~ मतम्
अमृतत्वं हि विन्दते
अमृतत्वम्~ हि विन्दते
आत्मना विन्दते वीर्यं
आत्मना विन्दते वीर्यम्~
विद्यया विन्दते ऽमृतम्
विद्यया विन्दते ~अमृतम्
2.5
इह चेदवेदीद्
इह चेद् अवेदीत्~
अथ सत्यमस्ति
अथ सत्यम् अस्ति
न चेदिहावेदीन्
न चेद् इह~ अवेदीत्~
महती विनष्टिः
महती विनष्टिस्~
भूतेषु भूतेषु विचित्य धीराः
भूतेषु भूतेषु वि-चित्य धीरास्~
प्रेत्यास्माल्लोकाद्
प्र~-इत्य~ अस्माद्~ लोकाद्
अमृता भवन्ति
अमृतास्~ भवन्ति
Part III
3.1
ब्रह्म ह देवेभ्यो विजिग्ये
ब्रह्म ह देवेभ्यस्~ वि-जिग्ये
तस्य ह ब्रह्मणो विजये देवा अमहीयन्त
तस्य ह ब्रह्मणस्~ विजये देवास्~ अमहीयन्त
त ऐक्षन्तास्माकमेवायं विजयो ऽस्माकमेवायं महिमेति
ते~ ऐक्षन्त~ अस्माकम् एव~ अयम्~ विजयस्~ अस्माकम् एव~ अयम्~ महिमा~ इति
3.2
तद्धैषां विजज्ञौ
तद् ~ह~ एषाम्~ विजज्ञौ
तेभ्यो ह प्रादुर्बभूव
तेभ्यस्~ ह प्रादुर् बभूव
तन्न व्यजानत
तद्~ न वि~-अजानत
किमिदं यक्षमिति
किम् इदम्~ यक्षम् इति
3.3
ते ऽग्निमब्रुवञ्
ते ~अग्निम् अब्रुवन्~
जातवेद एतद्विजानीहि
जातवेदस्~ एतद् वि-जानीहि
किमिदं यक्षमिति
किम् इदम्~ यक्षम् इति
तथेति
तथा~ ~इति
3.4
तदभ्यद्रवत्
तद् अभि~-अद्रवत्
तमभ्यवदत्
तम् अभि~-अवदत्
को ऽसीत्य्
कस्~ असि~ इति~
अग्निर्वा अहमस्मीत्यब्रवीज्
अग्निस्~ वै~ अहम् अस्मि~ इति~ अब्रवीत्~
जातवेदा वा अहमस्मीति
जातवेदास्~ वै~ अहम् अस्मि~ इति
3.5
तस्मिंस्त्वयि किं वीर्यमित्य्
तस्मिन्~ त्वयि किम्~ वीर्यम् इति~
अपीदं सर्वं दहेयं
अपि~ इदम्~ सर्वम्~ दहेयम्~
यदिदं पृथिव्यामिति
यद् इदम्~ पृथिव्याम् इति
3.6
तस्मै तृणं निदधाव्
तस्मै तृणम्~ नि-दधौ~
एतद्दहेति
एतद् दह~ इति
तदुपप्रेयाय सर्वजवेन
तद् उप-प्र~-इयाय सर्व-जवेन
तन्न शशाक दग्धुं
तद्~ न शशाक दग्धुम्~
स तत एव निववृते
स ततस्~ एव नि-ववृते
नैतदशकं विज्ञातुं
न~ एतद् अशकम्~ विज्ञातुम्~
यदेतद्यक्षमिति
यद् एतद् यक्षम् इति
3.7
अथ वायुमब्रुवन्
अथ वायुम् अब्रुवन्
वायवेतद्विजानीहि
वायो~ एतद् वि-जानीहि
किमेतद्यक्षमिति
किम् एतद् यक्षम् इति
तथेति
तथा~ इति
3.8
तदभ्यद्रवत्
तद् अभि~-अद्रवत्
तमभ्यवदत्
तम् अभि-~अवदत्
को ऽसीति
कस्~ असि~ इति
वायुर्वा अहमस्मीत्यब्रवीन्
वायुस्~ वै~ अहम् अस्मि~ इति~ अब्रवीत्~
मातरिश्वा वा अहमस्मीति
मातरिश्वा वै~ अहम् अस्मि~ इति
3.9
तस्मिंस्त्वयि किं वीर्यमित्य्
तस्मिन्~ त्वयि किम्~ वीर्यम् इति~
अपीदं सर्वमाददीय
अपि~ इदम्~ सर्वम् आ-ददीय
यदिदं पृथिव्यामिति
यद् इदम्~ पृथिव्याम् इति
3.10
तस्मै तृणं निदधाव्
तस्मै तृणम्~ नि-दधौ~
एतदादत्स्वेति
एतद् आ-दत्स्व~ इति
तदुपप्रेयाय सर्वजवेन
तद् उप-प्र~-इयाय सर्व-जवेन
तन्न शशाकादतुम्
तद्~ न शशाक~ आ-दतुम्~
स तत एव निववृते
स ततस्~ एव नि-ववृते
नैतदशकं विज्ञातुं
न~ एतद् अशकम्~ वि-ज्ञातुम्~
यदेतद्यक्षमिति
यद् एतद् यक्षम् इति
3.11
अथेन्द्रमब्रुवन्
अथ~ इन्द्रम् अब्रुवन्
मघवन्नेतद्विजानीहि
मघवन्~ एतद् वि-जानीहि
किमेतद्यक्षमिति
किम् एतद् यक्षम् इति
तथेति
तथा~ इति
तदभ्यद्रवत्
तद् अभि~-अद्रवत्
तस्मात्तिरोदधे
तस्माद्~ तिरस्~-दधे
3.12
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं
स तस्मिन्~ एव~ आकाशे स्त्रियम् आ-जगाम बहु-शोभमानाम् उमाम्~ हैमवतीम्~
तां होवाच
ताम्~ ह~ उवाच
किमेतद्यक्षमिति
किम् एतद् यक्षम् इति
Part IV
4.1
सा ब्रह्मेति होवाच
सा ब्रह्मा~ इति ह~ उवाच
ब्रह्मणो वा एतद्विजये महीयध्वमिति
ब्रह्मणस्~ वै~ एतद् विजये महीयध्वम् इति
ततो हैव विदां चकार ब्रह्मेति
ततस्~ ह~ एव विदाम्~ चकार ब्रह्मा~ इति
4.2
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्
तस्माद् वै~ एते देवास्~ अति-तराम् इव~ अन्यान्
यदग्निर्वायुरिन्द्रस्
देवान् यद् अग्निस्~ वायुस्~ इन्द्रः~
ते ह्येनन्नेदिष्ठं पस्पर्शुस्
ते हि~ एनद्~ नेदिष्ठम्~ पस्पर्शुर्~
ते ह्येनत्प्रथमा विदां चक्रुर्ब्रह्मेति
ते हि~ एनद्~ प्रथमास्~ विदाम्~ चक्रुर् ब्रह्मा~ इति
4.3
तस्माद्वा इन्द्रो ऽतितरामिवान्यान्देवान्
तस्माद् वै~ इन्द्रस्~ अतितराम् इव~ अन्यान् देवान्
स ह्येनन्नेदिष्ठं पस्पर्श
स हि~ एनद्~ नेदिष्ठम्~ पस्पर्श
स ह्येनत्प्रथमो विदां चकार ब्रह्मेति
स हि~ एनद्~ प्रथमस्~ विदाम्~ चकार ब्रह्मा~ इति
4.4
तस्यैष आदेशो
तस्य~ एष आदेशस्~
यदेतद्विद्युतो व्यद्युतदा इतीन्न्यमीमिषदा
यद् एतद् विद्युतस्~ व्यद्युतदास्~ इतीन् न्यमीमिषदास्~
इत्यधिदैवतम्
इति~ अधिदैवतम्
4.5
अथाध्यात्मं
अथ~ अध्यात्मम्~
यदेतद्गच्छतीव च मनो
यद् एतद् गच्छति~ इव च मनस्~
ऽनेन चैतदुपस्मरत्य्
अनेन च~ एतद् उप-स्मरति~
अभीक्ष्णं सङ्कल्पः
अभीक्ष्णम्~ सङ्कल्पस्~
4.6
तद्ध तद्वनं नाम
तद् ~ह तद्-वनम्~ नाम
तद्वनमित्युपासितव्यं
तद्-वनम् इति~ उप~-आसितव्यम्~
स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति
स यस्~ एतद् एवम्~ वेद~ अभि ह~ एनम्~ सर्वाणि भूतानि सम्~-वाञ्छन्ति
4.7
उपनिषदं भो ब्रूहीत्य्
उपनिषदम्~ भो ब्रूहि~ इति~
उक्ता त उपनिषद्
उक्ता ते~ उपनिषद्
ब्राह्मीं वाव त उपनिषदमब्रूमेति
ब्राह्मीम्~ वाव ते~ उपनिषदम् अब्रूम~ इति
4.8
तस्यै तपो दमः कर्मेति प्रतिष्ठा
तस्यै तपस्~ दमस्~ कर्म~ इति प्रतिष्ठा
वेदाः सर्वाङ्गानि
वेदास्~ सर्व~-अङ्गानि
सत्यमायतनम्
सत्यम् आयतनम्
4.9
यो वा एतामेवं वेदापहत्य पाप्मानम्
यस्~ वै~ एताम् एवम्~ वेद~ अप-हत्य पाप्मानम्
अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति
अनन्ते स्वर्गे लोके ज्येये प्रति-तिष्ठति प्रति-तिष्ठति
The Sanskrit Library

08 May 2011

kathopanishada

0.0.0
आऊं
सह नाववतु
सह नौ~ अवतु
सह नौ भुनक्तु
सह नौ भुनक्तु
सह वीर्यं करवावहै
सह वीर्यम्~ करवावहै
तेजस्वि नावधीतमस्तु
तेजस्वि नौ~ अधीतम् अस्तु
मा विद्विषावहै
मा वि-द्विषावहै
शान्तिः शान्तिः शान्तिः
आऊं शान्तिः शान्तिः शान्तिः
Part I
Canto I
आऊं
1.1.1
उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ
उशन् ह वै वाजश्रवसः सर्व-वेदसम्~ ददौ
तस्य ह नचिकेता नाम पुत्र आस
तस्य ह नचिकेताः~ नाम पुत्रः~ आस
1.1.2
तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश
तम्~ ह कुमारम्~ सन्तम्~ दक्षिणासु नीयमानासु श्रद्धा~ आ-विवेश
सो ऽमन्यत
सः~ अमन्यत
1.1.3
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः
पीत~-उदकाः~ जग्ध-तृणाः~ दुग्ध-दोहाः~
अनन्दा नाम ते लोकास्
निः~-इन्द्रियाः~ अनन्दाः~
तान्स गच्छति ता ददत्
नाम ते लोकाः~ तान् स गच्छति ताः~ ददत्
1.1.4
स होवाच पितरं
स ह~ उवाच पितरम्~
तात कस्मै मां दास्यसीति
तात कस्मै माम्~ दास्यसि~
द्वितीयं तृतीयं
इति द्वितीयम्~ तृतीयम्~
तं होवाच
तम्~ ह~ उवाच
मृत्यवे त्वा ददामीति
मृत्यवे त्वा ददामि~ इति
1.1.5
बहूनामेमि प्रथमो
बहूनाम् एमि प्रथमः~
बहूनामेमि मध्यमः
बहूनाम् एमि मध्यमस्~
किं स्विद्यमस्य कर्तव्यं
किम्~ स्विद् यमस्य कर्तव्यम्~
यन्मयाद्य करिष्यति
यद्~ मया~ अद्य करिष्यति
1.1.6
अनुपश्य यथा पूर्वे
अनु-पश्य यथा पूर्वे
प्रतिपश्य तथापरे
प्रति-पश्य तथा~ अपरे
सस्यमिव मर्त्यः पच्यते
सस्यम् इव मर्त्यस्~ पच्यते
सस्यमिव जायते पुनः
सस्यम् इव जायते पुनर्~
1.1.7
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्
वैश्वानरस्~ प्र-विशति~ अतिथिः~ ब्राह्मणः~
तस्यैतां शान्तिं कुर्वन्ति
गृहान् तस्य~ एताम्~ शान्तिम्~
हर वैवस्वतोदकम्
कुर्वन्ति हर वैवस्वत~ उदकम्
1.1.8
आशाप्रतीक्षे संगतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान्
आशा-प्रतीक्षे संगतं सूनृतां च~ इष्टा-पूर्ते पुत्र-पशून्~ च
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो
सर्वान् एतद् वृङ्क्ते पुरुषस्य~ अल्प-मेधसः~
यस्यानश्नन्वसति ब्राह्मणो गृहे
यस्य~ अन्-अश्नन् वसति ब्राह्मणः~ गृहे
1.1.9
तिस्रो रात्रीर्यदवात्सीर्गृहे मे ऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः
तिस्रः~ रात्रीः~ यद् अवात्सीः~ गृहे मे ~अन्-अश्नन् ब्रह्मन्~ अतिथिः~ नमस्यः~
नमस्ते ऽस्तु ब्रह्मन्
नमः~ ते ~अस्तु ब्रह्मन्
स्वस्ति मे ऽस्तु
स्वस्ति मे ~अस्तु
तस्मात्प्रति त्रीन्वरान्वृणीष्व
तस्माद्~ प्रति त्रीन् वरान् वृणीष्व
1.1.10
शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो
शान्त-संकल्पस्~ सुमना यथा स्याद् वीत-मन्युः~ गौतमः~ मा~ अभि
त्वत्प्रसृष्टम्माभिवदेत्प्रतीत
मृत्यो त्वत्-प्रसृष्टम् मा ~अभि-वदेत्
एतत्त्रयाणां प्रथमं वरं वृणे
प्रति~-इतः~ एतद्~ त्रयाणाम्~ प्रथमम्~ वरम्~ वृणे
1.1.11
यथा पुरस्ताद्भविता प्रतीत
यथा पुरस्ताद् भविता प्रति~-इतः~
औद्दालकिरारुणिर्मत्प्रसृष्टः
औद्दालकिः~ आरुणिः~ मद्~-प्रसृष्टस्~
सुखं रात्रीः शयिता वीतमन्युस्
सुखम्~ रात्रीस्~ शयिता वीत-मन्युः~
त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम्
त्वाम्~ ददृशिवान् मृत्यु-मुखाद्~ प्र-मुक्तम्
1.1.12
स्वर्गे लोके न भयं किञ्चनास्ति
स्वर्गे लोके न भयम्~ किम्~-चन~
न तत्र त्वन्न जरया बिभेति
अस्ति न तत्र त्वद्~ न जरया बिभेति
उभे तीर्त्वाशनायापिपासे
उभे तीर्त्वा~ अशनाया-पिपासे
शोकातिगो मोदते स्वर्गलोके
शोक~-अतिगः~ मोदते स्वर्ग-लोके
1.1.13
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो
स त्वम् अग्निम्~ स्वर्ग्यम् अधि~-एषि मृत्यो
प्रब्रूहि त्वं श्रद्दधानाय मह्यम्
प्र-ब्रूहि त्वम्~ श्रद्-दधानाय मह्यम्
स्वर्गलोका अमृतत्वं भजन्त
स्वर्ग-लोका अमृतत्वं भजन्ते~
एतद्द्वितीयेन वृणे वरेण
एतद् द्वितीयेन वृणे वरेण
1.1.14
प्र ते ब्रवीमि
प्र ते ब्रवीमि
तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानननन्तलोकाप्तिमथो प्रतिष्ठां
तद् उ मे नि-बोध स्वर्ग्यम् अग्निम्~ नचिकेतस्~ प्र-जानन् अनन्तलोक~-आप्तिम् अथ~ उ
विद्धि त्वमेतं निहितं गुहायाम्
प्र-तिष्ठाम्~ विद्धि त्वम् एतम्~ निहितम्~ गुहायाम्
1.1.15
लोकादिमग्निं तमुवाच तस्मै
लोक~-आदिम् अग्निम्~ तम् उवाच तस्मै
या इष्टका यावतीर्वा यथा वा
याः~ इष्टकाः~ यावतीः~ वा यथा
स चापि तत्प्रत्यवदद्यथोक्तं अथास्य मृत्युः पुनरेव आह तुष्टः
वा स च~ अपि तद्~ प्रति~-अवदद् यथा~-उक्तम्~ अथ~ अस्य मृत्युस्~ पुनर् एव~ आह तुष्टस्~
1.1.16
तमब्रवीत्प्रीयमाणो महात्मा
तम् अब्रवीत् प्रीयमाणः~ महा~-आत्मा
वरं तवेहाद्य ददामि भूयः
वरम्~ तव~ इह~ अद्य ददामि
तवैव नाम्ना भवितायमग्निः
भूयः~ तव~ एव नाम्ना भविता~
सृङ्कां चेमामनेकरूपां गृहाण
अयम् अग्निस्~ सृङ्काम्~ च~ इमाम् अनेक-रूपाम्~ गृहाण
1.1.17
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
त्रिणाचिकेतः~ त्रिभिः~ एत्य सन्धिम्~
त्रिकर्मकृत्तरति जन्ममृत्यू
त्रिकर्म-कृत् तरति जन्म-मृत्यू
ब्रह्म जज्ञं देवमीड्यं विदित्वा
ब्रह्म जज्ञम्~ देवम् ईड्यम्~ विदित्वा
निचाय्येमां शान्तिमत्यन्तमेति
निचाय्य~ इमाम्~ शान्तिम् अत्यन्तम् एति
1.1.18
त्रिणाचिकेतस्त्रयमेतद्विदित्वा
त्रिणाचिकेतः~ त्रयम् एतद् विदित्वा
य एवं विद्वांश्चिनुते नाचिकेतम्
यः~ एवम्~ विद्वान्~ चिनुते नाचिकेतम्
स मृत्युपाशान्पुरतः प्रणोद्य
स मृत्यु-पाशान् पुरतस्~ प्र-~नोद्य
शोकातिगो मोदते स्वर्गलोके
शोक~-अतिगः~ मोदते स्वर्ग-लोके
1.1.19
एष ते ऽग्निर्नचिकेतः स्वर्ग्यो
एष ते ~अग्निः~ नचिकेतः स्वर्ग्यः~
यमवृणीथा द्वितीयेन वरेण
यम् अवृणीथाः~ द्वितीयेन वरेण
एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्
एतम् अग्निं तव~ एव प्र-वक्ष्यन्ति जनासः~
तृतीयं वरं नचिकेतो वृणीष्व
तृतीयम्~ वरम्~ नचिकेतः~ वृणीष्व
1.1.20
येयं प्रेते विचिकित्सा मनुष्ये
या~ इयं प्र~-इते विचिकित्सा मनुष्ये
ऽस्तीत्येके नायमस्तीति चैके
~अस्ति~ इति~ एके न~ अयम् अस्ति~ इति च~ एके
एतद्विद्यामनुशिष्टस्त्वयाहं
एतद् विद्याम् अनु-शिष्टः~ त्वया~ अहम्~
वराणामेष वरस्तृतीयः
वराणाम् एष वरः~ तृतीयस्~
1.1.21
देवैरत्रापि विचिकित्सितं पुरा
देवैः~ अत्र~ अपि विचिकित्सितम्~ पुरा
न हि सुविज्ञेयम्
न हि सुविज्ञेयम्
अणुरेष धर्मः
अणुः~ एष धर्मः~
अन्यं वरं नचिकेतो वृणीष्व
अन्यम्~ वरम्~ नचिकेतः~ वृणीष्व
मा मोपरोत्सीर्
मा मा~ उप-रोत्सीः~
अति मा सृजैनम्
अति मा सृज~ एनम्
1.1.22
देवैरत्रापि विचिकित्सितं किल
देवैः~ अत्र~ अपि विचिकित्सितम्~ किल
त्वं च मृत्यो यन्न सुज्ञेयमात्थ
त्वम्~ च मृत्यो यन् न सुज्ञेयम् आत्थ
वक्ता चास्य त्वादृगन्यो न लभ्यो
वक्ता च~ अस्य त्वादृग् अन्यः~ न लभ्यः~
नान्यो वरस्तुल्य एतस्य कश्चित्
न~ अन्यः~ वरः~ तुल्यः~ एतस्य कः~-चित्
1.1.23
शतायुषः पुत्रपौत्रान्वृणीष्वा बहून्पशून्हस्तिहिरण्यमश्वान्
शत~-आयुषस्~ पुत्र-पौत्रान् वृणीष्वा बहून् पशून् हस्ति-हिरण्यम् अश्वान्
भूमेर्महदायतनं वृणीष्व
भूमेः~ महद् आयतनम्~ वृणीष्व
स्वयं च जीव शरदो यावदिच्छसि
स्वयम्~ च जीव शरदः~ यावद् इच्छसि
1.1.24
एतत्तुल्यं यदि मन्यसे वरं
एतद्~ तुल्यम्~ यदि मन्यसे वरम्~
वृणीष्व वित्तं चिरजीविकां च
वृणीष्व वित्तम्~ चिर-जीविकाम्~ च
महाभूमौ नचिकेतस्त्वमेधि
महा-भूमौ नचिकेतः~ त्वम् एधि
कामानां त्वा कामभाजं करोमि
कामानाम्~ त्वा काम-भाजम्~ करोमि
1.1.25
ये ये कामा दुर्लभा मर्त्यलोके
ये ये कामाः~ दुर्लभाः~ मर्त्य-लोके
सर्वान्कामांश्छन्दतः प्रार्थयस्व
सर्वान् कामान्~ छन्दतस्~ प्र~-अर्थयस्व
इमा रामाः सरथाः सतूर्या
इमाः~ रामास्~ स-रथास्~ स-तूर्याः~
न हीदृशा लम्भनीया मनुष्यैर्
न हि~ ईदृशाः~ लम्भनीयाः~ मनुष्यैः~
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो
आभिः~ मद्~-प्रत्ताभिस्~ परि-चारयस्व नचिकेतः~
मरणं मानुप्राक्षीः
मरणम्~ मा~ अनु-प्राक्षीस्~
1.1.26
श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः
श्वः~-भावा मर्त्यस्य यद् अन्तक~ एतद्~ सर्व~-इन्द्रियाणाम्~ जरयन्ति तेजः~
अपि सर्वं जीवितमल्पमेव
अपि सर्वम्~ जीवितम् अल्पम् एव
तवैव वाहास्तव नृत्यगीते
तव~ एव वाहाः~ तव नृत्य-गीते
1.1.27
न वित्तेन तर्पणीयो मनुष्यो
न वित्तेन तर्पणीयः~ मनुष्यः~
लप्स्यामहे वित्तम्
लप्स्यामहे वित्तम्
अद्राक्ष्म चेत्त्वा
अद्राक्ष्म चेद्~ त्वा
जीविष्यामो यावदीशिष्यसि त्वं
जीविष्यामः~ यावद् ईशिष्यसि त्वम्~
वरस्तु मे वरणीयः स एव
वरः~ तु मे वरणीयः स एव
1.1.28
अजीर्यताममृतानामुपेत्य
अजीर्यताम् अमृतानाम् उप~-इत्य
जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्
जीर्यन् मर्त्यस्~ क्वधःस्थस्~ प्र-जानन्
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत
अभि-ध्यायन् वर्ण-रति-प्रमोदान् अति-दीर्घे जीविते कः~ रमेत
1.1.29
यस्मिन्निदं विचिकित्सन्ति मृत्यो
यस्मिन्~ इदम्~ वि-चिकित्सन्ति मृत्यो
यत्साम्पराये महति
यद्~ साम्पराये महति
ब्रूहि नस्तत्
ब्रूहि नः~ तद्~
यो ऽयं वरो गूढमनुप्रविष्टो
यः~ अयम्~ वरः~ गूढम् अनु-प्र-विष्टः~
नान्यं तस्मान्नचिकेता वृणीते
न~ अन्यम्~ तस्माद् नचिकेताः~ वृणीते
Part I
Canto II
1.2.1
अन्यच्छ्रेयो ऽन्यदुतैव प्रेयः
अन्यद्~ श्रेयः~ अन्यद् उत~ एव प्रेयः~
ते उभे नानार्थे पुरुषं सिनीतस्
ते उभे नाना~-अर्थे पुरुषम्~ सिनीतः~
तयोः श्रेय आददानस्य साधु भवति
तयोस्~ श्रेयः~ आ-ददानस्य साधु भवति
हीयते ऽर्थाद्य उ प्रेयो वृणीते
हीयते ~अर्थाद् यः~ उ प्रेयः~ वृणीते
1.2.2
श्रेयश्च प्रेयश्च मनुष्यमेतः
श्रेयः~ च प्रेयः~ च मनुष्यम् एतः~
तौ सम्परीत्य विविनक्ति धीरः
तौ सम्-परि~-इत्य विविनक्ति धीरः~
श्रेयो हि धीरो ऽभि प्रेयसो वृणीते
श्रेयः~ हि धीरः~ अभि प्रेयसः~ वृणीते
प्रेयो मन्दो योगक्षेमाद्वृणीते
प्रेयः~ मन्दः~ योग-क्षेमाद् वृणीते
1.2.3
स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतो ऽत्यस्राक्षीः
स त्वम्~ प्रियान् प्रिय-रूपान्~ च कामान् अभि-ध्यायन् नचिकेतः~ अति~-अस्राक्षीः~
नैतां सृङ्कां वित्तमयीमवाप्तो
न~ एताम्~ सृङ्काम्~ वित्त-मयीम् अव~-आप्तः~
यस्यां मज्जन्ति बहवो मनुष्याः
यस्याम्~ मज्जन्ति बहवः~ मनुष्यास्~
1.2.4
दूरमेते विपरीते विषूची अविज्ञा या च विद्येति ज्ञाता
दूरम् एते वि-परि~-इते विषूचीः~ अविज्ञा या च विद्या~ इति ज्ञाता
विद्याभीप्सिनं नचिकेतसं मन्ये
विद्या~-अभीप्सिनम्~ नचिकेतसम्~ मन्ये
न त्वा कामा बहवो ऽलोलुपन्त
न त्वा कामाः~ बहवः~ अलोलुपन्त
1.2.5
अविज्ञायामन्तरे वर्तमानाः
अविज्ञायाम् अन्तरे वर्तमानास्~
स्वयंधीराः पण्डितंमन्यमानाः
स्वयम्~-धीरास्~ पण्डितम्~-मन्यमानाः~
दन्द्रम्यमाणाः परियन्ति मूढा
दन्द्रम्यमाणास्~ परि-यन्ति मूढाः~
अन्धेनैव नीयमाना यथान्धाः
अन्धेन~ एव नीयमाना यथा~ अन्धास्~
1.2.6
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्
न साम्परायस्~ प्रति-भाति बालम्~ प्र-माद्यन्तम्~ वित्त-मोहेन मूढम्
अयं लोको नास्ति पर इति मानी
अयम्~ लोकः~ न~ अस्ति परः~ इति मानी
पुनः पुनर्वशमापद्यते मे
पुनर्~ पुनर् वशम् आ-पद्यते मे
1.2.7
श्रवणायापि बहुभिर्यो न लभ्यः
श्रवणाय~ अपि बहुभिर् यः~ न लभ्यस्~
शृण्वन्तो ऽपि बहवो यं न विद्युः
शृण्वन्तस्~ अपि बहवः~ यम्~ न विद्युर्~
आश्चर्यो वक्ता
आश्चर्यः~ वक्ता
कुशलो ऽस्य लब्धा
कुशलः~ अस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टः
आश्चर्यः~ ज्ञाता कुशल~-अनु-शिष्टस्~
1.2.8
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः
न नरेण~ अवरेण प्र~-उक्त एष सुविज्ञेयः~ बहुधा चिन्त्यमानः~
अनन्यप्रोक्ते गतिरत्र नास्ति
अनन्यप्रोक्ते गतिः~ अत्र न~ अस्ति
अणीयान्ह्यतर्क्यमणुप्रमाणात्
अणीयान् ह्य् अतर्क्यम् अणु-प्रमाणाद्~
1.2.9
नैषा तर्केण मतिरापनेया
न~ एषा तर्केण मतिः~ आपनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ
प्रोक्ता~ अन्येन~ एव सुज्ञानाय प्रेष्ठ
यां त्वमापः
याम्~ त्वम् आपस्~
सत्यधृतिर्बतासि
सत्य-धृतिर् बत~ असि
त्वादृङ्नो भूयान्नचिकेतः प्रष्टा
त्वादृङ् नः~ भूयान् नचिकेतस्~ प्रष्टा
1.2.10
जानाम्यहं शेवधिरित्य्
जानामि~ अहम्~ शेवधिः~ इति~
अनित्यं
अनित्यम्~
न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्
न हि~ अध्रुवैस्~ प्र~-आप्यते हि ध्रुवम्~ तद्~
ततो मया नाचिकेतश्चितो ऽग्निः
ततः~ मया नाचिकेतः~ चितः~ अग्निः~
अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्
अनित्यैः~ द्रव्यैस्~ प्राप्तवान् अस्मि नित्यम्
1.2.11
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतो ऽत्यस्राक्षीः
कामस्य~ आप्तिम्~ जगतस्~ प्रतिष्ठाम्~ क्रतोः~ आनन्त्यम् अ-भयस्य पारम् स्तोम-महद् उरु-गायम्~ प्र-तिष्ठाम्~ दृष्ट्वा धृत्या धीरः~ नचिकेतः~ अति~-अस्राक्षीस्~
1.2.12
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्
तम्~ दुः~-दर्शम्~ गूढम् अनु-प्र-विष्टम्~ गुहा-हितम्~ गह्वरे-ष्ठं पुराणम्
अध्यात्मयोगाधिगमेन देवं मत्वा
अध्यात्म-योग~-अधिगमेन देवम्~ मत्वा
धीरो हर्षशोकौ जहाति
धीरः~ हर्ष-शोकौ जहाति
1.2.13
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य
एतद्~ श्रुत्वा सम्-परि-गृह्य मर्त्यस्~ प्र-वृह्य
धर्म्यमणुमेतमाप्य
धर्म्यम् अणुम् एतम् आप्य
स मोदते
स मोदते
मोदनीयं हि लब्ध्वा
मोदनीयम्~ हि लब्ध्वा
विवृतं सद्म नचिकेतसं मन्ये
वि-वृतम्~ सद्म नचिकेतसम्~ मन्ये
1.2.14
अन्यत्र धर्मादन्यत्राधर्मात्
अन्यत्र धर्माद् अन्यत्र~ अधर्मात्
अन्यत्रास्मात्कृताकृतात्
अन्यत्र~ अस्माद्~ कृत~-अकृताद्~
अन्यत्र भूताच्च भव्याच्च
अन्यत्र भूताद्~ च भव्याद्~ च
यत्तत्पश्यसि
यद्~ तद्~ पश्यसि
तद्वद
तद् वद
1.2.15
सर्वे वेदा यत्पदमामनन्ति
सर्वे वेदाः~ यद्~ पदम् आ-मनन्ति
तपांसि सर्वाणि च यद्वदन्ति
तपांसि सर्वाणि च यद् वदन्ति
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
यद् इच्छन्तः~ ब्रह्मचर्यम्~ चरन्ति
तत्ते पदं संग्रहेण ब्रवीम्य्
तद्~ ते पदम्~ संग्रहेण ब्रवीमि~
ओमित्येतत्
ओम् इति~ एतद्~
1.2.16
एतद्ध्येवाक्षरं ब्रह्म
एतद् ~हि~ एव~ अक्षरम्~ ब्रह्म
एतद्ध्येवाक्षरं परम्
एतद् ~हि~ एव~ अक्षरं परम्
एतद्ध्येवाक्षरं ज्ञात्वा
एतद् ~हि~ एव~ अक्षरम्~ ज्ञात्वा
यो यदिच्छति
यः~ यद् इच्छति
तस्य तत्
तस्य तद्~
1.2.17
एतदालम्बनं श्रेष्ठम्
एतद् आलम्बनम्~ श्रेष्ठम्
एतदालम्बनं परम्
एतद् आलम्बनम्~ परम्
एतदालम्बनं ज्ञात्वा
एतद् आलम्बनम्~ ज्ञात्वा
ब्रह्मलोके महीयते
ब्रह्म-लोके महीयते
1.2.18
न जायते म्रियते वा विपश्चिन्
न जायते म्रियते वा विपश्चिद्~
नायं कुतश्चिन्
न~ अयम्~ कुतः~-चिद्~
न बभूव कश्चित्
न बभूव कः~-चिद्~
अजो नित्यः शाश्वतो ऽयं पुराणो
अजस् नित्यः~ शाश्वतः~ अयम्~ पुराणः~
न हन्यते हन्यमाने शरीरे
न हन्यते हन्यमाने शरीरे
1.2.19
हन्ता चेन्मन्यते हन्तुं
हन्ता चेद्~ मन्यते हन्तुम्~
हतश्चेन्मन्यते हतम्
हतः~ चेद्~ मन्यते हतम्
उभौ तौ न विजानीतो
उभौ तौ न वि-जानीतः~
नायं हन्ति
न~ अयम्~ हन्ति
न हन्यते
न हन्यते
1.2.20
अणोरणीयान्
अणोः~ अणीयान्
महतो महीयान्
महतः~ महीयान्
आत्मास्य जन्तोर्निहितो गुहायाम्
आत्मा~ अस्य जन्तोः~ नि-हितः~ गुहायाम्
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः
तम् अक्रतुस्~ पश्यति वीत-शोको धातु-प्रसादाद्~ महिमानम् आत्मनस्~
1.2.21
आसीनो दूरं व्रजति
आसीनः~ दूरम्~ व्रजति
शयानो याति सर्वतः
शयानः~ याति सर्वतस्~
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति
कः~ तम्~ मदामदम्~ देवम्~ मद् अन्यः~ ज्ञातुम् अर्हति
1.2.22
अशरीरं शरीरेष्व्
अशरीरम्~ शरीरेषु~
अनवस्थेष्ववस्थितम्
अनवस्थेषु~ अव-स्थितम्
महान्तं विभुमात्मानं मत्वा
महान्तम्~ विभुम् आत्मानम्~ मत्वा
धीरो न शोचति
धीरः~ न शोचति
1.2.23
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन
न~ अयम् आत्मा प्रवचनेन लभ्यः~ न मेधया न बहुना श्रुतेन
यमेवैष वृणुते
यम् एव~ एष वृणुते
तेन लभ्यः
तेन लभ्यः~
तस्यैष आत्मा विवृणुते तनुं स्वाम्
तस्य~ एष आत्मा वि-वृणुते तनुम्~ स्वाम्
1.2.24
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः
न~ अविरतः~ दुस्चरिताद्~ नाशान्तः~ न~ असमाहितः~ न~
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्
अशान्तमानसो वा~ अपि प्रज्ञानेन~ एनम् आप्नुयात्
1.2.25
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः
यस्या ब्रह्म च क्षत्रम्~ च उभे भवतः~ ओदनः~
मृत्युर्यस्योपसेचनं
मृत्युः~ यस्य~ उपसेचनम्~
क इत्था वेद यत्र सः
कः~ इत्था वेद यत्र सस्~
Part I
Canto III
1.3.1
ऋतं पिबन्तौ सुकृतस्य लोके
ऋतम्~ पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे परार्धे
गुहाम्~ प्र-विष्टौ परमे पर~-अर्धे
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः
छाया-तपौ ब्रह्म-विदः~ वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेतास्~
1.3.2
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्
यः सेतुः~ ईजानानाम् अक्षरम्~ ब्रह्म यद्~ परम्
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि
अभयम्~ तितीर्षताम्~ पारम्~ नाचिकेतम्~ शकेमहि
1.3.3
आत्मानं रथिनं विद्धि
आत्मानम्~ रथिनम्~ विद्धि
शरीरं रथमेव तु
शरीरम्~ रथम् एव तु
बुद्धिं तु सारथिं विद्धि
बुद्धिम्~ तु सारथिम्~ विद्धि
मनः प्रग्रहमेव च
मनस्~ प्रग्रहम् एव च
1.3.4
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्
इन्द्रियाणि हयान् आहुर् विषयान्~ तेषु गोचरान्
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः
आत्म~-इन्द्रिय-मनः~-युक्तम्~ भोक्ता~ इति~ आहुर् मनीषिणस्~
1.3.5
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा
यः~ तु~ अविज्ञानवान् भवति~ अयुक्तेन मनसा सदा
तस्येन्द्रियाण्यवश्यानि
तस्य~ इन्द्रियाणि~ अवश्यानि
दुष्टाश्वा इव सारथेः
दुष्ट~-अश्वाः~ इव सारथेस्~
1.3.6
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा
यः~ तु विज्ञानवान् भवति युक्तेन मनसा सदा
तस्येन्द्रियाणि वश्यानि
तस्य~ इन्द्रियाणि वश्यानि
सदश्वा इव सारथेः
सद्-अश्वाः~ इव सारथेस्~
1.3.7
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः
यः~ तु~ अविज्ञानवान् भवति~ अमनस्कस्~ सदा ~अशुचिः~
न स तत्पदमाप्नोति
न स तद्~ पदम् आप्नोति
संसारं चाधिगच्छति
संसारम्~ च~ अधि-गच्छति
1.3.8
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः
यः~ तु विज्ञानवान् भवति समनस्कस्~ सदा शुचिस्~
स तु तत्पदमाप्नोति
स तु तद्~ पदम् आप्नोति
यस्माद्भूयो न जायते
यस्माद् भूयः~ न जायते
1.3.9
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः
विज्ञान-सारथिः~ यः~ तु मनस्~ प्रग्रहवान् नरः
सो ऽध्वनः पारमाप्नोति
सः~ अध्वनस्~ पारम् आप्नोति
तद्विष्णोः परमं पदम्
तद् विष्णोस्~ परमम्~ पदम्
1.3.10
इन्द्रियेभ्यः परा ह्यर्था
इन्द्रियेभ्यस्~ पराः~ हि~ अर्थाः~
अर्थेभ्यश्च परं मनः
अर्थेभ्यः~ च परम्~ मनः~
मनसस्तु परा बुद्धिर्
मनसः~ तु परा बुद्धिः~
बुद्धेरात्मा महान्परः
बुद्धेः~ आत्मा महान् परस्~
1.3.11
महतः परमव्यक्तम्
महतस्~ परम् अव्यक्तम्
अव्यक्तात्पुरुषः परः
अव्यक्ताद्~ पुरुषस्~ परस्~
पुरुषान्न परं किञ्चित्
पुरुषाद्~ न परम्~ किञ्चिद्~
सा काष्ठा सा परा गतिः
सा काष्ठा सा परा गतिस्~
1.3.12
एष सर्वेषु भूतेषु गूढो ऽत्मा न प्रकाशते
एष सर्वेषु भूतेषु गूढः~ अत्मा न प्र-काशते
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः
दृश्यते तु~ अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिस्~
1.3.13
यच्छेद्वाङ्मनसी प्राज्ञस्
यच्छेत्~ वाक्~ मनसी प्राज्ञस्
तद्यच्छेज्ज्ञान आत्मनि
तद् यच्छेत्~ ज्ञाने~ आत्मनि
ज्ञानमात्मनि महति नियच्छेत्
ज्ञानम् आत्मनि महति नि-यच्छेत्
तद्यच्छेच्छान्त आत्मनि
तद् यच्छेत्~ शान्ते~ आत्मनि
1.3.14
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत
उत्-तिष्ठत जाग्रत प्र~-आप्य वरान् नि-बोधत
क्षुरस्य धारा निशिता दुरत्यया
क्षुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति
दुर्गम्~ पथः~ तद्~ कवयः~ वदन्ति
1.3.15
अशब्दमस्पर्शमरूपमव्ययं
अशब्दम् अस्पर्शम् अरूपम् अव्ययम्~
तथारसं नित्यमगन्धवच्च यतनाद्यनन्तं महतः परं ध्रुवं
तथा~ अरसम्~ नित्यम् अगन्धवत्~ च यद्~ अनादि~ अनन्तम्~ महतस्~ परम्~ ध्रुवम्~
निचाय्य तन्
नि-चाय्य तद्~
मृत्युमुखात्प्रमुच्यते
मृत्यु-मुखाद्~ प्र-मुच्यते
1.3.16
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनमुक्त्वा श्रुत्वा च
नाचिकेतम् उपाख्यानम्~ मृत्यु-प्रोक्तम्~ सनातनम् उक्त्वा श्रुत्वा च
मेधावी ब्रह्मलोके महीयते
मेधावी ब्रह्म-लोके महीयते
1.3.17
य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि
यः~ इमम्~ परमम्~ गुह्यम्~ श्रावयेत्~ ब्रह्म-संसदि
प्रयतश्श्राद्धकाले वा
प्र-यतः~ श्राद्ध-काले वा
तदानन्त्याय कल्पते तदानन्त्याय कल्पते
तद् आनन्त्याय कल्पते तद् आनन्त्याय कल्पते
Part II
Canto I
2.1.1
पराञ्चि खानि व्यतृणत्स्वयम्भूः
पराञ्चि खानि वि~-अतृणत् स्वयम्भूः~
तस्मात्पराङ्पश्यति नान्तरात्मन्
तस्माद्~ पराङ् पश्यति न~ अन्तरा~ आत्मन्
कश्चिद्धीरः प्रत्यगात्मानमैक्षत्
कः~-चिद् धीरस्~ प्रत्यक्~ आत्मानम् ऐक्षत्
आवृत्तचक्षुरमृतत्वमिच्छन्
आवृत्त-चक्षुः~ अमृतत्वम् इच्छन्
2.1.2
पराचः कामाननुयन्ति बालाः
पराचस्~ कामान् अनु-यन्ति बालाः~
ते मृत्योर्यन्ति विततस्य पाशम्
ते मृत्योः~ यन्ति वि-ततस्य पाशम्
अथ धीरा अमृतत्वं विदित्वा
अथ धीराः~ अमृतत्वम्~ विदित्वा
ध्रुवमध्रुवेष्विह न प्रार्थयन्ते
ध्रुवम् अध्रुवेषु~ इह न प्र~-अर्थयन्ते
2.1.3
येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान्
येन रूपम्~ रसम्~ गन्धम्~ शब्दान् स्पर्शान्~ च मैथुनान्
एतेनैव विजानाति
एतेन~ एव वि-जानाति
किमत्र परिशिष्यते
किम् अत्र परि-शिष्यते
एतद्वै तत्
एतद् वै तद्~
2.1.4
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति
स्वप्न~-अन्तम्~ जागरित~-अन्तम्~ च~ उभौ येन~ अनु-पश्यति
महान्तं विभुमात्मानं मत्वा
महान्तम्~ विभुम् आत्मानम्~ मत्वा
धीरो न शोचति
धीरः~ न शोचति
2.1.5
य इमं मध्वदं वेद आत्मानं जीवमन्तिकातीशानं भूतभव्यस्य
यः~ इमम्~ मधु~-अदं वेद आत्मानम्~ जीवम् अन्तिकाद्~ ईशानम्~ भूत-भव्यस्य
न ततो विजुगुप्सते
न ततः~ वि-जुगुप्सते
एतद्वै तत्
एतद् वै तद्~
2.1.6
यः पूर्वं तपसो जातम्
यस्~ पूर्वम्~ तपसः~ जातम्
अद्भ्यः पूर्वमजायत
अद्भ्यस्~ पूर्वम् अजायत
गुहां प्रविश्य तिष्ठन्तं
गुहाम्~ प्र-विश्य तिष्ठन्तम्~
यो भूतेभिर्व्यपश्यत्
यः~ भूतेभिः~ वि~-अपश्यत्
एतद्वै तत्
एतद् वै तद्~
2.1.7
या प्राणेन सम्भवत्यदितिर्देवतामयी
या प्राणेन सम्-भवति~ अदितिः~ देवतामयी
गुहां प्रविश्य तिष्ठन्तीं
गुहाम्~ प्र-विश्य तिष्ठन्तीम्~
या भूतेभिर्व्यजायत
या भूतेभिः~ वि~-अजायत
एतद्वै तत्
एतद् वै तद्~
2.1.8
अरण्योर्निहितो जातवेदा
अरण्योः~ नि-हितः~ जातवेदाः~
गर्भ इव सुभृतो गर्भिणीभिः
गर्भः~ इव सुभृतः~ गर्भिणीभिः~
दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः
दिवे दिवे~ ईड्यः~ जागृवद्भिः~ हविष्मद्भिः~ मनुष्येभिः~ अग्निः~
एतद्वै तत्
एतद् वै तद्~
2.1.9
यतश्चोदेति सूर्यो
यतः~ च~ उद्-एति सूर्यः~
ऽस्तं यत्र च गच्छति
अस्तम्~ यत्र च गच्छति
तं देवाः सर्वे ऽर्पितास्
तम्~ देवाः सर्वे ~अर्पिताः~
तदु नात्येति कश्चन
तद् उ न~ अति~-एति कः~-चन
एतद्वै तत्
एतद् वै तद्~
2.1.10
यदेवेह तदमुत्र
यद् एव~ इह तद् अमुत्र
यदमुत्र तदन्विह
यद् अमुत्र तद् अनु~ इह
मृत्योः स मृत्युमाप्नोति
मृत्योः स मृत्युम् आप्नोति
य इह नानेव पश्यति
यः~ इह नाना~ इव पश्यति
2.1.11
मनसैवेदमाप्तव्यं
मनसा~ एव~ इदम् आप्तव्यम्~
नेह नानास्ति किञ्चन
न~ इह नाना~ अस्ति किम्~-चन
मृत्योः स मृत्युं गच्छति
मृत्योः स मृत्युम्~ गच्छति
य इह नानेव पश्यति
यः~ इह नाना~ इव पश्यति
2.1.12
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति
अङ्गुष्ठ-मात्रः पुरुषः~ मध्ये~ आत्मनि तिष्ठति
ईशानो भूतभव्यस्य
ईशानः~ भूत-भव्यस्य
न ततो विजुगुप्सते
न ततः~ वि-जुगुप्सते
एतद्वै तत्
एतद् वै तद्~
2.1.13
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमक
अङ्गुष्ठ-मात्रः पुरुषः~ ज्योतिः~ इव~ अधूमकः~
ईशानो भूतभव्यस्य
ईशानः~ भूत-भव्यस्य
स एवाद्य स उ श्वः
स एव~ अद्य स उ श्वः~
एतद्वै तत्
एतद् वै तद्~
2.1.14
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति
यथा~ उदकम्~ दुर्गे वृष्टम्~ पर्वतेषु वि-धावति
एवं धर्मान्पृथक्पश्यंस्
एवम्~ धर्मान् पृथक् पश्यन्~
तानेवानुविधावति
तान् एव~ अनु-वि-धावति
2.1.15
यथोदकं शुद्धे शुद्धमासिक्तं
यथा~ उदकम्~ शुद्धे शुद्धम् आ-सिक्तम्~
तादृगेव भवति
तादृक्~ एव भवति
एवं मुनेर्विजानत आत्मा भवति गौतम
एवम्~ मुनेः~ वि-जानतः~ आत्मा भवति गौतम
Part II
Canto II
2.2.1
पुरमेकादशद्वारमजस्यावक्रचेतसो ऽनुष्ठाय
पुरम् एकादश-द्वारम् अजस्य~ अवक्र-चेतसः~ अनु-ष्ठाय
न शोचति
न शोचति
विमुक्तश्च विमुच्यते
वि-मुक्तः~ च वि-मुच्यते
एतद्वै तत्
एतद् वै तद्~
2.2.2
हंसश्शुचिषद्वसुरान्तरिक्षसद्
हंसः~ शुचि-~सद् वसुः~ आन्तरिक्ष-सद्
होता वेदिषदतिथिर्दुरोणसत्
होता वेदि-~सद् अतिथिः~ दुरोण-सद्~
नृषद्वरसदृतसद्व्योमसद्
नृ-~सद् वर-सद् ऋत-सद् व्योम-सद्
अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्
अब्-जाः~ गो-जाः~ ऋत-जाः~ अद्रि-जाः~ ऋतम्~ बृहत्
2.2.3
ऊर्ध्वं प्राणमुन्नयत्य्
ऊर्ध्वम्~ प्राणम् उद्~-नयति~
अपानं प्रत्यगस्यति
अपानम्~ प्रत्यक्~ अस्यति
मध्ये वामनमासीनं विश्वे देवा उपासते
मध्ये वामनम् आसीनम्~ विश्वे देवाः~ उप~-आसते
2.2.4
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः
अस्य वि-स्रंसमानस्य शरीर-स्थस्य देहिनः~
देहाद्विमुच्यमानस्य
देहाद् वि-मुच्यमानस्य
किमत्र परिशिष्यते
किम् अत्र परि-शिष्यते
एतद्वै तत्
एतद् वै तद्~
2.2.5
न प्राणेन नापानेन मर्त्यो जीवति कश्चन
न प्राणेन न~ अपानेन मर्त्यः~ जीवति कः~-चन
इतरेण तु जीवन्ति
इतरेण तु जीवन्ति
यस्मिन्नेतावुपाश्रितौ
यस्मिन्~ एतौ~ उप~-आ-श्रितौ
2.2.6
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्
हन्त ते~ इदम्~ प्र-वक्ष्यामि गुह्यम्~ ब्रह्म सनातनम्
यथा च मरणं प्राप्य आत्मा भवति गौतम
यथा च मरणम्~ प्र-~आप्य आत्मा भवति गौतम
2.2.7
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः
योनिम् अन्ये प्र-पद्यन्ते शरीरत्वाय देहिनः~
स्थाणुमन्ये ऽनुसंयन्ति
स्थाणुम् अन्ये ~अनु-सम्~-यन्ति
यथा कर्म यथा श्रुतम्
यथा कर्म यथा श्रुतम्
2.2.8
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणस्
यः~ एष सुप्तेषु जागर्ति कामम्~ कामम्~ पुरुषः~ निर्-मिमाणस्
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते
तद् एव शुक्रम्~ तद् ब्रह्म तद् एव~ अमृतम् उच्यते
तस्मिंल्लोकाः श्रिताः सर्वे
तस्मिन्~ लोकाः~ श्रिताः सर्वे
तदु नात्येति कश्चन
तद् उ न~ अति~-एति कः~-चन
एतद्वै तत्
एतद् वै तद्~
2.2.9
अग्निर्यथैको भुवनं प्रविष्टो
अग्निः~ यथा~ एकः~ भुवनम्~ प्र-विष्टः~
रूपं रूपं प्रतिरूपो बभूव
रूपम्~ रूपम्~ प्रति-रूपः~ बभूव
एकस्तथा सर्वभूतान्तरात्मा
एकः~ तथा सर्वभूतान्तर् आत्मा
रूपं रूपं प्रतिरूपो बहिश्च
रूपम्~ रूपम्~ प्रति-रूपः~ बहिः~ च
2.2.10
वायुर्यथैको भुवनं प्रविष्टो
वायुः~ यथा~ एको भुवनम्~ प्र-विष्टः~
रूपं रूपं प्रतिरूपो बभूव
रूपम्~ रूपम्~ प्रति-रूपः~ बभूव~
एकस्तथा सर्वभूतान्तरात्मा
एकः~ तथा सर्वभूतान्तर् आत्मा
रूपं रूपं प्रतिरूपो बहिश्च
रूपम्~ रूपम्~ प्रति-रूपः~ बहिः~ च
2.2.11
सूर्यो यथा सर्वलोकस्य चक्षुः
सूर्यः~ यथा सर्व-लोकस्य चक्षुः~
न लिप्यते चाक्षुषैर्बाह्यदोषैः
न लिप्यते चाक्षुषैः~ बाह्य-दोषैः~
एकस्तथा सर्वभूतान्तरात्म
एकः~ तथा सर्वभूतान्तर् आत्म
न लिप्यते लोकदुःखेन बाह्यः
न लिप्यते लोक-दुःखेन बाह्यः~
2.2.12
एको वशी सर्वभूतान्तरात्मा
एकः~ वशी सर्वभूतान्तर् आत्मा
एकं रूपं बहुधा यः करोति
एकम्~ रूपम्~ बहुधा यः~ करोति
तमात्मस्थं ये ऽनुपश्यन्ति धीराः
तम् आत्म-स्थम्~ ये ~अनु-पश्यन्ति धीराः~
तेषां सुखं शाश्वतं नेतरेषाम्
तेषाम्~ सुखम्~ शाश्वतम्~ न~ इतरेषाम्
2.1.13
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमक
अङ्गुष्ठ-मात्रः पुरुषः~ ज्योतिः~ इव~ अधूमकः~
ईशानो भूतभव्यस्य
ईशानः~ भूत-भव्यस्य
स एवाद्य स उ श्वः
स एव~ अद्य स उ श्वः~
एतद्वै तत्
एतद् वै तद्~
2.1.14
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति
यथा~ उदकम्~ दुर्गे वृष्टम्~ पर्वतेषु वि-धावति
एवं धर्मान्पृथक्पश्यंस्
एवम्~ धर्मान् पृथक् पश्यन्~
तानेवानुविधावति
तान् एव~ अनु-वि-धावति
2.1.15
यथोदकं शुद्धे शुद्धमासिक्तं
यथा~ उदकम्~ शुद्धे शुद्धम् आ-सिक्तम्~
तादृगेव भवति
तादृक्~ एव भवति
एवं मुनेर्विजानत आत्मा भवति गौतम
एवम्~ मुनेः~ वि-जानतः~ आत्मा भवति गौतम
Part II
Canto II
2.2.1
पुरमेकादशद्वारमजस्यावक्रचेतसो ऽनुष्ठाय
पुरम् एकादश-द्वारम् अजस्य~ अवक्र-चेतसः~ अनु-ष्ठाय
न शोचति
न शोचति
विमुक्तश्च विमुच्यते
वि-मुक्तः~ च वि-मुच्यते
एतद्वै तत्
एतद् वै तद्~
2.2.2
हंसश्शुचिषद्वसुरान्तरिक्षसद्
हंसः~ शुचि-~सद् वसुः~ आन्तरिक्ष-सद्
होता वेदिषदतिथिर्दुरोणसत्
होता वेदि-~सद् अतिथिः~ दुरोण-सद्~
नृषद्वरसदृतसद्व्योमसद्
नृ-~सद् वर-सद् ऋत-सद् व्योम-सद्
अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्
अब्-जाः~ गो-जाः~ ऋत-जाः~ अद्रि-जाः~ ऋतम्~ बृहत्
2.2.3
ऊर्ध्वं प्राणमुन्नयत्य्
ऊर्ध्वम्~ प्राणम् उद्~-नयति~
अपानं प्रत्यगस्यति
अपानम्~ प्रत्यक्~ अस्यति
मध्ये वामनमासीनं विश्वे देवा उपासते
मध्ये वामनम् आसीनम्~ विश्वे देवाः~ उप~-आसते
2.2.4
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः
अस्य वि-स्रंसमानस्य शरीर-स्थस्य देहिनः~
देहाद्विमुच्यमानस्य
देहाद् वि-मुच्यमानस्य
किमत्र परिशिष्यते
किम् अत्र परि-शिष्यते
एतद्वै तत्
एतद् वै तद्~
2.2.5
न प्राणेन नापानेन मर्त्यो जीवति कश्चन
न प्राणेन न~ अपानेन मर्त्यः~ जीवति कः~-चन
इतरेण तु जीवन्ति
इतरेण तु जीवन्ति
यस्मिन्नेतावुपाश्रितौ
यस्मिन्~ एतौ~ उप~-आ-श्रितौ
2.2.6
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्
हन्त ते~ इदम्~ प्र-वक्ष्यामि गुह्यम्~ ब्रह्म सनातनम्
यथा च मरणं प्राप्य आत्मा भवति गौतम
यथा च मरणम्~ प्र-~आप्य आत्मा भवति गौतम
2.2.7
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः
योनिम् अन्ये प्र-पद्यन्ते शरीरत्वाय देहिनः~
स्थाणुमन्ये ऽनुसंयन्ति
स्थाणुम् अन्ये ~अनु-सम्~-यन्ति
यथा कर्म यथा श्रुतम्
यथा कर्म यथा श्रुतम्
2.2.8
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणस्
यः~ एष सुप्तेषु जागर्ति कामम्~ कामम्~ पुरुषः~ निर्-मिमाणस्
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते
तद् एव शुक्रम्~ तद् ब्रह्म तद् एव~ अमृतम् उच्यते
तस्मिंल्लोकाः श्रिताः सर्वे
तस्मिन्~ लोकाः~ श्रिताः सर्वे
तदु नात्येति कश्चन
तद् उ न~ अति~-एति कः~-चन
एतद्वै तत्
एतद् वै तद्~
2.2.9
अग्निर्यथैको भुवनं प्रविष्टो
अग्निः~ यथा~ एकः~ भुवनम्~ प्र-विष्टः~
रूपं रूपं प्रतिरूपो बभूव
रूपम्~ रूपम्~ प्रति-रूपः~ बभूव
एकस्तथा सर्वभूतान्तरात्मा
एकः~ तथा सर्वभूतान्तर् आत्मा
रूपं रूपं प्रतिरूपो बहिश्च
रूपम्~ रूपम्~ प्रति-रूपः~ बहिः~ च
2.2.10
वायुर्यथैको भुवनं प्रविष्टो
वायुः~ यथा~ एको भुवनम्~ प्र-विष्टः~
रूपं रूपं प्रतिरूपो बभूव
रूपम्~ रूपम्~ प्रति-रूपः~ बभूव~
एकस्तथा सर्वभूतान्तरात्मा
एकः~ तथा सर्वभूतान्तर् आत्मा
रूपं रूपं प्रतिरूपो बहिश्च
रूपम्~ रूपम्~ प्रति-रूपः~ बहिः~ च
2.2.11
सूर्यो यथा सर्वलोकस्य चक्षुः
सूर्यः~ यथा सर्व-लोकस्य चक्षुः~
न लिप्यते चाक्षुषैर्बाह्यदोषैः
न लिप्यते चाक्षुषैः~ बाह्य-दोषैः~
एकस्तथा सर्वभूतान्तरात्म
एकः~ तथा सर्वभूतान्तर् आत्म
न लिप्यते लोकदुःखेन बाह्यः
न लिप्यते लोक-दुःखेन बाह्यः~
2.2.12
एको वशी सर्वभूतान्तरात्मा
एकः~ वशी सर्वभूतान्तर् आत्मा
एकं रूपं बहुधा यः करोति
एकम्~ रूपम्~ बहुधा यः~ करोति
तमात्मस्थं ये ऽनुपश्यन्ति धीराः
तम् आत्म-स्थम्~ ये ~अनु-पश्यन्ति धीराः~
तेषां सुखं शाश्वतं नेतरेषाम्
तेषाम्~ सुखम्~ शाश्वतम्~ न~ इतरेषाम्
2.1.13
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमक
अङ्गुष्ठ-मात्रः पुरुषः~ ज्योतिः~ इव~ अधूमकः~
ईशानो भूतभव्यस्य
ईशानः~ भूत-भव्यस्य
स एवाद्य स उ श्वः
स एव~ अद्य स उ श्वः~
एतद्वै तत्
एतद् वै तद्~
2.1.14
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति
यथा~ उदकम्~ दुर्गे वृष्टम्~ पर्वतेषु वि-धावति
एवं धर्मान्पृथक्पश्यंस्
एवम्~ धर्मान् पृथक् पश्यन्~
तानेवानुविधावति
तान् एव~ अनु-वि-धावति
2.1.15
यथोदकं शुद्धे शुद्धमासिक्तं
यथा~ उदकम्~ शुद्धे शुद्धम् आ-सिक्तम्~
तादृगेव भवति
तादृक्~ एव भवति
एवं मुनेर्विजानत आत्मा भवति गौतम
एवम्~ मुनेः~ वि-जानतः~ आत्मा भवति गौतम
Part II
Canto II
2.2.1
पुरमेकादशद्वारमजस्यावक्रचेतसो ऽनुष्ठाय
पुरम् एकादश-द्वारम् अजस्य~ अवक्र-चेतसः~ अनु-ष्ठाय
न शोचति
न शोचति
विमुक्तश्च विमुच्यते
वि-मुक्तः~ च वि-मुच्यते
एतद्वै तत्
एतद् वै तद्~
2.2.2
हंसश्शुचिषद्वसुरान्तरिक्षसद्
हंसः~ शुचि-~सद् वसुः~ आन्तरिक्ष-सद्
होता वेदिषदतिथिर्दुरोणसत्
होता वेदि-~सद् अतिथिः~ दुरोण-सद्~
नृषद्वरसदृतसद्व्योमसद्
नृ-~सद् वर-सद् ऋत-सद् व्योम-सद्
अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्
अब्-जाः~ गो-जाः~ ऋत-जाः~ अद्रि-जाः~ ऋतम्~ बृहत्
2.2.3
ऊर्ध्वं प्राणमुन्नयत्य्
ऊर्ध्वम्~ प्राणम् उद्~-नयति~
अपानं प्रत्यगस्यति
अपानम्~ प्रत्यक्~ अस्यति
मध्ये वामनमासीनं विश्वे देवा उपासते
मध्ये वामनम् आसीनम्~ विश्वे देवाः~ उप~-आसते
2.2.4
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः
अस्य वि-स्रंसमानस्य शरीर-स्थस्य देहिनः~
देहाद्विमुच्यमानस्य
देहाद् वि-मुच्यमानस्य
किमत्र परिशिष्यते
किम् अत्र परि-शिष्यते
एतद्वै तत्
एतद् वै तद्~
2.2.5
न प्राणेन नापानेन मर्त्यो जीवति कश्चन
न प्राणेन न~ अपानेन मर्त्यः~ जीवति कः~-चन
इतरेण तु जीवन्ति
इतरेण तु जीवन्ति
यस्मिन्नेतावुपाश्रितौ
यस्मिन्~ एतौ~ उप~-आ-श्रितौ
2.2.6
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्
हन्त ते~ इदम्~ प्र-वक्ष्यामि गुह्यम्~ ब्रह्म सनातनम्
यथा च मरणं प्राप्य आत्मा भवति गौतम
यथा च मरणम्~ प्र-~आप्य आत्मा भवति गौतम
2.2.7
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः
योनिम् अन्ये प्र-पद्यन्ते शरीरत्वाय देहिनः~
स्थाणुमन्ये ऽनुसंयन्ति
स्थाणुम् अन्ये ~अनु-सम्~-यन्ति
यथा कर्म यथा श्रुतम्
यथा कर्म यथा श्रुतम्
2.2.8
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणस्
यः~ एष सुप्तेषु जागर्ति कामम्~ कामम्~ पुरुषः~ निर्-मिमाणस्
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते
तद् एव शुक्रम्~ तद् ब्रह्म तद् एव~ अमृतम् उच्यते
तस्मिंल्लोकाः श्रिताः सर्वे
तस्मिन्~ लोकाः~ श्रिताः सर्वे
तदु नात्येति कश्चन
तद् उ न~ अति~-एति कः~-चन
एतद्वै तत्
एतद् वै तद्~
2.2.9
अग्निर्यथैको भुवनं प्रविष्टो
अग्निः~ यथा~ एकः~ भुवनम्~ प्र-विष्टः~
रूपं रूपं प्रतिरूपो बभूव
रूपम्~ रूपम्~ प्रति-रूपः~ बभूव
एकस्तथा सर्वभूतान्तरात्मा
एकः~ तथा सर्वभूतान्तर् आत्मा
रूपं रूपं प्रतिरूपो बहिश्च
रूपम्~ रूपम्~ प्रति-रूपः~ बहिः~ च
2.2.10
वायुर्यथैको भुवनं प्रविष्टो
वायुः~ यथा~ एको भुवनम्~ प्र-विष्टः~
रूपं रूपं प्रतिरूपो बभूव
रूपम्~ रूपम्~ प्रति-रूपः~ बभूव~
एकस्तथा सर्वभूतान्तरात्मा
एकः~ तथा सर्वभूतान्तर् आत्मा
रूपं रूपं प्रतिरूपो बहिश्च
रूपम्~ रूपम्~ प्रति-रूपः~ बहिः~ च
2.2.11
सूर्यो यथा सर्वलोकस्य चक्षुः
सूर्यः~ यथा सर्व-लोकस्य चक्षुः~
न लिप्यते चाक्षुषैर्बाह्यदोषैः
न लिप्यते चाक्षुषैः~ बाह्य-दोषैः~
एकस्तथा सर्वभूतान्तरात्म
एकः~ तथा सर्वभूतान्तर् आत्म
न लिप्यते लोकदुःखेन बाह्यः
न लिप्यते लोक-दुःखेन बाह्यः~
2.2.12
एको वशी सर्वभूतान्तरात्मा
एकः~ वशी सर्वभूतान्तर् आत्मा
एकं रूपं बहुधा यः करोति
एकम्~ रूपम्~ बहुधा यः~ करोति
तमात्मस्थं ये ऽनुपश्यन्ति धीराः
तम् आत्म-स्थम्~ ये ~अनु-पश्यन्ति धीराः~
तेषां सुखं शाश्वतं नेतरेषाम्
तेषाम्~ सुखम्~ शाश्वतम्~ न~ इतरेषाम्
2.2.13
नित्यो ऽनित्यानां
नित्यः~ अनित्यानाम्~
चेतनश्चेतनानां
चेतनः~ चेतनानाम्~
एको बहूनां यो विदधाति कामान्
एकस् बहूनाम्~ यः~ वि-दधाति कामान्
तमात्मस्थं ये ऽनुपश्यन्ति धीराः
तम् आत्म-स्थम्~ ये ~अनु-पश्यन्ति धीराः~
तेषां शान्तिः शाश्वती नेतरेषाम्
तेषाम्~ शान्तिः~ शाश्वती न~ इतरेषाम्
2.2.14
तदेतदिति मन्यन्ते ऽनिर्देश्यं परमं सुखम्
तद् एतद् इति मन्यन्ते ~अनिर्देश्यम्~ परमम्~ सुखम्
कथं नु तद्विजानीयां
कथम्~ नु तद् विजानीयां
किमु भाति विभाति वा
किम् उ भाति वि-भाति वा
2.2.15
न तत्र सूर्यो भाति न चन्द्रतारकं
न तत्र सूर्यः~ भाति न चन्द्र-तारकम्~
नेमा विद्युतो भान्ति
न~ इमाः~ विद्युतः~ भान्ति
कुतो ऽयमग्निः
कुतः~ अयम् अग्निः~
तमेव भान्तमनुभाति सर्वं
तम् एव भान्तम् अनु-भाति सर्वम्~
तस्य भासा सर्वमिदं विभाति
तस्य भासा सर्वम् इदम्~ वि-भाति
Part II
Canto III
2.3.1
ऊर्ध्वमूलो ऽवाक्शाख एषो ऽश्वत्थः सनातनः
ऊर्ध्व-मूलः~ अवाक्-शाखः~ एषः~ अश्वत्थः सनातनः~
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते
तद् एव शुक्रम्~ तद् ब्रह्म तद् एव~ अमृतम् उच्यते
तस्मिंल्लोकाः श्रिताः सर्वे
तस्मिन्~ लोकाः~ श्रिताः सर्वे
तदु नात्येति कश्चन
तद् उ न~ अति~-एति कः~-चन
एतद्वै तत्
एतद् वै तद्~
2.3.2
यदिदं किञ्च जगत्
यद् इदम्~ किम्~-च जगत्
सर्वं प्राण एजति निःसृतम्
सर्वम्~ प्राणे~ एजति निः~-सृतम्
महद्भयं वज्रमुद्यतं
महद् भयम्~ वज्रम् उद्यतम्~
य एतद्विदुर्
ये~ एतद् विदुर्
अमृतास्ते भवन्ति
अमृताः~ ते भवन्ति
2.3.3
भयादस्याग्निस्तपति
भयाद् अस्य~ अग्निः~ तपति
भयात्तपति सूर्यः
भयाद्~ तपति सूर्यः~
भयादिन्द्रश्च वायुश्च
भयाद् इन्द्रः~ च वायुः~ च
मृत्युर्धावति पञ्चमः
मृत्युः~ धावति पञ्चमः~
2.3.4
इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसस्
इह चेद् अशकत्~ बोद्धुम्~ प्राक् शरीरस्य विस्रसस्
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते
2.3.5
यथादर्शे तथात्मनि
यथा~ आदर्शे तथा~ आत्मनि
यथा स्वप्ने तथा पितृलोके
यथा स्वप्ने तथा पितृ-लोके
यथाप्सु परीव ददृशे तथा गन्धर्वलोके
यथा~ अप्सु परि~ इव ददृशे तथा गन्धर्व-लोके
छायातपयोरिव ब्रह्मलोके
छाया-तपयोः~ इव ब्रह्म-लोके
2.3.6
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्
इन्द्रियाणाम्~ पृथग्-भावम् उदय~-अस्तमयौ च यद्~
पृथगुत्पद्यमानानां मत्वा
पृथक्~ उत्-पद्यमानानाम्~ मत्वा
धीरो न शोचति
धीरः~ न शोचति
2.3.7
इन्द्रियेभ्यः परं मनो
इन्द्रियेभ्यः परम्~ मनः~
मनसः सत्त्वमुत्तमम्
मनसः सत्त्वम् उत्तमम्
सत्त्वादधि महानात्मा
सत्त्वाद् अधि महान् आत्मा
महतो ऽव्यक्तमुत्तमम्
महतः~ अव्यक्तम् उत्तमम्
2.3.8
अव्यक्तात्तु परः पुरुषो व्यापको ऽलिङ्ग एव च
अव्यक्ताद्~ तु परः पुरुषः~ व्यापकः~ अलिङ्गः~ एव च
यं ज्ञात्वा मुच्यते जन्तुर्
यम्~ ज्ञात्वा मुच्यते जन्तुः~
अमृतत्वं च गच्छति
अमृतत्वम्~ च गच्छति
2.3.9
न संदृशे तिष्ठति रूपमस्य
न संदृशे तिष्ठति रूपम् अस्य
न चक्षुषा पश्यति कश्चनैनम्
न चक्षुषा पश्यति कः~-चन~ एनम्
हृदा मनीषा मनसाभिकॢप्तो
हृदा मनीषा मनसा~ अभि-कॢप्तः~
य एतद्विदुर्
ये~ एतद् विदुर्
अमृतास्ते भवन्ति
अमृताः~ ते भवन्ति
2.3.10
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह
यदा पञ्च~ अव-तिष्ठन्ते ज्ञानानि मनसा सह
बुद्धिश्च न विचेष्टते
बुद्धिः~ च न वि-चेष्टते
तामाहुः परमां गतिम्
ताम् आहुर्~ परमाम्~ गतिम्
2.3.11
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्
ताम्~ योगम् इति मन्यन्ते स्थिराम् इन्द्रिय-धारणाम्
अप्रमत्तस्तदा भवति
अप्रमत्तः~ तदा भवति
योगो हि प्रभवाप्ययौ
योगः~ हि प्रभव~-अप्ययौ
2.3.12
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा
न~ एव वाचा न मनसा प्र~-आप्तुम्~ शक्यः~ न चक्षुषा
अस्तीति ब्रुवतो ऽन्यत्र
अस्ति~ इति ब्रुवतः~ अन्यत्र
कथं तदुपलभ्यते
कथम्~ तद् उप-लभ्यते
2.3.13
अस्तीत्येवोपलब्धव्यस्
अस्ति~ इति एव~ उप-लब्धव्यः~
तत्त्वभावेन चोभयोः
तत्त्व-भावेन च~ उभयोः~
अस्तीत्येवोपलब्धस्य
अस्ति~ इति~ एव~ उप-लब्धस्य
तत्त्वभावः प्रसीदति
तत्त्व-भावः प्र-सीदति
2.3.14
यदा सर्वे प्रमुच्यन्ते
यदा सर्वे प्र-मुच्यन्ते
कामा ये ऽस्य हृदि श्रिताः
कामा ये ~अस्य हृदि श्रिताः~
अथ मर्त्यो ऽमृतो भवत्य्
अथ मर्त्यः~ अमृतः~ भवति~
अत्र ब्रह्म समश्नुते
अत्र ब्रह्म सम्-अश्नुते
2.3.15
यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः
यथा सर्वे प्र-भिद्यन्ते हृदयस्य~ इह ग्रन्थयः~
अथ मर्त्यो ऽमृतो भवत्य्
अथ मर्त्यः~ अमृतः~ भवति~
एतावदनुशासनम्
एतावद् अनुशासनम्
2.3.16
शतं चैका च हृदयस्य नाड्यः
शतम्~ च~ एका च हृदयस्य नाड्यः~
तासां मूर्धानमभिनिःसृतैका
तासाम्~ मूर्धानम् अभि-निः~-सृता~
तयोर्ध्वमायन्नमृतत्वमेति
एका तया~ ऊर्ध्वम् आ-यन्~ अमृतत्वम् एति
विष्वङ्ङन्या उत्क्रमणे भवन्ति
विष्वङ्~ अन्या उत्क्रमणे भवन्ति
2.3.17
अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा
अङ्गुष्ठ-मात्रः पुरुषः~ अन्तर्-आत्मा
सदा जनानां हृदये सम्निविष्टः
सदा जनानाम्~ हृदये सम्-नि-विष्टः~
तं स्वाच्छरीरात्प्रवृहेन्
तम्~ स्वाद्~ शरीराद्~ प्रवृहेत्~
मुञ्जादिवेषीकां धैर्येण
मुञ्जाद् इव~ इषीकाम्~ धैर्येण
तं विद्याच्छुक्रममृतं
तम्~ विद्यात्~ शुक्रम् अमृतम्~
तं विद्याच्छुक्रममृतमिति
तम्~ विद्यात्~ शुक्रम् अमृतम् इति
2.3.18
मृत्युप्रोक्तां नचिकेतो ऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्
मृत्यु-प्रोक्ताम्~ नचिकेतः~ अथ लब्ध्वा विद्याम् एताम्~ योग-विधिं च कृत्स्नम्
ब्रह्मप्राप्तो विरजो ऽभूद्विमृत्युः
ब्रह्म-प्राप्तः~ विरजः~ अभूत्~ विमृत्युः~
अन्यो ऽप्येवं यो विदध्यात्ममेव
अन्यः~ अपि~ एवं यः~ विद् अध्यात्मम् एव

The Sanskrit Library.